भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.92

1.92.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे महेशमन्त्रकथनं नामैकनवतितमो ऽध्यायः
इति तृतीयः पादः
सूत उवाच
एतच्छ्रुत्वा नारदस्तु कुमारस्य वचो मुदा ।
पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम्

1.92.2

नारद उवाच
साधु साधु महाभाग सर्वलोकोपकारकम् ।
महातन्त्रं त्वया प्रोक्तं सर्वतन्त्रोत्तमोत्तमम्

1.92.3

अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् ।
यस्मिन्यस्मिन्पुराणे तु यद्यदाख्यानकं मुने ।
तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः

1.92.4

सूत उवाच
तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् ।
पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच ह

1.92.5

सनत्कुमार उवाच
पाराणाख्यानकं विप्र नानाकल्पसमुद्भवम् ।
नानाकथासमायुक्तमद्भुतं बहुविस्तरम्

1.92.6

ऋषिः सनातनश्चायं यथा वेद तथापरः ।
न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम्

1.92.7

श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः ।
प्रणम्य विनयोपेतः सनातनमथाब्रवीत्

1.92.8

नारद उवाच
ब्रह्मन्पुराणविच्छ्रेष्ठ ज्ञानविज्ञानतत्पर ।
पुराणानां विभागं मे साकल्ये नानुकीर्तय

1.92.9

यस्मिञ् श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम्

1.92.10

वर्णाश्रमाचारधर्मं साक्षात्कारमुपैष्यति ।
कियन्ति च पुराणानि कियत्संख्यानि मानतः

1.92.11

किङ्किमाख्यानयुक्तानि तद्वदस्व मम प्रभो ।
चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा

1.92.12

सृष्टिक्रमेण वंशानां कथाः सम्यक्प्रकाशय ।
त्वत्तो ऽधिको न चान्यो ऽस्ति पुराणाख्यानवित्प्रभो

1.92.13

तस्मादाख्याहि मह्यं त्वं सर्वसन्देहभञ्जनम् ।
सूत उवाच
ततः सनातनो विप्राः श्रुत्वा नारदभाषितम्

1.92.14

नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदां वरः ।
सनातन उवाच
साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका

1.92.15

पुराणाख्यानविज्ञाने यज्जाता नेष्ठिकी मतिः ।
तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा

1.92.16

मरीच्यादिऋषिभ्यस्तु पुत्रस्नेहावृतात्मना ।
एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः

1.92.17

स्वाध्यायश्रुतसंपन्नो वेदवेदागपारगः ।
उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम्

1.92.18

प्रणम्य भक्त्या पप्रच्छ इदमेव मुनिश्वर ।
पुराणाख्यानममलं यत्त्वं पृच्छसि मानद

1.92.19

मरीचिरुवाच
भगवन्देवदेवेश लोकानां प्रभवाप्यय ।
सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमो ऽस्तु ते

1.92.20

पुराणबीजमाख्यहि मह्यं शुश्रूषवे पितः ।
लक्षणं च प्रमाणं च प्रमाणं चं वक्तारं पृच्छकं तथा

1.92.21

ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि पुराणानां समुच्चयम् ।
यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम्

1.92.22

पुराणमेकमेवासीत्सर्वकल्पेषु मानद ।
चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम्

1.92.23

प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः ।
कालेनाग्रहणं दृष्ट्वा पुरामस्य महामतिः

1.92.24

हरिर्व्यासस्वरूपेण जायते च युगे युगे ।
चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा

1.92.25

तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि ।
अद्यापि देवलोके तु शतकोटिप्रविस्तरम्

1.92.26

अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते ।
ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च

1.92.27

भागवतं नारदीयं मार्कण्डेयं च कीर्तितम् ।
आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिङ्गके

1.92.28

वाराहं च तथा स्कान्दं वामनं कूर्मसंज्ञकम् ।
मात्स्यं च गारुडं तद्वद्ब्रह्माण्डाख्यमिति त्रिषट्

1.92.29

एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् ।
प्रवक्ष्यामि समासेन निशामय समाहितः

1.92.30

ब्रह्मं पुराणं तत्रादौ सर्वलोकहिताय वै ।
व्यासेन वेदविदुषा समाख्यातं महात्मना

1.92.31

तद्वै सर्वपुराणाग्र्यं धर्मकामार्थमोक्षदम् ।
नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते

1.92.32

देवानां च सुराणां च यत्रोत्पत्तिः प्रकीर्तिता ।
प्रजापतीनां च तथा दक्षादीनां मुनीश्वर

1.92.33

ततो लोकेश्वरस्यात्र सूर्यस्य परमात्मनः ।
वंशानुकीर्तनं पुण्यं महापातकनाशनम्

1.92.34

यत्रावतारः कथितः परमानन्दरूपिणः ।
श्रीमतो रामचन्द्रस्य चतुर्व्यूहावतारिणः

1.92.35

ततश्च सोमवंशस्यं कीर्तनं यत्र वर्णितम् ।
कृष्णस्य जगदीशस्य चरितं कल्मषापहम्

1.92.36

द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः ।
वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते

1.92.37

नरकाणां समाख्यानं सूर्यस्तुतिकथानकम् ।
पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते

1.92.38

दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् ।
पूर्वभागो ऽयमुदितः पुराणस्यास्य नारद

1.92.39

अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् ।
विस्तरेण समाख्यातं तीर्थयात्राविधानतः

1.92.40

अत्रैव कृष्णचरितं विस्तरात्समुदीरितम् ।
वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा

1.92.41

वर्णाश्रमाणां धर्माश्च कीर्तिता यत्र विस्तरात् ।
विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम्

1.92.42

योगानां च समाख्यानं सांख्यानां चापि वर्णनम् ।
ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम्

1.92.43

एतद्ब्रह्मपुराणं तु भागद्वयसमन्वितम् ।
वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम्

1.92.44

सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् ।
लिखित्वेतत्पुराणं यो वैशाख्यां हेमसंयुतम्

1.92.45

जलधेनुयुतं चापि भक्त्या दद्याद्द्विजातये ।
पौराणिकाय संपूज्य वस्त्रभोज्यविभूषणैः

1.92.46

स वसेद्ब्रह्मणो लोके यावच्चन्द्रार्कतारकम् ।
यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज

1.92.47

सो ऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत् ।
शृणोति यः पुराणं तु ब्रह्मं सर्वं जितेन्द्रियः

1.92.48

हविष्याशी च नियमात्स लभेद्ब्रह्मणः पदम् ।
किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc