भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.24

2.24.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्माङ्गदसंलापो नाम त्रयोविंशो ऽध्यायः
राजोवाच
यत्त्वया व्याहृतं वाक्यं ममेदं गौतमेरितम् ।
मन्दरे पर्वतश्रेष्ठे हरिवासरभोजनम्

2.24.2

अमतेन पुराणानां व्याहृतं यद्द्विजन्मना ।
क्षुद्रशास्त्रोपदेशेन लोलुपेन वरानने

2.24.3

पुराणे निर्णयो ह्येष विद्वद्भिः समुदाहृतः ।
न शङ्खेन पिबेत्तोयं न हन्यात्कूर्मसूकरौ

2.24.4

एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ।
अगम्यागमने देवि अभक्ष्यस्य च भक्षणे

2.24.5

अकार्यकरणे जन्तोर्गोसहस्रवधः स्मृतः ।
जानन्नपि कथं देवि भोक्ष्ये ऽहं हरिवासरे

2.24.6

पुरोडाशो ऽपि वामोरु संप्राप्ते हरिवासरे ।
अभक्ष्येण समः प्रोक्तः किं पुनश्चात्तनक्रिया

2.24.7

अनुकूलं नृणां प्रोक्तं क्षीणानां वरवर्णिनि ।
मूलं फलं पयस्तोयमुपभोज्यं मुनीश्वरैः

2.24.8

नत्वत्र भोजनं कैश्चिदेकादश्यां प्रदर्शितम् ।
ज्वरिणां लङ्घनं शस्तं धार्मिकाणामुपोषणम्

2.24.9

शुभं गतिप्रदं प्रोक्तं संप्राप्ते हरिवासरे ।
ज्वरमध्ये कृतं पथ्यं निधनाय प्रकल्पते

2.24.10

वैष्णवे तु दिने भुक्तं नरकायैव केवलम् ।
माग्रहं कुरु वामोरु व्रतभङ्गो भवेन्मम

2.24.11

यदन्यद्वोचते तुभ्यं तत्कर्तास्मि न संशयः ।
मोहिन्युवाच
न चान्यद्रोचते राजन्विना वै भोजनं तव

2.24.12

जीवितस्यापि दानेन न मे किञ्चित्प्रयोदजनम् ।
न च वेदेषु दृष्टो ऽयमुपवासो हरेर्दिने

2.24.13

अग्निमन्तो न विप्रा हि मन्यन्ते समुपोषणम् ।
वेदबाह्य कथं धर्मं भवांश्चरितुमिच्छति

2.24.14

वचो निशम्य मोहिन्या राजा वेदविदां वरः ।
उवाच मानसे क्रुद्धः प्रहसन्निव भूपते

2.24.15

शृणु मोहिनि मद्वाक्यं वेदो ऽयं बहुधा स्थितः ।
यज्ञकर्मक्रिया वेदः स्मृतिर्वेदो गृहाश्रमे

2.24.16

स्मृतिर्वेदः क्रियावेदः पुराणेषु प्रतिष्ठितः ।
पुराणपुंरुषाज्जातं यथेदं जगदद्भुतम्

2.24.17

तथेदं वाङ्मयं जातं पुराणेभ्यो न संशयः ।
वेदार्थादधिकं मन्ये पुराणार्थं वरानने

2.24.18

वेदाः प्रतिष्ठिताः सर्वे पुराणेष्वेव सर्वदा ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति

2.24.19

न वेदे ग्रहसंचारो न शुद्धिः कालबोधिनी ।
तिथिवृद्धिक्षयो वापि पर्वग्रहविनिर्णयः

2.24.20

इति हासपुराणैस्तु निश्चयो ऽयं कृतः पुरा ।
यन्न दृष्टं हि वेदेषु तत्सर्वं लक्ष्यते स्मृतौ

2.24.21

उभयोर्यन्न दृष्टं हि तत्पुराणैः प्रगीयते ।
प्रायश्चित्तं तु हत्यायामातुरस्यौषधं प्रिये

2.24.22

न चापि पापशुद्धिः स्यादात्मनश्च परस्य वा ।
यद्वेदैर्गीयते सुभ्रु उपाङ्गैर्यत्प्रगीयते

2.24.23

पुराणैः स्मृतिभिश्चैव वेद एव निगद्यते ।
रटन्तीह पुराणानि भूयो भूयो वरानने

2.24.24

न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ।
पुराणमन्यथा मत्वा तिर्यग्योनिमवाप्नुयात्

2.24.25

संस्रातो ऽपि सुदान्तो ऽपि न गतिं प्राप्नुयादिति ।
पितरं को न वन्देत मातरं को न पूजयेत्

2.24.26

को न गच्छेत्सरिच्छ्रेष्ठां को भुङ्क्ते हरिवासरे ।
को हि दूषयते वेदं ब्राह्मणं को निपातयेत्

2.24.27

को गच्छेत्परदारान् हि को भुङ्क्ते हरिवासरे

2.24.28

नहीदृशं पापमिहास्ति जन्तोर्विमूढचित्तस्य दिने हरेः प्रिये ।
यद्भोजनेनात्मनिपातकारिणा यमस्य रवातेषु चिरं सुलोचने

2.24.29

मोहिन्युवाच
शीघ्रमानय विप्रांस्त्वं घूर्णिके वेदपारगान् ।
येषां वाक्येन युक्तो ऽयं राजा कुर्याद्धि भोजनम्

2.24.30

सा तद्वाक्यमुपाकर्ण्य ब्राह्मणान्वेदशालिनः ।
गौतमादीन्समाहूय मोहिनीपार्श्वमानयत

2.24.31

तान्विप्रानागतान्दृष्ट्वा वेदवेदाङ्गपारगान् ।
मोहिनी सहिता राज्ञा ववन्दे कार्यतत्परा

2.24.32

उपविष्टास्तु ते सर्वे शातकैंभमयेषु च ।
आसनेषु महीपाल ज्वलदग्निसमप्रभाः

2.24.33

तेषां मध्ये वयोवृद्धो गौतमो वाक्यमब्रवीत् ।
वयं समागता देवि नानाशास्त्रविशारदाः

2.24.34

सर्वसंदेहहर्तारो यदर्थं ते समाहुताः ।
तच्छत्वा वचनं तेषां मोहिनी ब्रह्मणः सुता

2.24.35

सर्वासाध्यकृतं कर्तुं प्रवृत्तांस्तानुवाच ह ।
मोहिन्युवाच
संदेहस्तु जडौ ह्येष स्वल्पो वा स्वमतिर्यथा

2.24.36

सो ऽयं वदति राजा वै नाहं भोक्ष्ये हरेर्दिने ।
अन्नाधारमिदं सर्वं जगत्स्थावरजङ्गमम्

2.24.37

मृता ह्यपि तथान्नेन प्रीयन्ते पितरो दिवि ।
कर्कन्धुमात्रं प्रहुतं पुरोडाशं हि देवताः

2.24.38

कामयन्ति द्विजश्रेष्ठास्ततो ऽन्नं ह्यमृतं परम् ।
पिपीलिकापि क्षुधिता मुखेनादाय तण्डुलम्

2.24.39

बिलं व्रजति दुःखेन कस्यान्नं नहि रोचते ।
अयं खादति नान्नाद्यं संप्राप्ते हरिवासरे

2.24.40

निजधर्मं परित्यज्य परधर्मे व्यवस्थितः ।
विधावानां यतीनां च युज्यते व्रतसेवनम्

2.24.41

परधर्मरतो यः स्यात्स्वधर्मविमुखो नरः ।
सोंऽधे तमसि मज्जेत यावदिन्द्राश्चतुर्द्दश

2.24.42

उपवासादिकरणं भूभुजां नोदितं क्वचित् ।
प्रजासंरक्षणं त्यक्त्वा चतुर्वर्गफलप्रदम्

2.24.43

नारीणां भर्तृशूश्रूषा पुत्राणां पितृसेवनम् ।
शूद्राणां द्विजसेवा च लोकरक्षा महीभृताम्

2.24.44

स्वकं कर्म परित्यज्य यो ऽन्यत्र कुरुते श्रमम् ।
अज्ञानाद्वा प्रमादाच्च पतितः स न संशयः

2.24.45

सो ऽयमद्य महीपालो यतिधर्म्मे व्यवस्थितः ।
सुबुद्ध्याचारशीलश्च वेदोक्तं त्यजति द्विजाः

2.24.46

स्वेच्छाचारा तु या नारी यो ऽविनीतः सुतो द्विजाः ।
एकान्तशीलो नृपतिर्भृत्यः कर्मविवर्जितः

2.24.47

सर्वे ते नरकं यान्ति ह्यप्रतिष्ठश्च यो द्विजाः ।
अयं हि नियमोपेतो हरिपूजनतत्परः

2.24.48

आक्रन्दे वर्त्तमाने तु न यद्येष प्रधावति ।
व्यपोह्य हरिपूजां वै ब्रह्महत्यां तु विन्दति

2.24.49

क्षीणदेहे हरिदिने कथं संयमयिष्यति ।
अन्नात्प्रभवति प्राणः प्राणाद्देहविचेष्टनम्

2.24.50

चेष्टया रिपुनाशश्च तद्धीनः परिभूयते ।
एवं ज्ञात्वा मया राजा बोध्यमानो न बुद्ध्यति

2.24.51

एतदेव व्रतं राज्ञो यत्प्रजापालनं चरेत् ।
न व्रतं किञ्चिदस्त्यन्यन्नृपस्य द्विजसत्तमाः

2.24.52

किं देव कार्येण नराधिपस्य कृत्वा हि मन्युं विषयस्थितानाम् ।
तद्देवकार्यं स च यज्ञहोमो यद्रक्तपातो न भवेत् स्वराष्ट्रे

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc