नारद पुराण · अध्याय 2.37
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षट्त्रिंशत्तमो ऽध्यायः
मोहिन्युवाच
एकादशीसमं देवाः पावनं नापरं भवेत् ।
यया पूता महापापा गच्छन्ति हरिमन्दिरम्
तत्समीपे मम स्थानं युक्तं भाति विचार्यताम् ।
देवा ऊचुः
वेधो निशीथे देवानामुपकाराय मोहिनी
सूर्योदये सुराणां च हरिणा परिकल्पितः ।
पारणं च त्रयोदश्यामुपवासविनाशनम्
महाद्वादशिका ह्यष्टौ याः स्मृता वैष्णवागमे ।
तास्तु ह्येकादशीभिन्ना उपोष्यन्ते च वैष्णवैः
एकादशीव्रतं भिन्नं वैष्णवानां महात्मनाम् ।
नित्यं पक्षद्वये प्रोक्तं विधिना त्रिदिनात्मके
सायं प्रातस्त्यजेद्भुक्तिं क्रमात्पूर्वापराह्णयोः ।
एकादशी यदा भिन्ना उपोष्या हि परे ऽहनि ।
द्वादश्यां हि व्रतं कार्यं निरंबु समुपोषणम्
लङ्घने त्वसमर्थानां जलं शाकं फलं पयः ।
नैवेद्यं वा हरेः प्रोक्तं स्वाहारात्पादसंमितम्
स्वाती सूर्योदये विद्धो त्यजन्त्यकादशीं सति ।
निष्कामा मध्यरात्रे च विद्धां मुञ्चन्ति याम्यया
सर्वेष्वपि तु लोकेषु विदिता दशमी तिथिः ।
यमस्य तस्याः प्रान्ति तु स्थितिः कार्या त्वयानघे
एतेन देवकार्यं च सिद्धं भवति शोभने ।
सूर्येन्दुचारा तिथ्यास्तु दशम्याः प्रान्तगामिनी
भुवि तीर्थानि चैव त्वं स्वाघनाशाय संचर ।
अरुणोदयमारभ्य यावत्सूर्योदयो भवेत्
तदन्तस्त्वं व्रते प्राप्ता लभस्वैकादशीफलम् ।
यः कश्चित्कुरुते विद्धं त्वया ह्येकादशीव्रतम्
स तीपकारकस्तुभ्यं भविष्यति सुरप्रिये ।
मुहूर्तद्वयमात्रं तु ज्ञेयं चात्रारुणोदयम्
मूहूर्ताः पञ्चदश च स्मृता रात्रेर्दिनस्य च ।
ज्ञेयास्ते ह्रस्वदीर्घत्वे त्रैराशिक विधानतः
त्रयोदशान्मुहूर्तान्त्तु रात्रैरूर्द्ध्वा समागता ।
सब्ध्वोपवासिनां पुण्यं स्वस्था भव शुचिस्मिते
यमसंस्थापनार्थाय वैकुण्ठध्वंसनाय च ।
पाखण्डानां विवृद्ध्यर्थं पापसंचनाय च
दत्तं ते मोहिनि स्थानं प्रत्यूषसमयाङ्कितम्
विद्धं त्वयैकादशिकाव्रतं ये कुर्वन्ति कर्तार इह प्रयत्नात् ।
तेषां भवेद्यत्सुकृतं शुभे फलं भुङ्क्ष्व प्रसन्ना भव भूसुरे त्वम्
एवं प्रदिष्टा कमलासनाद्यैः सा मोहिनी हृष्टतरा बभूव ।
मेने कृतार्थं निजजीवितं च स्वपापतीर्थाभिनिषेवणेन
संसाधितं कार्यमिदं सुराणां भस्मावशेषं हि गते ऽपि देहे ।
चैतन्यमात्रे पवनात्मके ऽस्मिन् संमार्जितो भूपकृतस्तु पन्थाः
नीतं मया चात्मकृतं हि वाक्यं प्रहृष्टया वै यदुदाहृतं हि ।
एवं विमृश्य क्षिप्तिपालदे वान्प्रणम्य हृष्टा च पुरोधसं स्वम्
प्रान्ते स्थिता सूर्यविहीनसंज्ञे काले दशम्या जनमोहनाय ।
कृच्छ्रान्तरूपा च दिनं च भुङ्क्ते प्रकृष्टरूपा नरकाय नॄणाम्
प्रान्तस्थितां तां रविजो निरीक्ष्य प्रहृष्टवक्त्रो वचनं जगाद ।
त्वया प्रतिष्ठा मम चारुनेत्रे कृतात्र लोके पुनरेव सम्यक् ।
विभोदितो रुक्मविभूषणस्य मत्तेभसंस्थः पटहः सुघैषः
दृष्टे कार्ये जनः सर्वः प्रत्ययं कुरुते त्विति
सूर्योदय स्पृषा ह्येषा दशमी गर्हिता सदा ।
अस्पृष्टमुदयं नॄणां मोहनाय भविष्यति
विहाय तां यत्प्रिययोगभुक्तिं पादस्थिता सापि ह्यदृष्यरूपा ।
सत्यं हि ते नाम विशालनेत्रे यन्मोहिनीत्येव जनो ब्रवीति
विमोहयित्वा हि जनं समस्तं पटे मदीये लिखितं करोषि ।
इत्येव मुक्त्वा तनयो विवस्वतः प्रणम्य तां ब्रह्मसुतां प्रहृष्टः
जगाम देवैः सह नाकलोकं करे गृहीत्वा लिपिलेखितारम् ।
गतेषु देवेषु विमोहिनी सा ब्रह्माणमासाद्य सुरासुरेशम्
विज्ञापयामास पितः पुरोधा ममायमत्युग्रतरश्च कोपात् ।
दग्धं शरीरं मम लोकनाथ पुनः प्रपत्स्ये ऽथ तथा कुरुष्व
विमोहितं चैव जगन्मयेदं प्रान्ते समास्थाय यमस्य तिथ्याः ।
जितो हि राज्ञा शमनः पुराद्य कृतो जयी तात तव प्रभावात्
तव कृत्यमिदं तात यत्पुनर्देहधारिणी ।
भूयामहं जगन्नाथ ब्रह्मणं सांत्ययस्व भोः
तच्छ्रुत्वा मोहिनीवाक्यं ब्रह्मा लोकविधानकृत् ।
ब्राह्मणं सांत्वयामास पुनरेव सुताकृते
वसो तात निबोधेदं यद्ब्रवीमि हितावहम् ।
तव चास्या महाभाग सर्वलोकहिताय च
त्वयेयं मोहिनी कोपात्कृता भस्मावशेषिता ।
पुनः शरीरं याचेत तदाज्ञां देहि मानद
मत्पुत्री तव याज्येयं दुर्गतिं तात गच्छति ।
त्वया मया च सपाल्या कृतकार्या तपस्विनी
यदि त्वं शुद्धभावेन मां ज्ञापयसि मानद ।
तातो ऽहमस्या भूयो ऽपि देहमुत्पादयाम्यहम्
किन्तु विष्णुदिनस्यैषा वैरिणी पापकारिणी ।
यथा शुद्ध्येति विप्रेन्द्र तथैवाशु विधीयताम्
तच्छ्रुत्वा वचनं तस्य ब्रह्मणः स पुरोहितः ।
याज्याया देहयोगार्थमादिदेश मुदान्वितः
विप्रवाक्यं समाकर्ण्य ब्रह्मा लोकपितमहः ।
कमण्डलुजलेनौक्षन्मोहिन्या देहभस्म तत्
समुक्षिते ब्रह्मणा लोककर्त्रा सा मोहिनी देहयुता बभूव ।
प्रणम्य तातं च वसोः पुरोधसो जग्राह पादौ विनयेन नत्वा
ततो वसुर्याजक एव राज्ञो मुदान्वितो याज्यनितंबिनीं ताम् ।
विमोहिनीं स्वामिसुतोञ्ज्झितां च जगाद वाक्यं विदुतामवीराम्
वसुरुवाच
क्रोधस्त्यक्तो मया देवि ब्रह्मणो वचनादथ ।
गतिं ते कारयिष्यामि तीर्थस्नानादिकर्मणा
इत्युक्त्वा मोहिनीं विप्रो ब्रह्माणां जगतां पतिम् ।
विससर्ज नमस्कृत्य मोहिनीपितरं मुदा
मोहिन्या वसुना चैव प्रीत्या ब्रह्मा विसर्जितः ।
जगाम लोकं तमसः परमव्यक्तवर्त्मना
स वसुर्ब्राह्मणश्रेष्ठो रुक्माङ्गदपुरोहितः ।
मोहिनीं समनुग्राह्यां मत्वा हृदि विचारयन्
मुहूर्त्तं ध्यानमापन्नो बुबुधे कारणं गतेः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0