भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.96

1.96.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणानुक्रमणीनिरूपणं नाम पञ्चनवतितमो ऽध्यायः
ब्रह्मोवाच
मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् ।
श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम्

1.96.2

तदष्टादशसाहस्रं कीर्तितं पापनाशनम् ।
सुरपादपरूपो ऽयं स्कन्धैर्द्वादशभिर्युतः

1.96.3

भगवानेव विप्रेन्द्र विश्वरूपीसमीरितः ।
तत्र तु प्रथमस्कन्धे सूतर्षीणां समागमे

1.96.4

व्यासस्य चरितं पुण्यं पाण्डवानां तथैव च ।
परीक्षितमुपाख्यानमितीदं समुदाहृतम्

1.96.5

परीक्षिच्छुकसंवादे सृष्टिद्वयनिरूपणम् ।
ब्रह्मनारदसंवादे देवताचरितामृतम्

1.96.6

पुराणलक्षणं चैव सृष्टिकारणसंभवः ।
द्वितीयो ऽयं समुदितः स्कन्धो व्यासेन धीमता

1.96.7

चरितं विदुरस्याथ मैत्रेयेणास्य संगमः ।
सृष्टिप्रकरणं पश्चाद्बह्मणः परमात्मनः

1.96.8

कापिलं सांख्यमप्यत्र तृतीयो ऽयमुदाहृतः ।
सत्याश्चरितमादौ तु ध्रुवस्य चरितं ततः

1.96.9

पृथोः पुण्यसमाख्यानं ततः प्राचीनबर्हिषम् ।
इत्येष तुर्यो गदितो विसर्गे स्कन्ध उत्तमः

1.96.10

प्रियव्रतस्य चरितं तद्वंश्यानां च पुण्यदम् ।
ब्रह्माण्डान्तर्गतानां च लोकानां वर्णनं ततः

1.96.11

नरकस्थितिरित्येष संस्थाने पञ्चमो मतः ।
अजामिलस्य चरितं दक्षसृष्टिनिरूपणम्

1.96.12

वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम् ।
षष्ठो ऽयमुदितः स्कन्धोव्यासेन परिपोषणे

1.96.13

प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणम् ।
सप्तमो गदितो वत्स वासनाकर्मकीर्तने

1.96.14

गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूपणे ।
समुद्रमथनं चैव बलिवैभवबन्धनम्

1.96.15

मत्स्याक्तारचरितमष्टमो ऽयं प्रकीर्तितः ।
सूर्यवंशसमाख्यानं सोमवंशनिरूपणम्

1.96.16

वंश्यानुचरिते प्रोक्तो नवमो ऽयं महामते ।
कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः

1.96.17

कैशोरं मथुरास्थानं यौवनं द्वारकास्थितिः ।
भूभारहरणं चात्र निरोधे दशमः स्मृतः

1.96.18

नारदेन तु संवादो वसुदेवस्य कीर्तितः ।
यदोश्च दत्तात्रेयेण श्रीकृष्णोनोद्धवस्य च

1.96.19

यादवानां मिथोन्तश्च मुक्तावेकादशः स्मृतः ।
भविष्यकलिनिर्द्देशो मोक्षो राज्ञः परीक्षितः

1.96.20

वेदशाखाप्रणयनं मार्कण्डेयतपःक्रिया ।
सौरी विभूतिरुदिता सात्वती च ततः परम्

1.96.21

पुराणसंख्याकथनमाश्रये द्वादशो ह्ययम् ।
इत्येवं कथितं वत्स श्रीमद्भागवतं तव

1.96.22

वक्तुः श्रोतुश्चोपदेष्टुरनुमोदितुरेव च ।
साहाय्यकर्तुर्गदितं भक्तिभुक्तिविमुक्तिदम्

1.96.23

प्रौष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम् ।
देयं भागवतायेदं द्विजायप्रीतिपूर्वकम्

1.96.24

संपूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता ।
यो ऽप्यनुक्रमणीमेतां श्रावयेच्छृणुयात्तथा ।
स पुराणश्रवणजं प्राप्नोति फलमुत्तमम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc