भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.89

1.89.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधादिमन्त्रनिरूपणं नामाष्टाशीतितमो ऽध्यायः
सनत्कुमार उवाच
अथासामावृतिस्थानां शक्तीनां समयेन च ।
नाम्नां सहस्रं वक्ष्यामि गुरुध्यानपुरः सरम्

1.89.2

नाथा नव प्रकाशाद्याः सुभगान्ताः प्रकीर्तिताः ।
भूम्यादीनिशिवान्तानि विद्धि तत्त्वानि नारद

1.89.3

गुरुजन्मादिपर्वाणि दर्शान्तानि च सप्त वै ।
एतानि प्राहमनोवृत्त्या चिन्तयेत्साधकोत्तमः

1.89.4

गुरुस्तोत्रं जपेच्चापि तद्गतेनान्तरात्मना ।
नमस्ते नाथ भगवञ्शिवाय गुरुरूपिणे

1.89.5

विद्यावतारसंसिद्ध्यै स्वौकृतानेकविग्रह ।
नवाय नवरूपाय परमार्थैकरूपिणे

1.89.6

सर्वाज्ञानतमोभेदभानवे चिद्धनाय ते ।
स्वतन्त्राय दयाकॢप्तविग्रहाय शिवात्मने

1.89.7

परतन्त्राय भक्तानां भव्यानां भव्यरूपिणे ।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्

1.89.8

प्रकाशानां प्रकाशाय ज्ञानिनां ज्ञानरूपिणे ।
पुरस्तात्पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः

1.89.9

सदा मञ्चित्तसदने विधेहि भवदासनम् ।
इति स्तुत्वा गुरुं भक्त्या परां देवीं विचिन्तयेत्

1.89.10

गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम्

1.89.11

प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।
कालहृल्लोहोलोल्लोहकलानाशनकारिणीम्

1.89.12

यदक्षरै कमात्रे ऽपि संसिद्धे स्पर्द्धते नरः ।
रवितार्क्ष्येन्दुकन्दर्पैः शङ्करानलविष्णुभिः

1.89.13

यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम्

1.89.14

यदक्षरमहासूत्रप्रोतमेतज्जगत्त्रयम् ।
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम्

1.89.15

यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते

1.89.16

अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् ।
ज्येष्ठाङ्गबाहुहृत्कण्ठकटिपादनिवासिनीम्

1.89.17

नौमीकाराक्षरोद्धारां सारात्सारां परात्पराम् ।
प्रणमामि महादेवीं परमानन्दरूपिणीम्

1.89.18

अथापि यस्या जानन्ति न मनागपि देवताः ।
केयं कस्मात्क्व केनेति सरूपारूपभावनाम्

1.89.19

वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् ।
देवीं कुलकलोल्लोलप्रोल्लसन्तीं शिवां पराम्

1.89.20

वर्गानुक्रमयोगेन यस्याख्योमाष्टकं स्थितम् ।
वन्दे तामष्टवर्गोत्थमहासिद्ध्यादिकेश्वरीम्

1.89.21

कामपूर्णजकाराख्य सुपीठान्तर्न्निवासिनीम् ।
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम्

1.89.22

एतत्स्तोत्रं तु नित्यानां यः पठेत्सुसमाहितः ।
पूजादौ तस्य सर्वाता वरदाः स्युर्न संशयः

1.89.23

अथ ते कवचं देव्या वक्ष्ये नवरतात्मकम् ।
येन देवासुरनरजयी स्यात्साधकः सदा

1.89.24

सर्वतः सर्वदात्मानं ललिता पातु सर्वगा ।
कामेशी पुरतः पातु भगमाली त्वनन्तरम्

1.89.25

दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा ।
नित्यक्लिन्नाथं भेरुण्डादिशं मे पातु कौणपीम्

1.89.26

तथैव पश्चिमं भागं रक्षताद्वह्निवासिनी ।
महावज्रेश्वरी नित्या वायव्ये मां सदावतु

1.89.27

वामपार्श्वं सदा पातु इतीमेलरिता ततः ।
माहेश्वरी दिशं पातु त्वरितं सिद्धिदायिनी

1.89.28

पातु मामूर्ध्वतः शश्चद्दैवताकुलसुंदरी ।
अधो नीलपताकाख्या विजया सर्वतश्च माम्

1.89.29

करोतु मे मङ्गलानि सर्वदा सर्वमङ्गला ।
देहॄन्द्रियमनः प्राणाञ्ज्वालामालिनिविग्रहा

1.89.30

पालयत्वनिशं चित्ता चित्तं मे सर्वदावतु ।
कामात्क्रोधात्तथा लोभान्मोहान्मानान्मदादपि

1.89.31

पापान्मां सर्वतः शोकात्संक्षयात्सर्वतः सदा ।
असत्यात्क्रूरचिन्तातोहिंसातश्चौरतस्तथा ।
स्तैमित्याच्च सदा पान्तु प्रेरयन्त्यः शुभं प्रति

1.89.32

नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः ।
तथा हयसमारूढाः पान्तु मां सर्वतः सदा

1.89.33

सिंहारूढास्तथा पान्तु पान्तु ऋक्षगता अपि ।
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे

1.89.34

तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगताश्च ताः ।
भूतगाः सर्वगाः पान्तु पान्तु देव्यश्च सर्वदा

1.89.35

भूतप्रेतपिशाचाश्च परकृत्यादिकान् गदान् ।
द्रावयन्तु स्वशक्तीनां भूषणैरायुधैर्मम

1.89.36

गजाश्वद्वीपिपञ्चास्यतार्क्ष्यारूढाखिलायुधाः ।
असंख्याः शक्तयो देव्यः पान्तु मां सर्वतः सदा

1.89.37

सायं प्रातर्जपन्नित्याकवचं सर्वरक्षकम् ।
कदाचिन्नाशुभं पश्येत्सर्वदानन्दमास्थितः

1.89.38

इत्येतत्कवचं प्रोक्तं ललितायाः शुभावहम् ।
यस्य शन्धारणान्मर्त्यो निर्भयो विजयी सुखी

1.89.39

अथ नाम्नां सहस्रं ते वक्ष्ये सावरणार्चनम् ।
षोडशानामपि मुने स्वस्वक्रमगतात्मकम्

1.89.40

ललिता चापि वा कामेश्वरी च भगमालिनी ।
नित्यक्लिन्ना च भेरुण्डा कीर्तिता वह्निवासिनी

1.89.41

वज्रेश्वरी तथा दूती त्वरिता कुलसुंदरी ।
नित्या संवित्तथा नीलपताका विजयाह्वया

1.89.42

सर्वमङ्गलिका चापि ज्वालामालिनिसंज्ञिता ।
चित्रा चेति क्रमान्नित्याः षोडशपीष्टविग्रहाः

1.89.43

कुरुकुल्ला च वाराही द्वे एते चेष्टविग्रहे ।
वशिनी चापि कामेशी मोहिनी विमलारुणा

1.89.44

तपिनी च तथा सर्वेश्वरी चाप्यथ कौलिनी ।
मुद्राणन्तनुरिष्वर्णरूपा चापार्णविग्रहा

1.89.45

पाशवर्णशरीरा चाकुर्वर्णसुवपुर्द्धरा ।
त्रिखण्डा स्थापनी सन्निरोधनी चावगुण्ठनी

1.89.46

सन्निधानेषु चापाख्या तथा पाशाङ्कुशाभिधा ।
नमस्कृतिस्तथा संक्षोभणी विद्रावणी तथा

1.89.47

आकर्षणी च विख्याता तथैवावे शकारिणी ।
उन्मादिनी महापूर्वा कुशाथो खेचरी मता

1.89.48

बीजा शक्त्युत्थापना च स्थूलसूक्ष्मपराभिधा ।
अणिमा लघिमा चैव महिमा गरिमा तथा

1.89.49

प्राप्तिः प्रकामिता चापि चेशिता वशिता तथा ।
भुक्तिः सिद्धिस्तथैवेच्छा सिद्धिरूपा च कीर्तिता

1.89.50

ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराहीन्द्राणी चामुण्डा महालक्ष्मीस्वरूपिणी

1.89.51

कामा बुद्धिरहॄङ्कारशब्दस्पर्शस्वरूपिणी ।
रूपरूपा रसाह्वा च गन्धवित्तधृतिस्तथा

1.89.52

नाभबीजामृताख्या च स्मृतिदेहात्मरूपिणी ।
कुसुमा मेखला चापि मदना मदनातुरा

1.89.53

रेखा संवेगिनी चैव ह्यङ्कुशा मालिनीति च ।
संक्षोभिणी तथा विद्राविण्याकर्षणरूपिणी

1.89.54

आह्लादिनीति च प्रोक्ता तथा समोहिनीति च ।
स्तंभिनीजंभिनीचैव वशङ्कर्यथ रञ्जिनी

1.89.55

उन्मादिनी तथैवार्थसाधिनीति प्रकीर्तिता ।
संपत्तिपूर्णा सा मन्त्रमयी द्वन्द्वक्षयङ्करी

1.89.56

सिद्धिः संपत्प्रदाचैव प्रियमङ्गलकारिणी ।
कामप्रदा निगदिता तथा दुःखविमोचिनी

1.89.57

मृत्युप्रशमनीचैव तथा विघ्ननिवारिणी ।
अङ्गसुंदरिका चैव तथा सौभाग्यदायिनी

1.89.58

ज्ञानैश्वर्यप्रदा ज्ञानमयी चैव च पञ्चमी ।
विन्ध्यवासनका घोरस्वरूपा पापहारिणी

1.89.59

तथानन्दमयी रक्षा रूपेप्सितफलप्रदा ।
जयिनी विमला चाथ कामेशी वज्रिणी भहगा

1.89.60

त्रैलोक्यमोहना स्थाना सर्वाशापरिपूरणी ।
सर्वसक्षोभणगता सौभाग्यप्रदसंस्थिता

1.89.61

सर्वार्थसाधकागारा सर्वरोगहरास्थिता ।
सर्वरक्षाकरास्थाना सर्वसिद्धिप्रदस्थिता

1.89.62

सर्वानन्दमयाधारबिन्दुस्थानशिवात्मिका ।
प्रकृष्टा च तथा गुप्ता ज्ञेया गुप्ततरापि च

1.89.63

संप्रदायस्वरूपा च कुलकौलनिगर्भगा ।
रहस्यापरापरप्राकृत्तथैवातिरहस्यका

1.89.64

त्रिपुरा त्रिपुरेशी च तथैव पुरवासिनी ।
श्रीमालिनी च सिद्धान्ता महात्रिपुरसुंदरी

1.89.65

नवरत्नमयद्वीपनवखण्डविराजिता ।
कल्पकोद्यानसंस्था च ऋतुरूपेन्द्रियार्चका

1.89.66

कालमुद्रा मातृकाख्या रत्नदेशोपदेशिका ।
तत्त्वाग्रहगाभिधा मूर्तिस्तथैव विषयद्विपा

1.89.67

देशकालाकारशब्दरूपा संगीतयोगिनी ।
समस्तगुप्तप्रकटसिद्धयोगिनिचक्रयुक्

1.89.68

वह्निसूर्येन्दुभूताह्वा तथात्माष्टाक्षराह्वया ।
पञ्चधार्यास्वरूपा च नानाव्रतसमाह्वया

1.89.69

निषिद्धाचाररहिता सिद्धचिह्नस्वरूपिणी ।
चतुर्द्धा कूर्मभागस्था नित्याद्यर्चास्वरूपिणी

1.89.70

दमनादिसमभ्यर्चा षट्कर्मसिद्धिदायिनी ।
तिथिवारपृथग्द्रव्यसमर्चनशुभावहा

1.89.71

वायोश्यनङ्गकुसुमा तथैवानङ्गमेखला ।
अनङ्गमदनानङ्गमदनातुरसाह्वया

1.89.72

मददेगिनीका चैव तथा भुवनपालिनी ।
शशिलेखा समुद्दिष्टा गतिलेखाह्वया मता

1.89.73

श्रद्धा प्रीति रतिश्चैव धृतिः कान्तिर्मनोरमा ।
मनोहरा समाख्याता तथैव हि मनोरथा

1.89.74

मदनोन्मादिनी चैव मोदिनी शङ्खिनी तथा ।
शोषिणी चैव शङ्कारी सिंजिनी सुभगा तथा

1.89.75

पूषाचेद्वासुमनसा रतिः प्रीतिर्धृतिस्तथा ।
ऋद्धिः सौम्या मरीचिश्च तथैव ह्यंशुमालिनी

1.89.76

शशिनी चाङ्गिरा छाया तथा संपूर्णमण्डला ।
तुष्टिस्तथामृताख्या च डाकिनी साथ लोकपा

1.89.77

बटुकेभास्वरूपा च दुर्गा क्षेत्रेशरूपिणी ।
कामराजस्वरूपा च तथा मन्मथरूपिणी

1.89.78

कन्दर्प्परूपिणी चैव तथा मकरकेतना ।
मनोभवस्वरूपा च भारती वर्णरूपिणी

1.89.79

मदना मोहिनी लीला जंभिनी चोद्यमा शुभा ।
ह्लादिनी द्राविणी प्रीती रती रक्ता मनोरमा

1.89.80

सर्वोन्मादा सर्वमुखा ह्यभङ्गा चामितोद्यमा ।
अनल्पाव्यक्तविभवा विविधाक्षोभविग्रहा

1.89.81

रागशक्तिर्द्वेषशक्तिस्तथा शब्दादिरूपिणी ।
नित्या निरञ्जना क्लिन्ना क्लेदेनी मदनातुरा

1.89.82

मदद्रवा द्राविणी च द्रविणी चैति कीर्तिता ।
मदाविला मङ्गला च मन्मथानी मनस्विनी

1.89.83

मोहा मोदा मानमयी माया मन्दा मितावती ।
विजया विमला चैव शुभा विश्वा तथैव च

1.89.84

विभूतिर्विनता चैव विविधा विनता क्रमात् ।
कमला कामिनी चैव किराता कीर्तिरूपिणी

1.89.85

कुट्टिनी च समुद्दिष्टा तथैव कुलसुंदरी ।
कल्याणी कालकोला च डाकिनी शाकिनी तथा

1.89.86

लाकिनी काकिनी चैव राकिनी काकिनी तथा ।
इच्छाज्ञाना क्रियाख्या चाप्यायुधाष्टकधारिणी

1.89.87

कपर्दिनी समुद्दिष्टा तथैव कुलसुंदरी ।
ज्वालिनी विस्फुलिङ्गा च मङ्गला सुमनोहरा

1.89.88

कनका किनवा विद्या विविधा च प्रकीर्तिता ।
मेषा वृषाह्वया चैव मिथुना कर्कटा तथा

1.89.89

सिंहा कन्या तुला कीटा चापा च मकरा तथा ।
कुम्भा मीना च सारा च सर्वभक्षा तथैव च

1.89.90

विश्वात्मा विविधोद्भूतचित्ररूपा च कीर्तिता ।
निःसपत्ना निरातङ्का याचनाचिन्त्यवैभवा

1.89.91

रक्ता चैव ततः प्रोक्ताविद्याप्राप्तिस्वपिणी ।
हृल्लेखा क्लेदिनी क्लिन्ना क्षोभिणी मदनातुरा

1.89.92

निपन्दना रागवती तथैव मदनावती ।
मेखला द्राविणी वेगवती चैव प्रकीर्तिता

1.89.93

कमला कामिनी कल्पा कला च कलिताद्भुता ।
किरता च तथा काला कदना कौशिका तथा

1.89.94

कंबुवादनिका चैव कातरा कपटा तथा ।
कीर्तिश्चापि कुमारी च कुङ्कुमा परिकीर्तिता

1.89.95

भञ्जिनी वेगिनी नागा चपला पेशला सती ।
रतिः श्रद्धा भोगलोला मदोन्मत्ता मनस्विनी

1.89.96

विह्वला कर्षिणी लोला तथा मदनमालिनी ।
विनोदा कौतुका पुण्या पुराणा परिकीर्तिता

1.89.97

वागीशी वरदा विश्वा विभवाविघ्नकारिणी ।
बीजविघ्नहरा विद्या सुमुखी सुंदरी तथा

1.89.98

सारा च सुमना चैव तथा प्रोक्ता सरस्वती ।
समया सर्वगा विद्धा शिवा वाणी च कीर्तिता

1.89.99

दूरसिद्धा तथा प्रोक्ताथो विग्रहगवती मता ।
नादा मनोन्मनी प्राणप्रतिष्ठारुणवैभवा

1.89.100

प्राणापाना समाना च व्यानोदाना च कीर्तिता ।
नागा कूर्मा तच कृकला देवदत्ता धनञ्जया

1.89.101

फट्कारी किङ्कराराध्या जया च विजया तथा ।
हुङ्कारी खेटचरी चण्डाछेदिनी क्षपिणी तथा

1.89.102

स्त्रीहुङ्कारी क्षेमकारी चतुरक्षररूपिणी ।
श्रीविद्यामतवर्णाङ्गी काली याम्या नृपार्णका

1.89.103

भाषा सरस्वती वाणी संस्कृता परा ।
बहुरूपा चित्तरूपा रम्यानन्दा च कौतुका

1.89.104

त्रयाख्या परमात्माख्याप्यमेयविभवा तथा ।
वाक्स्वरूपा बिन्दुसर्गरूपा विश्वात्मिका तथा

1.89.105

तथा त्रैपुरकन्दाख्या ज्ञात्रादित्रिविधात्मिका ।
आयुर्लक्ष्मीकीर्तिभोगसैन्दर्यारोग्यदायिका

1.89.106

ऐहिकामुष्मिकज्ञानमयी च परिकीर्तिता ।
जीवाख्या विजयाख्या च तथैव विश्वविन्मयी

1.89.107

हृदादिविद्या रूपादिभामुरूपाः जगदूपुः ।
विश्वमो हनिका चैव त्रिपुरामृतसंज्ञिका

1.89.108

सर्वाप्यायनरूपा च मोहिनी क्षोभणी तथा ।
क्लेदिनी च समाख्याता तथैव च महोदया

1.89.109

संपत्करी हलक्षार्णा सीमामातृतनू रतिः ।
प्रीतिर्मनोभवा वापि प्रोक्ता वाराधिपा तथा

1.89.110

त्रिकूटा चापि षट्कूटा पञ्चकूटा विशुद्धगा ।
अनाहत गता चैव मणिपूरकसंस्थिता

1.89.111

स्वाधिष्ठानसमासीनाधारस्थाज्ञासमास्थिता ।
षट्त्रिंशत्कूटरूपा च पञ्चाशन्मिथुनात्मिका

1.89.112

पादुकादिकसिद्धीशा तथा विजयदायिनी ।
कामरूपप्रदा वेतालरूपा च पिशाचिका

1.89.113

विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिका ।
विशाला मदना तुष्टा कालकण्ठी महाभया

1.89.114

माहेन्द्री शङ्खिनी चैन्द्री मङ्गला वटवासिनी ।
मेखला सकला लक्ष्मीर्मालिनीविश्वनायिका

1.89.115

सुलोचना सुशोभा च कामदा च विलासिनी ।
कामेश्वरी नन्दिनी च स्वर्णरेखा मनोहरा

1.89.116

प्रमोदा रागिणी सिद्धा पद्मिनी च रतिप्रिया ।
कल्याणदा कलादक्षा ततश्च सुरसुन्दरी

1.89.117

विभ्रमा वाहका वीरा विकला कोरकाकविः ।
सिंहनादा महानादा सुग्रीवा मर्कटा शठा

1.89.118

बिडालाक्षा बिडालास्या कुमारी खेचरी भवा ।
मयूरा मङ्गला भीमा द्विपवक्त्रा खरानना

1.89.119

मातङ्गी च निशाचारा वृषग्राहा वृकानना ।
सैरिभास्या गजमुखा पशुवक्त्रा मृगानना

1.89.120

क्षोभका मणिभद्रा च क्रीडका सिंहचक्रका ।
महोदरा स्थूलशिखा विकृतास्या वरानना

1.89.121

चपला कुक्कुटास्या च पाविनी मदनालसा ।
मनोहरा दीर्घजङ्घा स्थूलदन्ता दशानना

1.89.122

सुमुखा पण्डिता क्रुद्धा वराहास्या सटामुखा ।
कपटा कौतुका काला किङ्करा कितवा खला

1.89.123

भक्षका भयदा सिद्धा सर्वगा च प्रकीर्तिता ।
जया च विजया दुर्गा भद्रा भद्रकरी तथा

1.89.124

अम्बिका वामदेवी च महामायास्वरूपिणी ।
विदारिका विश्वमयी विश्वा विश्वविभञ्जिता

1.89.125

वीरा विक्षोभिणी विद्या विनोदा बीजविग्रहा ।
वीतशोका विषग्रीवा विपुला विजयप्रदा

1.89.126

विभवा विविधा विप्रा तथैव परिकीर्तिता ।
मनोहरा मङ्गली च मदोत्सिक्ता मनस्विनी

1.89.127

मानिनी मधुरा माया मोहिनी च तथा स्मृता ।
भद्रा भवानी भव्या च विशालाक्षी शुचिस्मिता

1.89.128

ककुभा कमला कल्पा कलाथो पूरणी तथा ।
नित्या चाप्यमृता चैव जीविता च तथा दया

1.89.129

अशोका ह्यमला पूर्णा पूर्णा भाग्योद्यता तथा ।
विवेका विभवा विश्वा वितता च प्रकीर्तिता

1.89.130

कामिनी खेचरी गर्वा पुराणापरमेश्वरी ।
गौरी शिवा ह्यमेया च विमला विजया परा

1.89.131

पवित्रा पद्मिनी विद्या विश्वेशी शिववल्लभा ।
अशेषरूपा ह्यानन्दांबुजाक्षी चाप्यनिन्दिता

1.89.132

वरदा वाक्यदा वाणी विविधा वेदविग्रहा ।
विद्या वागीश्वरी सत्या संयता च सरस्वती

1.89.133

निर्मलानन्दरूपा च ह्यमृता मनिदा तथा ।
पूषा चैव तथा पुष्टिस्तुष्टिश्चापि रतिर्धृतिः

1.89.134

शशिनी चैद्रिका कान्तिज्योत्स्ना श्रीः प्रीतिरङ्गगदा ।
पूर्णा पूर्णामृता कामदायिनीन्दुकलात्मिका

1.89.135

तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बाधिनी धारिनी धारिणी क्षमा

1.89.136

धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः स्वरूपा कपिला हव्यकव्यवहा तथा

1.89.137

घस्मरा विश्वकवला लोलाक्षी लोलजिह्विका ।
सर्वभक्षा सहस्राक्षी निःसंगा च गतिप्रिया

1.89.138

अर्चित्याचाप्रमेया च पूर्णरूपा दुरासदा ।
सर्वा संसिद्धिरूपा च पावनीत्येकरूपिणी

1.89.139

तथा यामलवेधाख्या शाक्ते वेदस्वरूपिणी ।
तथा शांभववेधा च भावनासिद्धिसृचिनी

1.89.140

वह्निरूपा तथा दस्रा ह्यमाविघ्ना भुजङ्गमा ।
षण्मुखा रविरूपा च माता दुर्गा दिशा तथा

1.89.141

धनदा केशवा चापि यमी चैव हरा शशा ।
अश्विनी च यमी वह्नि रूपा धात्रीति कीर्तिता

1.89.142

चन्द्रा शिवादितिर्जीवा सर्पिणी पितृरूपिणी ।
अर्यम्णा च भगा सूर्या त्वाष्ट्रिमारुतिसंज्ञिका

1.89.143

इन्द्राग्निरूपा मित्रा चापीन्द्राणी निरृतिर्जला ।
वैश्वदेवी हरितभूर्वासवी वरुणा जया

1.89.144

अहिर्बुध्न्या पूषणी च तथा कारस्करामला ।
उदुंबरा जंबुका च खदिरा कृष्णारूपिणी

1.89.145

वंशा च पिप्पला नागा रोहिणा च पलाशका ।
पक्षका च तथाम्बष्ठा बिल्वाचार्जुनरूपिणी

1.89.146

विकङ्कता च ककुभा सरला चापि सर्जिका ।
वञ्जुला पनसार्का च शमी हलिप्रियाम्रका

1.89.147

निम्बा मधूकसंज्ञा चाप्यश्वत्था च गजाह्वया ।
नागिनी सर्पिणी चैव शुनी चापि बिडालिकी

1.89.148

छागी मार्जारिका मूषी वृषभा माहिषी तथा ।
शार्दूली सैरिभी व्याघ्री हरिणी च मृगी शुनी

1.89.149

कपिरूपा च गोघण्टा वानरी च नराश्विनी ।
नगा गौर्हस्तिनी चेति तथा षट्चक्रवासिनी

1.89.150

त्रिखण्डा तीरपालाख्या भ्रामणी द्रविणी तथा ।
सोमा सूर्या तिथिर्वारा योगार्क्षा करणात्मिका

1.89.151

यक्षिणी तारणा व्योमशब्दाद्याप्रांणिनी च धीः ।
क्रोधिनी स्तंभिनी चण्डोञ्चण्डा ब्राह्मादिरूपिणी

1.89.152

सिंहस्था व्याघ्रगा चैव गजाश्वगरुडस्थिता ।
भौमाप्या तैजसीवायुरूपीणी नाभसा तथा

1.89.153

एकावक्त्रा चतुर्वक्त्रा नवक्त्रा नववक्त्रा कलानना ।
पञ्चविंशतिवक्त्रा च षड्विंशद्वदना तथा

1.89.154

ऊनपञ्चाशदास्या च चतुःषष्टि मुखा तथा ।
एकाशीतिमुखा चैव शताननसमन्विता

1.89.155

स्थूलरूपा सूक्ष्मरूपा तेजोविग्रहधारिणी ।
वृणावृत्तिस्वरूपा च नाथावृत्तिस्वरूपिणी

1.89.156

तत्त्वावृत्तिस्वरूपापि नित्यावृत्तिवपुर्द्धरा

1.89.157

अङ्गावृत्तिस्वरूपा चाप्यायुधावृत्तिरूपिणी ।
गुरुपङ्क्तिस्वरूपा च विद्यावृत्तितनुस्तथा

1.89.158

ब्रह्माद्यावृत्तिरूपा च परा पश्यतिका तथा ।
मध्यमा वैखरी शीर्षकण्ठताल्वोष्ठदन्तगा

1.89.159

जिह्वामूलगता नासागतोरः स्थलगामिनी ।
पदवाक्यस्वरूपा च वेदभाषास्वरूपिणी

1.89.160

सेकाख्या वीक्षणाख्या चोपदेशाख्या तथैव च ।
व्याकुलाक्षरसंकेता गायत्री प्रणवादिका

1.89.161

जपहोमार्चनध्यानयन्त्रतर्पणरूपिणी ।
सिद्धसारस्वता मृत्युञ्जया च त्रिपुरा तथा

1.89.162

गारुडा चान्नपूर्णा चाप्यश्वरूढा नवात्मिका ।
गौरी च देवी हृदया लक्षदा च मतङ्गिनी

1.89.163

निष्कत्रयपदा चेष्टा वादिनी च प्रकीर्तिता ।
राजलक्ष्मीर्महालक्ष्मीः सिद्धलक्ष्मीर्गवानना

1.89.164

इत्येवं ललितादेव्या दिव्यं नामसहस्रकम् ।
सर्वार्थसिद्धिदं प्रोक्तं चतुर्वर्गफलप्रदम्

1.89.165

एतन्नित्यमुषःकाले यो जपेच्छुद्धमानसः ।
स यो गी ब्रह्मविज्ज्ञानी शिवयोगी तथात्मवित्

1.89.166

द्विरावृत्त्या प्रजपतो ह्यायुरारोग्यसंपदः ।
लोकानुरञ्जनं नारीनृपावर्जनकर्म च

1.89.167

अपृथक्त्वेन सिद्ध्यन्ति साधकस्यास्य निश्चितम् ।
त्रिरावृत्त्यास्य वै पुंसो विश्वं भूयाद्वशे ऽखिलम्

1.89.168

चतुरावृत्तितश्चास्य समीहितमनारतम् ।
फलत्येव प्रयोगार्हे लोकरक्षाकरो भवेत्

1.89.169

पञ्चावृत्त्या नरा नार्यो नृपा देवाश्च जन्तवः ।
भजन्त्येनं साधकं च देव्यामाहितचेतसः

1.89.170

षडावृत्त्या तन्मयः स्यात्साधकश्चास्य सिद्धयः ।
अचिरेणैव देवीनां प्रसादात्संभवन्ति च

1.89.171

सप्तावृत्त्यारिरोगादिकृत्यापस्मारनाशनम् ।
अष्टावृत्त्या नरो भूपान्निग्रहानुग्रहक्षमः

1.89.172

नवावृत्त्या मन्मथाभो विक्षोभयति भूतलम् ।
दशावृत्त्या पठेन्नित्यं वाग्लक्ष्मीकान्तिसिद्धये

1.89.173

रुद्रावृत्त्याखिलर्द्धिश्च तदायत्तं जगद्भवेत् ।
अर्कावृत्त्या सिद्धिभिः स्याद्दिग्भिर्मर्त्यो हरोपमः

1.89.174

विश्वावृत्त्या तु विजयी सर्वतः स्यात्सुखी नरः ।
शक्रावृत्त्याखिलेष्टाप्तिः सर्वतो मङ्गलं भवेत्

1.89.175

तिथ्यावृत्त्याखिलानिष्टानयन्तादाप्नुयान्नरः ।
षोडशावृत्तितो भूयान्नरः साक्षान्महेश्वरः

1.89.176

विश्वं स्रष्टुं पालयितुं संहतु च क्षमो भवेत् ।
मण्डलं मासमात्रं वा यो जपेद्यद्यदाशयः

1.89.177

तत्तदेवाप्नुयात्सत्यं शिवस्य वचनं यथा ।
इत्येतत्कथितं विप्र नित्यावृत्त्यर्चनाश्रितम्

1.89.178

नाम्नां सहस्रं मनसो ऽभीष्टसंपादनक्षमम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc