भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.23

2.23.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे कार्तिकमाहात्म्यं नाम द्वाविंशो ऽध्यायः
मोहिन्युवाच
वाक्यमुक्तं त्वया साधु कार्तिके यदुपोषणम् ।
व्रतादिकरणं राज्ञां नोक्तं क्वापि निदर्शने

2.23.2

मुक्त्वैकं ब्राह्मणं लोके नोक्तं शूद्रविशोरपि ।
दानं हि पालनं युद्धं तृतीयं भूभुजां स्मृतम्

2.23.3

न व्रतं हि त्वया कार्यं यदि मामिच्छसि प्रियाम् ।
मुहूर्तमपि राजेन्द्र न शक्नोमि त्वया विना

2.23.4

स्थातुं कमलगर्भाभ किं पुनर्माससंख्यया ।
यत्रोपवासकरणं मन्यसे वसाधाधिप

2.23.5

तत्र वै भोजनं देयं विप्राणां च महात्मनाम् ।
अथवा ज्येष्ठपत्नी या सा करोतु व्रतादिकम् ।
एवमुक्ते तु वचने मोहिन्या रुक्मभूषणः

2.23.6

आजुहाव प्रियां भार्यां नाम्ना संध्यावलिंशुभाम् ।
आहूता तत्क्षणात्प्राप्ता राजानं भूरिदक्षिणम्

2.23.7

आशीनं शयने दिव्ये मोहिनीबाहुसंवृतम् ।
संघृष्टं हि कुचाग्रेण स्वर्णकुंभनिभेन हि

2.23.8

शयने वामनेत्रायाः सकामाया महीपते ।
कृतां जलिपुटा भूत्वा भर्तुर्नमितकन्धरा

2.23.9

संध्यावली प्राह नृपं किमाहूता करोम्यहम् ।
तव वाक्ये स्थिता कान्त दुःसापत्न्यविवर्जिता

2.23.10

यथा यथा हि रमसे मोहिन्या सहह भूपते ।
तथा तथा मम प्रीतिर्वर्द्धते नात्र संशयः

2.23.11

भर्तुः सौख्येन या नारी दुःखयुक्ता प्रजायते ।
सा तु श्येनी भवेद्राजंस्त्रीणि वर्षाणि पञ्च च

2.23.12

आज्ञां मे देहि राजेन्द्र मा व्रीहां कामिकां कुरु

2.23.13

रुक्माङ्गद उवाच
जानामि तव शीलं तु कुलं जानामि भामिनि ।
तव वाक्येन हि चिरं मोहिनी रमिता मया

2.23.14

रममाणस्य सुचिरं बहवः कार्तिका गताः ।
प्रिया सौख्येन मुग्धस्य न गतो हरिवासरः

2.23.15

सो ऽहं तृप्तिमनुप्राप्तः कामभोगात्पुनः पुनः ।
ज्ञातो ऽयं कार्तिको मासः सर्वपापक्षयङ्करः

2.23.16

कर्तुकामो व्रतं देवि कार्तिकाख्यं सुपुण्यदम् ।
इयं वारयते मां च व्रताद्ब्रह्मसुता शुभे

2.23.17

अस्या न विप्रियं कार्यं सर्वथा वरवर्णिनि ।
मामकं व्रतमाधत्स्व कृच्छ्राख्यं कायशोषकम्

2.23.18

सा चैवमुक्ता नवहेमवर्णा भर्त्रा तदा पीनपयोधरङ्गी ।
उवाच वाक्यं द्विजराजकक्त्राव्रतं चरिष्ये तव तुष्टिहेतोः

2.23.19

येनैव कीर्तिस्तु यशो भवेच्च तथैव सौख्यं तव कीर्तियुक्तम् ।
करोमि सौम्यं नरदेवनाथ क्षिपामि देहं ज्वलनेत्वदर्थम्

2.23.20

अकार्यमेतन्नहि भूमिपाल वाक्येन ते हन्मि सुतं स्वकीयम् ।
किन्त्वेवमेतद्व्रतकर्म भूयः करोमि सौम्यं नरदेवनाथ

2.23.21

इत्येवमुक्त्वा रविपुत्रशत्रुं प्रणम्य तं चारुविशालनेत्रा ।
व्रतं चकाराथ तदा हि देवी ह्यशेषपापौघविनाशनाय

2.23.22

व्रते प्रवृत्ते वरकृच्छ्रसंज्ञे प्रियाकृते हर्षमवाप राजा ।
उवाच वाक्यं कुशकेतुपुत्रीं कृतं वचः सुभ्रु समीहितं ते

2.23.23

रमस्व कामं मय सन्निविष्टसंपूर्णवाञ्छा करभोरु हृष्टा ।
विमुक्तकार्यस्तव सुभ्रु हेतोर्नान्यास्ति नारी मम सौख्यहेतुः

2.23.24

सा त्वेवमुक्ता निजनायकेन प्रहर्षमभ्येत्य जगाद भूपम् ।
ज्ञात्वा भवन्तं बहुकामयुक्तं त्रिविष्टपान्नाथ समागताहम्

2.23.25

त्यक्त्वामरान्दैत्यगणांश्च सर्वान्गन्धर्वयक्षोरगराक्षसांश्च ।
संदृश्यमानान्मम नाथ हेतोः स्नेहान्विताहं तव मन्दराद्रौ

2.23.26

एतत्कामफलं लोके यद्द्वयोरेकचित्तता ।
अन्यचेतः कृतः कामः शवयोरिव संगमः

2.23.27

सफलं हि वपुर्मे ऽद्य सफलं रूपमेव हि ।
त्वया कामवता कान्त दुर्ल्लभं यज्जगत्त्रये

2.23.28

प्रोन्नताभ्यां कुचाभ्यां हि कामिनो हृदयं यदि ।
संश्लिष्टं नहि शीर्येत मन्ये वज्रसमं दृढम् ।
तदेव चामृतं लोके यत्पुरन्ध्र्यधरासवम्

2.23.29

कुचाभ्यां हृदि लीनाभ्यां मुखेन परिपीयते ।
एवमुक्त्वा परिष्वज्य राजानं रहसि स्थितम्

2.23.30

रमयामास तन्वङ्गी वात्स्यायनविधानतः ।
तस्यैवं रममाणस्य मोहिन्या सहितस्य हि

2.23.31

रुक्माङ्गदस्य कर्णाभ्यां पटहध्वनिरागतः ।
मत्तेभकुंभसंस्थस्तु धर्माङ्गदनिदेशतः

2.23.32

प्रातर्हरिदिनं लोकास्तिष्ठध्वं त्वेकभोजनाः ।
अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः

2.23.33

अवनीतल्पशयनाः प्रियासंगविवर्जिताः ।
स्मरध्वं देवदेवेशं पुराणं पुरुषोत्तमम्

2.23.34

सकृद्भोजनसंयुक्ता उपवासं करिष्यथ ।
अकृतश्राद्धनिचया अप्राप्ताः पिण्डमेव च

2.23.35

गयामगतपुत्राश्च गच्छध्वं श्रीहरेः पदम् ।
एषा कार्तिकशुक्ला वै हरेर्निद्राव्यपोहिनी

2.23.36

प्रातरेकादशी प्राप्ता मा कृथा भोजनं क्वचित् ।
ब्रह्महत्यादिपापानि कामकारकृतानि च

2.23.37

तानि यास्यन्ति सर्वाणि उपोष्येमां प्रबोधिनीम् ।
प्रबोधयेद्धर्म्मपरान्न्यायाचार समन्वितान्

2.23.38

हरेः प्रबोधमाधत्ते तेनैषा बोधिनी स्मृता ।
सकृच्चोपोषितां चेमां निद्राच्छेदकरीं हरेः

2.23.39

तनयो न भवेन्मर्त्यो न गर्भे जायते पुनः ।
रुरुध्वं चक्रिणः पूजामात्मवित्तेन मानवाः

2.23.40

वस्त्रैः पुष्पैर्धूपदीपैर्वरचन्दनकुङ्कुमैः ।
सुहृद्यैश्च फलैर्गन्धैर्यजध्वं श्रीहरेः पदम्

2.23.41

यो न कुर्याद्वचो मे ऽद्य धर्म्यं विष्णुगतिप्रदम् ।
स मे दण्ड्यश्च वाध्यश्च निर्वास्यो विषयाद्ध्रुवम्

2.23.42

एवंविधे वाद्यमाने पटहे मेघनिःस्वने ।
हस्ता दमुञ्च तांबूलं सकर्पूरं नृपोत्तमः

2.23.43

मोहिनीकुचयोर्लग्नं हृदयं स विकृष्य वै ।
उदत्तिष्ठन्महीपालः शय्यायां रतिवर्द्धनः

2.23.44

मोहिनीं मोहकामार्त्तां सत्वियन् श्लक्ष्णया गिरा ।
देवि प्रातर्हरिदिनं भविष्यत्यधनाशनम्

2.23.45

संयतो ऽहं भविष्यामि क्षम्यतां क्षम्यतामिति ।
तवाज्ञया मया कृच्छ्रं सन्ध्यावल्या तु कारितम्

2.23.46

इयमेकादशी कार्या प्रबोधकरणी मया ।
अशेषपापबन्धस्य छेदनी गतिदायिनी

2.23.47

त्रयाणामपि लोकानां महोत्सवविधायिनी ।
तस्माद्धविष्यं भोक्ष्ये ऽहं नियतो मत्तगामिनी

2.23.48

मया सह विशालाक्षि त्वं चापि तमधोक्षजम् ।
आराधय हृषीकेशमुपवासपरायणा ।
येन यास्यसि निर्वाणं दाहप्रलयवर्जितम्

2.23.49

मोहिन्युवाच
साधूक्तं हि त्वया राजन्पूजनं चक्रपाणिनः ।
जन्ममृत्युजराछेदि करिष्ये ऽहं तवाज्ञया

2.23.50

प्रतिज्ञा या त्वया पूर्वं कृता मन्दरमस्तके ।
करप्रदानसहिता भवता सुकृताङ्किता

2.23.51

तस्यास्तु समयः प्राप्तो दीयतां स हि मे त्वया ।
जन्मप्रभृति यत्पुण्यं त्वया यत्नेन संचितम्

2.23.52

तत्सर्वं नश्यति क्षिप्रं न ददासि वरं यदि ।
रुक्माङ्गद उवाच
एहि चार्वङ्गि कर्त्तास्मि यत्ते मनसि वर्तते

2.23.53

नादेयं विद्यते किञ्चित्तुभ्यं मे जीवितावधि ।
किं पुनर्ग्रामवित्तादि धरायुक्तं च भामिनि

2.23.54

मोहिन्युवाच
नाथ कान्त विभो राजन् जीवितेश रतिप्रिय ।
नोपोष्यं वामरं विष्णोर्भोक्तव्या यद्यहं प्रिया

2.23.55

न च ते ऽहं प्रिया राजन् सुहूर्तमपि कामये ।
त्वत्संयोगं विना भूता भविष्यामि वरं विना

2.23.56

तस्मान्मां यदि वाञ्छेथा भोक्तुं सत्यपरायण ।
तदा त्यजोपवासं हि भुज्यतां हरिवासरे

2.23.57

एष एव वरो देयो यो मया प्रार्थितः पुरा ।
न चेद्दास्यसि राजेन्द्र भूत्वानृतवचाभवान्

2.23.58

यास्यते नरके घोरे यावदाभूतसंप्लवम् ।
राजोवाच
मैवं त्वं वद कल्याणि नेदं त्वय्युपपद्यते

2.23.59

विधेश्च तनया भूत्वा धर्मविघ्नं कोरोषि किम् ।
जन्मप्रभृत्यहं नैव भुक्तवान्हरिवासरे

2.23.60

स चाद्याहं कथं भोक्ता संजातपलितः शुभे ।
यौवनातीतमर्त्यस्य क्षीणेन्द्रियबलस्य च

2.23.61

स्वर्णदीसेवनं युक्तमथवा हरिपूजनम् ।
न कृतं यन्मया बाल्ये यौवने न कृतं च यत्

2.23.62

तदहं क्षीणवीर्यो ऽद्य कथं कुर्यां जुगुप्सितम् ।
प्रसीद चपलापाङ्गि प्रसीद वरवर्णिनि

2.23.63

मा कुरुष्व व्रते भङ्गं दाताहं राज्यसंपदाम् ।
अथवा नेच्छसि त्वं तत्करोम्यन्यत्सुलोचने

2.23.64

आरोपयित्वा शिबिकां विमानप्रतिमां शुभाम् ।
यत्रेच्छसि नयिष्यामि पादचारी कलत्रयुक्

2.23.65

यदि तच्चापि नेच्छेस्त्वं विमानं हि कृतं मया ।
तर्हि स्वर्णमयौ स्तंभौ कृत्वा विद्रुमभूषितौ

2.23.66

मुक्ताफलमयीं दोलां करिष्ये त्वत्कृते प्रिये ।
तत्र त्वां दोलयिष्यामि बहून्मासानहर्निशम्

2.23.67

व्रतभङ्गं वरारोहे मा कुरुष्व मम प्रिये ।
वरं श्वपचमांसं हि श्वमांसं वा वरानने

2.23.68

आत्मनो वा नरैर्भुक्तं यैर्भुक्तं हरिवासरे ।
त्रैलोक्यघातिनः पापं मैथुने शशिनः क्षये

2.23.69

नरस्य संचरेत्पापं भूतायां क्षौरकर्मणि ।
भोजने वासरे विष्णोस्तैले षष्ट्यां व्यवस्थिते

2.23.70

लवणे तु तृतीयायां सप्तम्यां पिशिते शुभे ।
आज्येषु पौर्णमास्यां वै सुरायां रविसंक्रमे

2.23.71

गोचारस्य प्रलोपे च कूटसाक्ष्यप्रदायके ।
निक्षेपहारके वापि कुमारीविघ्नकारके

2.23.72

विश्वस्तघातके चापि मृतवत्साप्रदोग्धरि ।
ददामीति द्विजाग्र्याय प्रतिश्रुत्य न दातरि

2.23.73

मणिकूटे तुलाकूटे कन्यानृतगवानृते ।
यत्पातकं तदन्ने हि संस्थितं हरिवासरे

2.23.74

तद्विद्वांश्चारुनयने कथं भोक्ष्यामि तापकम् ।
मोहिन्युवाच
एकभुक्तेन नक्तेन तथैवायाचितेन च

2.23.75

उपवासेन राजेन्द्र द्वादशीं न हि लङ्घयेत् ।
गुर्विणीनां गृहस्थानां क्षीणानां रोगिणां तथा

2.23.76

शिशूनां वलिगात्राणां न युक्तं समुपोषणम् ।
यज्ञभोगोद्यतानां च संग्रामक्षितिसेविनाम्

2.23.77

पतिव्रतानां राजेन्द्र न युक्तं समुपोषणम् ।
एतन्मे गौतमः प्राह स्थिताया मन्दराचले

2.23.78

नाव्रतेन दिनं विष्णोर्नेयं मनुजसत्तम ।
ते गृहस्था द्विजा ज्ञेया येषामग्निपरिग्रहः

2.23.79

राजानस्ते तु विज्ञेया ये प्रजापालने स्थिताः ।
गुर्विणी ह्यष्टममासीया शिशवश्चाष्टवत्सराः

2.23.80

अतिलङ्घनिनः क्षीणा वलिगात्रास्तु वार्द्धकाः ।
ये विवाहादिमाङ्गल्यकर्मव्यग्रा महोत्सवाः

2.23.81

निवृत्ताश्च प्रवृत्तेभ्यो यज्ञानां चोद्यता हि ते ।
त्रिविधेन पुराणेन भर्त्तुर्या स्त्री हिते रता

2.23.82

पतिव्रता तु सा ज्ञेया योनिसंरक्षणा तथा ।
किमन्यैर्बहुभिर्भूप वाक्यालापकृतैर्मया

2.23.83

भोजने तु कृते प्रीतिरेकादश्यां त्वया मम ।
न प्रीतिर्यदि मे छित्वा शिरः स्वं हि प्रयच्छसि

2.23.84

न करिष्यसि चेद्राजन् भोजनं हरिवासरे ।
तदा ह्यसत्यवचसो देहं न स्पर्शयामि ते

2.23.85

वर्णानामाश्रमाणां हि सत्यं राजेन्द्र पूज्यते ।
विशेषाद्भूमिपालानां त्वद्विधानां महीपते

2.23.86

सत्येन सूर्यस्तपति शशी सत्येनराजते ।
सत्ये स्थिता क्षितिर्भूप सत्यं धारयते जगत्

2.23.87

सत्येन वायुर्वहति सत्येन ज्वलते शिखी ।
सत्या धारमिदं सर्वं जगत्स्थावरजङ्गमम्

2.23.88

न सत्याच्चालते सिंधुर्न विन्ध्यो वर्द्धते नृप ।
न गर्भं युवती धत्ते वेलातीतं कदाचन

2.23.89

सत्ये स्थिता हि तरवः फलपुष्पप्रदर्शिनः ।
दिव्यादिसाधनं नॄणां सत्याधारं महीपते

2.23.90

अश्वमेधसहस्रेभ्यः सत्यमेव विशिष्यते ।
मदिरापानतुल्येन कर्मणा लिप्यसे ऽनृतात्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc