नारद पुराण · अध्याय 2.1
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने चतुर्थपादे पुराणमहिमावर्णनं नाम पञ्चविंशोत्तरशततमो ऽध्यायः
समाप्तोयं बृहन्नारदीयपुराणस्य पूर्वभागः
श्रीराधामदनमोहनो जयति तराम्
उत्तरभागः
श्रीगणेशाय नमः
श्रीकृष्णाय नमः
पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तंभाश्चत्वारो हरिबाहवः
सुरद सुरशिरोरत्ननिघृष्टमणिरञ्जितम् ।
हरिपादांबुजद्वन्द्वमभीष्टप्तदमस्तु नः
मान्धातोवाच
पापेन्धनस्य घोरस्य शुष्कार्द्रस्य द्विजोत्तम ।
कोवह्निर्दहते तस्य तद्भवान्वक्तुमर्हति
नाज्ञातं त्रिषु लोकेषु चतुर्मुखसमुद्भव ।
विद्यते तव विप्रेन्द्र त्रिविधस्य सुनिश्चितम्
अज्ञातं पातकं शुष्कं ज्ञातं चार्द्रमुदाहृतम् ।
भाव्यं वाप्यथवातीतं वर्तमान वदस्व नः
वह्निनो केन तद्भस्म भवेदेतन्मतं मम ।
वसिष्टं उवाच
श्रूयतां नृपशार्दूल वह्निना येन तद्भवेत्
भस्म शुष्कं तथार्द्रं च पापमस्य ह्येशेषतः
अवाप्य वासरं विष्णोर्यो नरः संयतेन्द्रियः ।
उपवासपरो भूत्वा पूजयेन्मधुसूदनम्
स धात्रीस्नानसहितो रात्रौ जागरणान्वितः ।
विशोधयति पापानि कितवो हि यथा धनम्
एकदाशीसमाख्येन वह्निना पातकेन्धनम् ।
भस्मतां याति राजेन्द्र अपि जन्मशतोद्भवम्
नेदृश पावनं किञ्चिन्नाराणां भूप विद्यते ।
यादृशं पद्मनाभस्य दिनं पातकहानिदम्
तावत्पापानि देहे ऽस्मिंस्तिष्ठन्ति मनुजाधिप ।
यावन्नोपवसेज्जन्तुः पद्मनाभदिमं शुभम्
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम्
एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो ।
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत्
एकादशीसमं किञ्चित्पापनाशं न विद्यते ।
व्याजेनापि कृता राजन्न दर्शयति भास्करिम्
स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रदायिनी ।
सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी
न गङ्गा न गया भूप न काशी न च पुष्करम् ।
न चापि कैरवं क्षेत्रं न रेवा न च देविका
यमुना चन्द्रभागा च पुण्या भूप हरेर्दिनात् ।
अनायासेन राजेन्द्र प्राप्यते हरिमन्दिरम्
रात्रौ जामरण कृत्वा समुपोष्य हरेर्दिनम् ।
सर्वपापविनिर्मुक्तो विष्णुलोके व्रजेन्नरः
दशैव मातृके पक्षे दश राजेन्द्र पैतृके ।
भार्याया दश पक्षे च पुरुषानुद्धरेत्तथा
आत्मानमपि राजेन्द्र स नयेद्वैष्णवं पुरम् ।
चिन्तामणिसमा ह्येषा अथवापि निधेः समा
संकल्पपादपप्रख्या वेदवाक्योपमाथवा ।
द्वादशीं ये प्रपन्ना हि नरा नरवरोत्तम
ते द्वन्द्वबाहवो जाता नागारिकृतवाहनाः ।
स्रग्विणः पीतवस्त्राश्च प्रयान्ति हरिमन्दिरम्
एष प्रभावो हि मया द्वादश्याः परिकीर्तितः ।
पापेन्धनस्य घोरस्य पावकाख्यो महीपते
हरेर्द्दिनं सदोपोष्यं नरैर्धर्मपरायणैः ।
इच्छद्भिर्विपुलान्योगान्पुत्रपौत्रादिकांस्तथा
हरिदिनमिह मर्त्यो यः करोत्यादरेण नरवर स तु कुक्षिं मातुराप्नोति नैव ।
बहुवृजिनसमेतो ऽकामतः कामतो वा व्रजति पदमनन्तं लोकनाथस्य विष्णोः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0