नारद पुराण · अध्याय 2.32
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्याने माघमाहात्म्यं नामैकत्रिंशो ऽध्यायः
वसिष्ठ उवाच
संध्यावलीवचः श्रुत्वा मोहिनी दुहिता विधेः ।
उवाच तत्परा स्वीये कार्ये मोहकरण्डिका
यद्येवं त्वं विजानासि धर्माधर्मगतिं शुभे ।
भर्तुरर्थे प्रदात्री च धनजीवितयोरपि
तदाहं याचये वित्तं जीवितादधिकं शुभे ।
देहि पुत्रशिरोः मह्यं यदिष्टं हृदयाधिकम्
यदि नो भोजनं कुर्यात्संप्राप्ते हरिवासरे ।
तदा स्वहस्ते संगृह्य खड्गं राजा पतिस्तव
धर्माङ्गदशिरश्चारु चन्द्रबिंबोपमं शुभम् ।
अजातश्मश्रुकं चैव कुण्डलाभ्यां विभूषितम्
छित्वा शीघ्रं पातयतु ममोत्संगे सुलोचने ।
एतद्वा कुरुतद्भद्रे यदान्नं न भुनक्ति च
दिने माधवदेवस्य पापसंघविनाशने ।
तच्छ्रुत्वा वचनं तस्या मोहिन्याः कटुकाक्षरम्
प्रचकंपे क्षणं देवी शीतार्ता कदली यथा ।
संध्यावली ततो धैर्यमास्थाय वरवार्णिनी
उवाच मोहिनीं वाक्यं सुमुखी प्रहसंत्यपि ।
श्रूयन्ते हि पुराणेषु गाथाः सुभ्रु समीरिताः
द्वादशी प्रति संबद्धाः स्वर्गमोक्षप्रदायिकाः ।
धनं त्यजेत्त्यजेद्दाराञ्जीवितं च गृहं त्यजेत्
त्यजेद्देशं तथा भूपं स्वर्गं मित्रं गुरुं त्यजेत् ।
त्यजेत्तीर्थं त्यजेद्धर्मं त्यजेदत्यन्तसुप्रियम्
त्यजेद्योगं त्यजेद्दानं ज्ञानं पुण्यक्रिया त्यजेत् ।
तपस्त्यजेत्त्यजेद्विद्यां सिद्धिं मोक्षं त्यजेच्छुभे
न त्यजेद्द्वादगशीं पुण्यां पक्षयोरुभयोरपि ।
इह संबन्धिनः सर्वे पुत्रभ्रातृसुहृत्प्रियाः
ऐहिकामुष्मिके देवि साधनी द्वादशी स्मृता ।
द्वादश्यास्तु प्रभावेण सर्वं क्षेमं भविष्यति
दापये तव तुष्ट्यर्थं धर्माङ्गदशिरः शुभे ।
विश्वासं कुरु मे वाक्ये सुखिनी भव शोभने
इहार्थं श्रूयते भद्रे इतिहासः पुरातनः ।
कथयिष्यामि ते भद्रे सावधाना श्रुणुष्व मे
आसीद्विरोचनः पूर्वं दैत्यो धर्मपरायणः ।
तस्य भार्या विशालाक्षी द्विजपूजनतत्परा
नित्यमेकमृषिं प्रातः पूजयित्वा यथाविधि ।
पादोदकं तस्य सुभ्रु भक्त्या पिबति हृष्टधीः
प्राह्लादिशङ्किता देवा आसन्पूर्वं मृते सति ।
हिरण्यकशिपौ राज्यं शासति ह्युग्रतेजसि
प्राह्लादौ ह्लादसंयुक्ते चेरुर्व्यग्रा महीतले ।
एकदा शक्रमुख्यास्ते देवाः समन्त्र्य वाक्पतिम्
प्रोचुः किं कार्यमधुनास्माभिः शत्रु प्रतापितैः ।
तच्छ्रुत्वा वचनं तेषां देवानां गुरुरब्रवीत्
विष्णुर्विज्ञापनीयो ऽद्य दुःखं प्राप्तैः सुरव्रजैः ।
तच्छ्रुत्वा भाषितं तस्य गुरोरमिततेजसः
विरोचनप्राणहत्यै जग्मुर्वैकुण्ठमन्तिके ।
तत्र गत्वा सुरश्रेष्ठं वैकुण्ठं तुष्टुवुः स्तवैः
देवा ऊचुः
नमो देवाधिदेवाय विष्णवे ऽमिततेजसे ।
भक्तविघ्नविनाशाय वैकुण्ठाय नमो नमः
हरये ऽद्भुतसिंहाय वामनाय महात्मने ।
क्रोडरूपाय मत्स्याय प्रलयाब्धिनिवासिने
कूर्माय मन्दरधृते भार्गवायाब्धिशायिने ।
रामायाखिलनाथाय विश्वेशाय च साक्षिणे
दत्तात्रेयाय शुद्धाय कपिलायार्तिहारिणे ।
यज्ञाय धृतधर्माय सनकादिस्वरूपिणे
ध्रुवस्य वरदात्रे च पृथवे भूरिकर्मणे ।
ऋषभाय विशुद्धाय हयशीर्षभृतात्मने
हंसायागमरूपायामृतकुम्भविधारिणे ।
कृष्णांय वासुदेवाय संकर्षणवपुर्धृते
प्रद्युम्नायानिरुद्धाय ब्रह्मणे शङ्कराय च ।
कुमाराय गणेशाय नन्दिने भृङ्गिणे नमः
गन्धमादनवासाय नरनारायणाय च ।
जगन्नाथाय नाथाय नमो रामेश्वराय च
द्वारकावासिने चैव तुलसी वनवासिने ।
नमः कमलनाभाय नमस्ते पङ्कजाङ्घ्रये
नमः कमलहस्ताय कमलाक्षाय ते नमः ।
कमलाप्रतिपालाय केशवाय नमो नमः
नमो भास्कररूपाय शशिरूपधराय च ।
लोकपालस्वरूपाय प्रजापतिवपुर्धृते
भूतग्रामस्वरूपाय जीवरूपाय तेजसे ।
जयाय जयिने नेत्रे नियमाय क्रियात्मने
निर्गुणाय निरीहाय नीतिज्ञायाक्रियात्मने ।
बुद्धाय कल्किरूपाय क्षेत्रज्ञायाक्षराय च
गोविन्दाय जगद्भर्त्रे ऽनन्तायाद्याय शार्ङ्गिणे ।
शङ्खिने गदिने चैव नमश्चक्रधराय च
खड्गिने शूलिने चैव सर्वशस्त्रास्त्रघातिने ।
शरण्याय वरेण्याय पराय परमात्मने
हृषीकेशाय विश्वाय विश्वरूपाय ते नमः ।
कालनाभाय कालाय शशिसूर्य्यदृशे नमः ।
पूर्णाय परिसेव्याय परात्परतराय च
जगत्कर्त्रे जगद्भर्त्रे जगद्धात्रेंऽतकाय च ।
मोहिने क्षोभिने कामरूपिणे ऽजाय सूरिणे
भगवंस्तव संप्राप्ताः शरणं दैत्यतापिताः ।
तद्विधत्स्वाखिलाधार यथा हि सुखिनो वयम्
पुत्रमित्रकलत्रादिसंयुता विहरामहे ।
तच्छ्रुत्वा स्तवनं तेषां वैकुण्ठः प्रीतमानसः
प्रददौ दर्शनं तेषां दैत्यसं संतापितात्मनाम् ।
ते दृष्ट्वा देवदेवेशं वैकुण्ठं स्निग्धमानसम्
विरोचनवधायाशु प्रार्थयामासुरादरात् ।
तच्छ्रुत्वा शक्रमुख्यानां कार्यं कार्यविदां वरः
समाश्वास्य सुरान्प्रीत्या विससर्ज मुदान्वितान् ।
गतेषु देववर्गेषु सर्वोपायविदांवरः
वृद्धब्राह्मणरूपेण विरोचनगृहं ययौ ।
द्विजपूजनकाले तु संप्राप्तः कार्यसाधकः
तं तु दृष्ट्वा विशालाक्षी ब्राह्मणं हृष्टमानसा ।
अपूर्वं भक्तिभावेन ददौ सत्कृत्य चासनम्
सो ऽनङ्गीकृत्य तद्दत्तमासनं प्राह तां शुभे ।
नाहं समाददे देवि त्वद्दत्तं परमासनम्
शृणु मे कार्यमतुलं यदर्थमहमागतः ।
यन्मे मनोगतं कार्यं तद्विज्ञाय च मानिनि
योंऽगीकरोति तत्पूजां ग्रहीष्यामि वरानने ।
तच्छ्रुत्वा वृद्धविप्रस्य वाक्यं वाक्यविशारदा
मायया मोहिता विष्णोः स्त्रीत्वाच्चाहातिहर्षिता ।
विशालाक्ष्युवाच
यत्ते मनोगतं विप्र तद्दास्यामि गृहाणमे
आसनं पादसलिलं देहि मे वाञ्छितार्थदम् ।
इत्युक्तः स द्विजः प्राह न प्रत्येमि स्त्रिया वचः
तव भर्ता यदि वदेत्तदा मे प्रत्ययो भवेत् ।
तदाकर्ण्य द्विजेनोक्तं विरोचनगृहेश्वरी
पतिमाकारयामास तत्रैव द्विजसन्निधौ ।
स प्राप्तो दूतवाक्येन प्राह्लादिर्हृष्टमानसः
अन्तःपुरं यत्र भार्या विशालाक्षी समास्थिता ।
तमागतं समालोक्य पतिं धर्मपरायणा
उत्थाय नत्वा विप्राग्र्यमासनं पुनरर्पयत् ।
यदा तु जगृहे नैव दत्तमासनमादरात्
राजानं कथयामास दैत्यानां पतिमात्मनः ।
तद्दृत्तान्तमुपाज्ञाय दैत्यराट् स विरोचनः
भार्यास्नेहेन मुग्धात्मा तत्तदाङ्गीचकार ह ।
अङ्गीकृते तु दैत्येन तद्विज्ञाय च मानसम्
उवाच ब्राह्मणो हृष्टः स्वमायुर्मम कल्पय ।
ततस्तु दंपती तत्र मुग्धौ स्वकृतया शुचा
मुहूर्तं ध्यानमास्थाय करौ बद्धोचतुर्द्विजम् ।
गृहाण जीवितं विप्र देहि पादोदकं मम
त्वयोक्तं वचनं सत्यं कुर्वः प्रीतिमवाप्नुहि ।
ततस्तु विप्रः प्रोतात्मा तदङ्गीकृत्य चासनम्
पादोदकं ददौ तस्यै भक्त्या प्रीतो जनार्दनः ।
प्रक्षाल्य पादौ विप्रस्य विशालाक्षी मुदान्विता
पत्या सह दधौ मूर्ध्नि अपः पादावनेजनीः ।
ततस्तु सहसा सुभ्रु दंपती दिव्यरूपिणौ
विमानवरमारुह्य जग्मतुर्वैष्णवं पदम् ।
ततः प्रसन्नो भगवान् देवशल्यं विमोच्य सः
ययौ वैकुण्ठभवनं सर्वैर्देवगणैः स्तुतः ।
एवं मयापि दातव्यं तव देवि प्रतिश्रुतम्
न सत्याच्चालये देवि पतिं रुक्माङ्गदाभिधम् ।
सत्तयमेव मनुष्याणां गतिदं परिकीर्तितम्
सत्याच्च्चुतं मनुष्यं हि श्वपाकादधमं विदुः
इत्येवमुक्त्वा कनकावदाता सा मोहिनीं पङ्कजजन्मजाताम् ।
जग्राह भर्तुश्चरणौ सुताम्नौ रक्ताङ्गुली पाणियुगेन सुभ्रूः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0