भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.2

2.2.1

इति श्रीबृहन्नारदीयपुराणोत्तरभागे द्वादशीमाहात्म्यवर्णनं नाम प्रथमो ऽध्यायः
वसिष्ट उवाच
इममेवार्थमुद्दिश्य नैमिषारण्यवासिनः ।
पप्रच्छुर्मुनयः सूतं व्यासशिष्यं महामतिम्

2.2.2

स तु पृष्टो महाभाग एकादश्याः सुविस्तरम् ।
माहात्म्यं कथयामास उपवासविधिं तथा

2.2.3

तद्वाक्यं सूतपुत्रस्य श्रुत्वा द्विजवरोत्तमाः ।
माहात्म्यं चक्रिणश्चापि सर्वपापौघ शान्तिदम्

2.2.4

पुनः पप्रच्छुरमलं सूतं पौराणिकं नृप ।
अष्टादश पुराणानि भवान् जानाति मानद

2.2.5

कानीनस्य प्रसादेनः महाभारतमप्युत ।
तन्नास्ति यन्न वेत्सि त्वं पुराणेषु स्मृतिष्वपि

2.2.6

चरिते रघुनाथस्य शतकोटिप्रविस्तरे ।
अस्माकं संशयः कश्चिद्धृदये संप्रवर्तते

2.2.7

तं भवानर्हति च्छेत्तुं याथार्थ्येन सुविस्तरात् ।
तिथेः प्रान्तमुपोष्यं स्यादाहोस्विन्मूलमेव च

2.2.8

दैवे पैत्र्ये समाख्याहि नावेद्यं विद्यते तवल ।
सौतिरुवाच
तिथेः प्रान्तं सुराणां हि उपोष्यं प्रीतिवर्द्धनम्

2.2.9

मूलं तिथेः पितॄणां तु कालज्ञैः प्रियमीरितम् ।
अतः प्रान्तमुपोष्यं हि तिथेर्दशफलेप्सुभिः

2.2.10

मूलं हि पितृतृप्त्यर्थं विज्ञेयं धर्मकाङ्क्षिभिः ।
पूर्वविद्धा न कर्तव्या द्वितीया चाष्टमी तथा

2.2.11

षष्ठी चैकादशी भूप धर्मकामार्थलिप्सुभिः ।
पूर्वविद्धा द्विजश्रेष्ठाः कर्तव्या सप्तमी सदा

2.2.12

दर्शश्च पौर्णमासश्च पितुः सांवत्सरं दिनम् ।
पूर्वविद्धानिमांस्त्यक्त्वा नरकं प्रतिपद्यते

2.2.13

हानिं च संततेर्भूपदौर्भाग्यं समवाप्नुयात् ।
एतच्छ्रुतं मया विप्राः कृष्णद्वैपायनात्पुरा

2.2.14

आदित्योदयवेलायां यास्तोकापि तिथिर्भवेत् ।
पूर्वविद्धा तु मन्तव्या प्रभूता नोदयं विना

2.2.15

पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।
पित्र्ये ऽस्तमनवेलायां स्पर्शे पूर्णा निगद्यते

2.2.16

न तत्रोदयिनी ग्राह्या दैवस्योदयिकी तिथिः ।
प्रत्यहं शोधयेत्प्राज्ञस्तिथिं दैवज्ञचिन्तकात्

2.2.17

तिथिप्रमाणं विप्रेन्द्राः क्षपाकरदिवाकरौ ।
चन्द्रार्कचारविज्ञानात्कालं कालविदो विदुः

2.2.18

पूर्वायाः संगदोषेण न योग्यास्ताः प्रपूजने ।
वर्जयन्ति नरास्तज्ज्ञा यामांश्च चतुरो द्विजाः

2.2.19

अत ऊर्द्ध्वं प्रवक्ष्यामि स्नानपूजाविधिक्रमम् ।
न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते

2.2.20

दिनकार्यमशेषं हि कर्तव्यं शर्वरीमुखे ।
विधिरेष मया ख्यातो नराणामुपवासिनाम्

2.2.21

अल्पायामथ विप्रेन्द्रा द्वादश्यामरुणोदये ।
स्नानार्चनक्रिया कार्य्या दानहोमादिसंयुता

2.2.22

त्रयोदश्यां पारणे पृथिवीफलम् ।
शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम्

2.2.23

एतस्मात्कारणाद्विप्राः प्रत्यूषे स्नानमाचरेत् ।
पितृतर्पणसंयुक्तं न दृष्ट्वा द्वादशीदिनम्

2.2.24

महाहानिकरा ह्येषा द्वादशी लङ्घिता नृभिः ।
करोति धर्महरणमस्नातेव सरस्वती

2.2.25

क्षये वाप्यथवा वृद्धौ संप्राप्ते वा दिनोदये ।
उपोष्या द्वादशी पुण्या पूर्वविद्धां विवर्जयेत्

2.2.26

ब्राह्मण उवाच
यदा च प्राप्यते सूत द्वादश्यां पूर्वसंभवा ।
तदोपवासो हि कथं कर्तव्यो मानवैर्वद

2.2.27

उपवासदिनं विद्धं यदा भवति पूर्वया ।
द्वितीये ऽह्नि यदा न स्यात्स्वल्पाप्येकादशी तिथिः

2.2.28

तत्रोपवासो विहितः कथं तद्वद सूतज ।
सौतिरुवाच
यदा न प्राप्यते विप्रा द्वादश्यां पूर्वसम्भवम्

2.2.29

रविचन्द्रार्कजाहं तु तदोपोष्यं परं दिनम् ।
बह्वा गमविरोधेषु ब्राह्मणेषु विवादिषु

2.2.30

उपोष्या द्वादशी पुण्या त्रयोदश्यां तु पारणम् ।
एकादश्यां तु विद्धायां संप्राप्ते श्रवणे तथा

2.2.31

उपोष्या द्वादशी पुण्या पक्षयोरुभयोरपि ।
एष वो निर्णयः प्रोक्तो मया शास्त्रविनिर्णयात्

2.2.32

किमन्यच्छ्रोतुकामा हि तद्भवन्तो ब्रुवन्तु मे ।
ऋषय ऊचुः
युगादीनां वदविधिं सौते सम्यग्यथातथम्

2.2.33

रविसंक्रातिकादीनां नावेद्यं विद्यते तव ।
सौतिरुवाच
द्वे शुक्ले द्वे तथा कृष्णे युगाद्याः कवयो विदुः

2.2.34

शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे ग्राह्ये ऽपराह्णिके ।
अयनं दिनभागाढ्यं संक्रमः षोडशः पलः

2.2.35

पूर्वे तु दक्षिणे भागे व्यतीते चोत्तरो मतः ।
मध्यकाले तु विषुवे त्वक्षया परिकीर्तिता

2.2.36

ज्ञात्वा विप्रास्तिथिं सम्यक्सांवत्सरसमीरिताम् ।
कर्तव्यो ह्युपवासस्तु अन्यथा नरकं व्रजेत्

2.2.37

पूर्वविद्धां प्रकुर्वाणो नरो धर्मं निकृन्तति ।
संततेस्तु विनाशाय संपदां हरणाय च

2.2.38

पलवेधे ऽपि विप्रेन्द्रा दशम्या वर्जयेच्छिवाम् ।
सुराया बिन्दुना स्पृष्ट यथा गङ्गाजलन्त्यजेत्

2.2.39

श्वहतं पञ्चगव्यं च दशम्या दूषितां त्यजेत् ।
एकादशीं द्विजश्रेष्ठाः पक्षयोरुभयोरपि

2.2.40

पूर्वविद्धा पुरा दत्ता सा तिथिर्यदुमौलिना ।
दानवेभ्यो द्विजश्रेष्ठाः प्रीणनार्थं महात्मनाम्

2.2.41

अकाले यद्धनं दत्तमपात्रेभ्यो द्विजोत्तमाः ।
संक्रुद्वैरपि यद्दत्तं यद्दत्तं चाप्यसत्कृतम्

2.2.42

पूर्वविद्धतिथौ दत्तं तद्दत्तमसुरेष्वथ ।
यदुच्छिष्टेन दत्तं तु यद्दत्तं पतितेष्वपि

2.2.43

स्त्रीजेतेषु च यद्दत्तं यद्दत्तं जलवर्जितम् ।
पुनः कीर्तनसंयुक्तं तद्दत्तमसुरेषु वै

2.2.44

तस्माद्विप्रा न कर्त्व्या विद्धाप्येकादशी तिथिः ।
यथा हन्तिपुरा पुण्यं श्राद्धं च वृषलीपतिः

2.2.45

दत्तं जप्तं हुतं स्नातं तथा पूजा कृता हरेः ।
तिथौ विद्धे क्षयं याति तमः सूर्योदये यथा

2.2.46

जीर्णं पतिं यौवनगर्विता यथा त्यजन्ति नार्यो झषकेतुनार्दिताः ।
तथा हि वेधं विबुधास्त्यजन्ति तिथ्यन्तरं धर्मविवृद्धये सदा

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc