भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.93

1.93.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्मपुराणेतिहासकथनं नाम द्विनवतितमो ऽध्यायः
ब्रह्मोवाच
शृणु पुत्र प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् ।
महत्पुण्यप्रदं नॄणां शृण्वतां पठतां मुदा

1.93.2

यथा चञ्चेन्द्रियः सर्वः शरीरीति निगद्यते ।
तथेदं पञ्चभिः खण्डैरुदितं पापनाशनम्

1.93.3

पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज ।
नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः

1.93.4

पुष्करस्य च माहात्म्यं विस्तरेण प्रकीर्तितम् ।
ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम्

1.93.5

दानानां कीर्तनं यत्र व्रतानां च पृथक्पृथक् ।
विवाहः शैलजायाश्चतारकाख्यानकं महत्

1.93.6

माहात्म्यं च गवादीनां कीर्तितं सर्वपुण्यदम् ।
कालकेयादिदैत्यानां वधो यत्र पृथक्पृथक्

1.93.7

ग्रहाणामर्चनं दानं यत्र प्रोक्तं द्विजोत्तम ।
तत्सृष्टिखण्डमुद्दिष्टं व्यासेन सुमहात्मना

1.93.8

पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरा ।
सुव्रतस्य कथा पश्चाद्वृत्रस्य च वधस्तथा

1.93.9

पृथोर्वैनस्य चाख्यानं सुनूथायाः कथा तथा ।
सुकलाख्यानकं चैव धर्माख्यानं ततः परम्

1.93.10

पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः ।
ययातिचरितं चैव गुरुतीर्थनिरूपणम्

1.93.11

राज्ञा जैमिनिसंवादो बह्वाश्चर्य्यकथायुतः ।
कथा ह्यशोकसुंदर्याहुण्डदैत्यवधान्विता

1.93.12

कामोदाख्यानकं तत्र विहुण्डवधसंयुतम् ।
कुञ्जलस्य च संवादश्च्यवनेन महात्मना

1.93.13

सिद्धाख्यानं ततः प्रोक्तं खण्डस्यास्य फलोहनम् ।
सूतशौनकसंवादं भूमिखण्डमिदं स्मृतम्

1.93.14

ब्रह्माण्डोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना ।
सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम्

1.93.15

नर्मदोत्पत्तिकथनं तत्तीर्थानां कथाः पृथक् ।
कुरुक्षेत्रादितीर्थानां कथा पुण्या प्रकीर्तिता

1.93.16

कालिन्दीपुण्यकथनं काशीमाहात्म्यवर्णनम् ।
गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम्

1.93.17

वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम् ।
व्यासजमिनिसंवादः पुण्यकर्मकथान्वितः

1.93.18

समुद्रमथनाख्यानं व्रताख्यानं ततः परम् ।
ऊर्ज्जपञ्चाहमाहाम्यं स्तोत्रं सर्वापराधनुत्

1.93.19

एतत्स्वर्गाभिधं विप्र सर्वपातकनाशनम् ।
रामाश्वमेधं प्रथमं रामराज्याभिषेचनम्

1.93.20

अगस्त्याद्यागमश्चैव पौलस्त्यान्वयकीर्त्तनम् ।
अश्वमेधोपदेशश्च हयचर्या ततः परम्

1.93.21

नानाराजकथाः पुण्या जगन्नाथानुवर्णनम् ।
वृन्दावनस्य माहात्म्यं सर्वपापप्रणाशनम्

1.93.22

नित्यलीलानुकथनं यत्र कृष्णावतारिणः ।
माधवस्नानमाहात्म्यं स्नानदानार्चने फलम्

1.93.23

धरावराहसंवादो यमब्रह्मणयोः कथा ।
संवादो राजदूतानां कृष्णस्तोत्रनिरूपणम्

1.93.24

शिवशंभुसमायोगी दधीचाख्यानकं ततः ।
भस्ममाहात्म्यमतुलं शिवमाहात्म्यमुत्तमम्

1.93.25

देवरातसुताख्यानं पुराणज्ञप्रशंसनम् ।
गौतमाख्यानकं चैव शिवगीता ततः स्मृता

1.93.26

कल्पान्तरे रानकथा भारद्वाजाश्रमस्थिता ।
पातालखण्डमेतद्धि शृण्वतां पठतां सदा

1.93.27

सर्वपापप्रशमनं सर्वाभीष्टफलप्रदम् ।
पर्वताख्यानकं पूर्वं गौर्थै प्रोक्तं शिवेन वै

1.93.28

जालन्धरकथा पश्चाच्छ्रीशैलाद्यनुकीर्तनम् ।
सगरस्य कथा पुण्या ततः परमुदीरितम्

1.93.29

गङ्गाप्रयागकाशीनां गयायाश्चाधिपुण्यकम् ।
अन्नादि दानमाहात्म्यं तन्महाद्वादशीव्रतम्

1.93.30

चतुर्विंशैकादशीनां माहात्म्यं पृथगीरितम् ।
विष्णुधर्मसमाख्यानं विष्णुनामसहस्रकम्

1.93.31

कार्तिकव्रतमाहात्म्यं माघस्नानफलं ततः ।
जम्बृद्वीपस्य तीर्थानां माहात्म्यं पापनाशनम्

1.93.32

साभ्रमत्याश्च माहात्म्यं नृसिंहोत्पत्तिवर्णनम् ।
देवशर्मादिकाख्यानं गीतामाहात्म्यवर्णनम्

1.93.33

भक्त्याख्यानं च माहात्म्यं श्रीमद्भागवतस्य ह ।
इन्द्रप्रस्थस्य माहात्म्यं बहुतीर्थकथान्वितम्

1.93.34

मन्त्ररत्नाभिधानं च त्रिपाद्भूत्यनुवर्णनम् ।
अवतारकथाः पुण्या मत्स्यादीनामतः परम्

1.93.35

रामनामशतं दिव्यं तन्माहात्म्यं च वाडव ।
परीक्षणं च भृगुणा श्रीविष्णोर्वैभवस्य च

1.93.36

इत्येतदुत्तरं खण्डं पञ्चमं सर्वपुण्यदम् ।
पञ्चखण्डयुतं पाद्मं यः शृणोति नरोत्तमः

1.93.37

स लभेद्वैष्णवं धाम भुक्त्वा भोगानिहेप्सितान् ।
एतद्वै पञ्चपञ्चाशत्सहस्रं पद्मसंज्ञकम्

1.93.38

पुराणं लेखयित्वा वै ज्येष्ठ्यां स्वर्णाब्जसंयुतम् ।
यः प्रदद्यात्सुसत्कृत्य पुराणज्ञाय मानद

1.93.39

स याति वैष्णवं धाम सर्वदेवनमस्कृतः ।
पद्मानुक्रमणीमेतां यः पठेच्छृणुयात्तथा

1.93.40

सो ऽपि पद्मपुराणस्य लभेच्छ्रवणजं फलम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc