भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.26

2.26.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीचरिते पञ्चविंशो ऽध्यायः
राजोवाच
कीर्तिर्नश्यतु मे पुत्र ह्यनृती वा भवाम्यहम् ।
गतो वा नरकं घोरं कथं भोक्ष्ये हरेर्दिने

2.26.2

ब्रह्मणो निलयं यातु देवीयं मोहिनी सुत ।
भूयो भूयो वदति मां दुर्मेधाश्च सुबालिशा

2.26.3

नापरं कामये राज्यं वसुधां वसु किञ्चन ।
मुक्त्वैवं वासरे विष्णोर्भोजनं पापनाशने

2.26.4

यद्यहं कुत्सितां योनिं व्रजेयं क्रिमिसंज्ञिताम् ।
तथापि नैव कर्ताहं भोजनं हरिवासरे

2.26.5

एषा गुरुतरा भूत्वा लोकानां शिक्षयान्विता ।
दुन्दुभी कुर्वती नादं सा कथं वितथा भवेत्

2.26.6

अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा ।
अपेयं चैव पीत्वा तु किं जीवेच्छरदः शतम्

2.26.7

असत्यं वापि कृत्वाहं त्यक्तराज्यनयः क्षितौ ।
धिक्कृतो ऽपि जनैः सर्वैर्न भोक्ष्ये हरिवासरे

2.26.8

वियोगे चपलापाङ्ग्या यदि चेन्मरणं मम ।
तच्चापि वरमेवात्र न भोक्ष्ये हरिवासरे

2.26.9

कथं हर्षमहं कर्ता मार्तण्डतनयस्य वै ।
व्रजद्भिर्मनुजैर्मार्गे निरयस्यातिदुःखितैः

2.26.10

यास्तु शून्याः कृतास्तात मया नरकपङ्क्तयः ।
जनैः पूर्णा भविष्यन्ति मयि भुक्ते तु ताः सुत

2.26.11

मास्म सीमन्तिनी पुत्र कुक्षौ संधारयेत्सुतम् ।
समर्थो यस्तु शत्रूणां हर्षं संजनयेद्भुवि

2.26.12

भोजनं वासरे विष्णोरेतदेव हियाचते ।
तन्न दास्यामि मोहिन्या याचितो ऽपि सुरासुरैः

2.26.13

पिबेद्विषं विशेद्वह्निं निपतेत्पर्वताग्रतः ।
आकाशभासा स्वशिरश्छिन्द्यादेव वरासिना

2.26.14

न भोक्ष्यते हरिदिने राजा रुक्माङ्गदः क्षितौ ।
रुक्माङ्गदेति मन्नाम प्रसिद्धं भुवनत्रये

2.26.15

एकादश्युपवासेन तन्मया संचितं यशः ।
स कथं भोजनं कृत्वा नाशये स्वकृतं यशः

2.26.16

म्रियते यदि वा गच्छति निपतति नश्येच्च खण्डशो वापि ।
विरमति तदपि न चेतो मामकमिति मोहिनीहेतोः

2.26.17

परित्यजाम्येष निजं हि जीवितं लोकैः समेतः सहदारभृत्यैः ।
न त्वेव कुर्यां मधुसूदनस्य दिने सुपुण्ये ऽन्ननिषेवणं हि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc