भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.97

1.97.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे श्रीमद्भागवतानुक्रमणीनिरूपणं नाम षण्णवतितमो ऽध्यायः
श्रीब्रह्मोवाच
शृणु विप्र प्रवक्ष्यामि पुराणं नारदीयकम् ।
पञ्चविंशतिसाहस्रं बृहत्कल्पकथाश्रयम्

1.97.2

सूतशौनकसंवादः सृष्टिसंक्षेपवर्णनम् ।
नानाधर्मकथाः पुण्याः प्रवृत्ते समुदाहृताः

1.97.3

प्राग्भागे प्रथमे पादे सनकेन महात्मना ।
द्वितीये मोक्षधर्माख्ये मोक्षोपायनिरूपणम्

1.97.4

वेदाङ्गानां च कथनं शुकोत्पत्तिश्च विस्तरात् ।
सनन्दनेन गदिता नारदाय महात्मने

1.97.5

महातन्त्रे समुद्दिष्टं पशुपाशविमोक्षणम् ।
मन्त्राणां शोधनं दीक्षामन्त्रोद्धारश्च पूजनम्

1.97.6

प्रयोगाः कवचं नामसहस्रं स्तोत्रमेव च ।
गणेशसूर्यविष्णूनां शिवशक्त्योरनुक्रमात्

1.97.7

सनत्कुमारमुनिना नारदाय तृतीयके ।
पुराणलक्षणं चैव प्रमाणं दानमेव च

1.97.8

पृथक्पृथक् समुद्दिष्टं दानकालपुरःसरम् ।
चैत्रादिसर्वमासेषु तिथीनाञ्चपृथक्पृथक्

1.97.9

प्रोक्तं प्रतिपदादीनां व्रतं सर्वाघनाशनम् ।
सनातनेन मुनिना नारदाय चतुर्थके

1.97.10

पूर्वभागो ऽयमुदितो बृहदाख्यानसंज्ञितः ।
अस्योत्तरे विभागे तु प्रश्न एकादशीव्रते

1.97.11

वसिष्ठेनाथ संवादो मान्धातुः परिकीर्तितः ।
रुक्माङ्गदकथा पुण्यामोहिन्युत्पत्तिकर्म च

1.97.12

वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया ।
गङ्गाकथा पुण्यतमा गयायात्रानुकीर्तनम्

1.97.13

काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् ।
यात्राविधानं क्षेत्रस्य बह्वाख्यानसमन्वितम्

1.97.14

प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् ।
हरिद्वारस्य चाख्यानं कामोदाख्यानकं तथा

1.97.15

बदरीतीर्थमाहात्म्यं कामाक्षायास्तथैव च ।
प्रभासस्य च माहात्म्यं पुष्कराख्यानकं ततः

1.97.16

गौतमाख्यानकं पश्चाद्वेदपादस्तवस्ततः ।
गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा

1.97.17

सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम् ।
अवन्त्याश्चैव माहात्म्यं मधुरायास्ततः परम्

1.97.18

बृन्दावनस्य महिमा पशोर्ब्रह्मान्तिके गतिः ।
मोहिनीचरितं पश्चादेवं पश्चादेवं वै नारदीयकम्

1.97.19

यः शृणोति नरो भक्त्याश्रावयेद्वा समाहितः ।
स याति ब्रह्मणो धाम नात्र कार्या विचारणा

1.97.20

यस्त्वेतदिषुपूर्णायां धेनूनां सप्तकान्वितम् ।
प्रदद्याद्दिजर्ंयाय संलभेन्मोक्षमेव च

1.97.21

यश्चानुक्रमणीमेतां नारदीयस्य वर्णयेत् ।
शृणुयद्वैकचित्तेन सो ऽपि स्वर्गगतिं लभेत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc