नारद पुराण · अध्याय 2.25
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीप्रश्नो नाम चतुर्विंशो ऽध्यायः
वसिष्ठ उवाच
तद्वाक्यं ब्राह्मणाः श्रुत्वा मोहिन्या समुदीरितम् ।
तथ्यमित्येवमुक्त्वा तु राजानं वाक्यमब्रुवन्
ब्राह्मणा ऊचुः
यस्त्वया नृपते पुण्यः कृतो ऽयं शपथः किल ।
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि
न कृतः शास्त्रदृष्ट्या तु स्वबुद्ध्यैव प्रकल्पितः ।
साग्रीनां प्राशनं प्रोक्तमुभयोः संध्ययोः किल
होमोच्छिष्टप्रभोक्तारस्त्रयो वर्णाः प्रकीर्तिताः ।
विशेषाद्भूमिपालानां कथं युक्तमुपोषणम्
सर्वदोद्यतशस्त्राणां दुष्टसंयमिनां विभो ।
शास्त्रतो ऽशास्त्रतो वापि यस्त्वया शपथः कृतः
परिपूर्णो भवत्यद्य वाक्येन हि द्विजन्मनाम् ।
व्रतभङ्गो न ते ऽस्तीह भुक्ष्वं विप्रसमन्वितः
परितापो न ते कार्यो विप्रवाक्यं महत्तरम् ।
यो ऽन्यथा मन्यते वाक्यं विप्राणां नृपसत्तम
स याति राक्षसीं योनिं जन्मानि दश पञ्च च ।
तच्छ्रुत्वा वचनं रोद्रं राजा कोपसमन्वितः
उवाच स्फुरमाणौष्टस्तान्विप्रान्श्लक्ष्णया गिरा ।
सर्वेषामेव भूतानां भवन्तो मार्गदर्शिनः
यतीनां विधवानां च श्लोको ऽयं पठ्यते द्विजाः ।
विमार्गगामिनां चैतन्मतं न सात्वतां क्वचित्
यद्भवद्भिः समुद्दिष्टं राज्ञां नोपोषणं स्मृतम् ।
तत्र वाक्यानि शृणुत वैष्णवा चारलक्षणे
न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ ।
एका दश्यां न भोक्तव्यं पक्षयोरुभयोरपि
न पातव्यं हि मद्य तु न हन्तव्यो द्विजः क्वचित् ।
क्रीडेन्नाक्षैस्तु धर्मज्ञो नाश्नीयाद्धरिवासरे
अभक्ष्य भक्षणं पापं परदाराभिमर्शनम् ।
एकादश्यां भोजनं च पतनस्यैव कारणम्
अकार्यकरणं कृत्वा किं जीवेच्छरदां शतम् ।
को हि संचेष्टमानस्तु भुनक्ति हरिवासरे
चतुष्पदेभ्यो ऽपि जनैर्नान्नं देयं हरेर्दिने ।
उत्तराशास्थितैर्विप्रैर्विष्णुधर्मपरायणैः
सो ऽहं कथं करोम्यद्य अभक्ष्यस्य तु भक्षणम् ।
नोपक्षीणशरीरो ऽहं नामयावी द्विजोत्तमाः
स कथं हि व्रतं त्यक्षे विमार्गस्थद्विजोक्तितः ।
धर्मभूषणसंज्ञेन रक्ष्यमाणे धरातले
न च रक्षाविहीनो ऽहं शत्रुः को ऽपिन मे ऽस्ति च ।
एवं ज्ञात्वा द्विजश्रेष्ठा वैष्णवव्रतशालिनः
भवद्भिर्नोचितं वक्तुं प्रतिकूलं व्रतापहम् ।
असंपरीक्ष्य ये दद्युः प्रायश्चित्तं द्विजातयः
तेषामेव हि तत्पापं स्मृतिवैकल्यसम्भवम् ।
देवो वा दानवो वापि गन्धर्वो राक्षसो ऽपि वा
सिद्धो वा ब्राह्मणो वापि पितास्माकं स्वयं वदेत् ।
हरिर्वापि हरो वापि मोहिनीजनको ऽपि वा
दिनकृल्लोकपालो वा नो भोक्ष्ये हरिवासरे ।
यो हि रुक्माङ्गदो राजा विख्यातो भूतले द्विजाः
सत्यप्रतिज्ञां विफलां न कदाचित्करोति हि ।
द्युपतेः क्षीयते तेजो हिमवान्परिवर्त्तते
जलधिः शोषमायाति पावकश्चोष्णतां त्यजेत् ।
तथापि न त्यजे विप्रा व्रतमेकादशीदिने
प्रसिद्धिरेषा भुवनत्रये ऽपि आरट्यते मे पटहेन विप्राः ।
ग्रामेषु देशेषु परेषु वापि ये भुञ्जते रुक्मविभूषणस्य
दण्ड्याश्च वध्याश्च सपुत्रकास्ते न चापि वासो विषये हि तेषाम् ।
हरेर्दिने सर्वमखप्रधाने पापापहे धर्मविवर्द्धने च
मोक्षप्रदे जन्मनिकृन्तनाख्ये तेजो निधौ सर्वजनप्ररूढे ।
एंवविधे प्रोद्गत एव शब्दे यद्यस्मि भोक्ता वृजिनस्य कर्त्ता
अमेध्यलिप्तः पटहो भवेत्तदा संछादितो नीलमयेन वाससा ।
उत्पाद्य कीर्तिं स्वयमेव जतुर्निकृन्तति प्राणभयाच्च पापात्
यस्तस्य वासो निरये युगानां षष्टिर्भवेद्वा क्रिमिदंशसंज्ञे ।
वृथा हि सूता मम सा जनित्री भवेन्निराशा द्विजपितृदेवाः
वैवस्वतो हर्षमुपाश्रयेच्च सलेखको मे व्रतभङ्ग एव ।
किं तेन जातेन दुरात्मना हि ददाति हर्षं रिपुसुंदरीणाम्
कुकर्मणा पापरतिः कुजातिः सर्वस्य नाशी त्वशुचिस्स मूढः ।
न मन्यते वेदपुराणशास्त्रानन्ते पुरीं याति दिनेशसूनोः
कृत्वैव वान्तिं पुनरत्ति तां यस्तद्वत्प्रतिज्ञाव्रतभङ्गकारी ।
वेदा न शास्त्रं न च तत्पुराणं न चापि सन्तः स्मृतयो न च स्युः
ये माधवस्य प्रियकृत्ययोग्ये वदन्ति शुद्धे ऽह्नि भुजिक्रियां तु ।
श्राद्धेन तेनापि न चास्ति तृप्तिः पितुश्च चीर्णेन हरेर्दिने तु
व्रतेन यद्विष्णुपदप्रदेन साकं क्षयाहेन वदन्तु मूढाः
एतच्छ्रुत्वा तु तद्वाक्यं मोहिनी ज्वलितान्तरा ।
कोपसंरक्तनयना भर्तारं पर्यभाषत्
करोषि चेन्न मे वाक्यं धर्मबाह्यो भविष्यसि ।
धर्मबाह्यो हि पुरुषः पांशुना तुल्यतां व्रजेत्
पांशुना पूर्यते गर्तः स गर्तखनको भवेत् ।
त्वया ममार्पितः पाणिर्वराय पृथिवीपते
तामुल्लङ्घ्य प्रतिज्ञां स्वां पालयिष्यासि नो यदि ।
कृतकृत्या तदा यास्ये प्राप्तो धर्मो मया तव
न चाहं ते प्रिया भार्या न च त्वं मे पतिर्नृप ।
उपधानं करिष्यामि स्वकं बाहुं न ते युधि
धिक् त्वां धर्मक्षयकरं स्ववचोलोपकारकम् ।
म्लेच्छेष्वपि न दृश्येत त्वादृशो धर्मलोपकः
सत्याच्चलितमद्यत्वां परित्यक्ष्ये सुपापिनम् ।
एवमुक्त्वा वरारोहा ह्युदतिष्ठत्त्वरान्विता
यथा सती हरं त्यक्त्वा दिव्याभरणभूषिता ।
प्रस्थिता सा तदा तन्वी भूसुरैश्च समन्विता
वरं मद्यस्य संस्पर्शो नास्य संगो नृपस्य वै ।
वरं नीलांबरस्पर्शो नास्य धर्मच्युतस्य हि
एवं हि मोहिनी रुष्टा प्रलपन्ती तदा भृशम् ।
गौतमादिसमायुक्ता निर्जगाम गृहाद्ब्रहिः
हा तात हा जगन्नाथ सृष्टिस्थित्त्यन्तकारक ।
इत्येव शब्दं क्रोशन्ती ब्रह्मणोमानसोद्भवा
एतस्मिन्नेव काले तु वाजिराजं समास्थितः ।
अटित्वा सकलामुर्वीं संप्राप्तो धर्मभूषणः
संमुखो ऽभूज्जनन्यास्तु त्वरायुक्तो विमत्सरः ।
कर्णाभ्यां तस्य शब्दो ऽसौ विश्रुतः पितृवत्सलः
मोहिनीवक्त्रसंभूतो विप्रवाक्योपबृंहितः ।
धर्माङ्गदो धर्ममूर्तिः रुक्मागदसुतस्तदा
अवरुह्य हयात्तूर्णं ययौ तातपदान्तिके ।
पुनरुत्थाय विप्रेन्द्रान्ननाम विहिताञ्जलिः
ततः शीघ्रगतिं दृष्ट्वा मोहिनीं रुष्टमानसाम् ।
आलक्ष्य तरसा मातः प्राह राजन् कृताञ्जलिः
केनावमानिता देवि कथं रुष्टा पितुः प्रिये ।
एतैर्द्विजेन्द्रैः सहिता क्व त्वं संप्रस्थिताधुना
धर्माङ्गदवचः श्रुत्वा मोहिनी वाक्यमब्रवीत् ।
पिता तवानृती पुत्र करो येन वृथा कृतः
यः कर्त्ता सुकृतं भूरि रक्ताशोकाकृतिः स्थितः ।
ध्वजाङ्कुशाङ्कितः श्रीमान्दक्षिणः कनकाङ्गदः
रुक्माङ्गदेन ते पित्रा न चाहं वस्तुमुत्सहे
धर्माङ्गद उवाच
यद्ववीषि वचो देवि तत्कर्त्ताहं न संशयः ।
मा कोपं कुरु मातस्त्वं निवर्त्ततस्व पितुः प्रिये
मोहिन्युवाच
अनेन समयेनाहं त्वत्पित्रा मन्दराचले ।
कृता भार्या शिवः साक्ष्ये स्थितो यत्र सुराधिपः
समयात्स च्युतः सम्यक्पिता ते रुक्मभूपणः ।
न प्रयच्छति मे देयं तस्य वृद्धिं विचिन्तये
न याचे काञ्चनं धान्यं हस्त्यश्वं ग्रामवाससी ।
येन तस्य भवेद्धानिर्न याचे तन्नृपात्मज
येनासौ प्रीणयेद्देहं स्वकीयं देहिनां वर ।
तन्मया प्रार्थितं पुत्र स मोहान्न प्रयच्छति
तस्यैव चोपकाराय शरीरस्य नृपात्मज ।
याचितः सुखहेतोस्तु मया नृपतिसत्तमः
स्थितः सो ऽद्यानृते घोरे सुरापानसमे विभुः
सत्यच्युतं निष्ठुरवाक्यभाषिणं विमुक्तधर्मं त्वनृतं शठं च ।
परित्यजेयं जनकं तवाधमं नैव स्थितिर्मे भविता हि तेन
तच्छ्रुत्वा मोहिनीवाक्यं पुत्रो धर्माङ्गदो ऽब्रवीत् ।
मयि जीवति तातो मे न भवेदनृती क्वचित्
निवर्तस्व वरारोहे करिष्ये ऽहं तवेप्सितम् ।
पित्रा मे नानृतं देवि पूर्वमुक्तं कदाचन
स कथं मयि जाते तु वदिष्यति महीपतिः ।
यस्य सत्ये स्थिता लोकाः सदेवासुरमानुषाः
वैवस्वतगृहं येन कृतं शून्यं हि पापिभिः ।
विजृंभते यस्य कीर्तिर्व्याप्तं ब्रह्माण्डमण्डलम्
स कथं जायते भूपो मिथ्यावचनसंस्थितः ।
अश्रुतं भूपतेर्वाक्यं परोक्षे श्रद्दधे कथम्
ममोपरि दयां कृत्वा निवर्तस्व शुभानने ।
एतद्धर्माङ्गदेनोक्तं वाक्यमाकर्ण्य मोहिनी
न्यवर्तत महीपालपुत्रस्कन्धावलंबिनी ।
यत्र रुक्माङ्गदः शेते मृतकल्पो रविप्रभः
तस्मिन्निवेशयामास शयने काञ्चनान्विते ।
दीपरत्नैः सुप्रकाशे विद्रुमैश्चित्रिते वरे
आखण्डलास्त्रमणिभिः कृतपादे सुकोमले ।
दीर्घविस्तारसंयुक्ते ह्यनौपम्ये मनोहरे
ततः कृताञ्जलिः प्राहपितरं श्लक्ष्णया गिरा ।
तातैषा जननी मे ऽद्य त्वां वदत्यनृती त्विति
कस्मात्त्वमनृती भूप भविष्यसि महीतले ।
सकोषरत्ननिचये गजाश्वरथसंयुते
राज्ये प्रशास्यमाने तु सप्तोदधिसमन्विते ।
प्रदेहि सकलं ह्यस्यै यत्त्या श्रावितं विभो
मयि चापधरे तात को व्यलीकं चरेत्तव ।
देहि शक्रपदं देव्यै जितं विद्धि पुरन्दरम्
वैरिञ्च्यं दुर्ल्लभं यच्च योगिगम्यं निरञ्जनम् ।
तच्चाप्यहं प्रदास्यामि तपसा तोष्य पद्मजम्
समीहते यज्जननी मदीया रसातले वापि धरातले वा ।
त्रिविष्टपे वापि परे पदे वा दास्यामि जित्वा नरदेवदानवान्
अहं हि दासस्तव भूप यस्माद्विक्रीयतां मामथवा तृणाय ।
हस्ते हि पापस्य दिवाप्रकीर्तेर्वत्स्यामि तत्कर्मकरः सुभुक्तः
यद्दुष्करं भूमिपते त्रिलोक्यां नादेयमस्तीह तदिष्टंभावात् ।
तच्चापि राजेन्द्र ददस्व देव्यै मज्जीवितं मज्जननीभवं वा
तेनैव सद्यो नृपनाथ लोके सत्कीर्तियुक्तो भव सर्वदैव ।
विराजयित्वा स्वगुणैर्नृपौघान्करैरिवात्मप्रभवैः खशोभैः
कीर्तिप्रभङ्गे वृजिनं भविष्यति प्रजावधे यन्मनुराह सत्यम् ।
संमार्जयित्वा विमलं यशः स्वं कथं सुखी स्यां नृपते ततः क्षमः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0