भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.38

2.38.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सप्तत्रिंशो ऽध्यायः
वसिष्टं उवाच
स वसुर्नृपशार्दूल मोहिनीं याज्यकामिनीम् ।
उवाच श्लक्ष्णया वाचा सर्वलोकहिते रतः

2.38.2

वसुरुवाच
शृणु मोहिनी वक्ष्यामि तीर्थानां लक्षणं पृथक् ।
येन विज्ञातमात्रेण पापिनां गतिरुत्तमा

2.38.3

सर्वेषामपि तीर्थानां श्रेष्ठा गंमा धरातले ।
न तस्या सदृशं किञ्चिद्विद्यते पापनाशनम्

2.38.4

तच्छ्रुत्वा वचनं तस्य वसोः स्वस्य पुरोधसः ।
प्रणता मोहिनी प्राह गङ्गास्नानकृतादरा

2.38.5

मोहिन्युवाच
भगवन्वाडवश्रेष्ठ गङ्गामाहात्म्यमुत्तमम् ।
सर्वेषां च पुराणानां संमतं वद सांप्रतम्

2.38.6

श्रुत्वा माहात्म्यमतुलं गङ्गायाः पापनाशनम् ।
पश्चात्पापविनाशिन्यां स्नातुं यास्ये त्वया सह

2.38.7

तच्छ्रुत्वा मोहिनीवाक्यं वसुः सर्वपुराणवित् ।
माहात्म्यं कथयामास गङ्गायाः पापनाशनम्

2.38.8

वसुरुवाच
ते देशास्ते जनपदास्ते शैला स्ते ऽपि चाश्रमाः ।
येषां भागीरथी पुण्या समीपे वर्तते सदा

2.38.9

तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।
तां गतिं न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत्

2.38.40

पूर्वे वयसि पापानि कृत्वा कर्माणि ये नराः ।
शेषे गङ्गां निषेवन्ते ते ऽपि यान्ति परां गतिम्

2.38.11

तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ।
मासमेकं तु गङ्गायां स्नातस्तुल्यफलावुभौ

2.38.12

तिष्ठेतार्वाक्छिरा यस्तु युगानामयुतं पुमान् ।
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते

2.38.13

भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः

2.38.14

प्रकृष्टैः पातकैर् घोरैः पापिनः पुरुषाधमान् ।
प्रसह्य तारयेद्गुङ्गा गच्छतो निरये ऽशुचौ

2.38.15

ते समानास्तु मुनिभिर्नूनं देवैः सवासवैः ।
ये ऽभिगच्छन्ति सततं गङ्गामभिमतां सुरैः

2.38.16

अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा संपावयेद्बृहती विश्वरूपा ।
देवैः सेंद्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकालं समृद्ध्ये

2.38.17

पक्षादौ कृष्णपक्षे तु भूमौ संनिहिता भवेत् ।
यावत्पुण्या ह्यमावास्या दिनानि दश मोहिनि

2.38.18

शुक्लप्रतिपदादेश्च दिनानि दश संख्यया ।
पाताले सन्निधानं तु कुरुते स्वयमेव हि

2.38.19

आरभ्य शुक्लैकादश्या दिनानि दश यानि तु ।
पञ्चम्यं तानि सा स्वर्गे भवेत्सन्निहिता सदा

2.38.20

कृते तु सर्वतीर्थानि त्रेतायां पुष्करं परम् ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते

2.38.21

कलौ तु सर्वतीर्थानि स्वं स्वं वीर्यं स्वभावतः ।
गङ्गायां प्रतिमुञ्चन्ति सा तु देवी न कुत्रचित्

2.38.22

गङ्गांभः कणदिग्धस्य वायोः संस्पर्शनादपि ।
पापशीला अपि नराः परां गतिमवाप्नुयुः

2.38.23

यो ऽसौ सर्वगतो विष्णुश्चित्स्वरूपी जनार्दनः ।
स एव द्रवरूपेण गङ्गांभो नात्र संशयः

2.38.24

ब्रह्महा गुरुडा गोघ्नः स्तेयी च गुरुतल्पगः ।
गङ्गांभसा च पूयन्ते नात्र कार्या विचारणा

2.38.25

क्षेत्रस्थमृद्धृतं वापि शीतमुष्णमथापि वा ।
गाङ्गेयं तु हरेत्तोयं पापमामरणान्तिकम्

2.38.26

वर्ज्यं पर्युषितं तोयं वर्ज्यं पुर्युषितं दलम् ।
न वर्ज्यं जाह्नवीतोयं न वर्ज्यं तुलसीदलम्

2.38.27

मेरोः सुवर्णस्य च सर्वरत्नैः संख्योपलानामुदकस्य वापि ।
गङ्गाजलानां न तु शक्तिरस्ति वक्तुं गुणाख्यापरिमाणमत्र

2.38.28

तीर्थयात्राविधिं कृत्स्नमकुर्वाणो ऽपि यो नरः ।
गङ्गातोयस्य माहात्म्यात्सो ऽप्यत्र फलभाग्भवेत्

2.38.29

चिन्तामणिगुणाच्चापि गङ्गायास्तोयबिन्दवः ।
विशिष्टा यत्प्रयच्छन्ति भक्तेभ्यो वाञ्छितं फलम्

2.38.30

गण्डूषमात्रतो भक्त्या सकूद्गङ्गांभसा नरः ।
कामधेनु स्तनोद्भूतान्भुङ्क्ते दिव्यरसान्दिवि

2.38.31

शालग्रामशिलायां यस्तु गङ्गाजलं क्षिपेत् ।
अपहत्य तमस्तीव्रं भाति सूर्यो यथोदये

2.38.32

मनोवाक्कायजैर्ग्रस्तः पापैर्बहुविधैरपि ।
वीक्ष्य गङ्गां भवेत्पूतः पुरुषो नात्र संशयः

2.38.33

गङ्गातोयाभिषिक्तां तु भिक्षामश्नाति यः सदा ।
सर्पवत्कञ्चुकं मुक्त्वा पापहीनो भवेत्स वै

2.38.34

हिमवद्विन्ध्यसदृशा राशयः पापकर्मणाम् ।
गङ्गांभसा विनश्यन्ति विष्णुभक्त्या यथापदः

2.38.35

प्रवेशमात्रे गङ्गायां स्नानार्थं भक्तितो नृणाम् ।
ब्रह्महत्यादिपापानि हाहेत्युक्त्वा प्रयान्त्यलम्

2.38.36

गङ्गातीरे वसेन्नित्यं गङ्गातोयं पिबेत्सदा ।
यः पुमान्स विमुच्येत पातकैः पूर्वसंचितैः

2.38.37

यो वै गङ्गां समाश्रित्य नित्यं तिष्ठति निर्भयः ।
स एव देवैर्मर्त्यैश्च पूजनीयो महर्षिभिः

2.38.38

किमष्टाङ्गेन योगेन किं तपोभिः किमध्वरैः ।
वास एव हि गङ्गायां सर्वतो ऽपि विशिष्यते

2.38.39

किं यज्ञैर्बहुभिर्जाप्यैः किं तपोभिर्धनार्पणैः ।
स्वर्गमोक्षप्रदा गङ्गा सुखसेव्या यतः स्थिता

2.38.40

यज्ञैर्यमैश्च नियमैर्दानैः संन्यासतो ऽपि वा ।
न तत्फलमवाप्रोति गङ्गां सेव्य यदाप्नुयात्

2.38.41

प्रभासे गोसहस्त्रेण राहुग्रस्ते दिवाकरे ।
यत्फलं लभते मर्त्यो गङ्गायां तद्दिनेन वै

2.38.42

अन्योपायांश्च यस्त्यक्त्वा मीक्षकामः सुनिश्चितः ।
गङ्गातीरे सुखं तिष्ठेत्स वै मोक्षस्य भाजनम्

2.38.43

वाराणस्यां विशेषण गङ्गा सद्यस्तु मोक्षदा ।
प्रतिमासं चतुर्दश्यामष्टम्यां चैव सर्वदा

2.38.44

गङ्गातीरे निवासश्च यावज्जीवं च सिद्धिदः ।
कृच्छ्राणि सर्वदा कृत्वा यत्फलं सुखमश्नुते

2.38.45

सदा चान्द्रायणं चैव तल्लभेज्जाह्नवीतटे ।
गङ्गासेवापरस्येह दिवसार्द्धेन यत्फलम्

2.38.46

न तच्छक्यं ब्रह्मसुते प्राप्तुं क्रतुशतैरपि ।
सर्वयज्ञतपोदानयोगस्वाध्यायकर्मभिः

2.38.47

यत्फलं तल्लभेद्भक्त्या गङ्गातीरनिवासतः ।
यत्पुण्यं सत्यवचनैर्नैष्ठिकब्रह्मचारिणाम्

2.38.48

यदग्निहोत्रिणां पुण्यं तत्तु गङ्गानिवासतः ।
समातृपितृदाराणां कुलकोटिमनन्तकम्

2.38.49

गङ्गाभक्तिस्तारयते संसारार्णवतो ध्रुवम् ।
संतोषः परमैश्वर्यं तत्त्वज्ञानं सुखात्मनाम्

2.38.50

विनयाचारसंपत्तिर्गङ्गाभक्तस्य जायते ।
कृतकृत्यो भवेन्मर्त्यो गङ्गां प्राप्यैव केवलम्

2.38.51

तद्भक्तस्तत्परश्च स्यान्मृतो वापि न संशयः ।
भक्त्या तज्जलसंस्पर्शी तज्जलं पिबते च यः

2.38.52

अनायासेन हि नरो मोक्षो पायं स विन्दति ।
दीक्षितः सर्वयज्ञेषु सोमपानं दिने दिने

2.38.53

सर्वाणि यंषां गङ्गायास्तोयैः कृत्यानि सर्वदा ।
देहं त्यक्त्वा नरास्ते तु मोदन्ते शिवसन्निधौ

2.38.54

देवाः सोमार्कसंस्थानि यथा शक्रादयो मुखैः ।
अमृतान्युपभुञ्जन्ति तथा गङ्गाजलं नराः

2.38.55

कन्यादानैश्च विधिवद्भूमिदानैश्च भक्तितः ।
अन्नदानैश्च गोदानैः स्वर्णदानादिभिस्तथा

2.38.56

रथाश्वगजदानैश्च यत्पुण्यं परिकीर्तितम् ।
ततः शतगुणं पुण्यं गङ्गांभश्चुलुकाशनात्

2.38.57

चान्द्रायणसहस्राणां यत्फलं परिकीर्तितम् ।
ततो ऽधिकफलं गङ्गातोयपानादवाप्यते

2.38.58

गण्डूषमात्रपाने तु अश्वमेधफलं लभेत् ।
स्वच्छन्दं यः पिबेदंभस्तस्य मुक्तिः करे स्थिता

2.38.59

त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ।
नार्मदं दशभिर्मासैर्गाङ्गं वर्षेण जीर्यति

2.38.60

शास्त्रेणाकृततोयानां मृतानां क्वापि देहनाम् ।
तदुत्तरफलावाप्तिर्गङ्गायामस्थियोगतः

2.38.61

चान्द्रायणसहस्रं तु यश्चरेत्कायशोधनम् ।
यः पिबेत्तु यथेष्ठं हि गङ्गाम्भः स विशिष्यते

2.38.62

गङ्गां पश्यति यः स्तौति स्नाति भक्त्या पिबेज्जलम् ।
स स्वर्गं ज्ञानममलं योगं मोक्षं च विन्दति

2.38.63

यस्तु सूर्य्यांशुनिष्टप्तं गाङ्गेयं पिबते जलम् ।
गोमूत्रयावकाहाराद्गाङ्गपानं विशिष्यते

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc