भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 2.12

2.12.1

इति श्रीबृहन्नारदीयपुराणोत्तरेभागे मोहिनीदर्शनं नाम एकादशो ऽध्यायः
वसिष्ट उवाच
व्याहृते शोभने वाक्ये मोहिन्या नृपतिस्तदा ।
उन्मील्य नेत्रे राजेन्द्र शतपत्रनिभे तथा

2.12.2

सगद्गदमुवाचेदं मुग्धो मोहिनिदर्शनात् ।
मया बाले सुबहुशः पूर्णचन्द्रनिभाननाः

2.12.3

दृष्टास्तथानुभूताश्च नेदृग्दृष्टं वपुः क्वचित् ।
यादृशं त्वं धारयसे रूपं लोकविमोहनम्

2.12.4

सो ऽहं दर्शनमात्रेण त्वदीयेन वरानने ।
मनोभवशरैर्विद्धः पतितः सहसा क्षितौ ।
अजल्पितवचो देवि मोहितस्तव तेजसा

2.12.5

कुरु प्रसादं करभोरु मह्यं दास्यामि सर्वं तव चित्तसंस्थम् ।
नादेयमस्तीह जगत्त्रये ऽपि तवानुरागेण निबद्धचेतसः

2.12.6

इमां धरां भूधरभूषिताङ्गीं समुद्रवस्त्रां शशिसूर्यनेत्राम् ।
घनस्तनीं व्योमसुबद्धदेहां निष्काननां सुंदरि वामशीलाम्

2.12.7

पातालगुह्यां बहुवृक्षरोम्णीं सप्ताधरां सुभ्रु तवास्मि दाता ।
सकोशबद्धां गजवाजिपूर्णां समन्त्रिहृद्यां नगरैः समेताम्

2.12.8

आत्मानमपि दास्यामि तवा चार्वङ्गि संगमे ।
किं पुनर्द्धनरत्नादि प्रसीद मम मोहिनि

2.12.9

नृपस्य वचनं श्रुत्वा मोहिनी मधुराक्षरम् ।
समुवाच स्मितं कृत्वा तमुत्थाप्य नृपं तदा

2.12.10

न धरां भूधरोपेतां वरये वसुधाधिप ।
यद्विदिष्याम्यहं काल तत्कार्यमविशङ्कया

2.12.11

भजिष्यामि न संदेहः कुरुष्व समयं मम ।
राजोवाच
येन संतुष्यसे देवि समयं तं करोम्यहम्

2.12.12

दशावस्थां गतो देहो मम त्वत्संगमं विना

2.12.13

मोहिन्युवाच
दीयतां दक्षिणो हस्तो बहुधर्मकरस्तव ।
येन मे प्रत्ययो राजन् वचने तावके भवेत्

2.12.14

राजा त्वं धर्मशीलो ऽसि सत्यकीर्तिर्जगत्त्रये ।
न वक्तास्यनृतं काले मार्गायं लौकिकः कृतः

2.12.15

एवं ब्रवाणां राजेन्द्रो मोहिनीं हृच्छयातुरः ।
अब्रवीन्नृपतिस्तां तु सुप्रसन्नमना नृप

2.12.16

जन्मप्रभृति वामोरु नानृतं भाषितं मया ।
स्वैरेष्वपि विहारेषु कदापि वरवाणिंनि

2.12.17

अथवा व्याहृतैर्वाक्यैः किमेभिः प्रत्ययाक्षरैः ।
दतो ह्येष मया हस्तो दक्षिणः पुण्यलाञ्छनः

2.12.18

यन्मया सुकृतं किञ्चित्कृतमाजन्म सुन्दरि ।
तत्सर्वं तव वामोरु यदि कुर्यान्न ते वचः

2.12.19

अन्तरे ह्येष दत्तो मे धर्मो भार्या भवाङ्गने ।
तव रूपेण मे क्षोभः सहसा प्रत्युपस्थितः

2.12.20

ऋतध्वजसुतश्चाहं नाम्ना रुक्मां गदो नृपः ।
इक्ष्वाकुवशसंभूतः सुतो धर्माङ्गदो मम

2.12.21

मृगव्याजेन गहनं प्रविष्टश्चारुलोचने ।
ततो दृष्टो वने हृद्यो वामदेवाश्रमो मया

2.12.22

मुनिना जल्पितं तत्र किञ्चित्तेन विसर्जितः ।
आरुह्य वाहनश्रेष्ठंमन्दरं द्रष्टुमागतः

2.12.23

भ्रममाणो गिरिवरं कुतूहलमनास्तदा ।
प्राप्तं मच्छ्रवणे गीतं तव वक्त्रविनिर्गतम्

2.12.24

तेन गीतेन चाकृष्टस्त्वत्समीपमुपागतः ।
दृष्टेः पथमनुप्राप्ता मम त्वं चारुलोचने

2.12.25

ततो ऽहं मूर्च्छितो देवि विसंज्ञः पतितः क्षितौ ।
सांप्रतं चेतनायुक्तस्तव वाक्यामृतेन हि

2.12.26

पुनर्जातमिवात्मानं मन्ये ऽहं लोकमोहिनि ।
प्रत्युत्तरप्रदानेन प्रसादं कर्त्तुमर्हसि

2.12.27

नृपेणैव समुद्दिष्टा मोहिन्याहोत्तरं वचः ।
अहं ब्रह्मभवा राजंस्त्वदर्थं समुपागता

2.12.28

श्रुत्वा कीर्ति स्मरोपेता मन्दरं कनकाचलम् ।
परित्यज्य सुरान्सर्वान्विश्वंभरपुरोगमान्

2.12.29

समाहितमनास्त्वत्र तपस्यानिरता स्थिता ।
संपूजयन्ती देवेशं गीतदानेन शङ्करम्

2.12.30

गीतदानमहं मन्ये सुराणामतिवल्लभम् ।
सर्वदानाधिकं भूप ह्यनन्तगतिदायकम्

2.12.31

येन तुष्टः पशुपतिः सद्यः प्रत्युपकारकः ।
ईप्सितो ऽयं मया प्राप्तो भवानवनिपालकः

2.12.32

अभिप्रीतो ऽसि मे राजन्नभिप्रीता ह्यहं तव

2.12.33

तमेवं मुक्त्वा द्विजराजवक्त्रा करं गृहीत्वा नृपतेस्तु वेगात् ।
उत्थापयामास धराशयानमिन्द्रस्य यष्टीमिव मोहिनी सा

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc