नारद पुराण · अध्याय 2.10
इति श्रीबृहन्नारदीयपुराणोत्तरेभागे रुक्माङ्गदधर्माङ्गदसंवादो नाम नवमो ऽध्यायः
वसिष्ठ उवाच
ततः प्राह विशालाक्षी भर्तुर्वाक्यं निशम्य सा ।
सत्यमुक्तं त्वया राजन्पुत्रसौख्यात्परं सुखम्
न भवेदिह राजेन्द्र मुनीनां भाषितं यथा ।
तुल्यं भवति लोके ऽस्मिन् विष्ण्वाख्यस्य परस्य हि
पुत्रे भारस्त्वया न्यस्तः सप्तद्वीपसमुद्भवः ।
मार्गी हिंसां परित्यज्य यज्ञैरिष्ट्वा जनार्दनम्
भोगस्पृहां परित्यज्य सेवस्य सुरनिम्नगाम् ।
एतन्न्याय्यं भवति भो न न्याय्यो मृगनिग्रहः
हृदये नखपातो हि वृद्धाया भूपते यथा ।
तथा विषयसेवा हि पितॄणां पुत्रिणां विदुः
गृहे वापि हृषीकेशं पूजयस्व महीपते ।
निर्देषमृगयूथानां न युक्तं सूदनं तव
अहिंसा परमो धर्मः पुराणे परिकीर्तितः ।
हिंसया वर्तमानस्य व्यर्थो धर्म्मोभवेदिति ।
कुर्वन्नपि वृथा धर्मान्यो हिंसामनुवर्तते
परैरुपहतां भूप नोपभुञ्जन्ति साधवः ।
षड्विधं नृप ते प्रोक्तं विद्वद्भिर्जीवघातनम्
अनुमोदयिता पूर्वं द्वितीयो घातकः स्मृतः ।
विश्वासकस्तृतीयो ऽपि चतुर्थो भक्षकस्तथा ।
पञ्चमः पाचकः प्रोक्तः षष्ठो भूपात्र विग्रही ।
हिं सया संयुतं धर्ममधर्मं च विदुर्बुधाः
न पापं कुरुते भूप पुत्रे भारं निवेश्य वै ।
धर्मं समाश्रयमन्सम्यक्संजातपलितः पिता
परित्यज्य इमं भावं मृगहिंसासमुद्भवम् ।
मृगशीला हि राजानो विनष्टाः शतशो न-प
तस्माद्दुष्टं हि तन्मन्ये यत्र मृगपातनम् ।
दया वरा मृगे रीज्ञां धर्मिणामपि दृश्यते
निवारितो मया हि त्वं हितबुद्ध्या पुनः पुनः ।
एवं ब्रुवाणां तां भार्यां नृपो वचनमब्रवीत्
नहिर्हिसे मृगान्देवि मृगव्याजेन कानने ।
पर्य्यटिष्ये धनुष्पाणिः कुर्वन्कण्टकशोधनम्
जनमध्ये सुतो मे ऽस्तु कानने ऽहं वरानने ।
श्वापदेभ्यश्च दस्युभ्यः प्रजा रक्ष्या महीभृता
आत्मनावाथ पुत्रेण गोपनीयाः प्रजा शुभे ।
प्रजा अरक्षन्नृपतिः सधर्म्मो ऽपि व्रजत्यधः
सो ऽहं रक्षणमुद्दिश्यगमिष्यामि वनं प्रिये ।
विमुक्तभावो ऽहमिति मेरुशृङ्गे रविर्यथा
एवमुद्दिश्य तां राजा आरुरोह हयोत्तमम् ।
दोषापतिसमप्रख्यं निर्देषं क्षितिभूषणम्
देववाहसमं रूपे प्रभञ्जनसमं जवे ।
धरामादृत्य भूपालो दत्वा तं दक्षिणं करम्
सहस्रकोटिदातारं कामिनीकुचपीडनम् ।
अशोकपल्लवाकारं वज्राङ्कुशविरोहणम्
संप्रतस्थे महीपालश्चालयानो महीतलम् ।
साधयानो ययौ देशान्काननं स नृपोत्तमः
वाजिवेगेन निर्द्धूता वारणाः स्यन्दना हयाः ।
पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले
स राजा सहसा प्राप्तो मुनीनामाश्रमं परम् ।
योजनानां समुत्तीर्य शतमष्टोत्तरं नृप
प्रविवेशाश्रमं रम्यं कदलीखण्डमण्डितम् ।
अशोकबकुलोपेतं पुन्नागसरलावृतम्
मातुलिङ्गैः कपित्थैश्च खर्जूरैः पनसादिभिः ।
नारिकेलैस्तथा तालैः केतकैः सिंदुवारकैः
चन्दनैः सतमालैश्च सालैः पिप्पलचंपकैः ।
क्रमुकैर्दाडिमैश्चैव धात्रीवृक्षैः सहस्रशः
निम्बवृक्षैश्च बहुशस्तथाम्रैर्लोध्रपादपैः ।
परिपक्वफलैर्नम्रैः खगारूढैः समावृतम्
ह्यद्येन वायुना युक्तं पुष्पगन्धावृतेन हि ।
पश्यमानो मुनिं राजा ददर्श हुतभुक्प्रभम्
वामदेवं द्विजवरं बहुशिष्यसमावृतम् ।
अवरुह्य हयाद्दृष्ट्वा प्रणनाम च सादरम्
तेनापि मुनिना राजा ह्यर्घाद्यैरभिपूजितः ।
उपविश्यासने कौशे प्राह संहृष्टया गिरा
अद्य मे पातकं क्षीणं संप्राप्तं कर्मणः फलम् ।
दृष्ट्वा तव पदांभोजं सम्यग्ध्यानपरस्य च
तच्छ्रुत्वा वचनं तस्य रुक्माङ्गदमहीपतेः ।
संपृष्ट्वा कुशलं प्राह वामदेवो मुदान्वितः
राजंस्त्वयातिपुण्येन विष्णुभक्तेन वीक्षितः ।
ममाश्रमो महाभाग पुण्यो जातो धरातले
कस्ते ऽन्यस्तुल्यतामेति पार्थिवो धरणीतले ।
येन वैवस्वतो माग्रो भग्नो निर्जित्य वै यमम्
प्रापितः सकलो लोको वैकुण्ठं पदमव्ययम् ।
उपोषयित्वा नृपतेद्वादशीं पापनाशिनीम्
चतुर्भिः शोभनोपायैः प्रजाः सयम्य भूतले ।
स्वकर्मस्था विकर्मस्था नीता मधुभिदः पदम्
सो ऽस्माकं द्रष्टुकामानां संप्राप्तो दर्शनं नृप ।
श्वपचो ऽपि महीपाल विष्णुभक्तो द्विजाधिकः
विष्णुभक्तिविहीनस्तु द्विजो ऽपि श्वपचाधिकः ।
दुर्लभा भूप राजानो विष्णुभक्ता महीतले
नावैष्णवो भवेद्राजा क्षितिलक्ष्मीप्रसाधकः ।
यो न राजा रहेर्भक्तो देवेष्वन्येषु भक्तिमान्
यथा जारे पतिं त्यक्त्वा रता स्त्री स तथा नृपः ।
एवं व्यतिक्रमस्तस्य नृपतेर्भवति ध्रुवम्
धर्मस्यार्थस्य कामस्य प्रज्ञायाश्च गतेरपि ।
तत्त्वया न्यायविहितं कृतं विष्णोः प्रपूजनम्
तेन धन्यो ऽसि नृपते वयं धन्यास्तवेक्षणात् ।
इत्येवं भाषमाणं तु वामदेवं नृपोत्तमः
उवाचावनतो भूत्वा प्रकृत्या विनयान्वितः ।
क्षामये त्वा द्विजश्रेष्ठ नाहमेतादृशो विभो
त्वत्पादपांसुना तुल्यो नाहं विप्र भवामि हि ।
न विप्रेभ्यो ऽधिका देवा भवन्तीह कदाचन
परितुष्टैर्द्विजैर्भक्तिर्जन्तोर्भवति माधवे ।
द्वेष्यो भवति तै रुष्टैः सत्यमेतन्मयेरितम्
तमाह वामदेवस्तु ब्रूहि किं ते ददाम्यहम् ।
नादेयं विद्यते राजन्गृहायातस्य ते ऽधुना
अभीष्टं हि महीपाल यो ददाति महीतले ।
पटहं वासरे विष्णोः प्रजाभोजनवारणम्
तमाह नृपतिर्विप्रं कृताञ्जलिपुटस्तदा ।
प्राप्तमेव मया सर्वं त्वदङ्घ्रियुगलेक्षणात्
ममैकः संशयो ब्रह्मन् वर्तते बहुकालतः ।
तं पृच्छामि द्विजाग्र्यं त्वां सर्वसंदेहभञ्जनम्
त्रैलोक्यसुन्दरी भार्या मम केन सुकर्मणा ।
या विलोकयते दृष्ट्या मां सदा मन्मथाधिकम्
यत्र यत्र पदं देवी ददाति वरवर्णिनी ।
तत्र तत्र निधानानि प्रकाशयति मेदिनी
यस्याश्चाङ्गं जराहीनं वलीपलितवर्जितम् ।
सदा भाति मुनिश्रेष्ठ शारदेन्दुप्रभा यथा
विनाग्निनापि सा विप्र साधयत्येव षड्रसम् ।
अन्नं पचति यत्स्वल्पं तस्मिन्भुञ्जन्ति कोटयः
पितव्रता दानशीला सर्वभूतसुखावहा ।
नावज्ञा क्रियते ब्रह्मन् वाक्येनापि प्रसूप्तया
यस्यां जातस्तु तनयो ममाज्ञायां स्थितः सदा ।
अहमेव धरापृष्ठे पुत्री द्विजवरोत्तम
यस्य पुत्रः पितुर्भक्तो ह्यधिको गुणसंचयैः ।
एकद्वीपपतिश्चाहं विदितो धरणीतले
पुत्रो ममाधिको जातः सप्तद्वीपप्रपालकः ।
मदर्थे येन विप्रेन्द्र समानीता नृपात्मजा
विद्युल्लेखेति विख्याता रणे जित्वा महीभुजः ।
अथ तेनाधिपतिना रूपद्रविणशालिना
षण्मासेन रणे जित्वा कृत्वा सर्वान्निरायुधान् ।
यो गत्वा प्रमदाराज्यं जित्वा ताः प्रमदा रणे
आजहार शुभास्तासां मध्यादष्टौ वराङ्गनाः ।
प्रददौ मयि ताः सर्वाः प्रणम्य च पुनः पुनः
यानि वासांसि दिव्यानि यानि रत्नानि भूतले ।
तानि मे प्रददौ पुत्रो जनन्या तूपवर्णितः
एकाह्ना पृथिवीं सर्वामतीत्य बहुयोजनाम् ।
पुनरायाति शर्वर्यां मत्पादाभ्यङ्गकारणात्
निशीथेंऽगानि संवाह्य द्वारि तिष्ठति दंशितः ।
प्रबोधयन्प्रेष्यजनान्निद्रया संकुलेन्द्रियान्
तथायं मे मुनिश्रेष्ठ देहो रोगविवर्जितः ।
अप्रमेयं मम सुखं वशगा हि प्रिया गृहे
वाजिनो वारणाश्चैव धनधान्यमनन्तकम् ।
वर्तते हि जनः सर्वो ममाज्ञापालकः क्षितौ
केन कर्मप्रभावेण ममेदं सांप्रतं सुखम् ।
इह जन्मकृतं वापि परजन्मकृतं तथा
मम पुण्यं वद ब्रह्मन् विचार्य स्वमनीषया
देहे न रोगो वशगाप्रिया च गृहे विभूतिर्नृहरौ च भक्तिः ।
विद्वत्सु पूजा द्विजदानशक्तिर्मन्ये ऽहमेतत्सुकृतप्रसूतम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0