नारद पुराण · अध्याय 2.11
इति श्रीबृहन्नारदीयपुराणोत्तरभागे रुक्माङ्गद वामदेवसंवादो नाम दशमो ऽध्यायः
वसिष्ठ उवाच
तच्छ्रुत्वा नृपतेर्वाक्यं महाज्ञानी मुनीश्वरः ।
चिन्तयित्वा क्षणं ज्ञात्वा कारणं तमुचाव ह
वामदेव उवाच
पुरा त्वमवनीपाल शूद्रजातिसमुद्भवः ।
दारिर्द्येण पराभूतो दुष्टया भार्यया तथा
परसेवनया चैव वेतनेन भुजिक्रिया ।
निवसन्दुःखसंतप्तो बहुवर्षाणि पार्थिव
कदाचिद्द्विजसंसर्गात्तीर्थयात्रां गतो भवान् ।
ततः सर्वाणि तीर्थानि परक्रम्य महीपते
द्विजसेवापरो जातो मथुरां पुण्यरूपिणीम् ।
तत्र स्नातं त्वया विप्रसंगेन यमुनाजले
विश्रान्तिसंज्ञके तीर्थे सर्वतीर्थोत्तमोत्तमे ।
मन्दिरे च वराहस्य कथ्यमानां कथां नृप
पुराणोक्तां च शुश्राव अशून्यशयनव्रतम् ।
चतुर्भिः पारणैर्यस्य निष्पत्तिस्तु विधीयते
येन चीर्णेन देवेशो जीमूताभः प्रसीदति ।
लक्ष्मीभर्ता जगन्नाथो निःशेषाघौघनाशनः
तत्कृतं भवता राजन्पुनरभ्येत्य मन्दिरम् ।
अशून्यशयनं पुण्यं गृहे वृद्धिकरं परम्
अकृत्वेदं महाराज व्रतं पातकनाशनम् ।
गार्हस्थ्यमनुतिष्ठेत वन्ध्यावन्निष्फलो भवेत् ।
सुखमीदृग्विधं लोके दुर्लभं प्रतिभाति मे
श्रावणस्य तु मासस्य द्वितीययां महीपते ।
ग्राह्यमेतद्व्रतं पुण्यं जन्ममृत्युजरापहम्
लक्ष्मीयुक्तो जगन्नाथः पूजनीयो ऽत्र पार्थिव ।
फलैः पुष्पैस्तथा धूपैश्चारुरक्तानुलेपनैः ।
शय्यादानैर्वस्त्रदानैस्तथा ब्राह्मणभोजनैः
तत्त्वया सर्वमेतद्धिकृतं राजन्सुदुस्तरम् ।
तस्यैव कर्मणः पुष्टिरशून्यस्य महीपते ।
इमानेवाग्रतः पुण्यास्त्वयोक्तान्विस्तराच्छृणु
नाप्रसन्नें जगन्नाथे भवेयुरिति निश्चितम् ।
पूर्वजन्मनि देवेशस्त्वयाशून्येन पूजितः
इह जन्मनि राजेन्द्र द्वादश्यार्चयसे हरिम् ।
अवश्यं प्राप्यसे राजन् विष्णोः सायुज्यतां ध्रुवम्
एष प्रश्नो मया राजन्व्याख्यातस्ते सुमङ्गलः ।
संपदां प्रभवोपेतो ज्ञातेरुत्कर्षणार्थकः
किमन्यत्ते महीपाल ददामीह करोमि च ।
अवश्यं सर्वयोग्यो ऽसि भक्तो ऽसि त्वं जनार्दने
राजोवाच
उत्सुको ऽहं द्विजश्रेष्ठ मन्दरं पर्वतं प्रति ।
तत्राश्चर्याण्यनेकानि द्रष्टुकामस्तवाज्ञया
लघुर्भूत्वा गुरुं त्यक्त्वा पुत्रोपरि द्विजोत्तम ।
राज्यशासनजं भारं दुर्वहं यच्च भूमिपैः
सो ऽहं स्वेच्छाचरो यातो मत्कृत्यं तनयश्चरेत् ।
तच्छत्वा वचनं राज्ञो वामदेवो ऽब्रवीदिदम्
एतद्धि परमं कृत्यं पुत्रस्य नृपपुङ्गवं ।
यत्क्लेशात्पितरं प्रेम्णा विमोचयति सर्वदा
पितुर्वचनकारी च मनोवाक्कायशक्तितः ।
तस्य भागीरथीस्नानमहन्यहनि जायते
निरस्य पितृवाक्यं तु व्रजेत्स्नातुं सुरापगाम् ।
नो शुद्धिस्तस्य पुत्रस्य इतीत्थं वैदिकी श्रुतिः
स त्वं गच्छ यथाकामं कृतकृत्यो ऽसि भूपते ।
हरिप्रसादात्ते जातो वंशे पुत्रः स पुण्यकृत्
एवमुक्ते तु मुनिना समारुह्य तुरङ्गमम् ।
ययौ शीघ्रगतिः श्रीमान्सदागतिरिव स्वयम्
वीक्ष्यमाणो गिरीन्सर्वान्वनानि सरितस्तथा ।
सर्वाश्चर्याणि राजेन्द्रः सरांस्युपवनानि च
सो ऽचिरेणैव कालेन संप्राप्तो मन्दराचलम् ।
भ्रामयित्वा गिरिं श्वेतं गन्धमादनमेव च
अतीत्य च महामेरुं दृष्ट्वा चैवोत्तरान्कुरून् ।
शतसूर्यप्रतीकाशं सर्वतः काञ्चनावृतम्
संघृष्टं हरिबाहुभ्यां स्रवन्तं काञ्चनं रसम् ।
तद्भूभागं नगाकीर्णं बहुधातुविभूषितम्
बहुनिर्झरसंयुक्तं बहुकन्दरभूषितम् ।
निम्नागायुतसंपूर्णं धौतं गङ्गाजलैः शुभैः
विश्वस्तैर्युवतीवृन्दैः कान्ताशर्मोपसेविभिः ।
घटप्रमाणैर्नृपते परिपक्वैः सुगन्धिभिः
फलैर्युवतिसंभूतैः कुचैरिव विभूषितम् ।
द्विरेफध्वनिसंयुक्तं कोकिलस्वरनादितम्
अनेकसत्त्वविरुतैः समन्तान्नादितं गिरिम् ।
संपश्यमानो नृपतिर्विवेश स महागिरिम्
आरोढुकामस्तु कुतूहलात्तमन्वेषयन्केन पथा प्ररोहम् ।
स वीक्षते यावदसौ समन्तात्तावत्समस्तं द्रुमपक्षिसंघम्
विसर्पमाणं ध्वनिना गृहीतं विमोहिनीवक्त्रसमुद्भवेन ।
उपप्लवन्तं तरसा महीपस्तेनैव सार्द्धं स जगाम तूर्णम्
तस्यापि कर्णे ध्वनिराविवेश विमोहिनीवक्त्रसमुद्भवो यः ।
विमोहितो येन विमुच्य वाहं त्रिविक्रमेणेव विलङ्घ्यमानम्
मार्गं गिरेर्मोहिनिगीतमुग्धं क्षणेन राजा सहसा ददर्श ।
गिरौ स्थितां तप्तसुवर्णभासं कामस्य यष्टीमिव निर्मितां च
शक्रस्य लिङ्गं गगने प्रसक्तं संपूजयन्तीमिव लोकसूत्यै ।
क्षमास्वरूपामिव वै रसाया गिरेः सुताया इव रूपराशिम्
सिंधोस्तु वेलामिव रूपयुक्तां तस्यास्तनुं वै रतिमन्दिराख्याम् ।
विकर्षमाणां सहसा त्रिनेत्रं लिङ्गाश्रयं देवविनोदनार्थम्
तत्पुण्यकर्त्तुर्मनसाभिलाषां व्यवस्थितो मोहिनिरूपदर्शी ।
विमोहितो ऽसौ निपपात राजा विमोहिनीकामशरेण विद्धः
ज्वरेण तीव्रेण गृहीतदेहः समीपमस्याः स ससर्प शीघ्रम् ।
विसर्पिणं भूमिपतिं सुनेत्रा विलोकयामास कटाक्षदृष्ट्या
विमुच्य वीणां विरराम गीतात्पाप्तं च कार्यं सहसैव मेने ।
विधूनयन्ती मृगपक्षिसघान्सुवाससा गण्डभुजौ निवार्य
शिलीमुखान् श्वाससुगन्धमुग्धान् जगाम देवी नृपतेः समीपम् ।
त्यक्त्वा हरं पूज्यतमं सुलिङ्गं गगत्वा तु पार्श्वे तमुदारचेष्टा
विमोहिनी नीररजपत्रनेत्रा उवाच वाक्यं मधुरं मनोज्ञम् ।
रुक्माङ्गदं कामशराभितप्तमुत्तिष्ठ राजन्वशगा तवाहम्
किं मूर्च्छया देहमिमं क्षिणोषि यस्त्वं धराभारमिमं महान्तम् ।
तृणीकृतं भूप समुद्वहेथा यन्मामकं रूपमवेक्ष्य हारि
किं मुह्यसे दुर्बलगौरिवेह पङ्के निमग्ना भव त्वम् ।
धीरो ऽसि विडंबयेथाः किमर्थमात्मानमुदारचेष्टम्
यद्यस्ति वाञ्छा तव भूपतीश ममानुकूले सुरते ऽतिहृद्ये ।
प्रदाय दानं च सुधर्ममुक्तं भुङ्क्ष्व स्वदासीमिव मां रतिज्ञाम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0