भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.8

2.8.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीं प्रति ब्रह्मवाक्यं नाम सप्तमो ऽध्यायः
सौतिरुवाच
सास श्रुत्वा ब्रह्मणो वाक्यं नारी कमललोचना ।
उवाच नाम मेदेहि येन गच्छामि मन्दिरम्

2.8.2

पित्रा नाम प्रकर्तव्यमपत्यानां जगत्पते ।
नाम पापहरं प्रोक्तं तत्कुरुष्व कुशध्वज

2.8.3

ब्रह्मोवाच
यस्मादिदं जगत्सर्वं त्वया सुंदरि मोहितम् ।
मोहिनी नाम ते देवि सगुणं हि भविष्यति

2.8.4

दशावस्थागतः सम्यग् दर्शनात्ते भविष्यति ।
यदि प्राप्नोति वै सुभ्रु त्वत्संपर्कं सुखावहम्

2.8.5

एवमुक्ता वरारोहा प्रणम्य कमलासनम् ।
वीक्ष्यमाणामरैर्मार्गे प्रतस्थे मन्दराचलम्

2.8.6

तृतीयेन मुहूर्तेन संप्राप्ता गिरिमस्तकम् ।
यस्य संवेष्टने नागो वासुकिर्नहि पूर्यते

2.8.7

यो धृतो हरिणा पूर्वं मथितो देवदानवैः ।
षड्लक्षयोजनः सिंधुर्यस्यासौ गह्वरो भवेत्

2.8.8

कूर्मदेहेन संपृक्तो यो न भिन्नो गिरिर्महान् ।
पतता येन राजेन्द्र सिंधोर्गुह्यं प्रदर्शितम्

2.8.9

गतं ब्रह्माण्डमार्गेण पयो यस्माद्गिरेर्द्विजाः ।
कूर्मास्थिघर्षता येन पावको जनितो महान्

2.8.10

यस्मिन्स वसते देवः सह भूतैर्दिगंबरः ।
न देवैर्दानवैर्वापि दृष्टो यो हि द्विजोत्तमाः

2.8.11

दशवर्षसहस्राख्ये काले महति गच्छति ।
केयूरघर्षणे येन कृतं देवस्य चक्रिणः

2.8.12

रत्नानां मन्दिरं ह्येष बहुधातुसमन्वितः

2.8.13

क्रीडाविहारो ऽपि दिवौकसां यस्तपस्विना यस्तपसो ऽपि हेतुः ।
सुराङ्गनानां रतिवर्द्धनो यो रत्नौषधीनां प्रभवो गिरिर्महान्

2.8.14

दशैकसाहस्रमितश्च मूले तत्संख्यया विस्तरतां गतो ऽसौ ।
दैर्घ्येण तावन्ति हि योजनानि त्रैलोक्ययष्टीव समुच्छ्रितो ऽसौ

2.8.15

सकाञ्चनै रत्नमयैश्च शृङ्गैः प्रकाशयन्भूमितलं वियच्च ।
यस्मिन्गतः कश्य पनन्दनो वै विरश्मितामेति विनष्टतेजाः

2.8.16

काञ्चनाकारभूताङ्गं सप्राप्ता काञ्चनप्रभा ।
सूर्यतेजोनिहन्तारं मन्दरं तेजसा स्वयम्

2.8.17

कुर्वती नृपकामार्थमुपविष्टा शिलातले ।
नीलकान्तिमये दिव्ये सप्तयोजनविरतृते

2.8.18

तस्यां शिलायां राजेन्द्र लिगं तिष्ठति कौलिशम् ।
दशहस्त प्रमाणं हि विस्तरादूर्द्ध्वसंख्यया

2.8.19

वृषलिङ्गेति विख्यातं प्रासादाभ्रसमं परम् ।
तस्मिन्बाला द्विजश्रेष्ठाश्चक्रे संगीतमुत्तमम्

2.8.20

तन्त्रीता लसमायुक्तं क्लमहानिकरं परम् ।
समीपवर्तिनी तस्य भूत्वा लिङ्गस्य भामिनी

2.8.21

मूर्च्छनातालसहितं गान्धारध्वनिसंयुतम् ।
तस्मिन्प्रवृत्ते राजेन्द्रगीते मन्मथवर्द्धने

2.8.22

बभूव स्थावराणां हि स्पृहा तस्मिन्मुनीश्वराः ।
न च दैवं न चादैवं गीतं तादृग्बभूव ह

2.8.23

मोहिनीमुखनिर्गीतं गीतं सत्वविमोहनम्

2.8.24

श्रुत्वैव गीतं हि दिगम्बरस्तु तेनैव रूपेण वराङ्गनायाः ।
कामातुरो भोक्तुमनाश्चचाल तां मोहिनीं पार्वतिदृष्टिलज्जः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc