नारद पुराण · अध्याय 2.3
श्रीबृहन्नारदीयपुरणोत्तरभागे तिथिविचारो नाम द्वितीयो ऽध्यायः
ऋषय ऊचुः
विस्तरेण समाख्या हि विष्णोराराधनक्रियाम् ।
यया तोषं समायाति प्रददाति समीहितम्
लक्ष्मीभर्ताजगन्नाथोह्यशेषाघौघनाशनः ।
कर्मणा केन स प्रीतो भवेद्यः सचराचरः
सौतिरुवाच
भक्तिग्राह्यो हृषीकेशो न धनैर्द्धरणीधर ।
भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम्
तस्माद्विप्राः सदा भक्तिः कर्त्तव्या चक्रपाणिनः ।
जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत्
परितोषं व्रजत्याशुतृषितस्तु जलैर्यथा ।
अत्रापि श्रूयते विप्रा आख्यानं पापनाशनम्
रुक्माङ्गदस्य संवादमृषिणा गौतमेन हि ।
आसीद्ग्रुक्माङ्गदो राजा सार्वभौमः क्षमान्वितः
क्षीरशायिप्रियो भक्तो हरिवासरतत्परः ।
नान्यं पश्यति देवेशात्पद्मनाभान्महीपतिः
पटहं वारणे धृत्वा वादयेद्धरि वासरे ।
अष्टवर्षाधिको यस्तु पञ्चाशीत्यूनवर्षकः
भुनक्ति मानवो ह्यद्य विष्णोरहनि मन्दधीः ।
स मे दण्ड्यश्चग वध्यश्च निर्वास्यो नगराद्बहिः
पिता च यदि वा भ्राता पुत्रो भार्या सुहृन्मम ।
पद्मनाभदिने भोक्ता निग्राह्यो दस्युवद्भवेत्
ददघ्वंम विप्रमुख्यभ्यो मज्जध्वं जाह्नवीजले ।
ममेद वचनं शृत्वा राज्यं भुञ्जीत मामकम्
वासरे वासरे विष्णोः शुक्लपक्षे महीपतिः ।
अशुक्ले तु विशेषेण पटहे हेमसंपुटे
एवं प्रघुष्टे भूपेन सर्वभूमौ द्विजोत्तमाः ।
गच्छिद्भिः संकुलो मार्गः कृतो कृतो लोकैर्हरेर्द्विजाः
ये केचिन्निधनं यान्ति भूपालविषये नराः ।
ज्ञानात्प्रमादतो वापि ते यान्ति हरिमन्दिरम्
अवश्यं वैष्णवो लोकः प्राप्यते मानवैर्द्विजाः ।
व्याजेनापि प्रकुर्वाणैर्द्वादशीं पापनाशिनीम्
सो ऽश्नाति पार्थिवं पापं यो ऽश्नाति हरिवासरे ।
स प्राप्नोति धराधर्मं यो नाश्नाति हरेर्दिने
ब्राह्मणो नैव हन्तव्य इत्येषा वैदिकी स्मृतिः ।
एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि
वैलक्ष्यमगमद्राजा रविसूनुर्द्विजोत्तमाः ।
लेख्यकर्मणि विश्रान्तश्चित्रगुप्तो ऽभवत्तदा
संमार्जितानि लेख्यानि पूर्वकर्मोद्भवानि च ।
गच्छन्ति वैष्णवं लोकं स्वधर्मैर्मानवाः क्षणात्
शून्या स्तु निरयाः सर्वे पापप्राणिविवर्जिताः ।
भग्नो याम्यो ऽभवन्मार्गो द्वादशादित्यतापितः
सर्वे हि गरुडारूढा जना यान्ति हरेः पदम् ।
देवा नामपि ये लोकास्ते शून्या ह्यभवंस्तथा
उत्सन्नाः पितृदेवेज्यास्तीर्थदानादिसत्क्रियाः ।
मुक्त्वैकां द्वादशीं मर्त्या नान्यं जानन्ति ते व्रतम्
शून्ये त्रिविष्टपे जाते शून्ये च नरके तथा ।
नारदो धर्मराजानं गत्वा चेदमुवाच ह
नारद उवाच
नाक्रन्दः श्रूयते राजन् प्राङ्गणे नरकेष्वथ ।
न चापि क्रियते लेख्यं किञ्चिद्दुष्कृतकर्मणाम्
चित्रगुप्तो मुनिरिव स्थितो ऽयं मौनसंयुतः ।
कारणं किं न चायान्ति पापिनो येन ते गृहम्
मायादंभसमाक्रान्ता दुष्टकर्मरतास्तथा ।
एवमुक्ते तु वचने नारदेन महात्मना
प्राह वैवस्वतो राजा किञ्चिद्दैन्यसमन्वितः ।
यम उवाच
यो ऽयं नारद भूपालः पृथिव्यां सांप्रतं स्थितः
स हि भक्तो हृषीकेशे पुराणपुरुषोत्तमे ।
प्रबोधयति राजेन्द्रः स जनं पटहेन हि
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ।
ये केचिद्भुञ्जते मर्त्यास्ते मे दण्डेषु यान्ति हि
तद्भयाद्धि जनाः सर्वे द्वादशीं समुपासते ।
व्याजेनापि मुनुश्रेष्ठ द्वादश्यां समुपोषिताः
प्रयान्ति वैष्णवं लोकं दाहप्रलयवर्जितम् ।
द्वादशीसेवनाल्लोकाः प्रायान्ति हरिमन्दिरम्
तेन राज्ञा द्विजश्रेष्ठ मार्गा लुप्ता ममाधुना ।
कृत हि नरकाः शून्या लोकाश्चापि दिवौकसाम्
विश्रान्तं लेखकेर्लेख्यं लिखितं मार्जितं जनैः ।
एकादश्युपवासस्य माहात्म्येन द्विजोत्तम
ब्रह्महत्यादिपापानि अभुक्त्वैव जना द्विज ।
समुपोष्य दिनं विष्णोः प्रयान्ति हरिमन्दिरम्
सो ऽहं काषाटमृगेणैव तुल्यो जातो महामुने ।
नेत्रहीनः कर्णहीनः संध्याहीनो द्विजो यथा
स्त्रीजितो वा पुमान्यद्वत्षण्ढो वा प्रमदापतिः ।
त्यक्तकामस्त्वहं ब्रह्मंल्लोकपालत्वमीदृशम्
यास्यामि ब्रह्मलोके वै दुःखं ज्ञापयितुं स्वकम् ।
निर्व्यापारो नियोगी तु नियोगे यस्तु तिष्ठति
स्वामिवित्तं समश्नाति स याति नरकं ध्रुवम् ।
सौतिरुवाच
एवमुक्त्वा यमो विप्रा नारदेन समन्वितः
ययौ विरञ्चिसदनं चित्रचिसदनं चित्रगुप्तेन चान्वितः ।
स ददर्श समासीनं मूर्तामूरतजनावृतम्
वेदाश्रयं जगद्बीजं सर्वेषां प्रपितामहम् ।
स्वभवं भूतनिलयमोङ्काराख्यमकल्मषम्
शुचिं शुचिपदं हंसं ब्रह्माणं दर्भलाञ्छनम् ।
उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः
इतिहासपुराणैश्च वेदौर्वेग्रहसंस्थितैः ।
मूर्तिमद्भिः समुद्रैश्य नदीभिश्च सरोवरैः
देहधृग्भिस्तथा वृक्षैरश्वत्थाद्यैर्विशेषतः ।
वापीकूपतडागाद्यैर्मूर्तिमद्भिश्च पर्वतैः
अहोरात्रैस्तथा पक्षैर्मासैः संवत्सरैर्द्विजाः ।
कलाकाष्ठानिमेषैश्च ऋतुभिश्चायनैर्युगैः
मन्वन्तरैस्तथा कल्पैर्निमेषैरुन्मिषैरपि ।
ऋक्षैर्योगैश्च करणैः पौर्णमासेंदुसंक्षयैः
सुखैर्दुःखैस्तथा द्वन्द्वैर्लाभालाभैर्जयाजयैः ।
सत्यानृतैश्च देवेशो वेष्टितो धर्मपावकः
कर्मविद्भिश्च पुरुषैरनुपैरुपास्यते ।
सत्त्वेन रजसा चैव तमसा च पितामहः
शान्तमूढातिघोरैश्च विकारैः प्राकृतैर्विभुः ।
वायुना श्लेष्मपित्ताभ्यां मूर्तैरातङ्कनामभिः
आनन्देन च विश्वात्मा परधर्मं समाश्रितः ।
अनुक्तैरपि भूतैश्च संवृतो लोककृत्स्वयम्
दुरुक्तैः कटुवाक्याद्यैर्मूर्तिमद्भिरुपास्यते ।
तेषां मध्ये ऽविशत्सौरिः सव्रीडेव वधूर्यथा
विलोकयन्नधोभागं नम्रवक्त्रो व्यदर्शयत् ।
ते प्रविष्टं यमं दृष्ट्वा सकायस्थं सनारदम्
विस्मिताक्षा मिथः प्रोचुः किमयं भास्करिस्त्विह ।
संप्राप्तो हि लोककरं द्रष्टुं देवं पितामहम्
निर्व्यापारः क्षणं नास्ति यो ऽयं व्यग्रो रवेः सुतः ।
सो ऽयमभ्यागतः कस्मात्कञ्चित्क्षेमं दिवौकसाम्
आश्चर्यातिशयं मन्ये यन्मार्जितपटस्त्वयम् ।
लेखकः समनुप्राप्तो दैन्येन महतान्वितः
न केनचित्पटो ह्यस्य मार्जितो ऽभूच्च धर्मिणा ।
यन्न दृष्टं श्रुन्त वापि तदिहैव प्रदृश्यते
एवमुच्चरतां तेषां भूतानां कृतशासनः ।
निपपाताग्रतो विप्रा ब्रह्मणो रविनन्दनः
मूलच्छिन्नो यथा शाखी त्राहि त्राहीति संरुदन् ।
परिभूतो ऽस्मि देवेश यन्मार्जितपटः कृतः
त्वया नाथेन विधुरं पश्यामि कमलासन ।
एवं ब्रुवन्स निश्चेष्टो बभूव द्विजसंत्तमाः
ततो हलहलाशब्दः सभायां समवर्तत ।
योर्ऽथं रोदयते लोकान्सर्वान्स्थावरज गमान्
सो ऽयं रोदिति दुःखार्तः कस्माद्वैवस्वतो यमः ।
अथवा सत्यगाथेयं लौकिकी प्रतिभाति नः
जनसन्तापकर्ता यः सो ऽचिरेणोपतप्यते ।
नहि दुष्कृतकर्मा हि नरः प्राप्नोति शोभनम्
ततो निवारयामास वायुस्तेषां वचस्तदा ।
लोकानां समचित्तानां मतं ज्ञात्वा हि वेधसः
निवार्य शङ्कां मार्तण्डिं शनैरुत्थापयन् विभुः ।
भुजाभ्यां साधुपीनाभ्यां लोकमूर्तिरुदारधीः
विह्वलं तं पलायन्तमासने संन्यवेशयत् ।
सकायस्थमुवाचेदं व्योममूर्तिं रवेः सुतम्
केन त्वमभिभूतो ऽसि केन स्थानाद्विवासितः ।
केनापमार्जितो देवपटो लोकपटस्तव
ब्रूहि सर्वमशेषेण कुशकेतुर्वदत्वयम् ।
यः प्रभुस्तात सर्वेषां स ते कर्ता समुन्नतिम् ।
अपनेष्यति मार्तण्डे दुःखं हृदयसंस्थितम्
स एवमुक्तस्तु प्रभञ्जनेन दिनेशसूनुस्तमथो बभाषे ।
विलोक्य वक्त्रं कुशकेतुसूनोः सगद्गदं मन्दमुदीरयन्वचः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0