भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.22

2.22.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे शिक्षानिरूपणं नामैकविंशो ऽध्यायः
वसिष्ट उवाच
एवं धर्माङ्गदो राज्यं चकार वसुधातले ।
पितुर्ननियोगाद्राजेन्द्र पालयन् हरिवासरम्

2.22.2

न बभूव जनः कश्चिद्यो न धर्मे व्यवस्थितः ।
नासुखी नाप्रजः कश्चिन्न वा फुष्ठी महीपते

2.22.3

हृष्टपुष्ट जने तस्मिन् क्ष्मा चैव निधिदायिनी ।
घटदोग्ध्रीषु नृपते तृप्तवत्सासु धेनुषु

2.22.4

पुटके कुटके क्षौद्रं द्रोणमात्रं द्रुमे द्रुमे ।
प्रहृष्टायां तु मेदिन्यां सर्वधान्यसमुद्भवः

2.22.5

कृतस्य स्पर्द्धिनि युगे त्रेतान्ते द्वापरे युगे ।
व्यतीते जलदापाये निर्मले चांबरे गृहे

2.22.6

सुगन्धिशालिपक्वाढ्ये कुंभोद्भवविलोकिते ।
मध्यप्रवाहयुक्तासु निम्नगासु समन्ततः

2.22.7

तीरोत्थैः काशपुष्पैश्च शुक्लकेशैरिवाङ्गना ।
चन्द्रांशुधवले लोके नातितीव्रे दिवाकरे

2.22.8

तस्मिन्मनुष्यबहुलैर्जलस्नानविचित्रितैः ।
यत्रोत्सुकैः प्रयातैस्तु भूमिपालैः समन्ततः

2.22.9

प्रबोधसमये विष्णोराश्विनान्ते जगद्गुरोः ।
मोहिनी रमयामास तत्काले हृच्छयार्दिता

2.22.10

राजानं विविधैः सौख्यैः सर्वभावेन सुंदरी ।
वनेषु गिरिशृङ्गेषु नदीनां संगमेषु च

2.22.11

पद्मिनी कुसुमाढ्येषु सरःसु विविधेषु च ।
मलये मन्दरे विन्ध्ये महेन्द्रे विबुधालये

2.22.12

सह्ये प्रालेयसंज्ञे च दिगंबरगिरौ शुभे ।
अन्येषु चैव राजानं स्वर्गस्थानादिकेषु च

2.22.13

रमेयायास राजेन्द्र दिव्यरूपा दिने दिने ।
राजापि मोहिनीं प्राप्य सर्वं कृत्यं परित्यजन्

2.22.14

त्यक्तं न वासरं विष्णोर्जन्ममृत्युनिकृन्तनम् ।
व्रतं नोपेक्षते तत्तु अतिमुग्धो ऽपि पार्थिवः

2.22.15

क्रीडां त्यजति भूपालो दशम्यादिदिनत्रये ।
एवं प्रकीडतस्तस्य पूर्णे संवत्सरे गते

2.22.16

काले कालविदां श्रेष्ठः संप्राप्तः कार्तिकः शुभः ।
निद्राछेदकरो विष्णोः स मासः पुण्यदायकः

2.22.17

यस्मिन्कृतं हि सुकृतं वैष्णवैर्मनुजैर्नृप ।
अक्षयं हि भवेत्सर्वं विष्णुलोकप्रदायकम्

2.22.18

न कार्तिकसमो मासो न कूतेन समं युगम् ।
न धर्मस्तु दया तुल्यो न ज्योतिश्चक्षुषा समम्

2.22.19

न वेदेन समं शास्त्रं न तीर्थं गङ्गया समम् ।
न भूम्या सदृशं दानं न सुखं भार्यया समम्

2.22.20

न कृष्या तु समं वित्तं न लाभः सुरभीसमः ।
न तपो ऽनशनादन्यन्न दमेन समं शिवम्

2.22.21

तृप्तिर्न रसनातुल्या न समो ऽन्यो द्विजेन च ।
न धर्मेण समं मित्रं न सत्येन समं यशः

2.22.22

नारोग्यसममैश्वर्यं न देवः केशवात्परः ।
न कार्तिकसमं लोके पावनं कवयो विदुः

2.22.23

कार्तिकः प्रवरो मासो विष्णोश्चापि प्रियः सदा ।
अव्रतो हि क्षिपेद्यस्तु मासं दामोदरप्रियम्

2.22.24

तिर्यग्योनिमवाप्नोति सर्वधर्मबहिष्कृतः

2.22.25

मान्धातोवाच
संप्राप्य कार्तिके मासे राजा रुक्माङ्गदो मुने ।
मोहिनीं मोहसंयुक्तां कथं स बुभुजे वद

2.22.26

विष्णुभक्तः श्रुतिपरः प्रवरः स महीक्षिताम् ।
तस्मिन्पुण्यतमे मासे किं चकार नृपोत्तमः

2.22.27

वसिष्ठ उवाच
संप्राप्तं कार्तिकं दृष्ट्वा प्रबोधकरणं हरेः ।
अतिप्रमुग्धो राजेन्द्रो मोहिनीं वाक्यमब्रवीत्

2.22.28

रतं देवि त्वया सार्द्धं मया संवत्सरान्बहून् ।
तवापमानभीतेन नोक्तं किञ्चिदपि क्वचित्

2.22.29

सांप्रतं वक्तुकामो ऽहं तन्निबोध शुभानने ।
त्वय्यासक्तस्य मे देवि बहवः कार्तिका गताः

2.22.30

न व्रती कार्तिके जातो मुक्त्वैकं हरिवासरम् ।
सो ऽहं कार्तिकमिच्छामि व्रते न पर्य्युपासितुम्

2.22.31

अव्रतेन गतो येषां कार्तिको मर्त्यधर्मिणाम् ।
इष्टापूर्तौ वृथा तेषां धर्मो द्रुहिणसंभवे

2.22.32

मांसाशिनो ऽपि भूपाला अत्यर्थं मृगयारताः ।
ते भांसं कार्तिके त्यक्त्वा गता विष्ण्वालयं शुभे

2.22.33

प्रवृत्तानां हि भक्ष्याणां कार्तिके नियमे कृते ।
अवश्यं विष्णुरूपत्वं प्राप्यते साधकेन हि

2.22.34

तिष्ठन्तु बहुवित्तानि दानानि वरवर्णिनि ।
हृदयायासकर्तॄणि दीपदानाद्दिवं व्रजेत्

2.22.35

तस्याप्यभावात्सुभगे परदीपप्रबोधनम् ।
कर्तव्यं भक्तिभावेन सर्वदानाधिकं च तत्

2.22.36

एकतः सर्वदानानि दीपदानं हि चैकतः ।
कार्तिकेन समं प्रोक्तं दीपदानात्प्रबोधनम्

2.22.37

कर्तव्यं भक्तिभावेन सर्वदानाधिकं स्मृतम् ।
कार्तिकीं च तिथिं कृत्वा विष्णोर्नाभिसरोरुहे

2.22.38

आजन्मकृतपापात्तु मुच्यते नात्रसंशयः ।
व्रतोपवासनियमैः कार्तिको यस्य गच्छति

2.22.39

देवो वैमानिको भूत्वा स याति परमां गतिम् ।
तस्मान्मोहिनि मोहं त्वं परित्यज्य ममोपरि

2.22.40

आज्ञां विधेहि तत्कालं करिष्ये कार्त्तिकव्रतम् ।
तव वक्षोजपूजाया विरतो नीरजेक्षमे

2.22.41

अहं व्रतधरश्चैव भविष्ये हरिपूजने ।
मोहिन्युवाच
विस्तरेण समाख्याहि माहात्म्यं कार्तिकस्य च

2.22.42

सर्वपुण्याकरः प्रोक्तो मासो ऽयं राजसत्तमा ।
विशेषात्कुत्र कथितस्तदादिश महामते

2.22.43

श्रुत्वा कार्त्तिकमाहात्म्यं करिष्ये ऽहं यथेप्सितम्

2.22.44

रुक्माङ्गद उवाच
माहात्म्यमभिधास्यामि मासस्यास्य वरानने ।
येन भक्तिर्भवित्री ते प्रकर्तुं हरिपूजनम्

2.22.45

कार्त्तिके कृच्छ्रसेवी यः प्राजापत्यचरो ऽपि वा ।
एकान्तरोपवासी वा त्रिरात्रोपोषितो ऽपि वा

2.22.46

यद्वा दशाहं पक्षं वा मासं वा वरवर्णिनि ।
क्षपयित्वा नरो याति स विष्णोः परमं पदम्

2.22.47

एकभक्तेन नक्तेन तथैवायाचितेन च ।
अस्मिन् नरैर्धरा चैव प्राप्यते द्वीपमालिनी

2.22.48

विशेषात्पुष्करे तीर्थे द्वारावत्यां च शौकरे ।
मासो ऽयं भक्तिदः प्रोक्तो व्रतदानार्चनादिभिः

2.22.49

तस्निन्हरि दिनं पुण्यं तथा वै भीष्मपञ्चकम् ।
प्रबोधिनीं नरः कृत्वा जागरेण समन्विताम्

2.22.50

न मातुर्जठरे तिष्ठेदपि पापान्वितो नरः ।
तस्मिन्दिने वरारोहे मण्डलं यस्तु पश्यति

2.22.51

विना सांख्येन योगेन स याति परमं पदम् ।
कार्तिके मण्डलं दृष्ट्वा शौकरेः सूकरं शुभे

2.22.52

दृष्ट्वा कोकवराहं वा न भूयस्तनयो भवेत् ।
त्रिविधस्यापि पापस्य दृष्ट्वा मुक्तिर्भवेन्नृणाम्

2.22.53

मण्डलं चपलापाङ्गि श्रीधरं कुब्जके तथा ।
कार्तिके वर्जयेत्तैलं कार्त्तिके वर्जयेन्मधु

2.22.54

कार्तिके वर्जयेन्मांसं कार्तिके वर्जयेत्स्त्रियः ।
निष्पावान्कार्तिके देवि त्यञ्जेद्विष्णुतत्परः

2.22.55

संवत्सरकृतात्पापाद्ब्रहिर्भवति तत्क्षणात् ।
प्राप्नोति राजकीं योनिं सकृद्भक्षणसंभवात्

2.22.56

कार्तिके शौकरमांसं यस्तु भुञ्जीत दुर्मतिः ।
षष्टिवर्षसहस्राणि रौरवे परिपच्यते

2.22.57

तन्मुक्तो जायते पापी विष्ठाशी ग्राम्यसूकरः ।
मात्स्यं मांसं न भुञ्जीत न कौर्मं नापि हारिणम्

2.22.58

चाण्डालो जायते देवि कार्तिके मांसभक्षणात् ।
कार्तिकः सर्वपापघ्नः किञ्चिद्व्रतधरस्य हि

2.22.59

कार्तिके तु कृतादीक्षा नृणां जन्मनिकृन्तनी ।
तस्मात्सर्वप्रयत्नेन दीक्षां कुर्वीत कार्तिके

2.22.60

अदीक्षितस्य वामोरु कृतं सर्वं निरर्थकम् ।
पशुयोनिमवाप्नोति दीक्षया रहितो नरः

2.22.61

न गृहे कार्तिकं कुर्याद्विशेषेण तु कार्तिकीम् ।
तीर्थे हि कार्तिकीं कुर्वन्नरो याति हरेः पदम्

2.22.62

कार्तिके शुक्लपक्षस्य कगृत्वा ह्येकादशीं नरः ।
प्रातर्दत्वा शुभान्कुंभान्प्रयाति हरिमन्दिरम्

2.22.63

संवत्सरव्रतानां हि समाप्तिः कार्तिकं स्मृता ।
विवाहा यत्र दृश्यन्ते विष्णोर्नाभिसरोरुहे

2.22.64

दिनानि तत्र चत्वारि यथैकं वरावर्णिनि ।
विनोत्तरायणे कालं लग्नशुद्धिं विनापि च

2.22.65

दृश्यन्ते यत्र सम्बन्धाः पुत्रपौत्रविवर्द्धनाः ।
तस्मान्मोहिनि कर्तास्मि कार्तिके व्रतसेवनम्

2.22.66

अशेषपापनाशाय तव प्रीतिविवृद्धये ।
मोहिन्युवाच
अहो माहात्म्यमतुलं कार्तिकस्य त्वयोरितम्

2.22.67

चातुर्मास्यव्रतानां हि विधिमुद्यापनं वद ।
पूर्णता येन भवतगि व्रतानां पृथिवीपते

2.22.68

अवैकल्यं भवेच्चैव व्रतं पुण्यफलस्य तु ।
राजोवाच
नक्तव्रती षड्रसेन ब्राह्मणं भोजयेत्प्रिये

2.22.69

अयाचिते त्वनङ्काहं सहिरण्यं प्रदापयेत् ।
अमांसाशीभवेद्यस्त्तु गां प्रदद्यात्सदक्षिणाम्

2.22.70

धात्रीस्नाने नरो दद्याद्दधिपायसमेव च ।
फलानां नियमे सुभ्रु फलदानं समाचरेत्

2.22.71

तैलत्यागे घृतं दद्या द्धृतत्यागे पयस्तथा ।
धान्यानां नियमे शालींस्तत्तद्धान्यमथापि वा

2.22.72

दद्याद्भूशयने शय्यां तूलिकागण्डकान्विताम् ।
पत्रभोजी नरोदद्याद्भाजनं घृतसंयुतम्

2.22.73

मौने घण्टां तिलान्वापि सहिरण्यान्प्रदापयेत् ।
दंपत्योर्भोजनं कार्यमुभयोः शयनान्वितम्

2.22.74

संभोगं दक्षिणोपेतं व्रतस्य परिपूर्तये ।
प्रातः स्नाने हयं दद्यान्निःस्नेहे घृतसक्तुकान्

2.22.75

नखराणां च केशानां धारणे दर्पणं ददेत् ।
उपानहौ प्रदद्यात्तु पादत्राणविवर्जने

2.22.76

लवणस्य तु संत्यागे दातव्या सुरभिस्तथा ।
आमिषस्य परित्यागे सवत्सां कपिलां ददेत्

2.22.77

नित्यं दीपप्रदो यस्तु व्रते ऽभीष्टे सुरालये ।
स काञ्चनं तथा ताम्रं सघृतं दीपकं प्रिये

2.22.78

प्रदद्याद्वाससा छत्रं वैष्णवे व्रतपूर्तये ।
एकान्तरोपवासी तु क्षौमवस्त्रं प्रदापयेत्

2.22.79

त्रिरात्रे काञ्चनोपेतां दद्याच्छय्यां स्वलङ्कृताम् ।
षड्ररात्राद्युपवासेषु शिबिकां छत्रसंयुताम्

2.22.80

सवाहपुरुषं पीनमनङ्वाहमथार्पयेत् ।
अजाविकं त्वेकभक्ते फलाहारे सुवर्णकम्

2.22.81

शाकाहारे फलं दद्यात्सौवर्णं घृतसंयुतम् ।
रसानां चैव सर्वेषां त्यागे ऽनुक्तस्य वापि च

2.22.82

दातव्यं राजतं पात्रं सौवर्ण वापि शक्तितः ।
यथोक्तस्याप्रदाने तु यथोक्ताकरणे ऽपि वा

2.22.83

विप्रवाक्यं चरेत्सुभ्रु विष्णुस्मरणपूर्वकम् ।
वृथा विप्रवचो यस्तु मन्यते मनुजः शुभे

2.22.84

दक्षिणां नैव दद्याद्वा स याति नरकेध्रुवम् ।
व्रतवैकल्यमासाद्य कुष्ठी चान्धः प्रजायते

2.22.85

धरामराणां वचने व्यवस्थिता दिवौकसस्तीर्थगणा मखाश्च ।
को लङ्घयेत्सुभ्रु वचो हि तेषां श्रेयोभिकामो मनुजस्तु विद्वान्

2.22.86

इदं मया धर्मरहस्ययुक्तं विरञ्चये श्रीपतिना यथोक्तम् ।
प्रकाशितं तुभ्यमनन्यवाच्यं फलप्रदं माधवतुष्टिहेतुम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc