भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.36

2.36.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनी चरिते शापप्राप्तिर्नाम पञ्चत्रिंशो ऽध्यायः
वसिष्ठ उवाच
मोहिनी मोहमुत्सृज्य गता विबुधमन्दिरम् ।
भर्त्सिता देवदूतेन स्थितिस्ते ऽत्र न पापिनी

2.36.2

पापशीले सुदुर्मेधे भर्तृनिन्दापरायणे ।
हरिवासरलोपिन्यां वासस्ते न त्रिविष्टपे

2.36.3

धर्मतो विमुखानां च नरके वास इष्यते ।
एवमुक्त्वा तु तां वायुः क्रूरं वचनपद्भुतम्

2.36.4

ताडयित्वा च दण्डेन प्रेरयामास यातनाम् ।
एवं संताडिता राजन् देवदूतेन मोहिनी

2.36.5

ब्रह्मदण्डपराभूता संप्राप्ता नरकं नृप ।
तत्र धर्माज्ञया सा तु दूतैः संताडिता चिरम्

2.36.6

सर्वेषु क्रमशो गत्वा नरकेषु निपातिता ।
पापे धर्माङ्गदः पुत्रो घातितः पतिपाणिना

2.36.7

त्वया यतस्ततो भुङ्क्ष्व कृतकर्मफलं त्विह ।
प्रजाहितं स्थिरप्रज्ञं महेन्द्रवरुणोपमम्

2.36.8

सप्तद्वीपाधिपं पुत्रं हत्वेदृक्फलभोगिनी ।
प्राकृतस्यापि पुत्रस्य हिंसायां ब्रह्महा भवेत्

2.36.9

किं पुनर्द्धर्मयुक्तस्य पापे धर्माङ्गदस्य च ।
एवं निर्भत्सिता दूतैर्यमस्य नृपसत्तम

2.36.10

बुभुजे यातनाः सर्वाः क्रमशः शमनोदिताः ।
ब्रह्मदण्डहतायास्तु देहस्पर्शेन यातनाः

2.36.11

ज्वलिताङ्गा बभूवुस्ता धारणाय न तु क्षमाः ।
ततस्ते नरका राजन् धर्मराजमुपागताः

2.36.12

प्रोचुः प्राञ्जलयो भीतास्तदङ्गस्पर्शपीडिताः ।
देवदेव जगन्नाथ धर्मराज दयां कुरु

2.36.13

इमां निःसारयाशु त्वं यातनाभ्यः सुखाय नः ।
यस्याः स्पर्शनतो नाथ भस्मभूताः क्षणादहो

2.36.14

भविष्यामस्ततस्त्वेनां नरकेभ्यो विवासय ।
तच्छ्रुत्वा वचनं तेषां धर्मराजो ऽतिविस्मितः

2.36.15

दूतान्स्वान्प्रत्युवाचेयं निःसार्या मम मन्दिरात् ।
यो ब्रह्मदण्डनिर्दग्धः पुमान् स्त्री वा च तस्करः

2.36.16

तस्य पापस्य संस्पर्शं नेच्छति यातना मम ।
तस्मादिमां महापापां भर्तुर्वचनलोपिनीम्

2.36.17

पुत्रघ्नीं धर्महन्त्रीं च ब्रह्मदण्डहतामपि ।
निःसारयत मे बापि देहो ज्वलति दर्शंनात्

2.36.18

इत्युक्तास्ते तदा दूता धर्मराजेन भूपते ।
प्रहरन्तो ऽस्त्रशस्त्रैश्च बहिश्चक्रुर्यमक्षयात्

2.36.19

ततः सा दुःखिता राजन् मोहिनी मोहसंयुता ।
पातालं प्रययौ तत्र पातालस्थैर्निवारिता

2.36.20

ततस्तु व्रीडितात्यर्थः मोहिनी ब्रह्मणः सुता ।
जनकस्यान्तिकं गत्वा दुःखं स्वं संन्यवेदयत्

2.36.21

तात तन्नास्ति मे स्थानं त्रैलोक्ये सचरा चरे ।
यत्र यत्र तु गच्छामि तत्र तत्र क्षिपन्ति माम्

2.36.22

अहं निर्वासिता लोकैर्घातयित्वायुधैर्दृढम् ।
भवदाज्ञां समादाय गता रुक्मविभूषणम्

2.36.23

मया व्यवसितं चेदं सर्वलोकविगर्हितम् ।
क्लेशयित्वा तु भर्तारं पुत्रं हत्वा वरासिना

2.36.24

संध्यावलीं क्षोभयित्वा पितः प्राप्ता दशा मिमाम् ।
न गतिर्विद्यते देव पापाया मम सांप्रतम्

2.36.25

विशेषाद्द्विजशापेन जाताहं दुःखभागिनी ।
विप्रवाक्यहताना च दग्धानां चित्रभानुना

2.36.26

दिवाकीर्तिहतानां च भक्षितानां मृगादिभिः ।
शतह्रदाविपन्नानां मुक्तिदा स्वर्णदी पितः

2.36.27

यदि त्वं त्रिदशैः सार्द्धं विप्रं तं शापदायिनम् ।
प्रसादयसि मत्प्रीत्या तर्हि मे विहिता गतिः

2.36.28

तां तथावादिनीं राजन् ब्रह्मा लोकपितामहः ।
शिवेन्द्रधर्मसूर्याग्निदेवेशैर्मुनिभिर्युतः

2.36.29

मोहिनीमग्रतः कृत्वा जगाम द्विजसन्निधौ ।
तत्र गत्वा महीपाल ब्रह्मा देवादिभिर्वृतः

2.36.30

महता गौरवेणापि नमश्चक्रे स्वयं विधिः ।
भूप रुद्रादिदेवैस्तु पूज्यो मान्यः पितामहः

2.36.31

मोहिनीप्रीतये मुग्धः स्वयं चक्रे नमस्क्रियाम् ।
कार्ये महति संप्राप्ते ह्यसाध्ये भुवनत्रये

2.36.32

न दूषितं भवेद्भूप यविष्ठस्याभिवादनम् ।
स द्विजो वेदवेदाङ्गपरगस्तपसि स्थितः

2.36.33

संप्रेक्ष्य लोककर्तारं देवैः सह समागतम् ।
समुत्थाय नमश्चक्रे ब्रह्माणं तान्मुनीन्सुरान्

2.36.34

वासयामास भक्त्या च स्तुतिं चक्रे ऽब्जजन्मनः ।
ततः प्रसन्नो भगवान् लोककर्त्ता जगद्गुरुः

2.36.35

ते द्विजं प्रार्थयामासुर्मोहिन्यर्थे नृपार्चितम् ।
तात विप्र सदाचार परलोकोपकारक

2.36.36

कृपां कुरु कृपासिंधो मोहिनीगतिदो भव ।
मया संप्रेषिता ब्रह्मन् रुक्माङ्गदविमोहने

2.36.37

सुता मे यमलोकं तु शून्यं दृष्ट्वा च मानद ।
वैकुण्ठं संकुलं प्रेक्ष्य लोकैः सर्वैर्नि राकुलैः

2.36.38

मनसोत्पादिता देवी देवानां हितकारिणी ।
निशामय धरादेव यद्ब्रवीमि तवाग्रतः

2.36.39

गतिं धर्मस्यातिसूक्ष्मां लोककल्याणकारिणीम् ।
अनया निकषाश्याङ्ग्या परीक्ष्य स्वर्णभूषणः

2.36.40

सदारः ससुतो ब्रह्मन्प्रापितो हरिमन्दिरम् ।
राज्ञाप्रहतया भक्त्या हरिवासरपालनात्

2.36.41

कृतं शून्यं यमस्थानं लिपिमार्जनकर्मणा ।
देवापकारो विप्रर्षे न क्षमो बाहुजन्मना

2.36.42

भूसुराणां विशेषेणं यातास्ते तत्सहायकाः

2.36.43

न प्राप्यते साङ्घ्यविदा तु यच्च नाष्टाङ्गयोगेन तु भक्तिगम्यम् ।
तत्प्रापितं भूसुर भूपभर्तुर्निजस्य पुत्रस्य तथा सपत्न्याः

2.36.44

यत्पुण्यशीलस्य नृपस्य भूपशिरोमणेराचरितं प्रतीपम् ।
तत्पापवेगेन बभूव विद्रुता भस्मावशेषा तव शापदग्धा

2.36.45

देवार्थमेषा भववर्द्धनार्थं नृपोपकाराय च संप्रवृत्ता ।
न स्वार्थकामा लभते ऽवमानं कथं द्विजातो ऽपकृतिं क्षमस्व

2.36.46

दयां कुरुष्व प्रशमं भजस्व पिष्टस्य पेषो नहि नीतियुक्तः ।
शापप्रदानेननिपातितेयं कुरु प्रसादं गतिदो भवत्वम् ।
यस्मिन्कृते ब्राह्मण मोहिनीयं बुद्धिं त्यजेत्क्रूरतरां त्वयीज्ये

2.36.47

स एवमुक्तः कमलासनेन विमृश्य बुद्ध्या विससर्ज कोपम् ।
उवाच देवं त्रिदशाधिनाथं विमोहिनीदेहकृतं द्विजेन्द्रः

2.36.48

बहुपापयुता देव मोहिनी तनया तव ।
न लोकेषु स्थितिस्तस्मात्प्राणिभिः संकुलेषु च

2.36.49

मया विमृश्य सुचिरं मोद्दिन्यर्थं विचिन्तितम् ।
तद्दास्यमि तव प्रीत्या त्वं हि पूज्यतरो मम

2.36.50

यथा तव वचः सत्यं मम चापि सुरेश्वर ।
देवकार्यं च भविता मोहिनीकृतत्यमेव च

2.36.51

यन्नाक्रान्तं हि भूतौघैस्तत्स्थाने मोहिनीस्थितिः ।
जङ्गमाजङ्गमैर्भूमिर्व्याप्ता द्वीपवती सदा

2.36.52

तलानि चापि दैत्याद्यैराकाशः पक्षिपूर्वकैः ।
नाकः सुकृतिभिर्जीवैर्नरकाः पापकर्मभिः

2.36.53

झषाद्यैः सागरा व्याप्ता नैष्वस्पृष्यास्थितिस्ततः ।
ततो ब्रह्मा सुरैः सर्वैः संमन्त्र्य नृपसत्तम

2.36.54

उवाच मोहिनीं देवीं नास्ति स्थानं तव क्वचित् ।
तच्छ्रुत्वा मोहिनी वाक्यं पितुराज्ञाविधायिनी

2.36.55

उवाच प्रणता सर्वान् हरिवासरनाशिनी ।
पुरोधसा समेतानो देवानां लोकसाक्षिणाम्

2.36.56

भवतां त्रिदशश्रेष्ठा एष बद्धो मयाञ्जलिः ।
प्रणिपातशतेनापि प्रसन्नेन हृदा सुराः

2.36.57

दातव्यं याचितं मंह्यं सर्वेषां प्रीतिकारकम् ।
एकादश्याः प्रभावेण सर्वेषां पापिनां गतिः

2.36.58

साध्यते तां सुरश्रेष्ठा वर्धितुं मे प्रयोजनम् ।
पतिः सपत्नी पुत्रश्च मया वैकुण्ठगाः कृताः

2.36.59

भूर्लोके विधवाद्याहं वर्तामि भवतां कृते ।
यथा हरिदिनं दुष्टं जायते मम मानदाः

2.36.60

एतत्प्रयाचे ददत स्वार्थार्थं तद्धि नान्यथा

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc