भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.34

2.34.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते धर्माङ्गदोक्तिर्नाम त्रयस्त्रिंशो ऽध्यायः
वसिष्ठ उवाच
तत्पुत्रवचनं श्रुत्वा राजा रुक्माङ्गदस्तदा ।
संध्यावलीमुखं प्रेक्ष्य प्रहृष्टकमलोपमम्

2.34.2

मोहिनीवचनं शृण्वन्भुङ्क्ष्व मा हन देहजम् ।
मा भुङ्क्ष्व तनयं हिंस चेत्याग्रहसमन्वितम्

2.34.3

एतस्मिन्नेव काले तु भगवान्कमलेक्षणः ।
अन्तर्द्धानगतस्तस्थौ व्योम्नि धैर्यावलोककः

2.34.4

त्रयाणां नृपशार्दूल मेघश्यामो निरञ्जनः ।
धर्माङ्गदस्य वीरस्य तस्य रुक्माङ्गदस्य तु

2.34.5

संध्यावल्या समेतस्य वीशसंस्थो जनार्दनः ।
वचने भुङ्क्ष्व भुङ्क्ष्वेति मोहिन्या व्याहृते तदा

2.34.6

जग्राह विमलं खङ्गं हन्तुं धर्माङ्गदं सुतम् ।
सुप्रहर्षेण मनसा प्रणम्य गरुडध्वजम् ।
तं दृष्ट्वा खङ्गहस्तं तु पितरं धर्म्मंभूषणः

2.34.7

प्रणम्य मातापितरौ देवं चक्रधरं तथा ।
वदनं प्रेक्ष्य चादीनं जनन्या नृपपुङ्गवः

2.34.8

वृषाङ्गदेन तु तदा स्वग्रीवोर्वीतले कृता ।
कंबुग्रीवां समानां तु सुवर्णा सुकोमलाम्

2.34.9

बहुरेखमथ स्थूलां खङ्गमार्गे ज्यदर्शयत् ।
पितृभक्त्या युतेनैव मातृभक्त्याधिकेन वै

2.34.10

ग्रीवाप्रदाने तनयस्य भूप हर्षाकुले चारुसुधांशुवक्त्रे ।
गृहीतखङ्गे जगदीशनाथे चचाल पृथ्वीं सनगा समग्रा

2.34.11

सिंधुः प्रवृद्धश्च बभूव सद्यो निमज्ज नार्थं भुवनत्रयस्य ।
निपेतुरुल्काः शतशो धरायां निर्घातयुक्ताः सतडित्खमध्यात्

2.34.12

विवर्णरूपा च बभूव मोहिनी न देवकार्यं हि कृतं मयेति ।
निरर्थकं जन्म ममाधुनाभूत्कृतं तु दैवेन दजगद्विधायिना

2.34.13

विमोहनं रूपमिदं विडंबनं यद्भूमिपालेन न भुक्तमन्नम् ।
हरेर्दिने पापभयापहे तु तृणैः समाहं भविता त्रिविष्टपे

2.34.14

सत्वाधिको यास्यति मोक्षमार्गं गन्तास्मि पाप नरकं सुदारुणम्

2.34.15

समुद्यते तदा खङ्गे नृपेण नृपपुङ्गव ।
मोहिनी मोहसंयुक्ता पपात धरणीतले

2.34.16

राजापि तेन खङ्गेन भ्राजमानः समुद्यतः ।
ग्रीवायाश्छेदनार्थाय वृषाङ्गदसुतस्य तु

2.34.17

सकुण्डलं चारु शशिप्रकाशं भ्राजिष्णु वक्त्रं तनयस्य भूपः ।
प्रचिच्छिदे यावदतीव हर्षाद्धैर्यान्वितो रुक्मविभूषणो ऽसौ

2.34.18

तावद्गृहीतः स्वकरेण भूपः क्षीराब्धिकन्यापतिना महीपः ।
तुष्टो ऽस्मि तुष्टो ऽस्मि न संशयो ऽत्र गच्छस्व लोकं मम लोकनाथ

2.34.19

प्रियान्वितश्चात्मजसंयुतश्च कीर्तिं समाधाय महीतले तु ।
त्रैलोक्यपूज्यां विमलां च शुक्लां कृत्वा पदं मूर्ध्नि यमस्य भूप

2.34.20

प्रयाहि वासं मम देहसंज्ञं स चक्रिणो भूमिपतिः करेण ।
संस्पृष्टमात्रो विरजा बभूव प्रियासमेतस्तनयेन युक्तः

2.34.21

उपेत्य वेगेन जगाम देहं देवस्य दिव्यं स नृपो महात्मा ।
विहाय लक्ष्मीमवनीप्रसूतां विहाय दासीःसुधनं स कोशम्

2.34.22

विहाय नागांस्तुरगान्रथांश्च स्वदारवर्गं स्वजनादिकांश्च ।
जगाम देहं मधुसूदनस्य ततोंऽबरात्पुष्पचयः पपात

2.34.23

संहृष्टसिद्धैः सुरलोकपालैः संताडिता दुन्दुभयो विनेदुः ।
राजन् जगुर्गीतमतीव रम्यं देवाङ्गनाः संननृतुर्मुदान्विताः

2.34.24

गन्धर्वकन्या नृपकर्मतुष्टास्तदद्भुतं प्रेक्ष्य दिनेशसूनुः ।
हरेस्तनौ भूमिपतिं प्रविष्टं सदारपुत्रं स्वलिपिं प्रमार्ज्य

2.34.25

लोकांश्च सर्वान्नृपदिष्टमार्गे कृत्वा कृतज्ञान्हरिलोकमार्गान् ।
भीतः पुनः प्राप्य पितामहान्तिकं प्रोवाच देवं चतुराननं रुदन्

2.34.26

नाहं नियोगी भविता हि देव आज्ञाविहीनः सुरलोकनाथ ।
विधेहि चान्यत्प्रकरोमि तात निदेशनं मास्तु मदीय दण्डम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc