नारद पुराण · अध्याय 1.95
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे विष्णुपुराणानुक्रमणीनिरूपणं नाम चतुर्नवतितमो ऽध्यायः
ब्रह्मोवाच
शृणु विप्र प्रवक्ष्यामि पुराणं वायवीयकम् ।
यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः
चतुर्विंशतिसाहस्रं तत्पुराणं प्रकीर्तितम् ।
श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः
तद्बायवीयनुदितं भागद्वयसमन्वितम् ।
सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम्
मन्वन्तरेषु वंशाश्च राज्ञां ये यत्र कीर्तिताः ।
गयासुरस्य हननं विस्तराद्यत्र कीर्तितम्
मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् ।
दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा
भूपातालककुब्व्योमचारिणां यत्र निर्णयः ।
व्रतादीनां च पूर्वो ऽयं विभागः समुदाहृतः
उत्तरे तस्य भागेतु नर्मदातीर्थवर्णनम् ।
शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर
यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः ।
स तु सर्वात्मना यस्यास्तीरे तिष्ठति संततम्
इदं ब्रह्मा हारीरिदं साक्षाच्चेदं परो हरः ।
इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम्
ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः ।
शक्तिः कापि सरिदृपा रेवेयमवतारिता
ये वसंत्युत्तरे कूले रुद्रस्यानुचरा हि ते ।
वसंति याम्यतीरे ये लोकं ते यान्ति वैष्णवम्
ओङ्कारेश्वरमारभ्ययावत्पश्चिमसागरः ।
संगमाः पञ्च च त्रिंशन्नदीनां पापनाशनी
दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे ।
पञ्चत्रिंशत्तमः प्रोक्तो रेवासागरसगमः
संगमैः सहितान्येव रेवातीरद्वये ऽपि च ।
चतुःशतानि तीर्थानि प्रसिद्धानि च संति हि
षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर ।
संति चान्यानि रेवायास्तीरयुग्मे पदे पदे
संहितेयं महापुण्या शिवस्य परमात्मनः ।
नर्मदाचरितं यत्र वायुना परिकीर्तितम्
लिखित्वेदं पुराणं तु गुडधेनुसमन्वितम् ।
श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुंबिने
रुद्रलोके वसेत्सो ऽपि यावदिन्द्राश्चतुर्द्दश ।
यः श्रावयेद्वा शृणुयाद्वायवीयमिदं नरः
नियमेन हविष्याशी स रुद्रो नात्र संशयः ।
यश्चानुक्रमणीमेतां शृणोति श्रावयेत्तथा
सो ऽपि सर्वपुराणस्य फलं श्रवणजं लभेत्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0