नारद पुराण · अध्याय 2.21
इति श्रीबृहन्नारदीयपुराणोत्तरभागे धर्माङ्गददिग्विजयो नाम विंशो ऽध्यायः
मान्धातोवाच
पुत्रस्य वचनं श्रुत्वा किं चकार महीपतिः ।
सा चापि मोहिनी ब्रह्मन्प्रिया राज्ञो विधेः सुता
आश्चर्यरूपं कथितमाख्यानं तु सुधोपमम् ।
विशेषतस्त्वया पुण्यं सर्वसंदेहभञ्जनम्
वसिष्ठ उवाच
तत्पुत्रवचनं श्रुत्वा प्रहृष्टो नृपपुङ्गवः ।
उदतिष्ठत्प्रियायुक्तस्ताः श्रियश्चावलोकयत्
क्षणं हर्षान्वितो भूप राजा विष्णुपरायणः ।
नागकन्यास्तु ताः सर्वा वारुणीसहिता मुदा
प्रददौ तनये प्रेम्णा भार्यार्थं धर्मभूषणे ।
शेषं दानवनारीभिर्बहुरत्नसमन्वितम्
मोहिन्यै प्रददौ राजा कामबाणप्रपीडितः ।
संविभज्य पिता वित्तं धर्माङ्गदसमाहृतम्
पुरोहितमुवाचेदं काले चाहूय भूपतिः ।
सर्वासां मत्सुतो ब्रह्मन्पाणीन्गृह्णातु धर्मतः
कुमारीणां कुमारो ऽयं मद्वाक्ये संस्थितः सदा ।
वैवाह्यलग्ने नक्षत्रे मुहूर्ते सर्वकामदे
वाचयित्वा द्विजान्स्वस्ति गोस्वर्णांबरतोषितान् ।
विवाहं कुरु पुत्रस्य मम धर्माङ्गदस्य वै
यः पुत्रस्य पितोद्वाहं न करोतीह मन्दधीः ।
सस मज्जेन्नरके घोरे ह्यप्रतिष्ठे युगायुतम्
तस्माच्चोद्वाहयेत्पुत्रं पिता धर्मसमन्वितः ।
आत्मा संस्थापितस्तेन येन संस्थापितः सुतः
सर्वक्रतुफलं तस्य पुत्रोद्वाहे कृते भवेत् ।
पुत्रस्य गुणयुक्तस्य निर्गुणस्यापि भूसुर
पित्रा कारयितव्यो हि विवाहो धर्ममिच्छता ।
यो न दारैश्च वित्तैश्च पुत्रान्संयोजयेत्पिता
न पुमान्स तु विज्ञेय इहामुत्र विगर्हितः ।
तस्माद्वृत्तियुताः कार्याः पुत्रा दारैः समन्विताः
यथा रमन्ते ते तुष्टाः सुखं पुत्राः सुमानिताः ।
तच्छ्रुत्वा वचनं राज्ञो द्विजस्तस्य पुरोहितः
धर्माङ्गदविवाहार्थमुद्यतो हर्षसंयुतः ।
स युवानिच्छमानो ऽपि स्त्रीसौख्यं लज्जाया सुतः
स्वीचकार पितुर्वाक्याद्दारसंग्रहणं तदा ।
वरुणात्मजया सार्द्धं नागकन्या मनोहराः
उपयेमे महाबाहू रूपेणाप्रतिमा भुवि ।
उद्वाहयित्वा सर्वास्ता विधिदृष्टेन कर्मणा
वसुगोरत्नदानानि विप्रेभ्यः प्रददौ मुदा ।
कृतदारो ववन्दे ऽथ पादान्मातुः पितुर्मुदा
ततः संध्यावलीदेवीमाह धर्माङ्गदः सुतः ।
पितुर्वाक्येन मे देवि संजातो दारसंग्रहः
एतन्मे नास्ति मनसि यत्पित्रोद्वाहितो ह्यहम् ।
अव्ययं पितरं विज्ञं देवि शुश्रूषये ह्यहम्
दिव्यैर्भोगैर्न मे किञ्चित्स्वर्गेणापि प्रयोजनम् ।
कार्या मे पितृशुश्रूषा तव चैव दिवानिशम्
संध्यावल्युवाच
चिरं जीव सुखं पुत्र भुङ्क्ष्व भोगान्मनो ऽनुगान् ।
पितुः प्रसादाद्दीर्घोयुर्मनो नन्दय मे सुत
त्वया सुपुत्रिणी पुत्र जाता गुणवता क्षितौ ।
सपत्नीनां च सर्वासां हृदये संस्थिता ह्यहम्
एवमुक्त्वा परिष्वज्य मूर्द्धन्याघ्राय चासकृत् ।
व्यसर्जयत्ततः पुत्रं राज्यतन्त्रावलोकने
विसर्जितस्तदा मात्रा मातॄरन्याः प्रणम्य च ।
राज्यतन्त्रं तदखिलं चक्रे पितृवचः स्थितः
दुष्टनिग्रहणं चक्रे शिष्टानां परिपालनम् ।
अटनं सर्वदेशेषु वीक्षणं सर्वकर्मणाम्
चक्रे सर्वत्र कार्याणां मासि मासि निरीक्षणम् ।
हस्त्यश्वपोषणं चक्रे चारचक्रेक्षणं तथा
वादसंवीक्षणं चक्रे तुलामानं दिने देने ।
गृहे गृहे नराणां च चक्रे संरक्षणं नृपः
स्तनन्धयी क्वचिद्बालः स्तनहीनो न रोदिति ।
श्वश्रूर्वध्वा न कुत्रापि प्ररोदित्यवमानिता
क्वचित्समर्थस्तनयः पितरं नहि याचते ।
न वर्णसंकरो राज्ये केषाञ्चिदभवत्पुनः
न गूढविभवो लोको धर्मे वदति दूषणम् ।
न कञ्चुकविहीना तु भवेन्नारी सभर्तृका
गृहान्निष्क्रमणं स्त्रीणां मास्तु राज्ये मदीयके ।
मा सकेशा हि विधवा मास्त्वकेशा मभर्तृका
मा व्रतीह सदाक्रोशी मारण्या नगराश्रयाः ।
सामान्यवृत्त्यदाता मे राज्ये ऽवसतु निर्घृणः
गोपालो नगराकाङ्क्षी निर्गुणस्तूपदेशकः ।
ऋत्विग्वा शास्त्रहीनश्च मा मे राज्ये वसेदिह
यो हि निष्पादयेन्नीलीं नीलीरङ्गातिसेचकः ।
निर्वास्यौ तावुभौ पापौ यो वै मद्यं करोति च
वृथा मांसं हि यो ऽश्नाति पृष्ठमांसप्रियो हि यः ।
तस्य वासो न मे राज्ये स्वकलत्रं त्यजेच्च यः
विष्णुं परित्यज्य वरं सुराणां संपूजयेद्यो ऽन्यतमं हि देवम् ।
गच्छेत्सगर्भां युवतीं प्रसूतां दण्ड्यश्च वध्यश्च स चास्मदीयैः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0