नारद पुराण · अध्याय 2.39
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे गङ्गामाहात्म्यवर्णनं नामाष्टत्रिंशत्तमो ऽध्यायः
वसुरुवाच
शृणु मोहिनि वक्ष्यामि गङ्गाया दर्शने फलम् ।
यदुक्तं हि पुराणेषु मुनिभिस्तत्त्वदर्शिभिः
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दश नात् ।
गङ्गासंदर्शनात्तद्वत्सर्वपापैः प्रमुच्यते
सप्तावरान् सप्तपरान् पितृंस्तेभ्यश्च ये परे ।
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् ।
पुमान्पुनाति पुरुषाञ्छतशो ऽथ सहस्रशः
ज्ञानमैश्वर्यमतुलं प्रतिष्ठायुर्यशस्तथा ।
शुभानामाश्रमाणां च गङ्गादर्शनजं फलम्
सर्वेन्द्रियाणां चाञ्चल्यं व्यसनानि च पातकम् ।
निर्घृणत्वं च नश्यन्ति गङ्गादर्शन मात्रतः
परहिंसा च कौटिल्यं परदोषाद्यवेक्षणम् ।
दांभिकत्वं नृणां गङ्गादर्शनादेव नश्यति
मुहुर्मुहुस्तथा पश्येत्स्पृशेद्वापि मुहुर्मुहुः ।
भक्त्या यदिच्छति नरः शाश्वतं पदमव्ययम्
वापीकूपतडागादिप्रपासत्रादिभिस्तथा ।
अन्यत्र यद्भवेत्पुण्यं तद्गङ्गादर्शनाद्भवेत्
यत्फलं जायते पुंसां दर्शने परमात्मनः ।
तद्भवेदेव गङ्गाया दर्शनाद्भक्तिभावतः
नैमिषे च कुरुक्षेत्रे नर्मदायां च पुष्करे ।
स्नानात्संस्पर्शना सेव्य यत्फलं लभते नरः
तद्गङ्गादर्शनादेव कलौ प्राहुर्महर्षयः ।
अथ ते स्मरणस्यापि गङ्गाया भूपभामिनि
प्रवक्ष्यामि फलं यत्तु पुराणेषु प्रकीर्तितम् ।
अशुभैः कर्मभिर्युक्तान्मज्जमानान्भवार्णवे
पततो नरके गङ्गा स्मृता दूरात्समुद्धरेत् ।
योजनानां सहस्रेषु गङ्गां स्मरति यो नरः
अपि दुष्कृतकर्मा हि लभते परमां गतिम् ।
स्मरणादेव गङ्गायाः पापसंघातपञ्जरम्
भेदं सहस्रधा याति गिरिर्वज्रहतो यथा ।
गच्छंस्तिष्ठन्स्वपन्ध्यायञ्जाग्रद्भुञ्जन् हसन् रुदन्
यः स्मरेत्सततं गङ्गां स च मुच्येत बन्धनात् ।
सहस्रयोजनस्थाश्च गङ्गां भक्त्या स्मरन्ति ये
गङ्गागङ्गेति चाक्रुश्य मुच्यन्ते ते ऽपि पातकात् ।
ये च स्मरन्ति वै गङ्गां गङ्गाभक्तिपराश्च ये
ते ऽप्यशेषैर्महापापैर्मुच्यन्ते नात्र संशयः ।
भवनानि विचित्राणि विचित्राभरणाः स्त्रियः
आरोग्यं वित्त्रसंपत्तिर्गङ्गास्मरणञ्ज फलम् ।
मनसा संस्मरेद्यस्तु गङ्गां दूरस्थितो नरः
चान्द्रायणसहस्रस्य स फलं लभते ध्रुवम् ।
गङ्गा गङ्गा जपन्नाम योजनानां शते स्थितः
मुच्यते सर्वपापेभ्यो विष्णुलोकं च गच्छति ।
कीर्तनान्मुच्यते पापाद्दर्शनान्मङ्गलं लभेत्
अवगाह्य तथा पीत्वा पुनात्यासप्तमं कुलम् ।
सप्तावपरान्परान्सप्त सप्ताथ परतः परान्
गङ्गा तारयते पुंसां प्रसंगेनापि कीर्तिता ।
अश्रद्धयापि गङ्गाया यत्तु नामानुकीर्तनम्
करोति पुण्यवाहिन्याः सो ऽपि स्वर्गस्य भाजनम् ।
सर्वावस्थां गतो वापि सर्वधर्मविवर्जितः
गङ्गायाः कीर्तनेनैव शुभां गतिमवाप्नुयात् ।
ब्रह्महा गुरुहागोघ्नः स्पृष्टो वा सर्वपातकैः
गङ्गातोयं नरः स्पृष्ट्वा मुच्यते सर्वपातकैः ।
कदा द्रक्ष्यामि तां गङ्गां कदा स्नानं लभे ह्यहम्
इति पुंसाभिलषिता कुलानां तारयेच्छतम् ।
अथ स्नानफलं देवि गङ्गायाः प्रवदामि ते
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।
स्नातस्य गङ्गासलिले सद्यः पापं प्रणश्यति
अपूर्वपुण्यप्राप्तिश्च सद्यो मोहिनि जायते ।
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ।
अपहत्य तमस्तीव्रं यथा भात्युदये रविः
तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ।
एकेनैवापि विधिना स्नानेन नृपसुन्दरि
अश्वमेधफलं मर्त्यो गङ्गायां लभते ध्रुवम् ।
अनेकजन्मसंभूतं पुंसः पापं प्रणश्यति
स्नानमात्रेण गङ्गायाः सद्यः स्यात्पुण्यभाजनम् ।
अन्यस्थानकृतं पापं गङ्गातीरे विनश्यति
गङ्गातीरे कृतं पापं गङ्गास्नानेन नश्यति ।
रात्रौ दिवा च संध्यायां गङ्गायां तु प्रयत्नतः
स्नात्वाश्वमेधजं पुण्यं गृहे ऽप्युद्धृतततज्जलैः ।
सर्वतीर्थेषु यत्पुण्यं सर्वेष्टायतनेषु च
तत्फलं लभते मर्त्यो गङ्गास्नानान्न संशयः ।
महापातकसंयुक्तो युक्तो वा सर्वपातकैः
गङ्गास्नानेन विधिवन्मुच्यते सर्वपातकैः ।
गङ्गा स्नानात्परं स्नानं न भूतं न भविष्यति
विशेषतः कलियुगे पापं हरति जाह्नवी ।
निहत्य कामजान्दोषान्कायवाक्चित्तसंभवान्
गङ्गास्नानेन भक्त्या तु मोदते दिवि देववत् ।
वर्षं स्नाति च गङ्गायां यो नरो भक्तिसंयुतः
तस्य स्याद्वैष्णवे लोके स्थितिः कल्पं न संशयः ।
आमृत्युं स्नाति गङ्गायां यो नरो नित्यमेव च
समस्तपापनिमुक्तः समस्तकुलसंयुतः ।
समस्तभोगसंयुक्तो विष्णुलोके महीयते
परार्द्धद्वितयं यावन्नात्र कार्या विचारणा ।
गङ्गायां स्नाति यो मर्त्यो नैरन्तर्येण नित्यदा
जीवन्मुक्तः स चात्रैव मृतो विष्णुपदं व्रजेत् ।
प्रातःस्नानाद्दशगुणं पुण्यं मध्यन्दिने स्मृतम्
सायङ्काले शतगुणमनन्तं शिवसन्निधौ ।
कपिलाकोटिदानाद्धि गङ्गास्नानं विशिष्यते
कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता ।
हरिद्वारे प्रयागे च सिंधुसंगे फलाधिका
ये मदीयांशुसंतप्ते जले ते स्नान्ति जाह्नवि ।
ते भित्वा मण्डलं यान्ति मोक्षं चेति रवेर्वचः
यो गृहे स्वे स्थितो ऽपि त्वां स्नाने संकीर्तयिष्यति ।
सो ऽपि यास्यति नाकं वै इत्याह वरुणश्च ताम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0