भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.9

2.9.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते मन्दखर्णनं नामाष्टमो ऽध्यायः
सौतिरुवाच
रुक्माङ्गदस्तु राजेन्द्रो भुक्त्वा भोगांस्तुमानुषान् ।
संपूज्य बहुशो देवं पीतांबरधरं हरम्

2.9.2

दत्वा मूर्ध्नि पदं विप्राः शत्रीणां रणशालिनाम् ।
कृत्वा शून्यं यमपथं जित्वा वैवस्वतं यमम्

2.9.3

वैकुण्ठस्य तु पन्थानं संपूर्णं मानवैः कृतम् ।
आहूय तनयं काले धर्माङ्गदमभाषत

2.9.4

एतां वसुमतीं पुत्र वसुपूर्णां समन्ततः ।
परिपालय वीर्येण स्वधर्मे कृतनिश्चयः

2.9.5

पुत्र समर्थे जाते यो राज्यं न प्रतिपादयेत् ।
तस्य धर्मस्तथा कीर्तिर्विनस्यति न संशयः

2.9.6

समर्थेन च पुत्रेण यो न याति पिता सुखम् ।
अवश्य पातकी सो ऽपि विज्ञेयो भुवनत्रये

2.9.7

पितुर्भारक्षमः पुत्रो भारं नोद्वहते तु यः ।
मातुरुच्चारवज्जातो द्विजिह्वो विषवर्जितः

2.9.8

स पुत्रो यो ऽधिकख्यातः पितुर्भवति भूतले ।
प्रकाशयति सर्वत्र स्वकरैरिव भास्करः

2.9.9

पुत्रापनयजैर्दुःखै रात्रौ जागर्तिं यत्पिता ।
स पुत्रो नरकं याति यावदाभूतसंप्लवम्

2.9.10

पितुर्वचनमादृत्य सर्वं यः कुरुते गृहे ।
स याति देव सायुज्यं स्तूयमानो दिवि स्थितैः

2.9.11

सो ऽहं प्रजाकृते पुत्र आसक्तः कर्मभिः क्षितौ ।
न भुक्तं नैव सुप्तं तु स्वेच्छया पालने स्थितः

2.9.12

असमर्थे त्वयि सुत न प्राप्तं हि मया सुखम् ।
विष्णुवासरभोक्तॄणां निग्रहे कृतबुद्धिना

2.9.13

केचिच्छैवे स्थिता मार्गे सौरे केचिद्व्यवस्थिताः ।
विरिञ्चिमार्गगाश्चान्ये पार्वत्याश्च स्थिताः परे

2.9.14

सायं च प्रातरासीना अग्निहोत्रे व्यवस्थिताः ।
बालो युवा वा वृद्धो वा गुर्विणी वा कुमारिका

2.9.15

सरोगो विकलो वापि न शक्नोति ह्युपोषितुम् ।
इत्येवं जल्पितं यैस्तु तान्निरस्य समन्ततः

2.9.16

वचोभिस्तु पुराणोक्तैर्वासरैर्बहुभिस्त्वहम् ।
संबोधयित्वा बहुशः प्रजानां सुखहेतवे

2.9.17

निगृह्य तान्हरिदिने निराहारान्करोमि च ।
शास्त्रदृष्ट्या तु विदुषो मूर्खान्दण्डनपूर्वकम्

2.9.18

शासयित्वा कृताः सर्वे निराहारा हरेर्दिने ।
तेन मे न सुखं किञ्चिदवलीढं धरातले

2.9.19

कच्चिन्न दुःखेन जनान्योजयेत्किल पुत्रक ।
स्वेभ्यो वापि परेभ्यो वा या रक्षेच्च प्रजा नृपः

2.9.20

तस्यामी ह्यक्षया लोकाः पुराणेषु प्रकीर्तिताः ।
सो ऽहं प्रजाकृते सौम्य संस्थितो नात्मनः क्वचित्

2.9.21

सौख्यमिच्छाम्यहं भोक्तुं मृगयादिसमुद्भवम् ।
न पानद्यूतजं पुत्र कामये ऽहं कदाचन

2.9.22

एषु सक्तो ऽचिरात्पुत्र विनाशं याति पार्थिवः ।
त्वत्प्रसादादहं पुत्र मृगयाव्याजतो ऽधुना

2.9.23

गिरीन्वनानि सरितः सरांसि विविधानि च ।
भोक्तुकामः प्रियान्कामांस्त्वयि भारं निवेश्य च

2.9.24

एतत्सर्वं समाख्यातं यत्स्थितं हृदये मम ।
कृते तव महाकीर्तिरकृते नरकस्थितिः

2.9.25

धर्माङ्गद उवाच
सर्वमेतत्करिष्यामि भुङ्क्ष्व भोगान्मनो ऽनुगान् ।
गुर्वीं राज्यधुरं तात त्वदीयामुद्धराम्यहम्

2.9.26

नहि मे ऽन्यः स्मृतो धर्मस्त्वद्वाक्यकरणं विना ।
पितुर्वाक्यमकुर्वाणः कुर्वन्धर्मानधो व्रजेत्

2.9.27

तस्मात्करिष्ये वचनं त्वदीयं प्राञ्जलिः स्थितः ।
एवमुक्ते तु वचने राजा हृष्टो बभूव ह

2.9.28

गन्तुकामो मृगान्भूयोलब्ध्वा ज्ञात्वा वनं ततः ।
धर्माङ्गदो ऽपि दृष्टात्मा प्रजा आहूय चाब्रवीत्

2.9.29

पित्रा नियुक्तो भवतां पालनाय हिताय च ।
पितुर्वाक्यं मया कार्यं सर्वथा धर्ममिच्छता

2.9.30

नान्यो हि धर्मः पुत्रस्य पितुर्वाक्यं विना प्रजाः ।
मयि दण्डधरे शास्ता न यमो भवति क्वचित्

2.9.31

एवं ज्ञात्वा तु युष्माभिः स्मर्तव्यो गरुडध्वजः ।
ब्रह्मार्पणप्रयोगेण यजनीयो जनार्दनः

2.9.32

ममत्वं हि परित्यज्य स्वजातिविहितेन च ।
येन वो ह्यक्षया लोका भवेयुर्नात्र संशयः

2.9.33

पितृमार्गाधिको ह्येष भवतां दर्शितः प्रजाः ।
ब्रह्मार्पणक्रियायुक्ता भवन्तु ज्ञानकोविदाः

2.9.34

न भोक्तव्यं हरिदिने पैत्रो मार्गस्तु शाश्वतः ।
विशेषो हि मयाख्यातो भवतां ब्रह्मसंस्थितिः

2.9.35

प्रयोक्तव्या च तत्त्वज्ञैः पुनरावृत्ति दुर्लभा ।
यदुपोष्यं हरिदिनं तदवश्यमिति स्थितिः

2.9.36

अनुनीय प्रजाः सर्वाः समाश्वात्यत पुनः पुनः ।
न दिवा न च शर्वर्यां शेते धर्मां गदः सदा

2.9.37

सर्वत्र भ्रमते शौर्यात्कुर्वन्निष्कण्टकां क्षितिम् ।
पटहो रटते नित्यं मृगारिरिपुमस्तके

2.9.38

अभुक्त्वा द्वादशीं लोका ममत्वेन विवर्जिताः ।
त्रिविधेषु च कार्येषु देवेशश्चिन्त्यतां हरिः

2.9.39

हव्यकव्यवहो देवः स एव पुरुषोत्तमः ।
सूर्ये यो हि कृशाकाशे विसर्गे जगतां पतिः

2.9.40

स्मर्त्तव्यो मनुजैः सर्वैर्धर्मकामार्थकामुकैः ।
स्वजातिविहितो ऽप्येवं सन्मार्गे चैव माधवः

2.9.41

स एव भोक्ता भोक्तव्यः स एव पुरुषोत्तमः ।
विनियोगस्तु तस्यैव सर्वकर्मसु युज्यते

2.9.42

एवं रटन्ति विप्रेन्द्राः पटहे मेघनिःस्वने ।
एवं धर्ममवाप्याथ पितां धर्माङ्गदस्य हि

2.9.43

ज्ञात्वा पुत्रं क्रियोपेतमात्मनो ह्यधिकं द्विजाः ।
उवाच भार्यां संहृष्टः स्थितां लक्ष्मीमिवापराम्

2.9.44

संध्यावलि ह्यहं धन्यस्त्वं चापि वरवर्णिनी ।
उभयोर्जनितः पुत्रः शशाङ्कधवलः क्षितौ

2.9.45

कर्णाभ्यां श्रूयते मोक्षो न दृष्टः केनचित्क्वचित् ।
सो ऽस्माभिरधिकं प्राप्तो मोक्षः सत्पुत्रसंभवः

2.9.46

पुत्रे विनयसंपन्ने वृत्ताशौर्यसमन्विते ।
प्रतापिनि वरारोहे पितुर्मोक्षो गृहे ध्रुवम्

2.9.47

आनन्दं ब्रह्मणो रूपं शतानन्दः सुतेन यः ।
पिता भवति चार्वङ्गि सत्कर्मकरणैः शुभैः

2.9.48

नैतत्साम्यं भवेद्देवि लोके स्थावरजङ्गमे ।
सत्पुत्रः पितुरादाय भारमुद्वहते तु यः

2.9.49

सो ऽहं गमिष्यामि वनाय हृष्टो विहारशीलो मृगहिंसनाय ।
स्वेच्छाचरश्चाथ विशालनेत्रे विमुक्तपापो जनरक्षणाय

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc