भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.29

2.29.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते काष्ठीलोपाख्यानं नामाष्टाविंशो ऽध्यायः
काष्ठीलोवाच
एवं सा राक्षसी सुभ्रु हस्तिनीरूपधारिणी ।
त्रिभिर्मुहूर्तैः संप्राप्ता काशीं विश्वेशमन्दिरम्

2.29.2

उवाच तां पुरीं प्राप्य भर्तारमसितेक्षणा ।
इयं पापतरोः कान्त कुठारा परिकीर्तिता

2.29.3

षडूर्मिकाञ्चनस्यैषा कान्त प्रोक्ता दुरोदरी ।
कर्मबीजोपशमनी सर्वेषां गतिदायिका

2.29.4

आद्यं हि वैष्णवं स्थानं पुराणाः संप्रचक्षते ।
नावैष्णवे स्थले मुक्तिः सर्वस्य तु कदाचन

2.29.5

माधवस्य पुरी चेयं पूर्वमासीद्द्विजोत्तम ।
मुक्तिदा सर्वजन्तूनां सर्वपापप्रणाशिनी

2.29.6

एकदा शङ्करो देवो द्रष्टुं प्रागात्पितामहम् ।
सर्वलोकैककर्तारं भ्राजमानं स्वतेजसा

2.29.7

गत्वा तत्र महादेवो ब्रह्माणं जगतां गुरुम् ।
नमस्कृत्य स्थितो ह्यग्रे वेदपाठं निशामयन्

2.29.8

चतुर्भिरद्भुतैवक्त्रैश्चतुरो निगमान्मुदा ।
उद्गिरन्तं जगन्नाथं दृष्ट्वा प्रीतो ऽभवत्तदा

2.29.9

अथ तत्पञ्चमं वक्त्रं ब्रह्मणो भूतनायकः ।
प्रगल्भं तमुपालक्ष्य क्षणाज्जातः समत्सरः

2.29.10

स क्रोधजन्मा विप्रेन्द्र तस्य प्रागल्भ्यमक्षमन् ।
चकर्त तन्नखाग्रेण खस्थं वक्त्रं त्रिलोचनः

2.29.11

तच्छिन्नं ब्रह्मणः शीर्षं संलग्नं करपल्लवे ।
वामे निर्धूतमानिशं न निवृत्तं द्विजोत्तम

2.29.12

ब्रह्मा तु दुःखितो भूत्वा तस्थौ स्थाणुं व्यलोकयन् ।
रुद्रो ऽपि लज्जितो भूत्वा निर्ज्जगाम त्वरान्वितः

2.29.13

बहुधा यतमानो ऽपि तच्छिरः क्षेप्तुमातुरः ।
न शशाक परित्यक्तुं तदद्भुतमभून्महत्

2.29.14

चिन्तया व्याकुलो भूत्वा सस्मार गरुडध्वजम् ।
तेन संस्मृतमात्रस्तु शीघ्रमाविरभूच्च सः

2.29.15

तं दृष्ट्वा देवदेवेशं विष्णुं सर्वगतं द्विज ।
ननाम शिरसा नम्रो निष्प्रभो वृषभध्वजः

2.29.16

तं तथातुरमालक्ष्य भीतं ब्रह्मद्रुहं हरिः ।
समाश्वास्या ब्रवीद्वाक्यं तत्तोषपरिकारकम्

2.29.17

शंभो त्वया कृतं पापं यच्चिन्नं ब्रह्मणः शिरः ।
तत्फलं भुङ्क्ष्व सर्ंवज्ञ कियत्कालं कृतं स्वयम्

2.29.18

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।
नाभुक्तं क्षीयते कर्म ह्यपि जन्मशतैः प्रिय

2.29.19

किं करोमि क्व गच्छामि त्वां दृष्ट्वा दुःखितं हरम् ।
प्राणा विकलतां यान्ति मम त्वद्दुःखदर्शनात्

2.29.20

यानि कानि च पापानि महान्ति महतां गते ।
न तानि ब्रह्महत्यायाः समानीति मतिर्मम

2.29.21

यस्त्वं सर्वस्य लोकस्य गुरुर्धर्मोपदेशकः ।
ब्रह्महत्याभिभूतस्तु क्षणं स्थातुं न च क्षमः

2.29.22

एषा घोरतरा हत्या मीनगन्ध्या जरातुरा ।
लेलिहाना सुरेशान ग्रहीतुं त्वानुधावति

2.29.23

तस्मान्नैकत्र भवता स्थेयं द्वादशबत्सरम् ।
अटनीयं हितार्थाय पापनाशाभिकाम्यया

2.29.24

अटित्वा द्वादशाब्दानि तीर्थेषु सकलेषु च ।
प्रक्षालयन्करं वामं भिक्षां गृह्णन्कपालके

2.29.25

शुद्धिं यास्यसि देवेश पापादस्मात्सुदारुणात् ।
इत्युक्तो विष्णुना विप्र स्थाणुः सर्वगतो ऽभवत्

2.29.26

कपालमोचनार्थं हि पाणिं प्रक्षालयन् जले ।
वर्षत्रयं भ्रमित्वा तु प्राप्तो बदरिकाश्रमम्

2.29.27

भिक्षार्थं देवदेवस्य धर्मपुत्रस्य मानद ।
द्वारस्थो देहि भिक्षां मे विष्णो इत्यवदन्मुहुः

2.29.28

ततो नारायणो देवो दृष्ट्वा द्वारि स्थितं हरम् ।
गृहाण भिक्षामित्युक्त्वा प्रददौ दक्षिणं करम्

2.29.29

ततो हरो हरिं दृष्ट्वा भिक्षां दातुं समुद्यतम् ।
प्राहरद्दक्षिणं पाणिं त्रिशूलेन द्विजोत्तम

2.29.30

तत्त्रिशूलक्षताद्धारास्तिस्रो लोकभयङ्कराः ।
प्रस्थद्वादशहस्ताश्च निर्गताश्चित्रवर्णिकाः

2.29.31

एका क्षतजधारा तु कपाले न्यपतत्तदा ।
द्वितीया तन्मुखे प्राप्ता पयस्याथ तृतीयका

2.29.32

जलधारा शिवं प्राप्ता हरस्य हेतुरग्रतः ।
ता धारास्त्रीणि वर्षाणि संसेव्य विधिवद्धरः

2.29.33

किञ्चित्प्रीतो ययौ क्षेत्रं कुरोः पुण्यकरं द्विज ।
तत्र गत्वा हरः स्थाणुर्भूतस्तत्र पपात च

2.29.34

ब्रह्मह्रदे त्रिवर्षाणि मग्रो ब्रह्मह्रदांबुनि ।
वर्षत्रये गते तत्र क्षतार्द्धाङ्गो विनिःसृतः

2.29.35

चिरं तुष्टाव देवेशं विष्णुं सर्वगुहाशयम् ।
ततस्तुष्टो जगन्नाथो वरं तस्मै ददौ तु सः

2.29.36

गच्छ काशीमितो भ्रान्त्वा तीर्थानि बहुशो हर ।
ततो हरिं नमस्कृत्य परीत्य बहुधा तथा

2.29.37

क्रमात्तीर्थाटनं कुर्वन्नविमुक्तपुरीं गतः ।
अविमुक्तस्य सीमायां प्राविशद्वीक्ष्तय धूर्जटिः

2.29.38

नापश्यत्तामनुप्राप्तां ब्रह्महत्यां बहिः स्थिताम् ।
ततो ऽसौ वैष्णवं ज्ञात्वा क्षेत्रं दुरितनाशनम् ।
तुष्टाव प्रयतो भूत्वा माधवं वन्द्यमीश्वरम्

2.29.39

जय जय जगदीश नाथ विष्णो जगदानन्दनिधान वेदवेद्य ।
मधुमथन नृसिंह पीतवासो गरुडाधिष्ठित माधवादिदेव

2.29.40

व्रजरमण रमेश राधिकेश त्रिदशेशाखिलकामपूर कृष्ण ।
सुरवरकरुणार्णवार्तिनाशिन्नलिनाक्षाधिपते विभो परेश

2.29.41

यदुकु लतिलकाब्धिवास शौरे कुधरोद्धारविधानदक्ष धन्विन् ।
कलिकलुषहराङ्घ्रिपद्मयुग्म गृणदात्मप्रद कूर्म कश्यपोत्थ

2.29.42

कुकुपतिवनपावकाखिलेज्यास्रपकालासितवस्त्र बुद्ध कल्किन् ।
भवभयहर भक्तवश्य गोप प्रणत्तोद्धारक पुण्यकीर्तिनाम्

2.29.43

धरणिभरहरासुरारिपूज्य प्रकृतीशेश जगन्निवास राम ।
गुणगणविलसच्चराचरेश त्रिगुणातीत सनातनाग्रपूज्य ।
निजजनपरिरक्षितान्तकारे कमलाङ्घ्रे कमनीय पद्मनाभ ।
कमलकर कुशेशया धिवास प्रियकामोन्मथन त्र्यधीशवन्द्य

2.29.44

अघहर रघुनाथ यादवेश प्रियभूदेव परात्परामरेज्य ।
हलधर दुरितापह प्रणम्य त्रिगुणव्याप्त जगत्त्रिकालदक्ष

2.29.45

दनुजकुलविनाशनैककर्मन्ननघारूढफणीश कंसकाल ।
रविशशिनयन प्रगल्भचेष्ट प्रधुतध्वान्त नवांबुदाभ मेश

2.29.46

मख मखधर मातृबद्धदामन्नवनीतप्रिय बल्लवीगणेश ।
अघबकवृषकेशिपूतनान्त त्रिशिरोवालिदशास्यभेदकारिन्

2.29.47

नरकमुरविनाश बाणदोः कृत्त्रिपुरारीज्य सुदाममित्र सेव्य ।
भवतरणिवहित्रपादपद्म प्रकटैश्वर्य पुराण पूर्णबाहो

2.29.48

बहुजनिसुकृताप्य मङ्गलार्ह श्रुतिवेद्य श्रुतिधाम शान्तशुद्ध ।
तव वरद वरेण्यमङ्घ्रियुग्मं शरणं प्राप्तमघार्दितं प्रपाहि

2.29.49

नहि मम गतिदं पुराणपुंसो ऽन्यदिति प्रार्थनया प्रसीदऽमेद्य

2.29.50

इति स्तुतो जगन्नाथो भक्त्या देवेन शंभुना ।
आविर्बभूव सहसा माधवो भक्तवत्सलः

2.29.51

तं दृष्ट्वा दण्डवद्भूमौ निपपात हरो हरिम् ।
पुनरुत्थाय विप्रेन्द्र ननाम विधृताञ्जलिः

2.29.52

तमुवाच हृषीकेशः प्रणतं भूतनायकम् ।
वरं वृणु प्रदास्ये ऽहं संतुष्टः स्तोत्रतस्तव

2.29.53

तच्छ्रुत्वा भगवद्वाक्यं भूतेशो ब्रह्यहत्यया ।
पीडितात्मा जगादेदं भुक्तिमुक्तिप्रदं हरिम्

2.29.54

इच्छामि वसितुं क्षेत्रे तव चक्रगदाधर ।
त्वत्क्षेत्रसीमाबाह्यस्था ब्रह्महत्या यदीक्ष्यते

2.29.55

क्षेत्रदानेन कारुण्यं कुरु मे गरुडध्वज ।
मम निर्गमने ब्रह्महत्या मां पुनरेष्यति

2.29.56

त्वत्क्षेत्रे संस्थितो ऽहं तु पूजां प्राप्स्ये जगत्त्रये ।
इत्युक्त्वा ह्यभवत्तूष्णीं देवदेवं वृषध्वजः

2.29.57

तथेति प्रतिपेदे च क्षीरसागरजाप्रियः ।
ततः प्रभृति विप्रेन्द्र शैवं क्षेत्रं निगद्यते

2.29.58

क्षेत्रं तु केशवस्येदं पुराणं कवयो विदुः ।
कृपया संपरीतस्य माधवस्य द्विजोत्तम

2.29.59

नेत्राभ्यां निर्गतं वारि तेन बिन्दुसरो ऽभवत् ।
माधवस्याज्ञया तत्र सस्नौ देवो वृषध्वजः

2.29.60

स्नातमात्रे हरे तत्तु कपालं पाणितो ऽपतत् ।
कपालमोचनं नाम तत्तीर्थं ख्यातिमागतम्

2.29.61

बिन्दुमाधवनामासौ दत्वा स्वं धाम शूलिने ।
भक्तिभावेन शंभुस्तु निबद्धस्तत्र संस्थितः

2.29.62

यं तु ब्रह्मादयो देवाः स्वःस्थाः पश्यति सर्वदा ।
सूर्यायुतसमप्रख्य दिगंबरनिषेवितम्

2.29.63

विघ्नानि शूलिना कान्त कृतान्यस्य निषेवणे ।
यैर्विघ्नैरभिभूतास्तु स्तुत्वा विष्णुं शिवार्चकाः

2.29.64

सर्वे लोकाः स्थिता ह्यत्र शिवः काशीति चिन्तकाः ।
शिवस्य चिन्तनाद्विप्र शैवाः सर्वे निराकुलाः

2.29.65

प्रयान्ति शिवलोकं वैजरामृत्युविवर्जितम् ।
बहुपुण्ययुताः संतो निवसंत्तयत्र नीरुजः

2.29.66

यज्ञशिष्टाशिनः काशीकान्त ऋद्धिसमन्विताः ।
नात्र स्नानं प्रशंसंति न जपं न सुरार्चनम्

2.29.67

नापि दानं द्विजश्रेष्ठ मुक्त्वैकं देहपातनम् ।
मृत्युं प्रात्युं नरः कामं कृतकृत्यो भवेद्ध्रुवन्

2.29.68

सेयमासादिता विप्रर पुरी प्रासादसंकुला ।
भोगिनीमपि मोक्षाय किं पुनर्व्रतधारिणाम्

2.29.69

निक्षिप्यतामियं बाला काशीशस्येह मन्दिरे ।
वियोजिता तु या पूर्वं तेन दुष्टेन रक्षसा

2.29.70

आत्मनः सुरतार्थाय कुमारी नियमान्विता ।
एष प्रभावो ऽपि हितः क्षेत्रस्यास्य द्विजोत्म

2.29.71

विनश्यन्तीह कर्माणि शुभान्यप्यशुभानि च ।
भूतव्यभविष्याणि ज्ञानाज्ञानकृतानि च

2.29.72

एषा पुरी कर्मविनाशनाय कृष्णेन पूर्वं हि विनिर्मिताभूत् ।
यस्यां मृता दुःखमनन्तमुग्रं भुञ्जन्ति मर्त्या यमयातनां नो

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc