भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.91

1.91.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे नित्यापटलकथनं नाम नवतितमो ऽध्यायः
सनत्कुमार उवाच
अथ वक्ष्ये महेशस्य मन्त्रं सर्वार्थसाधकम् ।
यं समाराध्य मनुजो भुक्तिं मुक्तिं च विन्दति

1.91.2

हृदयं सबकः सूक्ष्मो लान्तो ऽनन्तान्वितो मरुत् ।
पञ्चाक्षरो मनुः प्रोक्तस्ताराद्यो ऽयं षडक्षरः

1.91.3

वामदेवी मुनीश्छन्दः पङ्क्तिरीशो ऽस्य देवता ।
षड्भिर्वर्णैः षडङ्गानि कुर्यान्मन्त्रेण देशिकः

1.91.4

मन्त्रवर्णादिकान्न्यस्येन्मन्त्रमूर्तिर्यथाक्रमम् ।
तर्जनीमध्ययोरन्त्यानामिकाङ्गुष्ठके पुनः

1.91.5

ताः स्युस्तत्पुरुषाघोरभववामेशसंज्ञिकाः ।
वक्त्रहृत्पादगुह्येषु निजमूर्द्धनि ताः पुनः

1.91.6

प्राग्याम्यवारुणोदीच्यमध्यवक्त्रेषु पञ्चसु ।
मन्त्राङ्गानिन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात्

1.91.7

कुर्वीत गोलकन्यासं रक्षायै तदनन्तरम् ।
हृदि वक्त्रेंऽसयोरूर्वोः कण्ठे नाभौ द्विपार्श्वयोः

1.91.8

पृष्ठे हृदि तथा मूर्ध्नि वदने नेत्रयोर्नसोः ।
दोःपत्संधिषु साग्रेषु विन्यसेत्तदनन्तरम्

1.91.9

शिरोवदनहृत्कुक्षिसोरुपादद्वये पुनः ।
हृदि वक्त्रांबुजे टङ्कमृगा भयवरेष्वथ

1.91.10

वक्त्रांसहृत्सपादोरुजठरेषु क्रमान्न्यसेत् ।
मूलमन्त्रस्य षड वर्णान्यथावद्देशिकोत्तमः

1.91.11

मूर्ध्नि भालोदरांसेषु हृदये ताः पुनर्न्यसेत् ।
पश्चादनेन मन्त्रेण कुर्वीत व्यापकं सुधीः

1.91.12

नमोस्त्वनन्तरूपाय ज्योतिर्लिङ्गामृतात्मने ।
चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शंभवे

1.91.13

एवं न्यस्तशरीरो ऽसौ चिन्तयेत्पार्वतीपतिम् ।
ध्यायेन्नित्यं महेशानं रौप्यपर्वतसन्निभम्

1.91.14

चारुचन्द्रावतंसं च रत्नाकल्पोज्ज्वलाङ्गकम् ।
परश्वधवराभीतिमृगहस्तं शुभाननम्

1.91.15

पद्मासीनं समन्तात्तु स्तुतं सुमनसां गणैः ।
व्याघ्रकृतिं वसानं च विश्वाद्यं विश्वरूपकम्

1.91.16

त्रिनेत्रं पञ्चवक्त्रं च सर्वभीतिहरं शिवम् ।
तत्त्वलक्षं जपेन्मन्त्रं दीक्षितः शैववर्त्मना

1.91.17

तावत्संख्यसहस्राणि जुहुयात्पायसैः शुभैः ।
ततः सिद्धो भवेन्मन्त्रः साधकाभीष्टसिद्धिदः

1.91.18

देवं संपूजयेत्पीठे वामादिनवशक्तिके ।
वामा ज्येष्ठा तथा रौद्री काली कलपदादिका

1.91.19

विकारिण्याह्वया प्रोक्ता बलाद्या विकरिण्यथ ।
बलप्रमथनी पश्चात्सर्वभूतदमन्यथ

1.91.20

मनोन्मनीति संप्रोक्ताः शैवपीठस्य शक्तयः ।
नमो भगवते पश्चात्सकलादि वदेत्ततः

1.91.21

गुणात्मशक्तिभक्ताय ततो ऽनन्ताय तत्परम् ।
योगपीठात्मने भूयो नमस्तारादिको मनुः

1.91.22

अमुना मनुना दद्यादासनं गिरिजापतेः ।
मूर्तिं मूलेन संकल्प्य तत्रावाह्य यजेच्छिवम्

1.91.23

कर्णिकायां यजेन्मूर्तिरीशमीशानदिग्गजम् ।
शुद्धस्फटिकसंकाशं दिक्षु तत्पुरुषादिका

1.91.24

पीताञ्जनश्वेतरक्ताः प्रधानसदृशायुधाः ।
चतुर्वक्त्रसमायुक्ता यथावत्ताः प्रपूजयेत्

1.91.25

कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् ।
अङ्गानि केसरस्थानि विघ्नेशान्पन्नगान्यजेत्

1.91.26

अनन्तं सुखनामानं शिवोत्तममनन्तरम् ।
एकनेत्रमेकरुद्रं त्रिमूर्तिं तदनन्तरम्

1.91.27

पश्चाच्छीकण्ठनामानं शिखण्डिनमिति क्रमात् ।
रक्तपीतसितारक्तकृष्णरक्ताञ्जनासितान्

1.91.28

किरीटार्पितबालेन्दून्पद्मस्थान्भूषणान्वितान् ।
त्रिनेत्राञ्छूलवज्रास्त्रचापहस्तान्मनोरमान्

1.91.29

उत्तरादि यजेत्पश्चाद्रुद्रं चण्डेश्वरं पुनः ।
ततो नन्दिमहाकालौ गणेशं वृषभं पुनः

1.91.30

अथ भृङ्गिं रिटिं स्कन्दमेतान्पद्मासनस्थितान् ।
स्वर्णतोयारुणश्याममुक्तेन्दुसितपाटलान्

1.91.31

इन्द्रादयस्ततः पूज्या वज्राद्यायुधसंयुताः ।
इत्थं संपूजयेद्देवं सहस्रं नित्यशो जपेत्

1.91.32

सर्वपापविनिर्मुक्तः प्राप्नुयाद्वाञ्छितं श्रियम् ।
द्विसहस्रं जपन् रोगान्मुच्यते नात्र संशयः

1.91.33

त्रिसन्मन्त्रं जपन्मन्त्रं दीर्घमायुरवाप्नुयात् ।
सहस्रवृद्धया प्रजपन्सर्वकामानवाप्नुयात्

1.91.34

आज्यान्वितैस्तिलैः शुद्धैर्जुहुयाल्लक्षमादरात् ।
उत्पातजनितान् क्लेशान्नाशयेन्नात्र संशयः

1.91.35

शतलक्षं जपन्साक्षाच्छिवो भवति मानवः ।
षडक्षरः शक्तिरुद्धः कथितो ऽष्टाक्षरो मनुः

1.91.36

ऋषिश्छन्दः पुरा प्रोक्तो देवता स्यादुमापतिः ।
अङ्गानि पूर्वमुक्तानि सौम्यमीशं विचिन्तयेत्

1.91.37

बन्धूकाभं त्रिनेत्रं च शशिखण्डधरं विभुम् ।
स्मेरास्यं स्वकरैः शूलं कंपालं वरदाभये

1.91.38

वहॄन्तं चारुभूपाढ्यं वामोरुस्थाद्रिकन्यया ।
भुजेनाश्लिष्टदेहं तं चिन्तयेन्मनसा हृदि

1.91.39

मनुलक्षं जपेन्मन्त्रं तत्सहस्रं यथाविधि ।
जुहुयान्मान्मधुससिक्तैरारग्वधसमिद्वरैः

1.91.40

प्राक्प्रोक्ते पूजयेत्पीठे गन्धपुष्पैरुमापतिम् ।
अङ्गावृतैर्बहिः पूज्या हृल्लेखाद्या यथापुरा

1.91.41

मध्यप्राग्दक्षिणोदीच्यपश्चिमेषु विधानतः ।
यजेत्पूर्वादिपत्रेषु वृषभाद्याननुक्रमात्

1.91.42

शूलटङ्काक्षवलयकमण्डलुलसत्करम् ।
रक्ताकारं त्रिनयनं चण्डेशमथ पूजयेत्

1.91.43

चक्रशङ्खाभयाभीष्टकरां मरकतप्रभाम् ।
दुर्गां प्रपूजयेत्सौम्यां त्रिनेत्रां चारुभूषणाम्

1.91.44

कल्पशाखान्तरे घण्टां दधानं द्वादशेक्षणम् ।
बालार्काभं शिशुं कान्तंषण्मुखं पूजयेत्ततः

1.91.45

नन्दितं च यजेत्सौम्यां रत्नभूषणमण्डितम् ।
परश्वधवराभीतिटङ्किनं श्यामविग्रहम्

1.91.46

पाशाङ्कुशवराभीष्टधारिणं कुङ्कुमप्रभम् ।
विघ्ननायकमभ्यर्चेच्चन्द्रार्द्धकृतशेखरम्

1.91.47

श्यामं रक्तोत्पलकरं वामाङ्कन्यस्ततत्करम् ।
द्विनेत्रं रक्तवस्त्राढ्यं सेनापतिमथार्चयेत्

1.91.48

ततो ऽष्टमातरः पूज्या ब्राह्माद्याः प्रोक्तलक्षणाः ।
इन्द्रादिकान्लोकपालान्स्वस्वदिक्षु समर्चयेत्

1.91.49

वज्रादीनि तदस्त्राणि तद्बहिः क्रमतोर्ऽचयेत् ।
एवं यो भजते मन्त्री देवं शंभुमुमापतिम्

1.91.50

स भवेत्सर्वलोकानां सौभाग्यश्रेयसां पदम् ।
सांतसद्यान्तसंयुक्तो बिन्दुभूषितमस्तकः

1.91.51

प्रासादाख्यो मनुः प्रोक्तो भजतां सर्वसिद्धिदः ।
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः

1.91.52

षडर्णवत्तु मुन्याद्याः प्रोक्ताश्चास्यापि नारद ।
ईशानाद्या न्यसेन्मूर्तीरङ्गुष्ठादिषु देशिकः

1.91.53

ईशानाख्यं तत्पुरुषमघोरं तदनन्तरम् ।
वामदेवाह्वयं सद्योजातबीजं क्रमाद्विदुः

1.91.54

उकाराद्यैः पञ्चह्रस्वौर्विलोमान्संयुतं च यत् ।
तत्तदङ्गुलिभिर्भूयस्तत्तदिकान्न्यसेत्

1.91.55

शिरोवदनहृद्गुह्यपाददेशे यथाक्रमात् ।
उर्द्धप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु च

1.91.56

ततः प्रविन्यसेद्विद्वानष्टत्रिंशत्कलास्तनौ ।
ईशानाद्या ऋचः सम्यगङ्गुलीषु यथाक्रमात्

1.91.57

अङ्गुष्ठादिकनिष्ठान्तं न्यसेद्देशिकसत्तमः ।
मूर्द्धास्यहृदयांभोजगुह्यपादे तु ताः पुनः

1.91.58

वक्त्रे मूर्धादिषु न्यस्य भूयो ऽङ्गानि प्रकल्पयेत् ।
तारपञ्चकमुच्चार्य सर्वज्ञाय हृदीरितम्

1.91.59

अमृते तेजो मालिनि तृप्तायेति पदं पुनः ।
तदन्ते ब्रह्मशिःसे शिरोगं ज्वलितं ततः

1.91.60

शिखिं शिखाय परतो ऽनादिबोधाय तच्छिखा ।
वज्रिणे वज्रहस्ताय स्वतन्त्राय तनुच्छदम्

1.91.61

सैं सैं हौमिति संभाष्य परतो तों गुह्यशक्तये ।
नेत्रमुक्तं श्लीपशुं हुं फडन्ते नेत्रं शक्तये

1.91.62

अस्त्रमुक्तं षडङ्गानि कुर्यादेवं समाहितः ।
पूर्वदक्षिणपश्चात्प्राक्सौम्यमध्येषु पञ्चसु

1.91.63

वक्त्रेषु पञ्च विन्यस्येदीशानस्य कलाः क्रमात् ।
ईशानः सर्वविद्यानां शशिनी प्रथमा कला

1.91.64

ईश्वरः सर्वभूतानां मङ्गला तदनन्तरम् ।
ब्रह्माधिपतिः शब्दान्ते ब्रह्मणो ऽधिपतिः पुनः

1.91.65

ब्रह्मेष्टदा तृतीयास्याच्छिवो मे अस्तु तत्परा ।
मरीचिः कथिता विप्र चतुर्थी च सदाशिवे

1.91.66

अंशुमालिन्यथ परा प्रणवाद्या नमोन्विताः ।
पूर्वपश्चिमयाम्योदग्वक्त्रेषु तदनन्तरम्

1.91.67

चतस्रो विन्यसेन्मन्त्री पुरुषस्य कलाः क्रमात् ।
आद्या तत्पुरुपायेति विद्महे शान्तिरीरिता

1.91.68

महादेवाय शब्दान्ते धीमहि स्यात्ततः परम् ।
विद्या द्वितीया कथिता तन्नो रुद्रः पदं ततः

1.91.69

प्रतिष्ठा कथिता पश्चात्तृतीया स्यात्प्रचोदयात् ।
निवृत्तिस्तत्परा सर्वा प्रणवाद्या नमोन्विता

1.91.70

हृदि चांसद्वये नाभिकुक्षौ पृष्ठे ऽथ वक्षसि ।
अथोरसि कला न्यस्येदष्टौ मन्त्री यथाविधि

1.91.71

अघोरेभ्यस्तथा पूर्वमीरिता प्रथमा कला ।
अथ घोरेभ्य इत्यन्ते मोहास्यात्तदनन्तरम्

1.91.72

अघोरान्ते क्षमा पश्चात्तृतीया परिकीर्तिता ।
घोरतरेभ्यो निद्रा स्यात्सर्वेभ्यः सर्वतत्परा

1.91.73

व्याधिस्तु पञ्चमी प्रोक्ता शर्वेभ्यस्तदनन्तरम् ।
मृत्युर्निगदिता षष्ठी नमस्ते अस्तु तत्परम्

1.91.74

क्षुधा स्यात्सप्तमी रुद्ररूपेभ्यः कथिता तृषा ।
अष्टमी कथिता एताध्रुवाद्या नमसान्विताः

1.91.75

गुह्ययुग्मोरुयुग्मेषु जानुजङ्घास्फिजोः पुनः ।
कट्यां पार्श्वद्वये वामकला न्यस्येत्त्रयोदश

1.91.76

प्रथमा वामदेवाय नमोन्ते स्याद्रुजा कला ।
स्याज्ज्येष्ठाय नमो रक्षा द्वितीया परिकीर्तिता

1.91.77

कलकामा पञ्चमी स्यात्ततो विकरणाय च ।
नमः संयमनी षष्ठी कथिता तदनन्तरम्

1.91.78

बलक्रिया सप्तमीष्टा कला विकरणाय च ।
नमो वृद्धिस्त्वष्टमी स्याद्बलान्ते च स्थिरा कला

1.91.79

पश्चात्प्रमथनायान्ते नमो रात्रिरुदीरिता ।
सर्वभूतदमनाय नमोन्ते भ्रामणी कला

1.91.80

नमोन्ते मोहिनी प्रोक्ता मन्त्रज्ञैर्द्वादशी कला ।
मनोन्मन्यै नमः पश्चाज्ज्वरा प्रोक्ता त्रयोदशी

1.91.81

प्रणवाद्याश्चतुर्थ्यन्ता नमोन्तास्तु प्रकीर्तिताः ।
पाददोस्तननासासु मूर्ध्नि बाहुयुगे न्यसेत्

1.91.82

सद्योजातभवाः सम्यगष्टौ मन्त्राः कलाः क्रमात् ।
सद्योजातं प्रपद्यामि सिद्धिः स्यात्प्रथमा कला

1.91.83

सद्योजाताय वै भूयो नमः स्याद् वृद्धिरीरिता ।
भवेद्युतिस्तृतीया स्यादभवे तदनन्दरम्

1.91.84

लक्ष्मी चतुर्थी कथिता ततो नातिभवेपदम् ।
मेधा स्यात्पञ्चमी प्रोक्ता कलाभूयो भवस्व माम्

1.91.85

प्राज्ञा समीरिता षष्ठी भवान्ते स्यात्प्रभा कला ।
उद्भवाय नमः पश्चात्सुधा स्यादष्टमी कला

1.91.86

प्रणवाद्याश्चतुर्थ्यन्ता कलाः सर्वा नमोन्विताः ।
अष्टात्रिंशत्कलाः प्रोक्ताः पञ्च ब्रह्मपदादिकाः

1.91.87

इति विन्यस्तदेहो ऽसौ भवेद्गङ्गाधरः स्वयम् ।
ततः समाहितो भूत्वा ध्यायेदेवं सदाशिवम्

1.91.88

सितपीतासितश्वेतजपाभैः पञ्चभिर्मुखैः ।
अक्षैर्युतं ग्लौमुकुटं कोटिपूर्णेन्दुसंप्रभम्

1.91.89

शूलं टङ्कं कृपाणं च वज्राग्न्यहिपतीन्करैः ।
दधानंभूषणोद्दीप्तं घण्टापाशवराभयान्

1.91.90

एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः ।
प्रसूनैः करवीरोत्थैर्जुहुयात्तहृशांशतः

1.91.91

पूर्वोदिते यजेत्पीठे मर्तिं मूलेन कल्पयेत् ।
आवाह्य पूजयेत्तस्यां मूर्तावावरणैः सह

1.91.92

शक्तिं डमरुकाभीतिवरान्संदधतं करैः ।
ईशानं त्रीक्षणं शुभ्रमैशान्यां दिशि पूजयेत्

1.91.93

परश्वेणवराभीतीर्दधानं विद्युदुज्ज्वलम् ।
चतुर्मुखं तत्पुरुषं त्रिनेत्रं पूर्वन्तोर्ऽचयेत्

1.91.94

अक्षस्रजं वेदपाशौ ऋषिण्डमरुकं ततः ।
खट्वाङ्गं निशितं शूलं कपालं बिभ्रतं करैः

1.91.95

अञ्जनाभं चतुर्वक्त्रं भीमदन्तं भयावहम् ।
अघोरं त्रीक्षणं याम्ये पूजयेन्मन्त्रवित्तमः

1.91.96

कुङ्कुमाभचतुर्वक्त्रं वामदेवं त्रिलोचनम् ।
हरिणाक्षगुणाभीतिवरहस्तं चतुर्मुखम्

1.91.97

बालेन्दुशेखरोल्लासिमुकुटं पश्चिमे यजेत् ।
कर्पूरेदुनिभं सौम्यं सद्योजातं त्रिलोचनम्

1.91.98

वराभयाक्षवलयकुठारान्दधतं करैः ।
विलासिनं स्मेरवक्त्रं सौम्ये सम्यक्समर्चयेत्

1.91.99

कोणेष्वर्चेन्निवृत्त्याद्यास्तेजोरूपाः कलाः क्रमात् ।
विघ्नेश्वराननन्ताद्यान्पत्रेषु परितो यजेत्

1.91.100

उमादिकास्ततो बाह्ये शक्राद्यानायुधैः सह ।
इति संपूज्य देवेशं भक्त्या परमया युतः

1.91.101

प्रणीयेन्नृत्यगीताद्यैः स्तोत्रमैर्त्रीं मनोहरैः ।
तारो मायावियद्बिन्दुमनुस्वरसमन्वितः

1.91.102

पञ्चाक्षरसमायुक्तो वसुवर्णो मनुर्मतः ।
पञ्चाक्षरोक्तवत्कुर्यादङ्गन्यासादिकं बुधः

1.91.103

सिंदूराभं लसद्रत्नमुकुटं चन्द्रमौलिनम् ।
दिव्यभूषाङ्गरागं च नागयज्ञोपवीतिनम्

1.91.104

वामोरुस्थप्रियोरोजन्यस्तहस्तं च बिभ्रतम् ।
वेदटङ्केष्मभयं ध्यायेत्सर्वेश्वरं शिवम्

1.91.105

अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं घृतान्वितैः ।
पायसैर्जुहुयात्पीठेमूर्तिं संकल्प्य मूलतः

1.91.106

अङ्गैरावरणं पूर्वमनन्ताद्यैरनन्तरम् ।
उमादिभिः समुद्दिष्टं तृतीयं लोकनायकैः

1.91.107

चतुर्थं पञ्चमं तेषामायुधैः परिकीर्तितम् ।
एवं प्रतिदिनं देवं पूजयेत्साधकोत्तमः

1.91.108

पुत्रपौत्रादिगां लक्ष्मीं संप्राप्यह्यत्र मोदते ।
तारः स्थिरा सकर्णेन्दुर्भघृगुः सर्गसमन्वितः

1.91.109

अक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः ।
ऋषैः कहोलो देव्यादिगायत्री छन्द ईरितम्

1.91.110

मृत्युञ्जयो महादेवो देवतास्य समीरितः ।
भृगुणा दीर्घयुक्तेन षडङ्गानि समाचरेत्

1.91.111

चन्द्रार्कहुतभुङ्नेत्रं स्मितास्यं युग्मपद्मगम् ।
मुद्रापाशैणाक्षसूत्रलसत्पाणिं शशिप्रभम्

1.91.112

भालेन्दुविगलन्त्पीयूषप्लुताङ्गमलङ्कृतम् ।
हाराद्यैर्निजकान्त्या तु ध्यायेद्विश्वविमोहनम्

1.91.113

गुणलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्सुधीः ।
अमृताशकलैः शुद्धदुग्धाज्यसमभिप्लुतैः

1.91.114

शैवे संपूजयेत्पीठे मूर्तिं संकल्पमूलतः ।
अङ्गावरणमाराध्यपश्चाल्लोकेश्वरान्यजेत्

1.91.115

तदस्त्राणि ततो बाह्ये पूजयेत्साधकोत्तमः ।
जपपूजादिभिः सिद्धे मन्त्रे ऽस्मिन्मुनिसत्तम

1.91.116

कुर्यात्प्रयोगान्कल्योक्तानभीष्टफलसिद्धये ।
दुग्धसिक्तैः सुधाखण्डैर्हुत्वा प्रत्यहमादरात्

1.91.117

सहस्रमासपर्यन्तं लभेदायुर्धनं सुतान् ।
सुधावटतितान्पूर्वा पयः सर्पिः पयो हविः

1.91.118

सप्त द्रव्याणि वारेषु क्रमाद्दशशतं हुनेत् ।
सप्ताधिकान् द्विजान्नित्यं भोजयेन्मधुरान्वितम्

1.91.119

ऋत्विग्भ्यो दक्षिणां दद्यादरुणां गां पयस्विनीम् ।
गुरुं संप्रीणयेत्पश्चाद्धनाद्यैर्देवताधिया

1.91.120

अनेन विधिना साध्यः कृत्याद्रोहज्वंरादिभिः ।
विमुक्तः सुचिरं जीवेच्छरदां शतमञ्जसा

1.91.121

अभिचारे ज्वरे स्तंभघोरोन्मादे शिरोगदे ।
असाध्यरोगे क्ष्वेडार्तौं मोहे दाहे महाभये

1.91.122

होमो ऽयं शान्तिदः प्रोक्तः सर्वाभयप्रदायकः ।
द्रव्यैरेतैः प्रजुहुयात्त्रिजन्मसु यथाविधि

1.91.123

भोजयेन्मधुरैर्भोज्यैर्ब्राह्मणान्वेदपारगान् ।
दीर्घमायुरवाप्नोति वाञ्छितां विन्दति श्रियम्

1.91.124

एकादशाहुतीर्नित्यं दूर्वाभिर्जुहुयाद् बुधः ।
अपमृत्युजिदेव स्यादायुरारोग्यवर्द्धनम्

1.91.125

त्रिजन्मसु सुधावल्लीकाश्मीरीबकुलोद्भवैः ।
समिद्वरैः कृतो होमः सर्वमृत्युगदापहः

1.91.126

सिद्धार्थैर्विहितो होमो महाज्वरविनाशनः ।
अपामार्गसमिद्धोमः सर्वामयनिषूदनः

1.91.127

दक्षिणामूर्तये पूर्वं तुभ्यं पदमनन्तरम् ।
वटमूलपदस्यान्ते प्रवदेच्च निवासिने

1.91.128

ध्यानैकनिरताङ्गाय पश्चाद् ब्रूयान्नमः पदम् ।
रुद्राय शंभवे तारशक्तिरुद्धो ऽयमीरितः

1.91.129

षट्त्रिंशदक्षरो मन्त्रः सर्वकामफलप्रदः ।
मुनिः शुकः समुद्दिष्टश्छन्दो ऽनुष्टुप्प्रकीर्तितम्

1.91.130

देवता दक्षिणामूर्तिर्नाम्ना शंभुरुदीरितः ।
तारशक्तियुक्तैः पूर्वं ह्रीमाद्यन्तैश्च मन्त्रजैः

1.91.131

षट्षष्ठाष्टेषु वह्न्यर्णैर्हृदयाद्यङ्गकल्पनम् ।
मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके

1.91.132

आस्यदोःसंधिषु गले स्तनहृन्नाभिमण्डले ।
कट्यां गुह्ये पुनः पादसंधिष्वर्णान्न्यसेन्मनोः

1.91.133

व्यापकं तारशक्तिभ्यां कुर्याद्देहे ततः परम् ।
हिमाचलतटे रम्ये सिद्धिकिन्नरसेविते

1.91.134

विविधद्रुमशाखाभिः सर्वतो वारितातपे ।
सुपुष्पितैर्लताजालैराश्लिष्टकुसुमद्रुमे

1.91.135

शिलाविवरनिर्गच्छन्निर्झरानिलशीतले ।
गायद्देवाङ्गनासंघे नृत्यद्बर्हि कदम्बके

1.91.136

कूजत्कोकिलसंघेन मुखरीकृतदिङ्मुखे ।
परस्परविनिर्मुक्तमात्सर्यमृगसेविते

1.91.137

जलजैः स्थलजैः पुष्पैरामोदिभिरलङ्कृते ।
आद्यैः शुकाद्यैर्मुनिभिरजस्रसुखसेविते

1.91.138

पुरन्दरमुखैर्देवैः सांगनाद्यैर्विलोकिते ।
वटवृक्षं महोच्छ्रायं पद्मरागफलोज्ज्लम्

1.91.139

गारुत्मतमयैः पत्रैर्निबिडैरुपशोभितम् ।
नवरत्नमयाकल्पैर्लंबमानैरलङ्कृतम्

1.91.140

संसारतापविच्छेदकुशलच्छायमद्भुतम् ।
तस्य मूले सुसंकॢप्तरत्नसिंहासने शुभे

1.91.141

आसीनमसिताकल्पं शरच्चन्द्रनिभाननम् ।
कैलासाद्रिनिभं त्र्यक्षं चन्द्राङ्कितकपर्दकम्

1.91.142

नासाग्रालोकनपरं वीरासनसमास्थितम् ।
भद्राटके कुरङ्गाढ्यजानुस्थकरपल्लवम्

1.91.143

कक्षाबद्धभुजङ्गं च सुप्रसन्नं हरं स्मरेत् ।
अयुतद्वयसंयुक्तगुणलक्षं जपेन्मनुम्

1.91.144

तद्दशांशं तिलैः शुद्धैर्जुहुयात्क्षीरसंयुतैः ।
पञ्चाक्षरोदिते पीठे तद्विधानेन पूजयेत्

1.91.145

भिक्षाहारो जपेन्मासं मनुमेनं जितेन्द्रियः ।
नित्यं सहस्रमष्टार्द्धं परां विन्दति वाक्छ्रियम्

1.91.146

त्रिवारं जप्तमेतेन पयस्तु मनुना पिबेत् ।
दक्षिणामूर्तिंसंध्यानाच्छास्त्रव्याख्यानकृद्भवेत्

1.91.147

प्रणवो हृदयं पश्चाद्वदेद्भगवतेपदम् ।
ङेयुतं दक्षिणामूर्तिं मह्यंमेधामुदीरयेत्

1.91.148

प्रयच्छ ठद्वयान्तो ऽयं द्वाविंशत्यक्षरो मनुः ।
मुनिश्चतुर्मुखश्छन्दो गायत्री देवतोदिता

1.91.149

ताररुद्धैः स्वरैर्दीर्घैः षड्भिरङ्गानि कल्पयेत् ।
पदैर्मन्त्रभवैर्वापिध्यानाद्यं पूर्ववन्मतम्

1.91.150

लोहितोग्र्यासनः सद्यो बिन्दुमान्प्रथमं ततः ।
द्वितीयं वह्निबीजस्था दीर्घा शान्तीन्दुभूषिता

1.91.151

तृतीया लाङ्गलीशार्णमन्त्रो बीजत्रयान्वितः ।
नीलकण्ठात्मकः प्रोक्तो विषद्वयहरः परः

1.91.152

हरद्वयं वह्निजाया हृदयं परिकीर्तितम् ।
कपर्द्दिने पदयुगं शिरोमन्त्र उदाहृतः

1.91.153

नीलकण्ठाय ठद्वन्द्वं शिखामन्त्रो ऽयमीरितः ।
कालकूटपदस्यान्ते विषभक्षणङेयुतम्

1.91.154

हुं फट् कवचमुद्दिष्टं नीलकण्ठिन इत्यतः ।
स्वाहान्तमस्त्रमेतानि पञ्चागानि मनोर्विदुः

1.91.155

मूर्ध्नि कण्ठे हृदंभोजे क्रमाद्वीजत्रयं न्यसेत् ।
बालार्कायुतवर्चस्कं जटाजूटेन्दुशोभितम्

1.91.156

नागाभूषं जपवटीं शूलं ब्रह्मकपालकम् ।
खट्वाङ्गं दधतं दोर्भिस्त्रिनेत्रं चिन्तयेद्धरम्

1.91.157

लक्षत्रयं जपेन्मन्त्रं तद्दशांशं ससर्पिषा ।
हविषा जुहुयात्सम्यक्संस्कृते हव्यवाहने

1.91.158

शैवं पीठे यजेद्देवं नीलकण्ठं समाहितः ।
मृत्युं जयविधानेन विषद्वयविनाशनम्

1.91.159

अग्निः संवर्तकादित्यरानिलौ षष्टिबिन्दुमान् ।
चिन्तामणिरिति ख्यातं बीजं सर्वसमृद्धिदम्

1.91.160

कश्यपो मुनिराख्यातश्छन्दो ऽनुष्टुबुदाहृतम् ।
अर्द्धनारीश्वरः प्रोक्तो देवता जगतां पतिः

1.91.161

रेफआदिव्यञ्जनैः षड्भिः कुर्यादङ्गानि षट् क्रमात् ।
त्रिनेत्रं नीलमणिभं शूलपाशं कपालकम्

1.91.162

रक्तोत्पलं च हस्ताब्जैर्दधतं चारुभूषणम् ।
बालेन्दुबद्धमुकुटमर्द्धनारीश्वरं स्मरेत्

1.91.163

एकलक्षं जपेन्मन्त्रं त्रिशतं मधुराप्लुतैः ।
तिलैर्हुनेद्यजेत्पीठे शैवेङ्गावरणैः सह

1.91.164

वृषाद्यैर्मातृभिः पश्चाल्लोकपालैस्तदायुधैः ।
प्रासादाद्यं जपेन्मन्त्रमयुतं रोगशान्तये

1.91.165

स्वाहावृत्तमिदं बीजं विगलत्परमामृतम् ।
चन्द्रबिंबस्थितं मूर्ध्नि ध्यातं क्ष्वेडगदापहम्

1.91.166

प्रतिलोमस्वराढ्या च बीजं वह्निगृहे स्थितम् ।
रेफआदिव्यञ्जनोल्लासिषट्कोणाभिवृतं बहिः

1.91.167

भूतार्तस्य स्मृतं मूर्ध्नि भूतमाशु विनाशयेत् ।
पीडिताङ्गे स्मृतं तत्तत्पीडां शमयति ध्रुवम्

1.91.168

प्रणवो हृदयं पश्चान् ङेंतः पशुपतिः पुनः ।
तारो नमो भूतपदं ततो ऽधिपतये ध्रुवम्

1.91.169

नमोरुद्राय युगलं खड्गरावण शब्दतः ।
विहरद्वितयं पश्चान्नरीनृत्ययुगं पृथक्

1.91.170

श्मशानभस्माचितान्ते शरण्याय ततः परम् ।
घण्टाकपालमालादिधरायेति पदं पुनः

1.91.171

व्याघ्रचर्मपदस्यान्ते परिधानाय तत्परम् ।
शशाङ्ककृतशब्दान्ते शेखराय ततः परम्

1.91.172

कृष्णसर्पपदात्पश्चाद्वदेद्यज्ञोपवीतिने ।
बलयुग्मं चलायुग्ममनिवर्तकपालिने

1.91.173

हनुयुग्मं ततो भूतांस्त्रासयद्वितयं पुनः ।
भूयो मण्डलमध्ये स्यात्कटयुग्मं ततः परम्

1.91.174

रुद्राङ्कुशेन शमय प्रवेशययुगं ततः ।
आवेशययुगं पश्चाञ्चण्डासिपदमीरयेत्

1.91.175

धाराधिपतिरुद्रो ऽयं ज्ञापयत्यग्निसुंदरी ।
खड्गरावणमन्त्रो ऽयं सप्तत्यूर्द्धशताक्षरः

1.91.176

भूताधिपतये स्वाहा पूजामन्त्रो ऽयमीरितः ।
सिद्धमन्त्रो ऽयमुदितो जपादेव प्रसिद्ध्यति

1.91.177

अयुतद्वितयात्पश्चाद्भूतादिग्रहणे क्षमः ।
माया स्फुरद्वयं भूयः प्रस्फुरद्वितयं पुनः

1.91.178

घातयद्वितयं वर्मफडन्तः समुदीरितः ।
एकपञ्चाशदर्णो ऽयमघोरास्त्रं महामनुः

1.91.179

अघोरो ऽस्य नुनिः प्रोक्तस्त्रिवृच्छन्दं उदाहृतम् ।
अघोररुद्रः संदिष्टो देवता मन्त्रनायकः

1.91.180

हृदयं पञ्चभिः प्रोक्तं शिरः षड्भिरुदाहृतम् ।
शिखा दशभिराख्याता नवभिः कवचं मतम्

1.91.181

वसुवर्णैः स्मृतं नेत्रं दशार्णैरस्त्रमीरितम् ।
मूर्ध्नि नेत्रास्यकण्ठेषु हृन्नाभ्यामूरुषु क्रमात्

1.91.182

जानुजङ्घापदद्वन्द्वे रुद्रभिन्नाक्षरैर्न्यसेत् ।
पञ्चषट्काष्टवेदाङ्गद्विव्द्यब्धिरसलोचनैः

1.91.183

श्यामं त्रिनेत्रं सपार्ढ्यं रक्तवस्त्राङ्गराङ्गकम् ।
नानाशस्त्रधरं ध्यायेनदघोराख्यं सदाशिवम्

1.91.184

भूतवेतालकादीनां क्षयो ऽयं निग्रहे मनुः ।
तारो वान्तो धरासंस्थो वामनेत्रेन्दुभूषितः

1.91.185

पाशी बकः कर्णनेत्रवर्मास्त्रान्तः षडक्षरः ।
मनुः पाशुपतास्त्राख्यो ग्रहक्षुद्रनिवारणः

1.91.186

षड्भिर्वर्णैः षडङ्गानि हुंफडन्तैः सजातिभिः ।
मध्याह्नार्कप्रभं भीमं त्र्यक्षं पन्नगभूषणम्

1.91.187

नानाशस्त्रं चतुर्वक्त्रं स्मरेत्पशुपतिं हरम् ।
वर्णलक्षं जपेन्मन्त्रं जुहुयात्तद्दशांशतः

1.91.188

गव्येन सर्पिषा मन्त्रो संस्कृते हव्यवाहने ।
शैवे पीठे यजेदङ्गमातृलोकेश्वरायुधैः

1.91.189

अनेन मन्त्रितं तोयं भूतग्रस्तमुखे क्षिपेत् ।
सद्यः स मुञ्चति क्रन्दान्महामन्त्रप्रभावतः

1.91.190

अनेन मन्त्रितान्बाणान्विसृजेद्युधि यो नरः ।
जयेत्क्षणेन निखिलाञ्छत्रून्पार्थ इवापरः

1.91.191

वर्णान्तिमो बिन्दुयुतः क्षेत्रपालाय हृन्मनुः

1.91.192

ताराद्यो वसुवर्णो ऽयं क्षेत्रपालस्य कीर्तितः ।
षड्दीर्घयुक्तबीजेन षडङ्गं न्यस्य चिन्तयेत्

1.91.193

नीलाचलाभं दिग्वस्त्रं सर्पभूषं त्रिलोचनम् ।
पिङ्गोर्ध्वकेशान्दधतं कपालं च गदां स्मरेत्

1.91.194

लक्षमेकं जपेन्मन्त्रं जुहुयात्तद्दशांशतः ।
चरुणा घृतसिक्तेन ततः क्षेत्रे समर्चयेत्

1.91.195

धर्मादिकल्पिते पीठे सांगावरणमादरात् ।
तस्मै सपरिवाराय बलिमेतेन निर्हरेत्

1.91.196

पूर्वमेहिद्वयं पश्चाद्विद्विषं पुरुषं द्वयम् ।
भञ्जयद्वितयं भूयो नर्तयद्वितयं पुनः

1.91.197

ततो विघ्नपदद्वन्द्वं महाभैरव तत्परम् ।
क्षेत्रपालबलिं गृह्णद्वयं पावकसुन्दरी

1.91.198

बलिमन्त्रो ऽयमाख्यातः सर्वकामफलप्रदः ।
सोपदेशं बृहत्पिण्डे कृत्वा रात्रिषु साधकः

1.91.199

स्मृत्वा यथोक्तं क्षेत्रेशं तस्य हस्ते बलिं हरेत् ।
बलिनानेन सन्तुष्टः क्षेत्रपालः प्रयच्छति

1.91.200

कान्तिं मेधां बलायोग्यं तेजः पुष्टिं यशः श्रियम् ।
उद्धरेद्बटुकं ङेंतमापदुद्धारणं तथा

1.91.201

कुरुद्वयं ततः पश्चाद्वटुकं ङेंतमुच्चरेत् ।
शक्तिरुद्धो ध्रुवादिश्च द्वाविंशत्यक्षरो मनुः

1.91.202

द्विचतुःसप्तवेदाब्धिचन्द्रार्णैरङ्गकं मनोः ।
बालं स्फटिकसंकाशं तल्लोललसिताननम्

1.91.203

दिव्याकल्पैः प्रदीप्ताङ्गं त्र्यक्षं दण्डत्रिशूलिनम् ।
सुप्रसन्नं स्मरेद्धक्त्या भक्तानामभयङ्करम्

1.91.204

वर्णलक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।
तद्दशांशं प्रजुहुयान्त्तिलैर्मधुरसंयुतैः

1.91.205

धर्मादिकल्पिते पीठे पङ्कजे चातिशोभने ।
षट्कोणान्तस्त्रिकोणस्थव्योमपङ्कजसंयुते

1.91.206

बटुकं पूजयेद्देवं सांगावरणकं क्रमात् ।
शत्रुपक्षस्य रुधिरं पिशिन्त च दिनेदिने ।
भक्षयस्व गणैः सार्द्धं सारमेयसमन्वितः

1.91.207

बलिमन्त्रो ऽयमाख्यातः शत्रुनाम्ना विदर्भितः ।
अनेन बलिना हृष्टो बटुकः परसैन्यकम्

1.91.208

छित्वा गणेभ्यो विभजेदामिषं क्रुद्धमानसः ।
अङ्कशो वह्निशिखरो लान्तदान्त इतीरितः

1.91.209

फडन्तश्चण्डमन्त्रो ऽयं त्रिवर्णात्मा समीरितः ।
अस्य त्रितो मुनिः प्रोक्तश्छन्दो ऽनुष्टुबुदाहृतम्

1.91.210

चण्डेशो देवता प्रोक्ता वक्ष्यतेंऽगप्रकल्पनम् ।
हृदयं दीप्तफट् प्रोक्तं ज्वलफट् शिर ईरितम्

1.91.211

शिखाज्वालिनि फट् प्रोक्ता वहफट् कवचं मतम् ।
हलफट् नेत्रमाख्यातं सर्वज्वानिनिफट् परम्

1.91.212

विन्यस्यैवं षडङ्गानि ततो देवं विचिन्तयेत् ।
चण्डेश्वरं रक्ततनुन्त्र्यक्षं रक्तांबरावृतम्

1.91.213

दधतं च त्रिशूलाक्षमालाटं ककमण्डलून् ।
वर्णलक्षं जपेन्मन्त्रं होमं कुर्याद्दशांशतः

1.91.214

मधुरत्रयसंयुक्तैर्विशुद्धैस्तिलतण्डुलैः ।
पञ्चाक्षरोदिते पीठे मूर्तिं मूलेन कल्पयेत्

1.91.215

कूर्मेशो बिन्दुसंयुक्तस्ततश्चण्डेश्वराय च ।
हृदयं मनुराख्यातश्चण्डेशस्य प्रपूजने

1.91.216

अङ्गैर्मातृभिराशेशैर्वज्राद्यैरावृतिर्भवेत् ।
शैवमन्त्रेषु निष्णातश्चण्डेश्वरमनुं जपेत्

1.91.217

सर्वान्कामानवाप्नोति परत्रेह च नन्दति ।
शृणु नारद वक्ष्यामि दिव्यं माहेश्वरं स्तवम्

1.91.218

यस्य पाठेन पूजायां सिद्ध्यन्ति मनवो ऽखिलाः

1.91.219

धराम्ब्वग्निमरुव्द्योममखेशेन्द्वर्कमूर्तये ।
सर्वभूतान्तरस्थाय शङ्कराय नमोनमः

1.91.220

श्रुत्यं तकृतवासाय श्रुतये श्रुतिजन्मने ।
अतीन्द्रियाय महसे शाश्वताय नमोनमः

1.91.221

स्थूलसूक्ष्मविभागाभ्यामनिर्देश्याय शंभवे ।
भवाय भवसंभूतदुःखहन्त्रे नमोनमः

1.91.222

तर्कमार्गातिदूराय तपसां फलदायिने ।
चतुर्वर्गवदान्याय सर्वज्ञाय नमोनमः

1.91.223

आदिमध्यान्तशून्याय निरस्ताशेषभीतये ।
योगिध्येयाय महते निर्गुणाय नमोनमः

1.91.224

विश्वात्मने विविक्ताय विलसच्चन्द्रमौलये ।
कन्दर्प्पदर्प्पनाशाय कालहॄन्त्रे नमोनमः

1.91.225

विषाशनाय विहरद्वृषस्कन्धमुपेयुषे ।
सरिद्दामसमाबद्धकपदार्य नमोनमः

1.91.226

शुद्धाय शुद्धभावा शुद्धानामन्तरात्मने ।
पुरान्तकाय पूर्णाय पुण्यनाम्नो नमोनमः

1.91.227

भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ।
विवाससे निवासाय विश्वेषां पतये नमः

1.91.228

त्रिमूर्तिमूलभूताय त्रिनेत्राय त्रिशूलिने ।
त्रिधाम्ने धामरूपाय जन्मदाय नमोनमः

1.91.229

देवासुरशिरोरत्नकिरीटारुणिताङ्घ्रये ।
कान्ताय निजकान्तायै दत्तार्द्धाय नमोनमः

1.91.230

एतत्स्तोत्रं महेशस्य प्रोक्तं सर्वाघनाशनम् ।
शिवसान्निध्यदं विप्र सर्पतन्त्रप्रकाशकम्

1.91.231

एतत्ते सुमहत्तन्त्रें सर्वदेवप्रकाशकम् ।
लोकाभिलाषसंपूर्तिक्रियासाधनसंगतम्

1.91.232

ये तु सामान्यतः प्रोक्तास्तन्त्रे ऽस्मिन्मनवो द्विज ।
ते तु लोकोपकाराय ज्ञातव्याः सिद्धिदायकाः

1.91.233

विशेषतो वैष्णवा ये मन्त्राः सर्वोत्तमोत्तमाः ।
त एव साधनीयाः स्युश्चतुर्वर्गफलाप्तये

1.91.234

राममन्त्राः कृष्णमन्त्राः सांगा रासेशिमन्त्रकाः ।
शाक्ताः सौराश्च गाणेशाः शैवाः प्रोक्ताः शुभावहाः

1.91.235

तेषु स्वात्मप्रकाशाय भजेन्मुक्तिफलप्रदान् ।
एतत्ते सर्वमाख्यातं यत्त्वयाभ्यर्थितं मुने ।
देवताराधनं भक्त्या किं भूयः श्रोतुमिच्छसि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc