भाषा

ENहिગુ
ग्रंथ पाठ

नारदस्मृति · अध्याय v13

v13.1

विभागो ऽर्थस्य पित्र्यस्य पुत्रैर् यत्र प्रकल्प्यते ।
दायभाग इति प्रोक्तं तद् विवादपदं बुधैः ॥

v13.2

पितर्य् ऊर्ध्वं मृते पुत्रा विभजेयुर् धनं पितुः ।
मातुर् दुहितरो ऽभावे दुहितारं तदन्वयः ॥

v13.3

मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निरष्टे वाप्य् अमरणे पितर्य् उपरतस्पृहे ॥

v13.4

पितैव वा स्वयं पुत्रान् विभजेद् वयसि स्थितः ।
ज्येष्ठं श्रेष्ठविभागेन यथा वास्य मतिर् भवेत् ॥

v13.5

बिभृयाद् वेच्छतः सर्वाञ् ज्येष्ठो भ्राता यथा पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षः कुले क्रिया ॥

v13.6

शौर्यभार्याधने हित्वा यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥

v13.7

मात्रा च स्वधनं दत्तं यस्मै स्यात् प्रीतिपूर्वकम् ।
तस्याप्य् एष विधिर् दृष्टो मातापीष्टे यथा पिता ॥

v13.8

अध्यग्न्यध्यावहनिकं भर्तृदायस् तथैव च ।
भ्रातृमातृपितृभ्यश् च षड्विधं स्त्रीधनं स्मृतम् ॥

v13.9

स्त्रीधनं तदपत्यानां भर्तृगाम्य् अप्रजासु च ।
ब्राह्मादिषु चतुःष्व् आहुः पितृगामीतरेषु तु ॥

v13.10

कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतो ऽपि सन् ॥

v13.11

वैद्यो ऽवैद्याय नाकामो दद्याद् अंशं स्वतो धनात् ।
पितृद्रव्यं तद् आश्रित्य न चेत् तेन तद् आहृतम् ॥

v13.12

द्वाव् आंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ।
समांशभागिनी माता पुत्राणां स्यान् मृते पतौ ॥

v13.13

ज्येष्ठायांशो ऽधिको देयः ज्येष्ठाय तु वरः स्मृतः ।
समांशभाजः शेषाः स्युर् अप्रत्ता भगिनी तथा ॥

v13.14

क्षेत्रजेष्व् अपि पुत्रेषु तद्वज् जातेषु धर्मतः ।
वर्णावरेष्व् अंशहानिर् ऊढाजातेष्व् अनुक्रमात् ॥

v13.15

पित्रैव तु विभक्ता ये हीनाधिकसमैर् धनैः ।
तेषां स एव धर्मः स्यात् सर्वस्य हि पिता प्रभुः ॥

v13.16

कानीनश् च सहोढश् च गूढायां यश् च जायते ।
तेषां वोढापिता ज्ञेयस् ते च भागहराः स्मृताः ॥

v13.17

अज्ञातपितृको यश् च कानीनो ऽनूढमातृकः ।
मातामहाय दद्यात् स पिण्डं रिक्थं हरेत च ॥

v13.18

जाता ये त्व् अनियुक्तायाम् एकेन बहुभिस् तथा ।
अरिक्थभाजस् ते सर्वे बीजिनाम् एव ते सुताः ॥

v13.19

दद्युस् ते बीजिने पिण्डं माता चेच् छुल्कतो हृता ।
अशुल्कोपगतायां तु पिण्डदा वोढुर् एव ते ॥

v13.20

पितृद्विट् पतितः पण्डो यश् च स्याद् औपपातिकः ।
औरसा अपि नैते ऽंशं लभेरन् क्षेत्रजाः कुतः ॥

v13.21

दीर्घतीव्रामयग्रस्ता जडोन्मत्तान्धपङ्गवः ।
भर्तव्याः स्युः कुले चैते तत्पुत्रास् त्व् अंशभागिनः ॥

v13.22

द्विरामुष्यायणा दद्युर् द्वाभ्यां पिण्डोदके पृथक् ।
रिक्थाद् अर्धांशम् आदद्युर् बीजिक्षेत्रिकयोस् तथा ॥

v13.23

संसृष्टिनां तु यो भागस् तेषाम् एव स इष्यते ।
अतो ऽन्यथांशभाजो हि निर्बीजिष्व् इतरान् इयात् ॥

v13.24

भ्राताम् अप्रजः प्रेयात् कश्चिच् चेत् प्रव्रजेत् तु वा ।
विभजेयुर् धनं तस्य शेषास् तु स्त्रीधनं विना ॥

v13.25

भरणम् चास्य कुर्वीरन् स्त्रीणाम् आ जीवितक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिन्द्युर् इतरासु तु ॥

v13.26

स्याद् यस्य दुहिता तस्याः पित्रंशो भरणे मतः ।
आ संस्काराद् भजेद् एनां परतो बिभृयात् पतिः ॥

v13.27

मृते भर्तर्य् अपुत्रायाः पतिपक्षः प्रभुः स्त्रियाः ।
विनियोगात्मरक्षासु भरणे च स ईश्वरः ॥

v13.28

परिक्षीणे पतिकुले निर्मणुष्ये निराश्रये ।
तत्सपिण्डेषु वासत्सु पितृपक्षः प्रभुः स्त्रियाः ॥

v13.29

पक्षद्वयावसाने तु राजा भर्ता स्मृतः स्त्रियाः ।
स तस्या भरणं कुर्यान् निगृह्णीयात् पथश् च्युताम् ॥

v13.30

स्वातन्त्र्याद् विप्रणश्यन्ति कुले जाता अपि स्त्रियः ।
अस्वातन्त्र्यम् अतस् तासां प्रजापतिर् अकल्पयत् ॥

v13.31

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रा रक्षन्ति वैधव्ये न स्त्री स्वातन्त्र्यम् अर्हति ॥

v13.32

यच् छिष्टं पितृदायेभ्यो दत्त्व र्णं पैतृकं च यत् ।
भ्रातृभिस् तद् विभक्तव्यम् ऋणी न स्याद् यथा पिता ॥

v13.33

येषां च न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्तव्या भ्रातृभिस् तेषां पैतृकाद् एव ते धनात् ॥

v13.34

अविद्यमाने पित्र्ये ऽर्थे स्वांशाद् उद्धृत्य वा पुनः ।
अवश्यकार्याः संस्कारा भ्रातरं पूर्वसंस्कृतैः ॥

v13.35

कुटुम्बार्थेषु चोद्युक्तस् तत्कार्यं कुरुते च यः ।
स भ्रातृभिर् बृंहणीयो ग्रासाछादनवाहनैः ॥

v13.36

विभागधर्मसंदेहे दायादानां विनिर्णये ।
ज्ञातिभिर् भागलेख्यैश् च पृथक्कार्यप्रवर्तनात् ॥

v13.37

भ्राताम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मो ऽपि भवेद् एषां पृथक् पृथक् ॥

v13.38

दानग्रहणपश्वन्न गृहक्षेत्रपरिग्रहाः ।
विभक्तानां पृथग् ज्ञेयाः पाकधर्मागमव्ययाः ॥

v13.39

साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कूर्युर् नाविभक्ता परस्परम् ॥

v13.40

येषाम् एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिनाम् ।
विभक्तान् अवगच्छेयुर् लेख्यम् अप्य् अन्तरेण तान् ॥

v13.41

यद्य् एकजाता बहवः पृथग्धर्माः पृथक्क्रियाः ।
पृथक्कर्मगुणोपेता न ते कृत्येषु संमताः ॥

v13.42

स्वान् भागान् यदि दद्युस् ते विक्रीणीरन्न् अथापि वा ।
कुर्युर् यथेष्टं तत् सर्वम् ईशन्ते स्वधनस्य ते ॥

v13.43

औरसः क्षेत्रजश् चैव पुत्रिकापुत्र एव च ।
कानीनश् च सहोढश् च गूढोत्पन्नस् तथैव च ॥

v13.44

पौनर्भवो ऽपविद्धश् च लब्धः क्रीतः कृतस् तथा ।
स्वयं चोपगतः पुत्रा द्वादशैत उदाहृताः ॥

v13.45

तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः ।
पूर्वः पूर्वः स्मृतः श्रेयाज् जघन्यो यो य उत्तरः ॥

v13.46

क्रमाद् ध्य् एते प्रपद्येरन् मृते पितरि तद्धनम् ।
ज्यायसो ज्यायसो ऽभावे जघन्यस् तद् अवाप्नुयात् ॥

v13.47

पुत्राभावे तु दुहिता तुल्यसंतानदर्शनात् ।
पुत्रश् च दुहिता चोक्तौ पितुः संतानकारकौ ॥

v13.48

अभावे तु दुहितॄणां सकुल्या बान्धवास् ततः ।
ततः सजात्याः सर्वेषाम् अभावे राजगामि तत् ॥

v13.49

अन्यत्र ब्राह्मणात् किंतु राजा धर्मपरायणः ।
स स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥

मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc