भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.98

1.98.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे नारदीयपुराणानुक्रमणीकथनं नाम सप्तनवतितमो ऽध्यायः
श्रीब्रह्मोवाच
अथ ते संप्रवक्ष्यामि मार्कण्डेयाभिधं मुने ।
पुराणं सुमहत्पुण्यं पठतां शृण्वतां सदा

1.98.2

यत्राधिकृत्य शकुनीन्सर्वधर्मनिरूपणम् ।
मार्कण्डेयपुराणं तन्नवसाहस्रमीरितम्

1.98.3

मार्कण्डेयमुनेः प्रश्नो जैमिनेः प्राक्समीरितः ।
पक्षिणां धर्मसंज्ञानं ततो जन्मनिरूपणम्

1.98.4

पूर्वजन्मकथा चैषां विक्रिया चा दिवस्पतेः ।
तीर्थयात्रा बलस्याथ द्रौपदेयकथानकम्

1.98.5

हरिश्चन्द्रकथा पुण्या युद्धमाडीबकाभिधम् ।
पितापुत्रसमाख्यानं दत्तात्रेयकथ ततः

1.98.6

हैहसस्याथ चरितं महाख्यानसमन्वितम् ।
मदालकसाकथा प्रोक्ता ह्यलर्कचरितान्विता

1.98.7

सृष्टिसंकीर्तनं पुण्यं नवधापारिकीर्तितम् ।
कल्पान्तकालनिर्देशो यक्षसृष्टिनिरूपणम्

1.98.8

रुद्रादिसृष्टिरप्युक्ता द्वीपचर्यानुकीर्तनम् ।
मनूनां च कथा नानाकीर्तिताः पापहारिकाः

1.98.9

तासु दुर्गाकथात्यन्तं पुण्यदा चाष्टमेंऽतरे ।
तत्पश्चात्प्रणवोत्पत्तिस्त्रयीतेजः समुद्भवा

1.98.10

मार्तण्डस्य च जन्माख्यातन्माहात्म्यसमन्विता ।
वैवस्वतान्वयश्चापि वत्सप्रीश्चरितं ततः

1.98.11

खनित्रस्य ततः प्रोक्ता कथा पुण्या महात्मनः ।
अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम्

1.98.12

नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः ।
नलस्य चरितं पश्चाद्रामचन्द्रस्य सत्कथा

1.98.13

कुशवंशसमाख्यानं सोमवंशानुकीर्त्तनम् ।
पुरुरवः कथा पुण्या नहुषस्य कथाद्भुता

1.98.14

ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् ।
श्रीकृष्णबालचरितं माथुरं चरितं ततः

1.98.15

द्वारकाचरितं चाथ कथा सर्वावतारजा ।
ततः सांख्यसमुद्देशः प्रपञ्चासत्त्वकीर्तनम्

1.98.16

मार्कण्डेयस्य चरितं पुराणश्रवणे फलम् ।
यः शृणोति नरो भक्त्या पुराणमिदमादरात्

1.98.17

मार्कण्डेयाभिधं वत्स स लभेत्परमां गतिम् ।
यस्तु व्याकुरुते चैतच्छैवं स लभते पदम्

1.98.18

तत्प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् ।
कार्तिक्यां द्विजवर्याय स लभेन्द्ब्रह्मणः पदम्

1.98.19

शृणोति श्रावयेद्वापि यश्चानुक्रमणीमिमाम् ।
मार्कण्डेयपुराणस्य स लभेद्वाञ्छितं फलम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc