नारद पुराण · अध्याय 2.28
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नाम सप्तविंशो ऽध्यायः
काष्ठीलोवाच
राक्षसं धावमानं तु कालान्तकयमोपमम् ।
दृष्ट्वा सा राक्षसी प्राह भर्तारं मम शङ्किता
प्रक्षिपस्वानलप्रख्यां शक्तिं हेमविभूषिताम् ।
ममायं पञ्चतां यातु दिगंबररिपुप्रिय
तस्या वाक्यान्मम पतिः पौरुषे तु व्यवस्थितः ।
मुमोच विपुलां शक्तिं रक्षोवक्षस्थल प्रति
ज्वलन्ती ज्वलनप्रख्या द्योतयन्ती दिशो दश ।
दिव्यांशुतीक्ष्ण वक्त्राता किङ्किणीशतनादिता
रक्तचन्दनलिप्ताङ्गी रक्तवस्त्रोपशोभिता ।
हृदि तस्य निपत्यासौ शक्तिर्विप्रकरच्युता
कृत्वा भस्मावशेषं तु राक्षसं गगनं ययौ ।
पातयित्वा स्वभर्तारं विप्रहस्तेन राक्षसी
कृतकृत्यमिवात्मानं मेने हृष्टतनूरुहा ।
अथोवाच द्विजं हृष्टा राक्षसी शुभलोचनम्
एहि कान्त गुहां रम्यां प्रविश त्वं यदृच्छया ।
भुङ्क्ष्व भोगान्मया सार्द्धं ये दिव्या ये च मानुषाः
तथेति प्राणनाथो मे प्राहहृष्टवपुस्तदा ।
ततः सादाय मे कान्तं स्वां प्रविष्टा गुहां मुदा
असंवीक्ष्यैव तद्भस्म भर्तृदेहसमुद्भवम् ।
कुचाभ्यामुन्नताभ्यां सा मद्भर्तारमपीडयत्
दर्शयामास तां तन्वीं कुमारीं शयने स्थिताम् ।
इयं तेनासितापाङ्गी बिम्बोष्ठी काञ्चनप्रभा
भार्यार्थे समुपानीता वाराणस्या द्विजोत्तम ।
यस्याः सीमां न लङ्घन्ति पातकानि ह्यशेषतः
शक्तिक्षेत्रं च तां प्राहुः पुण्यं पापक्षयङ्करम् ।
या गृहं त्रिपुरारेश्च पञ्चगव्यूतिसंस्थिता
यस्यां मृताः पुनर्मर्त्या गर्भवासं विशन्ति न ।
स त्वमस्या गृहं पित्र्यं पुनर्नय सुलोचनाम्
इमानि तव रत्नानि शयनान्यासनानि च ।
मया सह समस्तानि विक्रीणीहि निजेच्छया
त्वदर्थे राक्षसो घोरो मया ब्रह्मन्निषूदितः ।
मुग्धया तव रूपेण प्रेषितो यमसादनम्
तस्मान्ममोपिरि विभो कृत्वा विश्वासमात्मना ।
भजस्व मां विशालाक्ष भक्तां वै कामरूपिणीम्
एतच्छ्रुत्वा तु वचनं भर्ता मे चारुलोचने ।
राक्षस्याः कामतप्तायाः कुमार्याः सन्निधौ शुभे
उवाच राक्षसीं तां तु सशङ्को मधुरं वचः ।
सुभगे नीतिशास्त्रेषु विश्वस्तव्या न योषितः
कौमारं या पतिं हन्ति सा कथं मां न हिंसति ।
मत्तो रूपाधिकं मत्वा परं पुरुषलंपटा
सो ऽहं विश्वासभावेन विश्वस्तस्ते वरानने
अद्य वाथ परेद्युर्वा पक्षे मासे ऽथ वत्सरे ।
व्यापादय यथेच्छं वा त्वां प्रपन्नो ऽस्मि भामिनि
एवमेव त्वया कार्यं नाद्य चोपकृतं तव ।
आत्मा ते सर्वथा देयः प्रतीकारस्य हेतवे
मदर्थे निहतो भर्ता त्वया निःशङ्कया यतः ।
ततो ऽहं नोत्तरं वच्मि परं किञ्चित्सुलोचने
तच्छ्रुत्वा वचनं तस्य मद्भर्तुः साब्रवीदिदम् ।
विश्वस्तहिंसनं ब्रह्मन् ब्रह्महत्या समं भवेत्
यद्येवं राक्षसीं क्रूरां मन्यसे पतिघातिनीम् ।
पतिं तथापि गर्हेयं विश्वस्तं घातये कथम्
सूक्ष्मा हि धर्मस्य गतिर्न ज्ञायेत कथञ्चन ।
केनापि कुत्रचिद्देवदैत्यराक्षसकादिना ।
केचिन्मनुष्याः पटवो धर्मसूक्ष्मत्वचिन्तने
ये ऽनित्येन शरीरेण नैष्कर्म्यं साधयन्त्युत ।
श्रूयते च पुराणेषु किञ्चिदत्र निगद्यते
धर्मस्यैवानुकूल्येन विष्णुना प्रभविष्णुना ।
दशावतारग्रहणे दुःखं प्राप्तमनेकधा
क्व सीतार्थं श्रीनिवासो रामो लक्ष्मणसंयुतः ।
विलापं कुरुते नागपाशबन्धादिकर्मसु
क्व देवदेवो वसुदेवसूनुर्विज्ञानरूपो निखलप्रपञ्ची ।
हा कष्टमित्यस्रदृगादिचेष्टः पार्थोग्रसनादिकभृत्यकृत्यः
ईशस्य कृत्यं द्विज दुर्विभाव्यं धर्मानुकूल्येन समास्थितस्य ।
व्यासः स्वयं वेदविभागकर्त्ता पाराशरिस्तत्त्वदृगिज्यमूर्तिः ।
कन्यात्वविध्वसकवीर्यजन्मा कानीनसंज्ञो ऽनुजदारगामी
परिवेत्ता च दिधिषूः शन्तनुः स्वःसरित्पत्तिः ।
दिधिषू तनयः साक्षाद्वसुः स्त्रीवादमृत्युभाक्
ये गोलकसुताः कुण्डाः पाण्डवाः समयोनिगाः ।
तेषां संकीर्तनं पुण्यं पवित्रं पापनाशनम्
यं ध्यायन्ति स्मरन्त्यद्धा योगमूर्तिः सनातनः
विष्णुर्वेश्यासमासक्तः प्रह्लादाद्युपदेशकृत् ।
श्रीनृसिंहो ऽसुरध्वंसी देवदेवाधिदैवतम्
संसारवासनाध्वंसी देवदेवाधिदैवतम् ।
संसारवासनाध्वंसी स्वर्णाक्षभवनस्थितिः
जामदग्न्यः स्वयं सिद्धस्तपसा दग्धकिल्बिषः ।
ईश्वरः क्षत्रसंहारभ्रूणहत्यादिकर्मकृत्
स्वयमेवर्षभो योगी लोकशिक्षापरो द्विजः ।
लोकग्लानिकरो जातः कुर्वन्धर्मानुरोधतः
नारदो नारदो भूयो भूयो भूयो ऽपि नारदः ।
नारायणपरो नारो नरो नरहितो ऽमरः
गौतमो गौतमो विप्र गोपचेष्टापरायणः ।
वेदबाह्यार्थसंयुक्तशास्त्री वेदोपकार कृत्
वसुष्ठश्चोर्वशीजातो ऽगस्त्यो ऽपि स्वयमीश्वरौ ।
येन लोकोपकारार्थं वासिष्ठं शास्त्रमुत्तमम्
कृतं यस्मिन्पुराणानि वेदाः साम्यत्वमागताः ।
यः स्वयं रामचन्द्रस्य गुरुः सर्वेश्वरस्य च
स कथं गाधिजाशप्तस्तिर्यग्योनिमुपागमत् ।
यो दमित्वा विभुर्विन्ध्यं वातापिं सागरं स्थितः
स कथं मृतकादाता दुष्करं समुपासते ।
यो विधिः कर्मसाक्ष्यादिवन्द्यो मान्यः पितामहः
मोहिनीमोहितो देहमुत्ससर्ज कथं स च ।
यः शिवः शिवदः साक्षात्प्रकृतीशः परात्परः
स कथं देवपत्नीगः श्मशानाशुभचेष्टितः ।
तस्माद्द्विज सदाचारो निषेव्यो विधिना विधिः
तमहंभावनायुक्तो नो हेयाद्यो विदां वरः ।
स शान्तिमाप्नुयादग्र्यां धम्यामुभयसंस्थिताम्
आपवर्ग्यः स्मृतो धर्मो धनं धर्मैकसाधनम् ।
तन्मया साधितो धर्मः सर्वोत्तमधनात्मना
शृणु विप्रात्र धर्मस्य गतिं सूक्ष्मां वदाम्यहम् ।
यदा समागतो भर्ता मम कन्यां समाहरन्
त्वां पश्यन् निजकर्मस्थं को ऽपि दोषो न तस्य वै ।
मया पृष्टः कथं नाम कन्येयं समुपाहृता
तदा तेन मृषा वाक्यमुक्तं मद्भक्षणार्थकम् ।
तन्निशम्याह मां बद्धा स्वयं चास्थानि दर्शनात्
ये वदन्ति च दांपत्ये भार्या मोक्षविरोधिनी ।
न ते तत्त्वदृशो ज्ञेया न सा भार्या विरोधिनी
भार्या समुद्धरेत्पापात्पतन्तं निरये पतिम् ।
सा भार्यान्या कर्मवल्लीरूपा संसारदायीनी
पापं किमत्र तन्मत्तः सम्यक्छृणु स्वयं वर ।
अलीकं नैव वक्तव्यं प्राणैः कण्ठगतैरपि
सत्यमेवाचरेत्सत्ये साक्षाद्धर्मे व्यवस्थितः ।
सत्ये समास्थितो ब्रह्मा सत्ये सन्तः समास्थिताः
सत्ये समास्थितं विश्वं सर्वदा सचराचरम् ।
सत्यं ब्रूयादिति वचो वेदान्तेषु प्रगीयते
सत्यं ब्रह्मस्वरूपं हि तत्सत्यमभिधीमहि ।
सत्यं तु सर्वदा विप्र मङ्गलं मङ्गलप्रदम्
असत्यमात्मक्षयदं सद्यः प्रत्ययकारकम् ।
स्त्रीषु सत्यं न वक्तव्यं तत्रापि शृणु कारणम्
निधिं स्त्रियै न कथयेदित्यादौ दोषवारणम् ।
उक्तं तद्धर्मजनकं धर्मसूक्ष्मत्वदर्शकम्
कुशा द्विजा जलं वह्निर्वेदा भूकालदिक्सुराः ।
साक्ष्ये यत्र विवाहेषु दांपत्यं तदुदीरितम्
समङ्गीकरणं कर्म विवाहे तु विधीयते ।
स्त्रीपुंसोर्द्विजसंस्कारे निर्दिष्टं गुरुशिष्ययोः
तस्मात्परस्परं ज्ञेयो गुरुशिष्यौ वधूवरौ ।
नानयोरणुमात्रो ऽपि भेदो बोध्यो विजानता
तत्तत्कर्मानुरूपत्वात्प्राधान्यस्त्रीनियोज्ययोः ।
क्वचिद्व्यत्ययदोषश्चेद्दैवमेवात्र कारणम्
दैवाधीनं जगत्सर्वं सदेवासुरमानुषम् ।
दैवं तत्पूर्वजन्मानि संचिताः कर्मवासनाः
प्राप्तं निषेवन्नन्योन्यं वर्तते कामकारकम् ।
शुभं वाप्यशुभं विप्र तं तु शान्तं विदुर्बुधाः
शान्तः सत्यसमाचारो जन्तुर्लोकप्रतारकः ।
एवमादि विदित्वा तु नायं भर्ता निपातितः
कन्यात्वध्वंसकात्पापात्पूतो मदुपकारतः ।
गतिं प्रयातः कृतिनां त्वद्धस्तविनिपातितः
मया तूपकृतं पत्ये जानन्त्या धर्मसूक्ष्यताम् ।
त्वत्प्राणरक्षणे धर्मो ममाभूद्द्विजसत्तम
तेन धर्मेण किं प्राप्तमिति सम्यङ्निबोध मे ।
राक्षसीं योनिमापन्ना राक्षसस्य प्रिया ह्यहम्
कामरूपा ब्राह्मणी तु संजाता धर्मकारणात् ।
धर्मकामदुघा धेनुः संतोषो नन्दनं वनम्
विद्या मोक्षकरी प्रोक्ता तृष्णा वैतरणी नदी ।
वैतरण्यां पतन्भर्ता मयोद्धृत इहाभवत्
अस्याश्चोपकृतं विप्र वर्णोत्तमनिवेशनात् ।
इयं त्वसंगिनी भार्या भविष्यति पितुर्गृहे
अहं तवास्याश्च सदा रक्षिका धर्मबोधिनी ।
मत्संगमात्पूर्वमेव या भार्या विप्र ते ऽभवत्
इयं त्वत्संगिनी भार्या भविष्यति वरानना ।
सापि तिर्यग्गतिं प्राप्य मुच्यते मदनुग्रहात्
अहं पुरा भवे ऽभूवं रमणी लोकसुन्दरी ।
कन्दलीति च विख्याता तनयौर्वमुनेर्द्विज
तपः प्रभावात्संजाता यमला मिथुनन्धरा ।
पुरुषो मे सहभवो दमितो धर्मकारणात्
तेनैवौर्वेण शिष्टाहं दत्ता दुर्वाससे भवम् ।
तं पतिं प्राप्य विप्रेन्द्र प्राक्कर्मवशागा ह्यहम्
कलहाभिरता पत्या शप्ता भस्मत्वमागता ।
किञ्चित्पापावशेषेण राक्षसीं योनिमागता
तत्र योनौ मया लब्धो भर्तायं राक्षसाधिपः ।
गोभिलो नाम तेजस्वी स त्वया विनिपातितः
शोपो ऽस्य पूर्ववयसिबभूव द्विजसत्तम ।
कस्याश्चिद्राजकन्यायाः स्त्रियाऽरब्धा मृतिस्तव
अहं तु राक्षसीभावरहिता पूर्वकर्मणः ।
शुभस्य बलमापन्ना जाता तव सहायिनी
दुःखिताहं कृता भर्त्रा कुमार्याहरणात्पुरा ।
भार्याथ पापिना ब्रह्मंस्तेन व्यापादितो मया
विश्वस्तो हि यतस्त्वं वै मम सर्वेण चेतसा ।
ततस्त्वां गोपयिष्यामि सर्वभावेन कामुक
एष ते शपथः सत्यः पञ्चभूतोपसाक्षिकः ।
कृत्स्नस्य पुरुषस्येह सन्निधौ व्याहृतो मया
न करोषि द्विजश्रेष्ठ संविदं ह्यन्यथा क्वचित् ।
मद्वाक्ये भवता स्थेयं सर्वकृत्येषु मानद
एतच्छ्रुत्वा तु वचनं राक्षस्या परिभाषितम् ।
प्रतिपेदे वचः सर्वं यत्कृतं हि तया तदा
ततः सा राक्षसी सर्वं संप्रगृह्य गुहाधनम् ।
करेणुरूपिणी भूत्वा पृष्ठे कृत्वा पतिं मम
तया सह विशालाक्ष्या रत्नावल्या मुदान्विता ।
ययावाकाशमार्गेण काशीमभि मुलोचने
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0