भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.94

1.94.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे पद्मपुराणानुक्रमणिकावर्णनं नाम त्रिनवतितमो ऽध्यायः
श्रीब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि पुराणं वैष्णवं महत् ।
त्रयोविंशतिसहस्रं सर्वपातकनाशनम्

1.94.2

यत्रादिभागे निर्विष्टाः षडंशाः शक्तिजेन ह ।
मैत्रेयायादिमे तत्र पुराणस्यावतारिकाम्

1.94.3

आदिकारणसर्गश्च देवादीनां च संभवः ।
समुद्रमथनाख्यानं दक्षादीनां ततो ऽन्वयः

1.94.4

ध्रुवस्य चरितं चैव पृथोश्चरितमेव च ।
प्रचेतसं तथाख्यानं प्रह्लादस्य कथानकम्

1.94.5

पृथग्राज्याधिकाराख्या प्रथमोंऽशैतीरितः ।
प्रियव्रतान्वयाख्याख्यानं द्वीपवर्षनिरूपणम्

1.94.6

पातालनरकाख्यानं सप्तस्वर्गनिरूपणम् ।
सूर्यादिवारकथनं पृथग्लक्षणसंयुतम्

1.94.7

चरितं भरतस्याथ मुक्तिमार्गनिदर्शनम् ।
निदाघऋभुसंवादो द्वितीयोंश उदाहृतः

1.94.8

मन्वन्तरसमाख्यानं वेदव्यासावतारकम् ।
नरकोद्धारकं कर्म गदितं च ततः परम्

1.94.9

सगरस्यौर्वसंवादे सर्वधर्मनिरूपणम् ।
श्राद्धकल्पं तथोद्दिष्टं वर्णाश्रमनिबन्धनम्

1.94.10

सदाचारश्च कथितो मायामोहकथा ततः ।
तृतीयोंऽशो ऽयमुदितः सर्वपापप्रणाशनः

1.94.11

सूर्यवंशकथ पुण्या सोमवंशानुकीर्तनम् ।
चतुर्थेंऽशेमुनिश्रेष्ठ नानाराजकथान्वितम्

1.94.12

कृष्णावतारसंप्रश्नो गोकुलीया कथा ततः ।
पूतनादिवधो बाल्ये कौमारे ऽघादिहिंसनम्

1.94.13

कैशोरे कंसहननं माथुरं चरितं तथा ।
ततस्तु यौवने प्रोक्ता लीला द्वारवतीभवा

1.94.14

सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः ।
यत्र स्थित्वाजगन्नाथः कृष्णो योगेश्वरेश्वरः

1.94.15

भूभारहरणं चक्रे परेषां हननादिभिः ।
अष्टावक्रीयमाख्यानं पञ्चमोंऽश इतीरितः

1.94.16

कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च ।
ब्रह्मज्ञानसमुद्देशः खाण्डिक्यस्य निरूपितः

1.94.17

केशिध्वजेन चेत्येष षष्ठाएंऽशः परिकीर्तितः ।
अतः परं तु सूतेन शौनकादिभिरादरात्

1.94.18

पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराह्वयाः ।
नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः

1.94.19

धर्मशास्त्रं चार्थशास्त्रं वेदान्तं ज्योतिषं तथा ।
वंशाख्यानं प्रकरणात् स्तोत्राणि मनवस्तथा

1.94.20

नानाविद्यास्तथा प्रोक्ताः सर्वलोकोपकारिकाः ।
एतद्विष्णुपुराणं वै सर्वशास्त्रार्थसंग्रहम्

1.94.21

वाराहकल्पवृत्तान्तं व्यासेन कथितं त्विह ।
यो नरः पठते भक्त्या यः शृणोति च सादरम्

1.94.22

तावुभौ विष्णुलोकं हि व्रजेतां भुक्तभोगकौ ।
तल्लिखित्वा च यो दद्यादाषाढ्यां घृतधेनुना

1.94.23

सहितं विणुभक्ताय पुराणार्थविदेद्विज ।
स याति वैष्णवं धाम विमानेनार्कवर्चसा

1.94.24

यश्च विष्णुपुराणस्य समनुक्रमणीं द्विज ।
कथयेच्छृणुयाद्वापि स पुराणफलं लभेत्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc