नारद पुराण · अध्याय 1.99
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मार्कण्डेयपुराणानुक्रमणीनिरूपणं नामाष्टनवतितमो ऽध्यायः
श्रीब्रह्मोवाच
अथातः संप्रवक्ष्यामि तवाग्नेयपुराणकम् ।
ईशानकल्पवृत्तान्तं वसिष्ठायानलो ऽब्रवीत्
तत्पञ्चदशसाहस्रं नाना चरितमद्भुतम् ।
पठतां शृण्वतां चैव सर्वपापहरं नृणाम्
प्रश्नः पूर्वं पुराणस्य कथा सर्वावतारजा ।
सृष्टिप्रकरणं चाथ विष्णुपूजादिकं ततः
अग्निकार्यं ततः पश्चान्मन्त्रमुद्रादिलक्षणम् ।
सर्वदीक्षाविधानं च अभिषेकनिरूपणम्
लक्षणं मण्डलादीनां कुशापामार्जनं ततः ।
पवित्रारोपणविधिर्देवालयविधिस्ततः
शालग्रामादिपूजा च मूर्तिलक्ष्म पृथक्पृथक् ।
न्यासादीनां विधानं च प्रतिष्ठापूर्तकं ततः
विनायकादिपूजा च नानादीक्षाविधिः परम् ।
प्रतिष्ठा सर्वदेवानां ब्रह्मण्डस्य निरूपणम्
गङ्गादितीर्थमाहात्म्यं द्वीपवर्षानुवर्णनम् ।
ऊर्द्ध्वाधोलोकरचना ज्योतिश्चक्रनिरूपणम्
ज्योतिषं च ततः प्रोक्तं शास्त्रं युद्धजयार्णवम् ।
षट्कर्म च ततः प्रोक्तं मन्त्रमन्त्रौषधीगणः
कुब्जिकादिसमर्चत्वं षोढा न्यासविधिस्तथा ।
कोटिहोमविधानं च मन्वन्तरनिरूपणम्
ब्रह्मचर्यादिधर्मांश्च श्राद्धकल्पविधिस्ततः ।
ग्रहयज्ञस्ततः प्रोक्तोवैदिकस्मार्तकर्म च
प्रायश्चित्तानुकथनं तिथीनां च व्रतादिकम् ।
वारव्रतानुकथनं नक्षत्रव्रतकीर्तनम्
मासिकव्रतनिर्द्देशो दीपदानविधिस्तथा ।
नवव्यूहार्चनं प्रोक्तं नरकाणां निरूपणम्
व्रतानां चापि दानानां निरूपणमिहोदितम् ।
नाडीचक्रसमुद्देशः संध्याविधिरनुत्तमः
गायत्र्यर्थस्य निर्द्देशो लिङ्गस्तोत्रं ततः परम् ।
राज्याभिषेकमन्त्रोक्तिर्द्धर्मकृत्यं च भूभुजाम्
स्वप्नाध्यायस्ततः प्रोक्तः शकुनादिनिरूपणम् ।
मण्डलादिकनिर्द्देंशो रत्नदीक्षाविधिस्ततः
रामोक्तनीतिनिर्द्देशो रत्नानां लक्षणं ततः ।
धनुर्विद्या ततः प्रोक्ता व्यवहारप्रदर्शनम्
देवासुरविमर्दाख्या ह्यायुर्वेदनिरूपणम् ।
गजादीनां चिकित्सा च तेषां शान्तिस्ततः परम्
गोनरादिचिकित्सा च नानापूजास्ततः परम् ।
शान्तयश्चापि विविधाश्छन्दः शास्त्रमतः परम्
साहित्यं च ततः पश्चादेकार्णादिसमाह्वयाः ।
सिद्धशब्दानुशिष्टिश्चकोशः सर्गादिवर्गकः
प्रलयानां लक्षणं च शारीरकनिरूपणम् ।
वर्णनं नरकाणां च योगाश्त्रमतः परम्
ब्रह्मज्ञानं ततः पश्चात्पुराणश्रवणे फलम् ।
एतदाग्नेयकं विप्र पुराणं परिकीर्तितम्
तल्लिखित्वा तु यो दद्यात्सुवर्णकलमान्वितम् ।
तिलधेनु युतं चापि मार्गशीर्ष्यां विधानतः
पुराणार्थविदे सो ऽथ स्वर्गलोके महीयते ।
एषानुक्रमणी प्रोक्ता तवाग्नेयस्य मुक्तिदा
शृण्वतां पठतां चैव नृणां चेह परत्र च
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0