नारद पुराण · अध्याय 2.33
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते संध्यावलीकथनं नाम द्वात्रिंशत्तमो ऽध्यायः
वसिष्ठ उवाच
संध्यावली ततः पादौ भर्तुः संगृह्य भूपते ।
उवाच वचनं देवी धर्मां गदविनाशनम्
बहुधाप्यनुशिष्टेयं मया भूप यथा त्वया ।
मोहिन्या मोहरूपाया नान्यत्संरोचते ऽधुना
भोजनं वासरे विष्णोर्वधं वा तनयस्य वै ।
धर्मत्यागाद्वरं नाथ पुत्रस्य विनिपातनम्
यादृशी हि जनन्यास्तु पीडा भवति भूपते ।
पुत्रस्योत्पादने तीव्रातादृशी न भवेत्पितुः
गर्भसंधारणे राजन् खेदः स्नेहो ऽधिको यथा ।
मातुर्भवति भूपाल तथा नहि भवेत्पितुः
बीजनिर्वाषकः प्रोक्तः पिता राजेन्द्र भूतले ।
जननी धारिणी क्लिष्टा वर्द्धने पालने ऽधिका
पितुः शतगुणः स्नेहो मातुः पुत्रे प्रवर्तते ।
स्नेहाधिक्यं तु संप्रेक्ष्य मातरं महतीं विदुः
साहं जाता गतस्नेहा परलोकजिगीषया ।
पुत्रस्य नृपशार्दूल सत्यवाक्यस्य पालनात्
व्यापादय सुतं भूप स्नेहं त्यक्त्वा सुदूरतः ।
मा सत्यलङ्घनं कार्षीः शापितो ऽसि मयात्मना
निकषेषु ह्यषीकेशो भविष्यति फलप्रदः ।
यस्मिंश्चीर्णे रुजा देहे नाल्पापि नृप जायते
अधर्मान्मानवो ऽवश्यं स्वर्गभ्रष्टो न संशयः ।
प्राणानादाय पुत्रं वा सर्वस्वं वा महीपते
यश्चानुवर्तते दैवं स पुमान् गीयते महान् ।
ता आपदो ऽपि भूपाल धन्या याः सत्यकारिकाः
सत्तयसंरक्षणार्थत्वान्नृणां स्युर्मोक्षदायिकाः ।
कीर्तिसंस्तरणार्थाय कर्त्तव्यं मनुजैः सदा
कर्म भूपाल शास्त्रोक्तं स्नेहद्वेषविवर्जितम् ।
तदलं परितापेन सत्यं पालय भूपते
सत्यस्य पालनाद्राजन्विष्णुदेहेन युज्यते ।
देवैरुत्पादिता ह्येषा निकषा ते विमोहिनी
मन्ये भूपाल सा पत्न्या कृता तां त्वं न बुध्यसे ।
पुत्रव्य पादनाद्देवा भविष्यन्ति ह्यवाङ्मुखाः
तेषां दत्वा पदं मूर्ध्नि यास्यसे परमं पदम् ।
विष्णोरुद्वहतां भक्तिं देवताः परिपन्थिनः
भविष्यत्यन्धता लोके तदेव प्रकटीकृतम् ।
विरुद्धा विबुधा भूप सेश्वरास्तव चेष्टितैः
मोक्षमार्गप्रभेत्तारस्तव निश्चया लोपकाः ।
स त्वं भूप दृढो भूत्वा घातयस्व सुतं प्रियम्
मोहिन्याः कुरु वाक्यं तु आत्मनः सत्यपालनात्
लुप्ते ऽपि वाक्ये भविता नृपेश पापं समं ब्रह्मवधेन घोरम् ।
तन्तासि लोके शमनस्य भूप यशःप्रणो भविता धरायाम्
वसिष्ठ उवाच
भार्याया वचनं श्रुत्वा राजा रुक्माङ्गदस्तदा ।
संध्यावलीमुवाचेदं मोहिन्याः सन्निधौ नृप
पुत्रहत्या महाहत्या ब्रह्महत्याधिका प्रिये ।
घातयित्वा सुतं लोके का गतिर्म्मे भविष्यति
क्व गतो मन्दरं शैलं क्व प्राप्ता मोहिनी मया ।
धर्माङ्गदविनाशाय देवि कालप्रिया त्वियम्
धर्मज्ञं विनयोपेतं प्रजारञ्जनकारकम् ।
अप्रजं च सुतं हत्वा का गतिर्मे भविष्याति
कुपुत्रस्यापि हननाद्देवि दुःखं भवेत्पितुः
किं पुनर्द्धर्मशीलस्य गुरुसेवाविधायिनः ।
जम्बूद्वीपमिदं भुक्तं मया तु वरवर्णिनि
द्वीपानि सप्त भुक्तानि तनयेन तवाधुना ।
विष्णोरंशो वरारोहे पितुरप्यधिको भवेत्
पुराणेषु वरारोहे कविभिः परिकीर्तितः ।
यो ऽयमत्यधिकः पुत्रो धर्माङ्गद इति क्षितौ
मम वंशस्य चार्वङ्गि किं पुनर्मम मानदः ।
अहो दुःखमनुप्राप्तं पुत्रादप्यधिकं मया
पुनरेव वरारोहे ब्रूहि त्वं वचनैः शुभैः ।
मोहिनीं मोहसंप्राप्तां मम दुःखप्रदायिनीम्
एवमुक्त्वा तु नृपतिः प्रियां सन्ध्यावलीं तदा ।
समीपमागत्य नृपो मोहिनीक्षिदमब्रवीत्
न भोक्ष्ये वासरे विष्णोर्न हिंस्ये तनयं शुभे ।
आत्मानं दारयिष्यामि देवीं सन्ध्यावलीं तथा
अन्यद्वा दारुणं कर्म करोमि तव शासनात् ।
दुष्टाग्रहमिमं सुभ्रु परित्यज सुतं प्रति
किं फलं भविता तुभ्यं हत्वा धर्माङ्गदं सुतम् ।
भोजयित्वा दिने विष्णोः को लाभो भविता वद
दासो ऽस्मि तव भृत्यो ऽस्मि वशगो ऽस्मि वरानने ।
अन्यं याचस्व सुभगे वरं त्वां शरणं गतः
रक्ताशोकसमानाभ्यां तव चार्वङ्गिसर्वशः ।
अन्यत्प्रयोजनं किञ्चित्कर्त्तास्मि वशगस्तव
प्रसादं कुरु मे देवि पुत्रभिक्षां प्रयच्छ मे ।
दुर्लभो गुणवान्पुत्रो दुर्लभो हरिवासरः
दुर्लभः जाह्नवीतोयं दुर्लभा जननी क्षितौ ।
दुर्लभं हि कुले जन्म दुर्लभा वंशजा प्रिया
दुर्लभं काञ्चनं दानं दुर्लभं हरिपूजनम् ।
दुर्लभा वैष्णवी दीक्षा दुर्लभः स्मृतिसंग्रहः
दुर्लभः शौकरे वासो दुर्लभं हरिचिन्तनम् ।
दुर्लभो जागरो विष्णोर्दुर्लभा ह्यात्मसत्क्रिया
दुर्लभा पुत्रसंप्राप्तिर्दुर्लभं पौष्करं जलम् ।
दुर्लभः शिष्टसंसर्गो दुर्लभा भक्तिरुच्यते
दुर्लभं कपिलादानं दुर्लभं नीलमोक्षणम् ।
कृतं श्राद्धं त्रयोदश्यां दुर्लभं वरवर्णिनि
दुर्लभा वसुधा चीर्णं व्रतं पातकनाशनम् ।
धेनुस्तिलमयी सुभ्रु दुर्लभा विप्रगामिनी
धात्रीस्नानं वरारोहे दुर्लभो हरिवासरः ।
दुर्लभं पर्वकाले तु स्नानं शीतलवारिणा
माघमासे विशेषेण प्रत्यूषसमये शुभे ।
यथाशास्त्रोदितं कर्म तद्देवि भुवि दुर्लभम्
दुर्लभं कुशलं पथ्यं दुर्लभं चौषधं तथा ।
व्याधेर्विघातकरणं दुर्लभं शास्त्रमार्गतः
दुर्लभं स्मरणं विष्णोर्मरणे वरवर्णिनि ।
एवं वचो वरारोहे कुरु मे धर्मरक्षकम्
किं वधेनेवै चार्वङ्गि प्रसादं कर्तुमर्हसि ।
सेविता विषयाः सम्यक्कृतं राज्यमकण्टकम्
मया मूर्घ्नि पदं दत्तं देवगोविप्ररक्षिणाम् ।
अदृष्टविषयं पुत्रं नाहं हिंस्ये कदाचन
स्वहस्तेनेह चार्वङ्गि किं नु पापमतः परम् ।
मोहिन्युवाच
धर्माङ्गदो न मे शत्रुर्नाहं हन्मि सुतं तव
पूर्वमेव मया प्रोक्तं भुङ्क्ष्वत्वं हरिवासरे ।
वसुधां स्वेच्छया राजंस्त्वं शाधि बहुवत्सरम्
नाहं व्यापादये पुत्रमर्थसिद्धिस्तु भोजने ।
मम भूमिपते कार्यं न पुत्रनिधने तव
यदि पुत्रः प्रियो राजन्भुज्यतां हरिवासरे ।
किं विलापैर्महीपाल एतैर्द्धर्मबहिष्कृतैः
सत्यं संरक्ष यत्नेन कुरुष्व वचनं मम ।
एवं ब्रुवाणां तां राजन्मोहिनीं तनुमध्यमाम्
धर्माङ्गदः प्रत्युवाच दृष्ट्वा नत्वाग्रतः स्थितः ।
एतदेव गृहाण त्वं मा शङ्कां कुरु भामिनि
गृहीत्वा निर्मलं खङ्गं विन्यस्य नृपतेः पुरः ।
आत्मानं च प्रत्युवाच सत्यधर्मव्यवस्थितः
न विलंबः पितः कार्यस्त्वया मम निपातने ।
मन्मातुर्वचनं सत्यं कुरु भूप प्रतिश्रुतम्
आत्मा रक्ष्यो धनैर्दारैरथवापि निजात्मजैः ।
अपत्यं धर्मकामार्थं श्रेयस्कामस्य भूपतेः
त्वदर्थे मरणं मह्यमक्षय्य गतिदायकम् ।
तवापि निर्मना लोकाः स्ववाक्यपरिपालनात्
परित्यज्य परं दुःखं पुत्रव्यापादनोद्भवम् ।
देहत्यागे ममारंभो नरदेहे भविष्यति
सर्वामयविनिर्मुक्ते शतक्रतुसमे विभो ।
पितुरर्थे हता ये तु मातुरर्थे हतास्तथा
गवार्थे ब्राह्यणार्थे वा प्रमदार्थे महीपते ।
भूम्यर्थे पार्थिवार्थे वा देवतार्थे तथैव च
बालार्थे विकलार्थे च यान्ति लोकान्सुभास्वरान् ।
तदलं परितापेन जहि मां त्वं वरासिना
सत्यं पालय राजेन्द्र मा भुङ्क्ष्व हरिवासरे ।
धर्मार्थे तनयं हन्याद्भार्यां वापि महीपते
श्रूयते वेदवाक्येषु पुत्रं हन्यान्मखस्थितः ।
अश्वमेघे मखवरे न दोषो जायते नृप
यद्ब्रवीति महीपाल मोहिनी जननी मम ।
तत्त्वया ह्यविचारेण कर्त्तव्यं वचनं ध्रुवम्
प्रसीद राजेन्द्र कुरुष्व वाक्यं मयेरितं चात्मवधाय सत्यम् ।
विमोचयेथा नृपते सुघोराद्वाक्यानृतान्मोहिनिहस्तयोगात्
वधेन ते भूमिपते सुतस्य यशः प्रकाशं गमयिष्यते च ।
यशः प्काशाद्भविता हि कीर्तिस्तथाक्षया तात न संशयो ऽत्र
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0