भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.35

2.35.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते सुतवधोद्यतस्य रुक्माङ्गदस्य भगवद्दर्शनं नाम चतुस्त्रिंशत्तमो ऽध्यायः
यम उवाच
विबुधेश जगन्नाथ चराचरगुरो प्रभो ।
मोहिनी निष्फला जाता वन्ध्या स्त्री जनने यथा

2.35.2

रुक्माङ्गदप्रणीतेन मार्गेण कुशलाञ्छन ।
लोकः प्रयाति वैकुंण्ठं न मां कश्चित्प्रपद्यते

2.35.3

गते ऽपि भूमिनाथेशे देहं देवस्य चक्रिणः ।
तथापि सर्वभूतानां न बुद्धिः परिवर्तते

2.35.4

उपोष्य वासरं विष्णोराकुमारात्तु मानवाः ।
प्रयान्ति परमं लोकं लुप्तपापाः पितामह

2.35.5

पुत्री ते व्रीडिता देवी मोहिनी मोहमागता ।
नायाति तव सामीप्यं न भुङ्क्ते लोकगर्हिता

2.35.6

निर्व्यापारस्त्वहं जातः किं करोमि प्रशाधि माम् ।
रविपुत्रवचः श्रुत्वा प्रोवाच कमलासनः

2.35.7

गच्छामः सहिताः सर्वे मोहिनीं प्रतिबोधितुम् ।
मोहिन्यां प्रतिबुद्धायां करिष्यामो दिवाकरे

2.35.8

तव कार्यं न संदेहः संभ्रमस्त्यज्यतामयम् ।
ततो देव गणाः सर्वे शतक्रतुपुरोगमाः

2.35.9

ब्रह्मणा सहिताः पृथ्वीं विमानैः सूर्यसप्रभैः ।
समायाता महीपाल नारीं तां प्रतिबोधितुम्

2.35.10

ते विमानैः समन्तात्तु परिवार्य शुभाननाम् ।
तेजोहीनां निरानन्दां शुष्कतोयां नदीमिव

2.35.11

शशिहीनां निशां भूप ऋत्विग्घीनां क्रियामिव ।
पराजितो यथा मर्त्यः प्रल्मानकुसुमं यथा

2.35.12

निवृत्तोत्सववेदीव विद्रुमं धवलं यथा ।
गतशालिस्तु केदारो निष्प्र यथा

2.35.13

मण्ड वा गतोद्वा यथा सरः ।
मन्थानं नवनीते वा उद्धृते धरणीपते

2.35.14

असंस्कृता यथा वाणी मर्दिता च यथा चमूम् ।
हत नाथां तु युवतीं धान्यहीनां प्रजां यथा

2.35.15

मन्त्रहीनविधिं युद्धं धर्मं च दयया विना ।
पृथ्वीं भूपालहीना वा मन्त्रही यथा नृप

2.35.16

धनधान्यविहीनं वा गृहं नृपवरोत्तम ।
जलहीनं यथा कुंभं पङ्कस्थं गोपतिं यथा

2.35.17

गृहस्थं भार्यया हीनं राष्ट्रभ्रष्टं च भूपतिम् ।
भग्नक्रियं यथा वैद्यं भग्नशाखं यथा द्रुमम्

2.35.18

तेजोहीनं यथागारं निर्जलं वा घनं यथा ।
विधूम इव सप्तार्चिर्विरश्मिरिव भास्करः

2.35.19

मतिभ्रष्टो यथा मर्त्यः पर्वसंगी यथा नरः ।
अतृप्तः कान्तया कान्तः पन्नगश्च विषोज्झितः

2.35.20

लूनपक्षो यथा पक्षी वृत्तिहीनो यथा द्विजः ।
शिरोभ्रष्टा यथा माला पर्वतो धातुवर्जितः

2.35.21

प्रभ्रष्टलिपि शास्त्रं वा ऋग्यजुर्विस्वरं यथा ।
स्वरहीनं यथा साम पद्महीनं यथा सरः

2.35.22

यथा मार्गं तृणै रुद्धं पद्मं पत्रविवर्जितम् ।
ज्ञानं ममत्वसंयुक्तं पुमांसं प्रकृतिं विना

2.35.23

सांख्यानि तत्त्वहीनानि धर्मं दंभान्वितं यथा ।
तेजोहीनां तथापश्यन् मोहिनीं ते दिवौकसः

2.35.24

ध्यायमानां निरुत्साहां दृश्यमानां जनैः प्रभो ।
आक्रोशवचनैः क्रूरैः पुत्रहत्यासमन्विताम्

2.35.25

दुःशीलां धर्मसंत्यक्तां तद्वाक्यपरिमोषिताम् ।
स्ववाक्यपालनां चण्डामुचुर्देवाः समागताः

2.35.26

मां शोकं कुरु वामोरु पौरुषं हि त्वया कृतम् ।
नहि माधवभक्तानां विद्यते मानखण्डनम्

2.35.27

सा त्वं हरिणशावाक्षि देवकार्यार्थमागता ।
तन्न सिद्धं वरारोहे स प्रयातो ऽधुनाभवम्

2.35.28

विघ्नविध्वंसिनीं पूर्वं कृता रुक्माङ्गदेन हि ।
एकादशी महापुण्या मोहिनी माधवे सिते

2.35.29

संवत्सरं विशालाक्षि कृच्छ्रपादप्रपूजिता ।
तस्यैवाध्युष्टिरतुला यत्सत्याचच्चलितो न हि

2.35.30

विघ्नराज्ञी तु वै नारी लोकेषु परिगीयते ।
कर्मणा मनसा वाचा पुत्रव्यापादने मतिम्

2.35.31

कृत्वा चोद्धृत्य खङ्गं च त्यक्त्वा स्नेहं सुदूरुरतः ।
तादृशं निकषं प्रोक्ष्य भगवान्मधुसूदनः

2.35.32

हनिष्यति प्रियं पुत्रं न भुङ्क्ते हरिवासरे ।
पुत्रस्य च प्रियायाश्च भावं प्रेक्ष्य नृपस्य च

2.35.33

विष्णुना परेतुष्टेन नीताः स्वभवने त्रयः ।
सदेहाः क्षीणकर्माणो ह्य् अङ्गारो ऽग्निरिवाहितः

2.35.34

फलं कर्मणि चारब्धे यदि देवी न सिद्ध्यति ।
सर्वयत्नेन सुभगे दोषः को ऽत्र तवाधुना

2.35.35

एतस्माद् वरदाः सर्वे संप्राप्ता विबुधाः शुभे ।
सिद्धौ वाप्यथ वासिद्धौ कर्मकृत्स्याद्दृथा न हि

2.35.36

भर्तव्यो भृत्यवर्गश्च भूभुजा धर्ममिच्छता ।
सद्भावे घटमानस्य यदि कर्म न सिद्ध्यति

2.35.37

देयं वेतनमात्रं तु न च तुष्टिफलं भवेत् ।
यो न तस्मै प्रयच्छेत जीवनं जीवनाय वै

2.35.38

गोवधं समवाप्नोति स नरो नात्र संशयः ।
तस्माद् देयं वरारोहे अभीष्टं वरसुन्दरि

2.35.39

सद्भावेन कृते सम्यग्विघ्नं कार्यं दिवौकसाम् ।
किं न कुर्वन्ति विबुधास् त्वया सह वरानने

2.35.40

द्वादश्यास् तेजसा भग्ना याम् आहुर् विघ्रनाशिनीम् ।
विबुधैर् एवम् उक्ता तु मोहिनी लोकमोहिनी

2.35.41

उवाच सा निरानन्दा पतिहीनातिदुःखिता ।
धिगिदं जीवितं मह्यं येन कार्यं न साधितम्

2.35.42

न कृतो जनसंबाधो यममार्गो ऽमराधिपाः ।
न तु लुप्तं हरिदिनं न भुक्तं हरिवासरे

2.35.43

भूभुजा तेन वीरेण कृतः पुत्रवधो मुदा ।
गतो मूर्ध्नि पदं दत्वा मम रुक्माङ्गदो हरिम्

2.35.44

अप्रमेयगुणं विष्णुं निर्मलं निर्मलाश्रयम् ।
हंसं शुचिपदं व्योम प्रणवं बीजमव्ययम्

2.35.45

निराकारं निराभासं निष्प्रपञ्चं निरञ्जनम् ।
शून्यं वियत्स्वरूपं च ध्येयध्यानविवर्जितम्

2.35.46

अस्ति नास्तीति यं प्राहुर्न दूरे नापि चान्तिके ।
परं धाम मनोग्राह्यं पुरुषाख्यं जगन्मयम्

2.35.47

हृत्पङ्कजसमासीनं तेजोरूपं सनातनम् ।
तस्मिंल् लयम् अनुप्राप्ते किं नु मे जीविते फलम्

2.35.48

असाधिते तु यः कार्ये नरो गृह्णाति वेतनम् ।
स्वामिनं तु परित्यज्य प्रयाति नरकं ध्रुवम्

2.35.49

न साधयन्ति ये कार्यं स्वामिनां तु दिवौकसः ।
भृत्या वेतनभोक्तारो जायन्ते भूतले हयाः

2.35.50

असाधिनीयं कार्यस्य भर्तृपुत्रविनाशिनी ।
कथं वरं तु गृह्णामि भवतां नाकवासिनाम्

2.35.51

देवा ऊचुः
ब्रूहि मोहिनि दास्यामि यत्ते हृदि समीहितम् ।
अनृणास्तु भविष्यामः कृत्वा चोपकृतिं तव

2.35.52

परिश्रमः कृतो देवि त्वया राजप्रयोजने ।
तस्य त्वं फलभाग्देवि तादृशार्थे कृतस्य तु

2.35.53

एवमुच्चरमाणानां देवतानां महीपते ।
नृपतेराजगामाथ पुरोधाः पावकप्रभः

2.35.54

उषितो जलमध्ये तु प्राणायामरतो मुनिः ।
द्वादशाब्दे ततः पूर्णे निर्गतो जलमध्यतः

2.35.55

निर्गतेन श्रुतं तेन मोहिनीचेष्टितं नृप ।
सक्रोधो मुनिशार्दूलो देववृन्दमुपागतः

2.35.56

उवाच विबुधान्सर्वान्मोहिनीवरदायिनः ।
धिगिमां धिग्देवसंघं कर्म धिक्पापसंज्ञितम्

2.35.57

भवतां भावनाशाय पुरुषार्थे प्ररोहकम् ।
भवन्तो यच्च दातारो मोहिन्या वाञ्छितं वरम्

2.35.58

हत्यायुता भर्तृसुतोपघातिनी विहिनवृत्तिश्च मराशिरूपा ।
नास्मा हि लोके भवतीह शुद्धिः समिद्धवह्नौ पतने ऽपि देवाः

2.35.59

"हत्यायुतं भर्तृवधो निरर्थकमेतत्समं विप्रवरैः पुराकृतम् ।
न चापि चास्या भवतीह शुद्धिः समिद्भवह्नौ पतने ऽपि देवाः"
विमोयित्वा वचनैः सुधामयैरुक्माङ्गदं धर्मंविभूषणं च ।
प्रियायुतं मोक्षपदं निहत्य चकार भूमिं नृपवर्जितां च

2.35.60

न चापि वासो नरकेषु देवा अस्याः स्थितिः क्क त्रिदिवे ऽल्पबुद्धेः ।
न चापि राज्ञो निकटे च देवा नाप्येतु विष्णोः पदमव्ययं यत्

2.35.61

न लोकवादेन विदूषिताया लोकेषु कुत्रापि भवेच्च वासः ।
धिरजीवनं कर्ग्मविगर्हिताया देवाः सदा पापसमारतायाः

2.35.62

पतिं हत्वा सुतं हत्वा सपत्नीं जननीसमाम् ।
हत्वा धरां समस्तां वा कां गतिं यास्यते सुराः

2.35.63

इयं पापतरा देवा धर्मविध्वंसिनी हरेः ।
सर्वदाप्यनया प्रोक्तं भुज्यतां हरिवासरे

2.35.64

प्राणसंवर्द्धनार्थाय तेषामेवाप्यधोगतिः ।
भुज्यतां वासरे विष्णोर्हन्यतां गौर्द्विजान्विता

2.35.65

अपेयं पीयता मुक्त्वा कथं वासं लभेद्दिवि ।
एतदज्ञानिनां प्रोक्तं ज्ञाननां तु न निर्णयः

2.35.66

अज्ञानाव्द्याहृते वाक्ये भुज्यतां हरिवासरे ।
तस्यापि शुद्धिर्गदिता प्राणायामशतेन हि

2.35.67

अथवाप्युपवासेन एकादश्या दिवौकसः ।
ऋक्षेण संयुतायास्तु ज्येष्ठकुण्डाप्लवेन वा

2.35.68

शौकरस्पर्शना द्वापि नरो देवार्चनेन वा ।
व्याहृते कथितं विप्रैः सेयमद्य सुनिष्ठुरा

2.35.69

भोजने पापनिरता दिने विष्णोर्दुरासदे ।
भर्तुर्वाक्यं व्यपोह्यैव घातयित्वा सुतं प्रियम्

2.35.70

वाक्यज्ञं वाक्यनिरतं मातॄणां तु हिते रतम् ।
विष्णुधर्मप्रलोप्त्रीयं बहुपापसमन्विता

2.35.71

नैषा स्पृश्यास्ति देवेशाः कथमस्या वरप्रदाः ।
भवन्तो न्याययुक्तेषु धर्मयुक्तेषु तत्पराः

2.35.72

पालनं पापयुक्तस्य न कुर्वन्ति दिवौकसः ।
धर्माधाराः स्मृता देवा धर्मो वेदेसमास्थितः

2.35.73

वेदैः शुश्रूषणं भर्तुः स्त्रीणां धर्मः प्रकीर्तितः ।
यद्ब्रवीति पतिः किञ्चित्तत्कार्यमाविशङ्कया

2.35.74

शुक्लं शुक्लमिति ब्रूयात्कृष्णं कृष्णेति चामराः ।
शुश्रूषा सा हि विज्ञेया न शुश्रूषा हि सेवनम्

2.35.75

भर्तुराज्ञा हता देवा आत्माज्ञास्थापनेच्छया ।
तस्मात्पापा न संदेहो मोहिनी सर्वयोषिताम् ।
सत्यस्य साधनार्थाय शपथैर्यन्त्रितो नृपः

2.35.76

उवाच विविधं वाक्यं सा नैच्छत्पुत्रघातिनी ।
तेन मोक्षं गतो राजा पापमस्यां विसृज्य च

2.35.77

सेयं पापशरीरा हि हत्यायुतसमन्विता

2.35.78

दातारं सर्वदानानां ब्रह्मण्यं हरिदैवतम् ।
प्रजारञ्जनशीलं च हरिवासरसेविनम्

2.35.79

परदारेषु निःस्नेहं विषये विगतस्पृहम् ।
परार्थत्यक्तकामं च सदा मखनिषेविणम्

2.35.80

सदैव दुष्टदमने वर्तमानं धरातले ।
व्यसनैः सप्तभिर्घोरैरनाक्रान्तं महीपतिम्

2.35.81

संनिरस्य दुराचारा वरयोग्या कथं भवेत् ।
यो ऽस्याः पक्षेतु वर्तेत देवो वा दानवो ऽपि वा

2.35.82

तं चापि भस्मसात्कुर्यां क्षणेन सुरसत्तमाः ।
मोहिन्या रक्षणे यस्तु प्रयत्नं कुरुते सुराः

2.35.83

तस्य तज्जायते पापं यन्मोहिन्यां व्यवस्थितम्

2.35.84

स एवमुक्त्वा नृपते द्विजेन्द्रः संगृह्य पाणौ सलिलं च तीव्रम् ।
क्रोधेन संवीक्ष्य विधिप्रसूतां चिक्षेप तन्मूर्घ्न्यनलप्रकाशम्

2.35.85

निक्षिप्तमात्रे सलिले महीप सद्यः प्रजज्वाल च तच्छरीरम् ।
संपश्यतां नाकनिवासिनां तु तृण्या यथा वह्निशिखावलीढा

2.35.86

कोपं विभो संहर संहरेति यावद्गिरः खे मरुतां बभूवुः ।
तावत्स वह्निर्द्विजवाक्यमृष्टो भस्मावशेषां प्रमदां चकार

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc