भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.90

1.90.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे ललितास्तोत्र कवचसहस्रनामकथनं नामैकोननवतितमो ऽध्यायाः ॥ 89 ॥
सनत्कुमार उवाच
अथातो विप्र नित्यानां प्रयोगादिसमन्वितम् ।
पटलं ते ऽभिधास्यामि नित्याभ्यर्चनदीपकम्

1.90.2

ललितायास्त्रिभिवर्णैः सकलार्थो ऽभिधीयते ।
शेषेण देवीरूपेण तेन स्यादिदमीरितम्

1.90.3

अशेषतो जगत्कृत्स्नं हृल्लेखात्मकमुच्यते ।
तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः

1.90.4

व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।
तयोर्विमर्श ईकारो बिन्दुना तन्निफआलनम्

1.90.5

पिण्डकर्तरि बीजाख्या मन्त्रा मालाभिधाः क्रमात् ।
एकार्णवन्तो द्व्यर्णाश्च त्रिदिङ्मुखार्णकाः

1.90.6

वृत्तिजार्णांल्लिखेदङ्कैर्व्यत्यस्तक्रमयोगतः ।
तैर्भेदयो जनं कुर्यात्संदर्भाणामशेषतः

1.90.7

देव्यात्मकं समुदयं विश्रान्तिं च शिवात्मकम् ।
उभयात्मकमप्यात्मस्वरूपं तैश्च भावयेत्

1.90.8

कालेनान्यञ्च दुःखार्त्तिवासनानाशनो ध्रुवम् ।
पराहॄन्तामयं सर्वस्वरूपं चात्मविग्रहम्

1.90.9

सदात्मकं स्फुरताख्यमरोषोपाधिवर्जितम् ।
प्रकाशरूपमात्मत्वे वस्तु तद्भासते परम्

1.90.10

यत एवमतो लोके नास्त्यमन्त्रं यदक्षरम् ।
यद्विद्येति समाख्यातं सर्वथा सर्वतः सदा

1.90.11

वासरेषु तु तेष्वेवं सर्वापत्तारकं भवेत् ।
तद्विधानं च वक्ष्यामि सम्यगासवकल्पनम्

1.90.12

गौडी पैष्टी तथा माध्वीत्येवं तत्त्रिविधं स्मृतम् ।
गतुडमुष्णोदके क्षिप्त्वा समालोड्य विनिक्षिपेत्

1.90.13

घटे काचमये तस्मिन् धातकीसुमनोरजः ।
खात्वा भूमौ संध्ययोस्तु करैः संक्षोभ्य भूयसा

1.90.14

मासमात्रे गते तस्मिन्निमग्ने रजसि द्रुतम् ।
संशोध्य पूजयेत्तेन गौडी सा गुडयोगतः

1.90.15

एवं मधुसमायोगान्माध्वी पैष्टीं शृणु प्रिय ।
अध्यर्द्धद्विगुणे तोये श्रपयेत्तन्दुलं शनैः

1.90.16

दिनत्रयोषिते तस्मिन्धात्र्यङ्कुररजः क्षिपेत् ।
दिनमेकं धृते वाते निवाते स्थापयेत्ततः

1.90.17

उदकैर्लिलितं पश्चाद्गलितं पैष्टिकं मधु ।
वृक्षजं फलजं चेति द्विविधं क्रियते मधु

1.90.18

तन्निर्माणं शृणुष्वाद्य यदास्वादान्मनोलयः ।
मृद्वीकांवाथ खर्जूरफलं पुष्पमथापि वा

1.90.19

मधूकस्यांभसि क्षिप्त्वा शतृमर्द्धावशेषितम् ।
प्राक्सृतासवलेशेन मिलितं दिवसद्वयात्

1.90.20

गालितं स्वादु पूजार्हं मनोलयकरं शुभम् ।
वार्क्षं तु नालिकेरं स्याद्धिन्तालस्याथ तालतः

1.90.21

फलकाण्डात्स्नुतं दुग्धं नीतं सद्यो रसावहम् ।
नालिके रफलान्तस्थसलिले शशिना युते

1.90.22

अर्द्धपूगफलोत्थं तु रमं संक्षिप्य तापयेत् ।
आतपे सद्य एवैतदासवं देवताप्रियाम्

1.90.23

आसवैरेभिरुदितैरर्ध्यं देव्यै निवेदयेत् ।
देवैः कृत्वा ततः सद्यो दद्यात्तत्सिद्धये द्वयम्

1.90.24

साधको नियताहारः समाधिस्थः पिबेत्सदा ।
न कदाचित्पिबोत्सिद्धो देव्यर्थमनिवेदितम्

1.90.25

पानं च तावत्कुर्वीत यावता स्यान्मनोलयः ।
ततः करोति चेत्सद्यः पातकी भवति ध्रुवम्

1.90.26

देवतागुरुशिष्टान्यं पिबन्नासवमाशया ।
पातकी राजदण्ड्यश्च रिक्थोपासक एव

1.90.27

साध्यसाधकयोरेतत्काम्य एव समीरितम् ।
सिद्धस्य सर्वदा प्रोक्तं यतो ऽसौ तन्मयो भवेत्

1.90.28

पूजयेत्प्रोक्तरूपस्तु प्रोक्तरूपाश्च ताः क्रमात् ।
उपचारैरासवैश्च मत्स्यैर्मांसैस्तु संस्कृतैः

1.90.29

अथ काम्यार्चनं वक्ष्ये प्रयोगांश्चापि नारद ।
येषामाचरणात्सिद्धिं साधको लभते ध्रुवम्

1.90.30

चैत्रे दमनकैरर्चेत्पूर्णायां मदनोत्सवम् ।
वैशाखे मासि पूर्णायां पूजयेद्धेमपुष्पकैः

1.90.31

ज्यैष्ठ्यां फलैर्यजेन्द्देवीं कदलीपनसाम्नजैः ।
आषाढ्यां चन्दनैरेलाजातीकङ्कोलकुङ्कुमैः

1.90.32

श्रावण्यामागमोक्तेन विधिनार्चेत्पवित्रकैः ।
प्रौष्ठपद्यां गन्धपुष्पैर्यजेद्वा केतकीसुमैः

1.90.33

आश्वायुज्यां कन्यकार्चा भूषावस्त्रधनादिभिः ।
कार्तिक्यां कुङ्कुमैश्चैव निशि दीपगणैरपि

1.90.34

सचन्द्रैर्मार्गशीर्ष्यां तु नालिकेरैरपूपकैः ।
पौष्यां सशर्करगुडैर्गवां दुग्धैः समर्चयेत्

1.90.35

स्वर्णरौप्यैः पङ्कजैस्तु माघ्यां सौगन्धिकादिभिः ।
फआल्गुन्यां विविधैर्द्रव्यैः फलैः पुष्पैः सुगन्धिभिः

1.90.36

पर्वताग्रे यजेद्देवीं पलाशकुसुमैर्निशि ।
सिद्धद्रव्यैश्च सप्ताहात्खेचरीमेलनं भवेत्

1.90.37

अरण्ये वटमूले वा कुञ्जे वा धरणीभृताम् ।
कदम्बगजातिपुष्पाभ्यां सिद्धद्रव्यैः शिवां यजेत्

1.90.38

मासेन सिद्धा यक्षिण्यः प्रत्यक्षा वाञ्छितप्रदाः ।
केतकीकुसुमैः सिद्धाश्चेटका वारिधेस्तटे

1.90.39

आज्ञामभीष्टां कुर्वन्ति रणे मायां महाद्भुताम् ।
वसूनि मालां भूषां च दद्युरस्येहयानिशम्

1.90.40

पीठमृक्षद्रुमैः कृत्वा तत्र देवीं यजेन्निशि ।
शाल्मलैः कुसुमैः सिद्धद्रव्यैर्मासं तु निर्भयम्

1.90.41

श्यशानदेशे विप्रेन्द्र सिद्ध्यन्त्यस्य पिशाचकाः ।
अश्मपातप्रहाराद्यैर्जीयादाभिर्द्विषश्चिरम्

1.90.42

निर्जने विपिने रात्रौ मासमात्रं तु निर्भयः ।
यजेद्देवीं चक्रगतां सिद्धद्रव्यसमन्विताम्

1.90.43

मालतीजातपुन्नागकेतकीमरुभिः क्रमात् ।
तेन सिद्ध्यन्ति वेतालास्तानारुह्येच्छया चरेत्

1.90.44

श्मशाने चण्डिकागेहे निर्जने विपिने ऽपि वा ।
मध्यरात्रे यजेद्देवीं कृष्णवस्त्रविभूषणैः

1.90.45

कृष्णचक्रे ऽतिकृष्णां तामतिक्रुद्धाशयो यजेत् ।
साध्य योनिं तदग्रे तु बलिं छिन्दन्निवेदयेत्

1.90.46

सिद्धद्रव्यसमेतं तु मासात्तद्भाललोचनात् ।
जायन्ते भीषणाः कृत्यास्ताभ्यः सिद्धिं निवेदयेत्

1.90.47

विश्वसंहारसंतुष्टाः पुनरेत्य निजेच्छया ।
देव्या ललाटनेत्रे स्युः प्रार्थिते तु तिरोहिताः

1.90.48

रक्तभूषांबरालेपमालाभूषितविग्रहाः ।
उद्याने निर्जने देवीं चक्रे संचिन्त्य पूजयेत्

1.90.49

कह्लारचंपकाशोकपाटलाशतपत्रकैः ।
सिद्धद्रव्यसमोपेतैर्मायाः सिद्ध्यन्ति मासतः

1.90.50

यासां प्रसादलाभेन कामरूपो भवेन्नरः ।
याभिर्विश्वजयी विश्वचारी विश्वविनोदवान्

1.90.51

षडाधाराब्जमध्ये तु चक्रं संछित्य पूजयेत् ।
चन्द्रचन्दनकस्तूरीमृगनाभिमहोदयैः

1.90.52

त्रिकालज्ञो भवेद्देवीं तेषु सम्यग्विचिन्तयेत् ।
पूर्णप्रतीतौ भव्यानि विकले ऽभव्यमीरितम्

1.90.53

देवीं चक्रेण सहितां स्मरेद्भक्तियुतो नरः ।
विवेका विभवा विश्वा वितता च प्रकीर्तिता

1.90.54

कामिनी खेचरी गर्वा पुराणा परमेश्वरी ।
गौरी शिवा ह्यमेया च विमला विजया परा

1.90.55

पवित्रा पीडनी विद्या विश्वेशी शिववल्लभा ।
अशेषरूपा स्वानन्दांबुजाक्षी चाप्यनिन्दिता

1.90.56

वरदा वाक्यदा वाणी विविधा वेदविग्रहा ।
विद्या वागीश्वरी सत्या संयता च सरस्वती

1.90.57

निर्मलानन्दरूपा च ह्यमृता मानदा तथा ।
पूषा चैव तथा तुष्टिः पुष्टिश्चापि रतिर्धृतिः

1.90.58

शाशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।
देवीनामानि चैतानि चुलुके सलिले स्मरन्

1.90.59

मातृकासहितां विग्नां त्रिरावृत्त्यामृतात्मिकाम् ।
ताडीं सारस्वतीं जिह्वां दीपाकारां स्मरन्पिबेत्

1.90.60

अब्दाञ्चतुर्विधं तस्य पाण्डित्यं भुवि जायते ।
एवं नित्यमुषः काले यः कुर्याच्छुद्धमानसः

1.90.61

स योगी ब्रह्मविज्ञानी शिवयोगी तथात्मवित् ।
अनुग्रहोक्तचक्रस्थां देवीं ताभिर्वृतास्मरेत्

1.90.62

चंपकेन्दीवरैर्मासादारोग्यमुपजायते ।
ज्वरभूतग्रहोन्मादशीतकाकामलाक्षिहृत्

1.90.63

दन्तकर्णज्वरशिरः शूलगुल्मादि कुक्षिजाः ।
व्रणप्रमेहच्छर्द्यर्शोग्रहण्यामत्रिदोषजाः

1.90.64

सर्वे तथा शमं यान्ति पूजया परमेश्वरी ।
द्रव्यं चक्रस्य निर्माणे काश्मीरं समुदी रितम्

1.90.65

सिंदूरं गैरिकं लाक्षा दरदं चन्दनद्वयम् ।
बिलद्वारे लिखेत्त्र्यस्रं षोडशत्र्यस्रसंयुतम्

1.90.66

दरदेनास्य मध्यस्थां पूजयेत्परमेश्वरीम् ।
ताभिस्तच्छक्तिभिः साकं सिद्धद्रव्यैः सुगन्धिभिः

1.90.67

कुसुमैर्मासमात्रेण नागकन्यासमन्वितम् ।
पातालादिषु लोकेषु रमयत्यनिशं चिरम्

1.90.68

यक्षराक्षसगन्धर्वसिद्धविद्याधराङ्गनाः ।
पिशाचा गुह्यका वीराः किन्निरा भुजगास्तथा

1.90.69

सिद्ध्यन्ति पूजनात्तत्र तथा तत्प्रोक्तकालतः ।
किंशुकैर्भूषणावाप्तौ पाटलैर्गजसिद्धये

1.90.70

रक्तोत्पलैरश्वसिद्धौ कुमुदैश्चरसिद्धये ।
उत्पलैरुष्ट्रसंसिद्ध्यै तगरैः पशुसिद्धये

1.90.71

जंबीरैर्महिषावाप्त्यै लकुचैरजसिद्धये ।
दाडिमैर्निधिसंसिद्ध्यै मधुकैर्गानसिद्धये

1.90.72

बकुलैरङ्गनासिद्ध्यै कह्लारैः पुत्रसिद्धये ।
शतपत्रैर्जयावाप्त्यै केतकैर्वाहनाप्तये

1.90.73

सौरभाढ्यैः प्रसूनैस्तु नित्यं सौभाग्यसिद्धये ।
पूजयेन्मासमात्रं वा द्विगुणं त्रिगुणं तु वा

1.90.74

यावत्फलावाप्तिकाङ्क्षी शर्कराघृतपायसैः ।
सचक्रपरिवारां तां देवीं सलिलमध्यगाम्

1.90.75

तर्प्पयेत्कुसुमैः सार्ध्यैः सर्वोपद्रवशान्तये ।
घृतैः पूर्णायुषः सिद्ध्यै क्षौद्द्रैः सौभाग्यसिद्धये

1.90.76

दुग्धैरारोग्यसंसिद्ध्यै त्रिभिरैश्वर्यसिद्धये ।
नालिकेरोदकैः प्रीत्यै हिमतोयैर्नृपाप्तये ।
सर्वार्थसिद्धय तौर्यैरभिषिञ्चेन्महेश्वरीम्

1.90.77

पूगोद्याने यजेद्देवीं सिद्धद्रव्यैर्दिवानिशम् ।
निवसंस्तत्र तत्पुष्पैर्जायते मन्मथोपमः

1.90.78

पूर्णासु नियत्तं देवीं कन्यकायां समर्चयन् ।
कृत्याः परेरिता मन्त्रा विमुखांस्तान् ग्रसंति वै

1.90.79

लिङ्गत्रयमयीं देवीं चक्रस्थाभिश्च शक्तिभिः ।
पूजयन्निष्टमखिलं लभते ऽत्र परत्र च

1.90.80

शतमानकृतैः स्वर्णपुष्पैः सौरभ्यवासितैः ।
पूजयन्मासमात्रेण प्राग्जन्माद्यैर्विमुच्यते

1.90.81

तथा रत्नैश्च नवभिर्मासं तु यदि पूजयेत् ।
विमुक्तसर्वपापौघैस्तां च पश्यति चक्षुषा

1.90.82

अंशुकैरर्चयेद्देवीं मासमात्रं सुगन्धिभिः ।
मुच्यते पापकृत्यादिदुःखौघैरितरैरपि

1.90.83

देवीरूपं स्वमात्मानं चक्रं शक्तीः समन्ततः ।
भावयन्विषयैः पुष्पैः पूजयंस्तन्मयो भवेत्

1.90.84

षोडशानां तु नित्यानां प्रत्येक तिथयः क्रमात् ।
तत्तित्तिथौ तद्भजनं जपहोमादिकं चरेत्

1.90.85

घृतं च शर्करा दुग्धमपूपं कदलीपलम् ।
क्षौद्रं गुडं नालिकेरफलं लाजा तिलं दधि

1.90.86

पृथुकं चणकं मुद्गपायसं च निवेदयेत् ।
कामेश्वर्यादिशक्तीनां सर्वासामपि चोदितम्

1.90.87

आद्याया ललितायास्तु सर्वाण्येतानि सर्वदा ।
निवेदयेञ्च जुहुयाद्वह्नौ दद्यान्नृणामपि

1.90.88

तत्तद्विद्याक्षरप्रोक्तमौषधं तत्प्रमाणतः ।
संपिष्य गुटिकीकृत्य ताभिः सर्वं च साधयेत्

1.90.89

रविवारे ऽरुणांभोजैः कुमुदैः सोमवारके ।
भौमे रक्तोत्पलैः सौम्ये वारे तगरसंभवैः

1.90.90

गुरुवारे सुकह्लारैः शुक्रवारे सितांबुजैः ।
नीलोत्पलैर्मन्दवारे पूजयेदिष्टमादरात्

1.90.91

निवेदयेत्क्रमात्तेषु रविवारादिषु क्रमात् ।
पायसं दुग्धकदलीनवनीतसिताघृतम्

1.90.92

एवमिष्टं समाराध्य देवीं गन्धादिभिर्यजेत् ।
ग्रहपीडां विजित्याशुसुखानि च समश्नुते

1.90.93

अर्धरात्रे तु साध्यां स्त्रीं स्मरन्मदनवह्निना ।
दह्यमानां हृतस्वान्तां मस्तकस्थापिताञ्जलिम्

1.90.94

विकीर्णकेशीमालोललोचनामरुणारुणाम् ।
वायुप्रेङ्खत्पताकास्थपदा पद्मकलेवराम्

1.90.95

विवेकविधुरां मत्तां मानलज्जाभयातिगाम् ।
चिन्तयन्नर्चयेञ्चक्रं मध्ये देवीं दिगंबराम्

1.90.96

जपादाडिमबन्धूककिंशुकाद्यैः समर्चयेत् ।
अन्यैः सुगन्धिशेफआलीकुसुमाद्यैः समर्चयेत्

1.90.97

त्रिसप्तरात्रादायाति प्रोक्तरूपा मदाकुला ।
यावच्छरीरपातः स्याच्छापो वानपगास्य सा

1.90.98

पद्मैरक्तैस्त्रिमध्वक्तैर्हेमाल्लक्ष्मीमवाप्नुयात् ।
तथैव कैरवै रक्तैरङ्गनाः स्ववशं नयेत्

1.90.99

समानरूपवत्सायाः शुक्लाया गोः पयःप्लुतैः ।
मल्लिकामालतीजातीशतपत्रैर्हुतैर्भवेत्

1.90.100

कीर्तिविद्याधनारोग्यसौभाग्यवित्तपादिकम् ।
आरग्वधप्रसूनैस्तु क्षौद्राक्तैर्हवनाद्भवेत्

1.90.101

स्वर्णादिस्तं भनं शत्रोर्नृपादीनां क्रुधो ऽपि च ।
आज्याक्तैः करवीरोत्थैः प्रसूनैररुणैर्हुतैः

1.90.102

रक्तांबराणि वनिता भूपामात्यवशं तथा ।
भूषावाहनवाणिज्यसिद्धयश्चास्य वाञ्छिताः

1.90.103

लवणैः सर्षर्पैरैरितरैर्वाथ होमतः ।
सतैलाक्तैर्निशामध्ये त्वानयेद्वाञ्छितां वधूम्

1.90.104

तैलाक्तैर्जुहुयात्कृष्णदरपुष्पैर्निशातरे ।
मासादरातेस्तस्यार्तिर्ज्वरेण भवति ध्रुवम्

1.90.105

आरुष्करैर्धृताभ्यक्तैस्तद्बीजैर्निशि होमतः ।
शत्रोर्द्दाहव्रणानि स्युर्दुःसाध्यानि चिकित्सकैः

1.90.106

तथा तत्तैलसंसिक्तैर्बीजैरङ्कोलकैरपि ।
मरिचैः सर्षपाज्याक्तौनशि होमानुसारतः

1.90.107

वाञ्छितां वनितां कामज्वरार्तामानयेद्द्रुतम् ।
शालिभिश्चाज्यसंसिक्तैर्हेमाच्छालीनवाप्नुयात्

1.90.108

मुद्गैर्मुद्गं घृतैराज्यं सिद्धैरित्थं हुतैर्भवेत् ।
साध्यर्क्षवृक्षसंभूतां पिष्टपादरजःकृताम्

1.90.109

राजीमरीचिलोणोत्थां पुत्तलीं जुहुयान्निशि ।
प्रपदाभ्यां च जङ्घाभ्यां जानुभ्यामुरुयुग्मतः

1.90.110

नाभेरधस्ताद्धृदयाद्भिन्नेनाकण्ठस्तथा ।
शिरसा च सुतीक्ष्णेन च्छित्वा शस्त्रेण वै क्रमात्

1.90.111

एवं द्वादशधा होमान्नरनारीनराधिपाः ।
वश्या भवन्ति सप्ताडाज्ज्वरार्त्तीश्चास्य वाञ्छया

1.90.112

पिष्टेन गुडयुक्तेन मरिचैर्जीरकैर्युताम् ।
कृत्वा पुत्तलिकां साध्यनामयुक्तामथो हृदि

1.90.113

सनामहोमसंपातघृतेपाच्यतां पुनः ।
स्पृशन्निजकराग्रेण सहस्रं प्रजपेन्मनुम्

1.90.114

अभ्यर्च्य तद् घृताभ्यक्तं भक्षयेत्तद्धिया जपन् ।
नरनारीनृपास्तस्य वश्याः स्युर्मरणावधिं

1.90.115

शक्तयष्टगन्धं संपिष्य कन्यया शिशिरे जले ।
तेन वै तिलकं भाले धारयन्वशयेज्जगत्

1.90.116

शालितन्दुलमादाय प्रस्थं भाण्डे नवे भिपेत् ।
समानवर्णेवत्साया रक्ताया गोः पयस्तथा

1.90.117

द्वुगुणं तत्र निक्षिप्य श्रपयेत्संस्कृते ऽनले ।
घृतेन सिक्तं सिक्थं तु कृत्वा तत्ससितं करे

1.90.118

विधाय विद्यामष्टोर्द्धूशतं जस्वा हुनेत्ततः ।
एवं होमो महालक्ष्मीमावहेत्प्रतिपत्कृतः

1.90.119

शुक्रवारेष्वपि तथा वर्षान्नृपसमो भवेत् ।
पञ्चम्यां तु विशेषेण प्राग्वद्धोमं समाचरेत्

1.90.120

तस्यां तिथौ त्रिमध्वक्तैर्मल्लिकाद्यैः सितैर्हुनेत् ।
अन्नाज्याभ्यां च नियतं हुत्वान्नाढ्यो भवेन्नरः

1.90.121

यद्यद्धि वाञ्छितं वस्तु तत्तत्सर्वं तु सर्वदा ।
घृतहोमादवाप्नोति तथैव तिलतन्दुलैः

1.90.122

अरुणैः पङ्कजैर्हेमं कुर्वंस्त्रिमधुराप्लुतैः ।
मण्डलाल्लभते लक्ष्मीं महतीं श्लाध्यविग्रहाम्

1.90.123

कह्लारैः क्षौद्रसंसिक्तैः पूर्णाद्यं तद्दिनावधि ।
जुहुयान्नित्यशो भक्त्या सहस्रं विकचैः शुभैः

1.90.124

स तु कीर्तिं धनं पुत्रान्प्राप्नुयान्नात्र संशयः ।
चंपकैः क्षौद्रसंसिक्तैः सहस्रहवनाद्ध्रुवम्

1.90.125

लभते स्वर्णनिष्काणां शतं मासेन नारद ।
पाटलैर्घृतसंसिक्तैस्त्रिसहस्रं हुतैस्तथा

1.90.126

दर्शादिमासाल्लभते चित्राणि वसनानि च ।
कर्पूरचन्दनाद्यानि सुगन्धानि तु मासतः

1.90.127

वस्तूनि लभते हृद्यैरन्यैर्भोगोपयोगिभिः ।
शालिभिः क्षीरसिक्ताभिः सप्तमीषु शतं हुतम्

1.90.128

तेन शालिसमृद्धिः स्याज्मासैः षड्रभिरसंशयम् ।
तिलैर्हुतैस्तु दिवसैर्वर्षादारोग्यमाप्नुयात्

1.90.129

स्वजन्मर्क्षत्रिषु तथा दूर्वाभिर्ज्जुहुयान्नरः ।
निरातङ्को महाभोगः शतं वर्षाणि जीवति

1.90.130

गुडूचीतिलदूर्वाभिस्त्रिषु जन्मसु वा हुनेत् ।
तेनायुःश्रीयशोभोगपुण्यनिध्यादिमान्भवेत्

1.90.131

घृतपायसदुग्धैस्तु हुतैस्तेषु त्रिषु क्रमात् ।
आयुरारोग्यविभवैर्नृपामात्यो भवेत्तथा

1.90.132

सप्तम्यां कदलीहोमात्सौभाग्यं लभते ऽन्वहम् ।
दूर्वात्रिकैस्तु प्रादेशमानैस्त्रिस्वादुसंयुतैः

1.90.133

जुहुयाद्दिनशो घोरे सन्निपातज्वरे तथा ।
तद्दिनेषु जपेद्विद्यां नित्यशः सलिलं स्पृशन्

1.90.134

सहस्रवारं तत्तोयैः स्नानं पानं समाचरेत् ।
पाकाद्यमपि तैरव कुर्याद्रोगविमुक्तये

1.90.135

साध्यर्क्षवृक्षसंचूर्णं त्र्यूषणं सर्षपं तिलम् ।
पिष्टं च साध्यपादोत्थरजसा च समन्वितम्

1.90.136

कृत्वा पुत्तलिकां सम्यग्धृदये नामसंयुताम् ।
प्राग्वच्छित्वायसैस्तीक्ष्णैः शस्त्रैः पुत्तलिकां हनेत्

1.90.137

एवं दिनैः सप्तभिस्तु साध्यो वश्यो भवेद्दृढम् ।
तथाविधां पुत्तलिकां कुण्डमध्ये निखन्य च

1.90.138

उपर्यग्निं निधायाथ विद्यया दिनशो हुनेत् ।
त्रिसहस्रं त्रियमायां सर्षपैस्तद्रसाप्लुतैः

1.90.139

शतयोजनदूरादप्यानयेद्वनितां बलात् ।
वशयेद्वनितां हाएंमात्कौशिकैर्मधुमिश्रितैः

1.90.140

नालिकेरफलोपे तैर्गुडैर्लक्ष्मीमवाप्नुयात् ।
तथाज्यसिक्तैः कह्लारैः क्षीराक्तैररुणोत्पलैः

1.90.141

त्रिमध्वक्तैश्चंपर्कश्च प्रसूनैर्बकुलोद्भवैः ।
मधूकजैः प्रसूनैश्च हुतैः कन्यामवाप्नुयात्

1.90.142

पुन्नागजैर्हुतैर्वस्त्राण्याज्यैरिष्टमवाप्नुयात् ।
माहिषैर्महिषीराजैरजान् गव्यैश्च गास्तथा

1.90.143

अवाप्नोति हुतैराज्यैः रत्नै रत्नं च साधकः ।
शालिपिष्टमयीं कृत्वा पुत्तलीं ससितां ततः

1.90.144

हृद्देशन्यस्तनामार्णां पचेत्तैलाज्ययोर्निशि ।
तन्मनाश्च दिवारात्रौ विद्याजप्तां तु भक्षयेत्

1.90.145

सप्तरात्रप्रयोगेण नरो नारी नृपो ऽपि वा ।
दासवद्वशमायाति चित्तप्राणादि चार्पयेत्

1.90.146

हयारिपुष्पैररुणैः सितैर्वा जुहुयात्तथा ।
त्रिसप्तरात्रान्महतीमवाप्नोति श्रियन्नरः

1.90.147

छागमांसैस्त्रिमध्वक्तैर्हेमात्स्वर्णमवाप्नुयात् ।
क्षीराक्तैः सस्यसंपन्नां भुवमाप्नोति मण्डलात्

1.90.148

पद्माक्षैर्हवनाल्लक्ष्मीमवाप्नोति त्रिभिर्दिनैः ।
बिल्वैर्दशांशं जुहुयान्मन्त्राद्यैः साधने जपे

1.90.149

एवं संसिद्धमन्त्रस्तु मन्त्रितैश्चुलुकोदकैः ।
फणिदष्टमृतानां तु मुखे संताड्य जीवयेत्

1.90.150

तत्कर्णयोर्जपन्विद्यां यष्ट्या वा जपसिद्धया ।
संताड्यशीर्षं सहसा मृतमुत्थापयेदिति

1.90.151

कृत्वा योनिं कुण्डमध्ये तत्राग्नौ विधिवद्ध्रुनेत् ।
तिलसर्षपगोधूमशालिधान्ययवैर्हुनेत्

1.90.152

त्रिमध्वक्तैरेकशो वा समेतैर्वा समृद्धये ।
बकुलैश्चंपकैरब्जैः कह्लारैररुणोत्पलैः

1.90.153

कैरवैर्मल्लिकाकुन्दमधूकैरिन्दिराप्तये ।
अशोकैः पाटलैर्विल्वैर्जातीविकङ्कतैः सितैः

1.90.154

नवनीलोत्पलैरश्वरिपुजैः कर्णिकारजैः ।
होमाल्लक्ष्मीं च सौभाग्यं निधिमायुर्यशो लभेत्

1.90.155

दूर्वां गुडूचीमश्वत्थं वटमारग्वधं तथा ।
सितार्कप्लक्षजं हुत्वा चिरान्मुच्येत रोगतः

1.90.156

इक्षुजंबूनालिकेरमोचागुडसितायुतैः ।
अचलां लभते लक्ष्मीं भोक्ता च भवति ध्रुवम्

1.90.157

सर्षपाज्यैर्हुते मृत्युः काष्ठाग्नौ वैरिमृत्यवे ।
चतुरङ्गुलजैर्हेमाञ्चतुरङ्गबले रिपोः

1.90.158

सप्ताहाद्रोगदुःखार्तिर्भवत्येव न संशयः ।
नित्यं नित्यार्चनं कुर्यात्तथा होमं घृतेन वै

1.90.159

विद्याभिमन्त्रितं तोयं पिबेत्प्रातस्तदाप्तये ।
चन्दनोशीरकर्पूरकस्तूरीरोचनान्वितैः

1.90.160

काश्मीरकालागुरुभिर्मृगस्वेदमयैरपि ।
पूजयेच्च शिवामेतैर्गन्धैः सर्वार्थसिद्धये

1.90.161

सर्वाभिरपि नित्याभिः प्रातर्मातृकया समम् ।
त्रिजप्ताभिः पिबेत्तोयं तथा वाक्सिद्वये शिवम्

1.90.162

विदध्यात्साधनं प्राग्वद्वर्णलक्षं पयोव्रतः ।
त्रिस्वादुसिक्तैररुणैरंबुजैर्हवनं चरेत्

1.90.163

जपतर्पणहोमार्चासेकसिद्धमनुर्नरः ।
कुर्यादुक्तान्प्रयोगांश्च न चेत्तन्मनुदेवताः

1.90.164

प्राणांस्तस्य ग्रसंत्येव कुपितास्तत्क्षणान्मुने ।
अनया विद्यया लोके यदसाध्यं न तत्क्वचित्

1.90.165

अरण्यवटमूले च पर्वताग्रगुहासु च ।
उद्यानमध्यकान्तारे मातृपादपमूलतः

1.90.166

सिंधुतीरे वने चैता यक्षिणीः साधयेन्नरः ।
कमलैः कैरवै रक्तैः सितैः सौगन्धिकोत्पलैः

1.90.167

सुगन्धिशिफआलिकया त्रिमध्वक्तैर्यथाविधि ।
होमात्सप्तसु वारेषु तन्मण्डलत एव वै

1.90.168

विजयं समवाप्रोति समरे द्वन्द्वयुद्धके ।
मल्लयुद्धे शस्त्रयुद्धे वादे द्यूतह्नये ऽपि च

1.90.169

व्यवहारेषु सर्वत्र जयमाप्नोति निश्चितम् ।
चतुरङ्गुलजैः पुप्पैर्हेमात्संस्तंभयेदरीन्

1.90.170

तथैव कर्णिकारोत्थैः पुन्नागोत्थैर्नमेरुजैः ।
चंपकैः केतकै राजवृक्षजैर्माधवोद्भवैः

1.90.171

प्राग्वद्दारेषु जुहुयात्क्रमात्पुष्पैस्तु सप्तभिः ।
प्रोक्तेषु स्तंभनं शत्रोर्भङ्गो वा भवति ध्रुवम्

1.90.172

शत्रोर्नक्षत्रवृक्षाग्नौ तत्समिद्धिस्तु होमतः ।
सर्षपाज्यप्लुताभिस्ते प्रणमन्त्येव पादयोः

1.90.173

मृत्युकाष्ठानले मृत्युपत्रपुष्पफलैरपि ।
समिद्भिर्जुहुयात्सम्यग्वारे शार्चनपूर्वकम्

1.90.174

अरातेश्चतुरङ्गं तु बलं रोगार्द्दितं भवेत् ।
तेनास्य विजयो भूयान्निधनेनापि वा पुनः

1.90.175

अर्कवारेर्ऽकजैरिध्मैः समिद्धे ऽग्नौ तदुद्भवैः ।
पत्रैः पुष्पैः फलैः काण्डैर्मूलैश्चापि हुनेत्क्रमात्

1.90.176

सवर्णारुणवत्साया घृतसिक्तैस्तु मण्डलात् ।
अरातिदिङ्मुखो भूत्वा कुण्डे त्र्यस्रे विधानतः

1.90.177

पलायते वा रोगार्तः प्रणमेद्वा भयान्वितः ।
पलाशेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः

1.90.178

होमेन सोमवारे च भवेत्प्राग्वन्न संशयः ।
खादिरेध्मानले तस्य पञ्चाङ्गैस्तद्घृताप्लुतैः

1.90.179

वारे भौमस्य हवनात्तदाप्नोति सुनिश्चितम् ।
अपामार्गस्य सौम्ये ऽह्नि पिप्पलस्य गुरोर्दिने

1.90.180

उदुंबरस्य भृगुजे शम्या मान्दे ऽह्नि गोघृतैः ।
शुभ्रपीतसितश्यामवर्णाद्याः पूर्ववत्तथा

1.90.181

तत्फलं समवाप्नोति तत्समिद्दीपिते ऽनले ।
प्रतिपत्तिथिमारभ्य पञ्चम्यन्तं क्रमेण वै

1.90.182

शालीचणकमुद्गैश्च यवमाषैश्च होमतः ।
माहिषाज्यप्लुतैस्ताभिस्तिथिभिः समवाप्नुयात्

1.90.183

षष्ठ्यादिसप्तम्यन्तं तु चाजाभवघृतैस्तथा ।
प्रागुक्तैर्निस्तुषैर्हेमात्प्रागुक्तफलमाप्नुयात्

1.90.184

तद्वर्द्धं पञ्चके त्वेतैः समस्तैश्च तिलद्वयैः ।
सितान्नैः पायसैः सिक्तैराविकैस्तु घृतैस्तथा

1.90.185

हवनात्तदवाप्नोति यदादौ फलमीरितम् ।
एवं नक्षत्रवृक्षोत्थवह्नौ तैस्तैर्मधुप्लुतैः

1.90.186

हवनादपि तत्प्राप्तिर्भवत्येव न संशयः ।
विद्यां संसाध्य पूर्वं तु पश्चादुक्तानशेषतः

1.90.187

प्रयोगान्साधयेद्धीमान् मङ्गलायाः प्रसादतः ।
संपूज्य देवतां विप्रकुमारीं कन्यकां तु वा

1.90.188

सशुभावयवां मुग्धां स्नातां धौतांबरां शुभाम् ।
तथाविधं कुमारं वा संस्थाप्यभ्यर्च्य विद्यया

1.90.189

स्पृष्टशीर्षो जपेद्विद्यां शतवारं तथार्चयेत् ।
प्रसूनैररुणैः शुभ्रैः सौरभाढ्यैरथापि वा

1.90.190

दद्याद्गुग्गुलधूपं च यावत्कर्मावसानकम् ।
ततो देव्या समाविष्टे तस्मिन्संपूज्य भक्तितः

1.90.191

ततस्तामुपचारैस्तैः प्रागुक्तैर्विद्यया व्रती ।
प्रजपंस्तां ततः पृच्छेदभीष्टं कथयेच्च सा

1.90.192

भूतं भवद्भविष्यं च यदन्यन्मनसि स्थितम् ।
जन्मान्तराण्यतीतानि सर्वं सा पूजिता वदेत्

1.90.193

ततस्तां प्राग्वदभ्यर्च्य स्वात्मन्युद्वास्य तां जपेत् ।
सहस्रवारं स्थिरधीः पूर्णात्मा विचरेत्सुखी

1.90.194

मधुरत्रयसंसिक्तैररुणैरंबजैः श्रियम् ।
प्राप्नोति मण्डलं होमात्सितैश्च महद्यशः

1.90.195

क्षौद्राक्तैरुप्तलै रक्तैर्हवनात्प्रोक्तकालतः ।
सुवर्णं समवाप्नोति निधिं वा वसुधां तु वा

1.90.196

क्षीराक्तैः कैरवैर्हेमात्प्रोक्तं काममवाप्नुयात् ।
धान्यानि विविधान्याशु सुभगः स भवेन्नरः

1.90.197

आज्याक्तैरुत्पलैर्हेमाद्वाञ्छितं समवाप्नुयात् ।
तदक्तैरपि कह्लारैर्हवनाद्राजवल्लभः

1.90.198

पलाशपुष्पैस्त्रिस्वादुयुक्तैस्तत्कालहोमतः ।
चतुर्विधं तु पाण्डित्यं भवत्येव न संशयः

1.90.199

लाजैस्त्रिमधुरोपेतैस्तत्कालहवनेन वै ।
कन्यकां लभते पत्नीं समस्तगुणसंयुताम्

1.90.200

नालिकेरफलक्षोदं ससितं सगुडं तु वा ।
क्षौद्राक्षं जुहुयात्तद्वदयत्नाद्धनदोपमः

1.90.201

तथैवान्नाज्यहोमेन सतन्दुलतिलैरपि ।
प्रसूनैररुणैस्तद्वत्तथा बन्धूकसंभवैः

1.90.202

सितैः प्रसूनर्वाक्सिद्धिं हवनात्समवाप्नुयात् ।
सितरक्तैस्तुमिलितैरायुरारोग्यमाप्नुयात्

1.90.203

दूर्वात्रिकैस्त्रिमध्वक्तैर्हवनात्तु जयेच्च तान् ।
तथा गुडूच्या होमेन पायसेन तिलेन च

1.90.204

श्रीखण्डपङ्ककर्पूरमिलितैः शतपत्रकैः ।
हवनाच्छ्रियमाप्नोति यावदन्वयगा भवेत्

1.90.205

कुङ्कुमं हिमतोयेन पिष्ट्वा कर्पूरसंयुतम् ।
तत्पङ्क मर्द्दितैर्हेमात्कह्लारैर्विकचैः सुमैः

1.90.206

राजकल्पः श्रिया भूयाज्जीवेद्वर्षशतं भुवि ।
निःसपत्नो निरातङ्को निर्द्रन्दो निर्मलाशयः

1.90.207

इक्षुकाण्डस्य शकलैर्हवनाद्वस्त्रमाप्नुयात् ।
तथैव करवीरोत्थैः प्रसूनैररुणैः सितैः

1.90.208

क्षौद्राक्तैः पाटलापुष्पैर्हवनाद्वशयेद्वधूः ।
तथैव पङ्कजैर्हेमाद्रूपाजीवां वशं नयेत्

1.90.209

सरूपवत्सासितगोक्षीराक्तसितहोमतः ।
लभते ऽनुपमां लक्ष्मीमपि पापिष्ठचेतनः

1.90.210

सौवीराक्तैस्तु कार्पासबीजस्तत्कालहोमतः ।
अर्द्धेन्दुकुण्डे नियतं वशगा रिपवो मुने

1.90.211

अरिष्टपत्रैस्तद्बीजैस्तद्वह्नौ तैस्तथा हुतैः ।
मृत्युबीजैर्निम्बतैलसिक्तैर्हेमान्निहॄन्ति तान्

1.90.212

रोगार्तांस्तुरगांस्तद्वत्पञ्चगव्यैर्हुतैर्ध्रुवम् ।
अक्षबीजैस्तु तैलाक्तैर्हेमः सर्वविनाशनः

1.90.213

करञ्जबीजैः संसिक्तैर्हेमाद्वैरी पिशाचवान् ।
तथैवाक्षतरूद्भूतपञ्चाङ्गहवनादपि

1.90.214

निंबतैलान्वितैरक्षद्रुमबीजैस्तु होमतः ।
तद्दिने स्यादपस्मारी वैरी भवति निश्चितम्

1.90.215

अरातेर्जन्मनक्षत्रवृक्षेन्धनगते ऽनले ।
तद्योनिपिशितैस्तैश्च हवनान्मृत्युकृद्रिपोः

1.90.216

पद्माक्षबीजैः सर्षपतैलाक्तैर्हवनात्तथा ।
जायन्ते वैरिणः कुष्ठरोगा देहविलोपकाः

1.90.217

मरिचैः सर्षपैर्हेमात्तैलाक्तैर्मध्यराजके ।
दाहज्वरेण ग्रस्तः स्यादरातिस्तद्दिने ध्रुवम्

1.90.218

एवं निग्रहहोमेषु स्वरक्षायै तथान्वहम् ।
स्निग्धैः संप्राप्तसद्विद्यैर्जपहोमादि कारयेत्

1.90.219

मृत्युञ्जयेन वा तत्तत्प्रयोगस्थाभिरेव वा ।
विद्याभिरन्यथासिद्धमन्त्रमस्याशु नाशयेत्

1.90.220

लक्षत्रयं कृते प्रोक्तं त्रेतायां द्विगुणं तथा ।
द्वापरे त्रिगुणं प्रोक्तं कलौतत्तु चतुर्गुणम्

1.90.221

दशांशं हवनं कार्यं तर्पणं तद्दशांशतः ।
तद्दशांशं मार्जनं स्याद्दशांशं द्विजभोजनम्

1.90.222

एवं क्रमेण सर्वासां या या संख्या जपस्य सा ।
कार्या सिद्ध्यै तु विद्यायास्ततः कुर्यात्प्रयोगकान्

1.90.223

द्विगुणो हि जपः कार्यः कामेश्वर्या मुनीश्वर ।
सिद्धे मन्त्रे प्रयोगांस्तु विदधीत यथा तथा

1.90.224

जपो लक्षं समाख्यातो होमादिस्तद्धशांशतः ।
कर्तव्यो भगमालाया विद्यासिद्ध्यैमुनीश्वर

1.90.225

नित्यक्लिन्नाजपः प्रोक्तो लक्षं होमो हशांशतः ।
कार्यः सिद्ध्यै तु विद्यायाः प्रयोगान्साधयेत्ततः

1.90.226

ततो मौनी पयोभक्षः प्रजपेन्नवलक्षकम् ।
भेरुडामन्त्रमुक्तं तु शेषं कुर्यात्प्रयत्नतः

1.90.227

लक्षत्रयं जपो वह्निवासिन्याः समुदीरितः ।
अन्यत्सर्वं पुरावच्च कार्य्यं साधकसत्तमैः

1.90.228

महावज्रेश्वरीविद्याजपो लक्षत्रयो मतः ।
हवनादि दशांशेन कार्यं प्रोक्तक्रमेण हि

1.90.229

अतन्द्रितो जपेल्लक्षमितं दूतीमनुं मुने ।
तद्दशांशक्रमेणैव होमादिः प्रोक्तमार्गतः

1.90.230

त्वरितां प्रजपेल्लक्षप्रमितां तद्दशांशतः ।
कृत्वा होमादिकं सर्वं विद्यासिद्धियैमुनीश्वर

1.90.231

जपो लक्षं समाख्यातो होमादिस्तद्दशांशतः ।
विद्यायाः कुलसुन्दर्याः कर्तव्यो द्विजसत्तम

1.90.232

नित्यानित्याजपो विप्रत्रिलक्षप्रमितो मतः ।
होमादिस्तद्दशांशेन प्रोक्तः प्रोक्तविधानतः

1.90.233

त्रिपञ्चाशल्लक्षमुक्तो नियमेन मुनीश्वर ।
जपो नित्यपताकाया होमादिस्तद्दशांशतः

1.90.234

विजयाया जयः प्रोक्तो लक्षमानेन नारद ।
अन्यत्पूर्ववदाख्यातं विद्यासिद्ध्यै तु साधनम्

1.90.235

दन्तलक्षप्रमाणेन सर्वमङ्गालिकां जपेत् ।
तद्दशांशक्रमेणैव होमादि समुदीरितम्

1.90.236

अष्टलक्षं हविष्याशी ज्वालामालिनिकां जपेत् ।
होमादिस्तद्दशांशेन प्रोक्तद्रव्यैः समीरितः

1.90.237

चित्राया भूपलक्षं तु जपो होमादिकस्ततः ।
प्रोक्तेन विधिना कार्यो विद्यासिद्ध्यै मुनीश्वर

1.90.238

एतत्संक्षेपतः प्रोक्तं नित्यापटलमादित ।
ज्ञातव्यं सर्वमेवात्र यन्त्रसाधनपूर्वकम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc