नारद पुराण · अध्याय 2.27
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते षड्वविंशो ऽध्यायः
अदस्तदा ।
आहूय जननीं शीघ्रं नाम्ना संध्यावलीं शुभाम्
सूर्यायुत समप्रख्यां तेजसा रुचिरस्तनाम् ।
पालयन्तीं धरां सर्वां पादविन्यासविक्रमैः
पुत्रस्य वचनात्प्राप्ता तत्क्षणं नृपसन्निधौ ।
श्राविता मोहिनी वाक्यं पितुर्वाक्यं तथैव च
उभयोः संविदं कृत्वा परिसांत्वय्य मोहिनीम् ।
भोजनाय स्थितामेनां नृपस्य हरिवासरे
यथा नो च्यवते सत्याद्यथा भुङ्क्ते न मे पिता ।
तथा विधीयतामेवं कुशलं चोभयोर्भवेत्
तत्पुत्रवचनं श्रुत्वा देवी संध्यावली नृप ।
मोहिनीं श्लक्ष्णया वाचा प्राह ब्रह्मसुता तदा
माग्रहं कुरु वामोरु कथञ्चिदपि भूपतिः ।
नास्वादयति पापान्न संप्राप्ते हरिवासरे
अनुवर्तय राजान गुरुरेष सनातनः ।
सदा भवति या नारी भर्तुर्वचनकारिणी
तस्याः स्युरक्षयया लोकाः सावित्र्यास्तु यथामलाः ।
यद्यनेन पुरा देवि तव दत्तः करो गिरौ
कामार्तेन विमूढेन तन्न यो ऽग्यं विचिन्तितम् ।
यद्देयं तद्ददात्येष ह्यदेयं प्रार्थयस्व मा
विपत्तिरपि भद्रैव सन्मार्गे संस्थितस्य तु ।
न भुक्तं येन सुभगे शैशवे ऽपि हरेर्दिने
स कथं भोक्ष्यते पुण्ये माधवस्य दिने ऽधुना ।
कामं वरय वामोरुवरमन्यं सुदुर्लभम्
तं ददात्येव भूपालो निवृत्ता भव भोजने ।
मन्यसे यदि मां देवि धर्माङ्गदविरोहिणीम्
अस्मज्जीवितसंयुक्तं राज्यं वरय सुव्रते ।
सप्तद्वीपसमेतं हि ससरिद्वनपर्वतम्
कनिष्ठाया वरिष्ठाहं करिष्ये पादवन्दनम् ।
भर्तुरर्थे विशालाक्षि प्रसीद तनुमध्यमे
वाचा शपथदोषैस्तु संनिरुध्य पतिं हि या ।
अकार्यं कारयेत्पापा सा नारी निरये वसेत्
सा च्युता नरकाद्धोरात्सप्तजन्मानि पञ्च च ।
सूकरीं योनिमाप्नोति चाण्डालीं च ततः परम्
एवं ज्ञात्वा मया देवि विक्रियां पापसंभवाम् ।
निवारितासि वामोरु सखीभावेन सुंदरि
विपक्षस्यापि सद्बुद्धिर्दातव्या धर्ममिच्छता ।
किं पुनः सखिसंस्थायास्तव पद्मनिभानने
संध्या वलीवचः श्रुत्वा मोहिनी मोहकारिणी ।
उवाच कनकाभां तां भर्तुर्ज्येष्ठां प्रियां तदा
माननीयासि मे सुभ्रु करोमि वचनं तव ।
विद्वद्भिर्मुनिभिर्य्यत्तु गीयते नारदादिभिः
यदि तन्नाचरेद्राजा भोजनं हरिवासरे ।
क्रियतामपरं देवि मरणादधिकं तव
ममापि दुःखदंह्येतद्दैवाज्जल्पाम्यहं शुभे ।
कस्येष्टमात्महननं कस्येष्टं विषभक्षणम्
पतनं वा गिरेर्मूर्ध्रः क्रीडा वापि बिलेशयैः ।
व्याघ्रसिंहाभिगमनं समुद्रतरणं तथा
दरुक्तानृतवाक्यं वा परदाराभिमर्शनम् ।
अपथ्यभक्षणं लोके तथाभक्ष्यस्य भक्षणम्
मृगाटनमथाक्षैर्वा क्रीडनं साहसं तथा ।
छेदनं तृणकाष्ठानां लोष्टानामवमर्द्दनम्
हिंसनं सूक्ष्मदेवानां जलपावकखेलनम् ।
दैवाविष्टो वरारोहे नरः सर्वं करोति वै
त्रिवर्गविच्युतं घोरं यशोदेहहरं क्षितौ ।
नरकार्हे नरो देवि करोत्यशुभकर्म तत्
साहं पापा दुराचारा वक्तुकामा सुनिर्घृणम् ।
यादृशेन हि भावेन योनौ शुक्रं समुत्सृजेत्
तादृशेन हि भावेन संतानं संभवेदिति ।
साहं विवादभावेन राज्ञो रुक्माङ्गदस्य हि
जाता जलजजातेन स्त्रीरूपा वरवर्णिनी ।
दुष्टभावा तथा जाता कर्त्री दुष्टं नृपस्य तु
न लग्नं न ग्रहा देवि न होरा पुण्यदर्शिनी ।
तत्कालभावना ग्राह्या तद्भावो जायते सुतः
तेन भावेन जातस्य दाक्षिण्यं नोपपद्यते ।
न च व्रीडा न च स्नेहो न धर्मो देवि विद्यते
जानन्नपि यथायुक्तस्तं भावमनुवर्तते
वक्ष्ये वचः प्राणहरं तवाधुना भर्तुः सलोकस्य वधूजनस्य ।
धर्मापहं वाच्यकरं ममापि कर्तुं न शक्यं मनसापि भीरु
करोषि वाक्यं यदि मामकं हि भवेच्च कीर्तिर्महतीह लोके ।
भर्तुर्यशः स्यात्त्रिदिवे गतिस्ते पुत्रे प्रशंसा मम धिग्विवादः
वसिष्ठ उवाच
मोहिनीवचनं श्रुत्वा देवी संध्यावली विभो ।
धैर्यमालंब्य तां तन्वीं ब्रूहि ब्रूहीत्यचोदयत्
कीदृशं वदसे वाक्यं येन दुःखं भवेन्मम ।
भर्तुर्मे सत्यकरणे न दुःखं जायते क्वचित् ।
आत्मनो निधने वापि पुत्रस्य निधने ऽपि वा ।
भर्तुरर्थे प्रकुर्वन्त्या राज्यनाशे न मे व्यथा
यस्या दुःखी भवेद्भर्ता भार्याया वरवार्णिनी ।
समृद्धायाः सपापायास्तस्याः प्रोक्ता ह्यधोगतिः
सा याति नरकं पापा पूयाख्यं युगसप्ततिम् ।
ततश्छुछुन्दरी स्याच्च सप्त जन्मानि भारते
ततः काकी ततः श्याली गोधा गोत्वेन शुद्ध्यति ।
भर्तुरर्थे तु या वित्तें विद्यमानं न यच्छति
जीवितं वा वरारोहे विष्ठायां सा भवेत्क्रिमिः ।
क्रिमियोनिविनिर्मुक्ता काष्ठीला जायते शुभे
मम कौमारभावे तु मत्पितुः काष्ठपाटकः ।
अग्निप्रज्वालनाथ हि काष्ठं पाटयते चिरम्
सखीभिः सहिता चाहं क्रीडासंसक्तमानसा ।
काष्ठं पाटयतस्तस्य समीपमगमं तदा
तत्र दृष्टा मया सुभ्रु काष्ठीला दारुनिर्गता ।
नवनीतनिभं देहं बिभ्राणा चाञ्जनत्विषम्
कनिष्ठिकाङ्गुलिसमा स्थौल्ये ह्यङ्गुलिमानिका ।
तां दृष्ट्वा पतितां भूमौ हन्तुं ध्वाङ्क्षः समागतः
यावद्गृह्णाति वक्त्रेण काष्ठीलां क्षुधितः स तु ।
तावन्निवारितः सद्यो मया लोष्टेन तत्क्षणात्
सा मुक्ता ताडितेनेत्थं वायसेन वरानने ।
सक्षता तुण्डसंस्पृष्टा न च शक्ता पलायितुम्
ततः सा वेपमाना तु प्राणत्यागमुपागमत् ।
सिक्ता किञ्चिज्जलैनैव ततः स्वास्थ्यमुपागता
तततः सा मानुषीवाचा मामाह वरवर्णिनी ।
संध्यावलीति संबोध्य सखीमध्यसमास्थिताम्
सुमन्तुनाम्नो हि मुनेः सर्वज्ञस्य सुताभवम् ।
पूर्वजन्मनि पत्नी च कैण्डिन्यस्य शुभानने
न्यवसं कान्यकुब्जे तु सुसमृद्धा सुदर्पिता ।
जनन्या बन्धुवर्गस्य पितुरिष्टतमा ह्यहम्
पित्रा दत्ता ततश्चाहं कैण्डिन्याय महात्मने ।
कुलीनाय सरूपाय स्त्रीसंगरहिताय च
शयनीयादिकं दत्तं यौतुकं जनकेन मे ।
श्वशुरेणापि मे दत्तं सुवर्णस्यायुतं पुरा
पितृश्वशूरवित्ताभ्यां परिपूर्णाभवं तदा ।
गोमहिष्यादिसंयुक्ता धनधान्यसमन्विता
इष्टा श्वशुरयोश्वाहं सौशीन्येन जनस्य च ।
कालेन पञ्चतां प्राप्तः श्वशुरो वेदतत्त्ववित्
तं मृतं पतिमादाय श्वश्रूरग्निं विवेश सा ।
ततो भर्ताञ्जलिं दत्वा पित्रोः श्राद्धमथाकरोत्
गते मासद्वये देवि भर्ता मे राजमन्दिरम् ।
गतः कौतुकभावेनहृच्छयेन प्रपीडितः
तत्र वेश्याः सुरूपाढ्या यौवनेन समन्विताः ।
प्रविशत्यां नृपगृहे दृष्टास्तेन द्विजन्मना
तासां मध्यात्तु द्वे गृह्यवित्तदानेन भूरिणा ।
स्वगृहे धारयामास क्रीडार्थं दुर्मतिः पतिः
ताभ्यां वित्तमशेषं तु क्षयं नीतं निषेवणात् ।
वर्षत्रये गते देवि निस्वो जातः पतिर्मम
तता मां प्रार्थयामास देहि मे ऽङ्गविभूषणम् ।
तन्मया नहि दत्तं तु भर्त्रे व्यसनिने तदा
सुभगे सर्वमादाय गताहं मन्दिरं पितुः ।
ततः पितृगृहे वित्तं भृत्यादिकमशेषतः
विक्रीय दत्तं वैश्याभ्यां तच्चापि क्षयमागतम् ।
क्षेत्रधान्यादिकं यच्च सभाण्डं सपरिच्छदम्
स्वल्पमूल्येन विक्रीयगतो नदनदीपतिम् ।
नावमारुह्य मे भर्ता विवेशान्तर्महोदधेः
स गतो दूरमध्वानं पश्यमानो ऽद्भुतानि च ।
शुभे समुद्रजातानि जीवचेष्ठाङ्कितानि च
प्रभञ्जनवशं प्राप्ता सा नौका शतयोजनम् ।
गता विशीर्णतां तत्र मृतास्ते नावमाश्रिताः
मत्पतिर्दैवयोगेन दीर्घ काष्ठं समाश्रितः ।
वायुना नीयमानो ऽसौ प्राचीनेन स्वकर्मणा
आससादाचलं देवि रत्नशृङ्गविभूषितम् ।
बहुनिर् झरणोपेतं बहुपक्षिसमन्वितम्
बहुवृक्षैः समाकीर्णं नानापुष्पफलोपगैः ।
उल्लिखन्तं हि शिखरैः खमध्यं स्वात्मनस्त्रिभिः
तं दृष्ट्वा पर्वतं दिव्यं त्यक्त्वा नौकाष्ठमद्भुतम् ।
आरुरोह मुदायुक्तो वित्ताकाङ्क्षी सुलोचने
विशश्राम मुहूर्तं तु क्षुत्पिपासासमन्वितः ।
तत उत्थाय भक्ष्यार्थं वृक्षांस्तत्र व्यलोकयत्
सुपक्वास्तत्र मृद्वीका दृष्ट्वा भुक्त्वा मुदान्वितः ।
शान्तिं प्राप्तस्ततो ऽपश्यत्सालमेकं सुनिर्मलम्
घनच्छायं मेघनिभं पञ्चाशत्पुरुषोच्छ्रयम् ।
तस्याधस्तात्स सुष्वाप स्वोत्तरीयं प्रसार्य च
मोहिन्या निद्रया चैव संप्रघूर्णितलोचनः ।
तावत्सुप्तो ऽतिखिन्नो ऽसौ यावत्सूर्यो ऽस्ततां गतः
सूर्ये ऽस्तं समनुप्राप्ते समायाते निशामुखे ।
अभ्यगाद्राक्षसो घोरो गर्जमानो यथा घनः
अङ्केनादाय तन्वङ्गीं सीतामिव दशाननः ।
शुभां काशीपतेः पुत्रीं नाम्ना रत्नावलीं शुभाम्
अधौतपादां सुश्रोणीं सौम्यदिक्छीर्षशायिनीम् ।
पतिकामा कुमारी सा नाविन्दत्सदृशं पतिम्
सर्वयोषिद्वरा बाला रुदती निद्रयाकुला ।
पिता तस्याः प्रदाने तु चिन्ताविष्टो ह्यहर्न्निशम्
दीपच्छायाश्रिते तन्वि शयने सा व्यवस्थिता ।
अटमानेन पापेन दृष्टा सा रूपशालिनी
दीपरत्नैः सुखचिते धारयन्ती च कङ्कणे ।
उभयोर्दश रत्नानि निष्के च दशपञ्च च
सीमन्ते सप्त रत्नानि केयूरे ऽष्टौ च पञ्च च ।
एवं रत्नाचितां बालां शातकुम्भसमप्रभाम्
जहार राजभवनात्तां तदा चारुहासिनीम् ।
वायुमार्गं समाश्रित्य क्षणात्प्राप्तः स्वमालयम्
तं पर्वतं स यत्रास्ते पतिर्मेशालमाश्रितः ।
तत्र तस्य गुहां दृष्ट्वा सुवर्णसदृशप्रभाम्
तद्भयस्यासहा तत्र प्रविवेशास्य पश्यतः ।
अनेकैर्मणिविन्यासैः संयुक्तां चित्रमन्दिराम्
नानाद्रव्यसमाकीर्णां शयनासनसंयुताम् ।
भोजनैः पानपात्रैश्च भक्ष्यभोज्यैरनेकधा
प्रविश्य तत्र शय्यायां मुमोचोत्पललोचनाम् ।
रुदतीमतिसंत्रस्तां पीनश्रोणिपयोधराम्
तस्यास्तु रुदितं श्रुत्वा तस्य भार्या हि राक्षसी ।
आजगाम त्वरायुक्ता यत्रासौ राक्षसः स्थितः
तां दृष्ट्वा चारुसर्वाङ्गीं तप्तकाञ्चनसप्रभाम् ।
पप्रच्छ निजभर्तारं क्रुद्धा निर्भर्त्सती सती
किमर्थमाहृता चेयं जीवन्त्यां मयि निर्घृणं ।
अन्यां समीहसे भार्यां नाहं भार्यां भवामि ते
एवं ब्रुवाणां तां भर्ता राक्षसीमसितेक्षणाम् ।
उवाच राक्षसो हर्षात्स्वां प्रियां चारुलोचनाम्
त्वदर्थमाहृतं भक्ष्यं मया कोश्याः शुभानने ।
दैवोपपादितं द्वारि द्वितीयं मम तिष्ठति
शालवृक्षाश्रितः शेते विप्रश्चैको वरानने ।
तमानय त्वरायुक्ता येनाहं भक्ष्यमाचरे
राक्षसस्य वचः श्रुत्वा कुमारी साब्रवीदिदम् ।
मिथ्या राक्षसि भर्ता ते भाषते त्वद्भयादयम्
ज्ञात्वा त्वां जरयोपेतां विरूपामतिजिह्यगाम् ।
सुप्तां पितृगृहे रात्रौ मां समासाद्य कामतः
अनूढां रुदतीं भद्रे भार्यार्थं समुपानयत् ।
इतीरितमुपाकर्ण्य वचनं राजकन्यया
क्रोधयुक्तातिमात्रं वै बभूव क्षिपती वचः ।
तस्याश्च रूपमालोक्य सत्यमेवावधारयत्
चिन्तयामास चाप्येवं भार्यार्थे ह्याहृतेति च ।
अवश्यं मूर्घ्निं कीलं मे रोषयिष्यति राक्षसः
मास्म सीमन्तिनी काचिद्भेवत्सा भुवनत्रये ।
या सापत्न्येन दुःखेन पीड्यमाना हि जीवति
सर्वेषामेव दुःखानां महच्चेदं न संशयः ।
सामान्यद्रव्यभोगादि निष्ठा चैवापरा भवेत्
एवं सा बहु संचिन्त्य भर्तारं वाक्यमब्रवीत् ।
मदीया मम भक्ष्यार्थं त्वयानीता सुलोचना
तं विप्रमानयिष्यामि भक्ष्यार्थं तव सुव्रत ।
ततः स राक्षसः प्राह गच्छगच्छेति सत्वरम्
सृक्किणी स्रवते ऽत्यर्थं तस्य भक्षणकाम्यया ।
ततः सा राक्षसी घोरा श्रुत्वा पतिसमीरितम्
निर्जगाम दुरन्ताशा ददर्श द्विजसत्तमम् ।
रूपयौवनसंयुक्तं विद्यारत्नविभूषितम्
तं दृष्ट्वा मायया भूत्वा सुंदरी षोडशाब्दिका ।
हृच्छयेन समाविष्टा तदन्तिकमुपागमत्
अब्रवीत्सा पृथुश्रोणी तं विप्रं प्रीतिसंयुता ।
कस्त्वं कस्मादिहायतः किमर्थमिह तिष्ठसि
पृच्छामि पतिकामाहं राक्षसी हृच्छयातुरा ।
स्वभर्त्राहं परित्यक्ता त्वां पतिं कर्तुमागता
तच्छ्रुत्वा वचनं तस्या भर्ता मे भयसंयुतः ।
उवाच वचनं प्राज्ञो धैर्यमालंब्य तां शुभे
रक्षोमानुषसंयोगः कथं राक्षसि संभवेत् ।
मानुषास्तु स्मृता भक्ष्या राक्षसानां न संशयः
तच्छ्रुत्वा वचनं सा तु पुनस्तं प्राह सादरम् ।
असंभाव्यं च जगति संभवेद्दैवयोगतः
पुराणे श्रूयते ह्येतद्भविष्यं भारते स्थितम् ।
हिडंबा राक्षसी विप्र भीमभार्या भविष्यति
मानुषोत्पादितः पुत्रो भविष्यति घटोत्कचः ।
अवध्यः सर्वशस्त्राणां शक्त्या मृत्युमवाप्स्यति
तस्माद्विषादं मा विप्रकुरु त्वं दैवयोगतः ।
भार्या तवाहं संजाता दव हि बलवत्तरम्
मर्त्यलोकं गते शक्त्रे वैरोचनिनिरीक्षणे ।
तदन्तरं समासाद्य भर्ता मे घोरराक्षसः
तद्गृहाच्छक्तिमहरद्दीप्तामग्रिशिखामिव ।
सेयं समाश्रिता चात्र शालवृक्षे तु वासवी
अहत्वैकं द्विजश्रेष्ठ नगच्छति पुरन्दरम् ।
यद्वधाय प्रक्षिपेत्तां सो ऽमरो ऽपि विनश्यति
साहमारुह्य शालाग्रं शक्तिमानीय भास्वराम् ।
त्वत्करे संप्रदास्यामि भर्तुर्निधनकाम्यया
यदि त्वमनया शक्त्या न हिंससि निशाचरम् ।
खादयिष्यति दुर्मेधास्त्वां च मां च न सशयः
तव शत्रुर्महानेष ममापि च परन्तप ।
येनाहृता कुमारीह भार्यार्थं मन्दबुद्धिना
सपत्नभावो जनितो मम भर्त्रा दुरात्मना ।
व्यापादिते ऽस्मिन्नुभयोः क्रीडनं संभविष्यति
यद्यन्यथा वदेर्वाक्यं त्वामहं रतिवर्द्धन ।
तदात्मकगृतपुण्यस्य न भवेयं हि भागिनी
या गतिर्ब्रह्महत्यायां कुत्सिता प्राप्यते नरैः ।
तां गतिं हि प्रपद्ये ऽहं यद्येतदनृतं भवेत्
मद्यं हि पिबतो ब्रह्मन् ब्राह्मणस्य दुरात्मनः ।
या गतिर्विहिता घोरा तां गतिं प्राप्नुयाम्यहम्
गुरुदारप्रसक्तस्य जतोः पापनिषेविणः ।
या गतिस्तां द्विजश्रेष्ठ मिथ्या प्रोच्य समाप्नुयाम्
स्वर्णन्यासापहरणे मेदिनीहरणे च या ।
आत्मनो हनने या हि विहिता मुनिभिर्द्विज
गतिस्तामनुगच्छामि यद्येतदनृतं वदे ।
पञ्चम्यां च तथाष्टम्यां यत्पापं मांसभक्षणे
स्त्रीसंगमे तरुच्छेदे यत्पापं शशिनः क्षये ।
यदुच्छिष्टे घृतं भोक्तुर्मैथुनेन दिवा च यत्
वैश्वदेवमकर्तुश्च गृहिणो हि द्विजस्य यत् ।
भिक्षामदातुर्भिक्षुभ्यो विधवाया द्विभोजनात्
तैलं भोक्तुश्च संक्रान्तौ गोभिस्तीर्थं च गच्छतः ।
तथा मृदमनुद्धृत्य स्नातुः परजलाशये
निषिद्धवृक्षजनितं दन्तकाष्ठं च खादतः ।
गामसेवयतो बद्ध्वा पाखण्डपथगामिनः
पितृदेवार्चनं कर्तुः काष्ठग्रावस्थितस्य यत् ।
गोहीनां महिषीं धर्तुर्भिन्नकांस्ये च भुञ्जतः
अधौतभिन्नपारक्यवस्त्रसंवीतकर्मिणः ।
नग्रस्त्रीप्रेक्षणं कर्तुरभक्ष्यस्य च भोजिनः
कथायां श्रीहरेर्विघ्नं कर्तुर्यत्पातकं द्विज ।
तेन पापेन लिप्ये ऽहं यदि वच्मि तवानृतम्
उक्तान्येतानि पापानि यान्यनुक्तान्यपि द्विज ।
सर्वेषां भागिनी चाहं यद्येतदनृतं वदे
एवं संबोधितो देवि भर्ता मे पापया तया ।
तथेति निश्चयं चक्रे भवितव्येन मोहितः
निर्द्रव्यो व्ययसनासक्तो मद्वाक्यकलुषीकृतः ।
उवाच राक्षसीं वाक्यं सर्वंसिद्धिप्रदायकम्
शीघ्रमानय तां शक्तिं करोमि वचनं तव ।
सर्वमेतत्प्रदेयं हि त्वया मे राक्षसे हते
द्रव्याशया प्रविष्टो ऽहं सागरं तिमिसंकुलम् ।
तच्छ्रुत्वा राक्षसी शक्तिं समानीय नगस्थिताम्
ददौ मद्भर्तृसिद्ध्यर्थं विमुञ्चन्तीं महार्चिषम् ।
एतस्मिन्नेव काले तु राक्षसः काममोहितः
गमनायोद्यतः कन्यां सा भीता वाक्यमब्रवीत् ।
कुमारीसेवने रक्षो महापापं विधीयते
छलेनाहं हृता काश्याः सुप्ता पितृगृहात्वया ।
तव दोषो न चेहास्ति भवितव्यं ममेदृशम्
गुहामध्यगतायास्तुको मे त्राता भविष्यति ।
विधियोगाद्भवेद्भर्ता विधियोगाद्भवेत्प्रिया
भवेद्विधिवशाद्विद्या गृहं सौख्यं धनं कुलम् ।
विधिना प्रेर्यमाणस्तु जनः सर्वत्र गच्छति
अवश्यं भविता भर्ता त्वमेव रजनीचर ।
विधैना विहिते मार्गे किं करिष्यति पण्डितः
तस्मादानयत विप्रं शालवृक्षाश्रित त्विह ।
घृतं जलं कुशानग्निं विवाहं विधिना कुरु
विनापि दर्भतोयाग्नीन्न्यथोक्तविधिमतरा ।
ब्राह्मणस्यैव वाक्येन विवाहः सफलो भवेत्
न हतो यदि विप्रस्तु भार्यया तव राक्षस ।
वृत्ते होमस्य कार्ये तु तं भवान् भक्षयिष्यति
एवमुक्ते तु वचने तया वै राजकन्यया ।
विश्वस्तमानसो दर्पान्निर्जगाम स राक्षसः
सत्वरं हृच्छयाविष्टस्तमानेतुं बहिः स्थितः
तस्य निर्गच्छतो देवि क्षुतमासीत्स्वयं किल ।
सव्यं चाप्यस्फुरन्नेत्रं स्ववस्त्रं स्खलितं तथा
अनाहृत्य तु तत्सर्वं निर्गतो ऽसौ दरीमुखात् ।
बिभ्राणां मानुषं रूपं स्वामपश्यन्नितंबिनीम्
घटयन्तीं तु संबन्धं भार्याभर्तृसमुद्भवम् ।
परित्यजामि त्वां पापं राक्षसं क्रूरकर्मिणम्
मानुषीप्रमदासक्तं मच्छरीरस्य दूषकम् ।
तच्छ्रुत्वा दारुणं वाक्यं भार्यया समुदीरितम् ।
ईर्ष्याकोपसमायुक्तस्त्वभ्यधावन्निशाचरः
उत्क्षिप्य बाहू प्रविदार्य वक्त्रं संप्रस्थितो भक्षयितुं स चोभौ ।
कालेन वेगात्पवनो यथैव समुच्चरन्वाक्यमनर्थयुक्तम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0