नारद पुराण · अध्याय 1.88
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दुर्गामन्त्रचतुष्टयवर्णनं नाम सप्ताशीतितमो ऽध्यायः
सूत उवाच
श्रुत्वेत्थं यजनं विप्रा मन्त्रध्यानपुरःसरम् ।
सर्वासामवताराणां नारदो देवदर्शनः
सर्वाद्याया जगन्मातुः श्रीराधायाः समर्चनम् ।
अवतारकलानां हि पप्रच्छ विनयान्वितः
नारद उवाच
धन्यो ऽस्मिकृतकृत्यो ऽस्मि जातो ऽहं त्वत्प्रसादतः ।
पज्जगन्मातृमन्त्राणां वैभवं श्रुतवान्मुने
यथा लक्ष्मीमुखानां तु अवताराः प्रकीर्तिताः ।
तथा राधावताराणां श्रोतुमिच्छामि वैभवम्
यत्संख्याकाश्च यद्रूपा यत्प्रभावा विदांवर ।
राधावतारास्तान्सत्यं कीर्तयाशेषसिद्धिदान्
एतच्छुत्वा वचस्तस्य नारदस्य विधेः सुतः ।
सनत्कुमारः प्रोवाच ध्यात्वा राधापदांबुजम्
सनत्कुमार उवाच
शृणु विप्र प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
राधावतारचरितं भजतामिष्टिसिद्धिदम्
चन्द्रावली च ललिता द्वे सख्यौ सुप्रिये सदा ।
मालावतीमुखाष्टानां चन्द्रावल्यधिपास्मृता
कलावतीमुखाष्टानामीश्वरी ललिता मता ।
राधाचरणपूजायामुक्ता मालावतीमुखाः
ललिताधीश्वरीणां तु नामानि शृणु सांप्रतम् ।
कलावती मधुमती विशाखा श्यामलाभिधा
शैब्या वृन्दा श्रीधराख्या सर्वास्तुत्तुल्यविग्रहाः ।
सुशीलाप्रमुखा श्चान्याः सख्यो द्वात्रिंशदीरिताः
ताः शृणुष्व महाभाग नामतः प्रवदामि ते ।
सुशीलां शशिलेखा च यमुना माधवी रतिः
कदम्बमाला कुन्ती च जाह्नवी च स्वयंप्रभा ।
चन्द्रानना पद्ममुखी सावित्री च सुधामुखी
शुभा पद्मा पारिजाता गौरिणी सर्वमङ्गला ।
कालिका कमला दुर्गा विरजा भारती सुरा
गङ्गा मधुमती चैव सुन्दरी चन्दना सती ।
अपर्णा मनसानन्दा द्वात्रिंशद्राधिकाप्रियाः
कदाचिद्छलिला देवी पुंरूपा कृष्णविग्रहा ।
ससर्ज षोडशकलास्ताः सर्वास्तत्समप्रभाः
तासा मन्त्रं तथा ध्यानं यन्त्रार्चादिक्रमं तथा ।
वर्णये सर्वतन्त्रेषु रहस्यं मुनिसत्तम
वातो मरुच्चाग्रिवह्नी धराक्ष्मे जलचारिणी ।
विमुखं चरशुचिविभू वनस्वशक्तयः स्वराः
प्राणस्तेजः स्थिरा वायुर्वायुश्चापि प्रभा तथा ।
ज्यकुमभ्रं तथा नादो दावकः पाथ इत्यथ
व्योमरयः शिखी गोत्रा तोयं शून्यजवीद्युतिः ।
भूमी रसो नमो व्याप्तं दाहश्चापि रसांबु च
वियत्स्पर्शश्च हृद्धंसहलाग्रासो हलात्मिकाः ।
चन्द्रावली च ललिता हंसेला नायके मते
ग्रासस्थिता स्वयं राधा स्वयं शक्तिस्वरूपिणी ।
शेषास्तु षोडशकला द्वात्रिंशत्तत्कलाः स्मृताः
वाङ्मयं निखिलं व्याप्तमाभिरेव मुनीश्वर ।
ललिताप्रमुखाणां तु षोडशीत्वमुपागता
श्रीराधा सुन्दरी देवी तान्त्रिकैः परिकीर्त्यते ।
कुरुकुल्ला च वाराही चन्द्रालिललिते उभे
संभूते मन्त्रवर्गं ते ऽभिधास्ये ऽहं यथातथम् ।
हृत्प्राणेलाहंसदावह्निस्वैर्ललितेरिता
त्रिविधा हंसभेदेव शृणु तां च यथाक्रमम् ।
हंसाद्ययाद्या मध्या स्यादादिमध्यस्थहंसया
तृतीया प्रकृतिः सैव तुर्या तैरन्त्यमायया ।
आसु तुर्याभवन्मुक्त्यै तिस्रो ऽन्याः स्युश्चसंपदे
इति त्रिपुरसुंदर्या विद्या सरुमतसमीरिता ।
दाहभूमीरसाक्ष्मास्वैर्वशिनीबीजमीरितम्
प्राणो रसाशक्तियुतः कामेश्वर्यक्षरं महत् ।
शून्यमंबुरसावह्निस्वयोगान्मोहनीमनुः
व्याप्तं रसाक्ष्मास्वयुतं विमलाबीजमीरितम् ।
ज्यानभोदाहवह्निस्वयोगैः स्यादरुणामनुः
जयिन्यास्तु समुद्दिष्टः सर्वत्र जयदायकः ।
कं नभोदाहसहितं व्याप्तक्ष्मास्वयुतं मनुः
सर्वेश्वर्याः समाख्यातः सर्वसिद्धिकरः परः ।
ग्रासो नभोदाहवह्निस्वैर्युक्तः कौलिनीमनुः
एतैर्मनुभिरष्टाभिः शक्तिभिर्वर्गसंयुक्तैः ।
वाग्देवतान्तैर्न्यासः स्याद्येन देव्यात्मको भवेत्
रन्ध्रे भाले तथाज्ञायां गले हृदि तथा न्यसेत् ।
नाभावाधारके पादद्वये मूलाग्रकावधि
षड्दीर्घाढ्येन बीजेन कुर्याश्चैव षडङ्गकम् ।
लोहितां ललितां बाणचापपाशसृणीः करैः
दधानां कामराजाङ्के यन्त्रीतां मुदुतां स्मरेत् ।
मध्यस्थदेवी त्वेकैव षोडशाकारतः स्थाता
यतस्तस्मात्तनौ तस्यास्त्वन्याः पञ्चदशार्चयेत् ।
ऋषिः शिवश्छन्द उक्ता देवता ललितादिकाः
सर्वासामपि नित्यानामावृतीर्नामसंचये ।
पटले तु प्रयोगांश्च वक्ष्याम्यग्रे सविस्तरम्
अथ षोडशनित्यासु द्वितीया या समीरिता ।
कामेश्वरीति तां सर्वकामदां शृणु नारद
शुचिः स्वेन युतस्त्वाद्यो ललिता स्याद्द्वितीयकः ।
शून्यमग्नियुतं पश्चाद्रयोव्याप्तेन संयुतम्
प्राणो रसाग्निसहितः शून्ययुग्मं चरान्वितम् ।
नभोगोत्रा पुनश्चैषां दाहेन समयोजिता
अंबु स्याच्चरसंयुक्तं नवशक्तियुतं च हृत् ।
एषा कामेश्वरी नित्या कामदैकादशाक्षरी
मूलविद्याक्षरैरेव कुर्यादङ्गानि षट् क्रमात् ।
एकेन हृदयं शीर्षं तावताथो द्वयं द्वयात्
चतुर्भिर्नयनं तद्वदस्त्रमेकेन कीर्तितम् ।
दृक्श्रोत्रनासाद्वितये जिह्वाहृन्नाभिगुह्यके
व्यापकत्वेन सर्वाङ्गे मूर्द्धादिप्रपदावधि ।
न्यसेद्विद्याक्षराण्येषु स्थानेषु तदनन्तरम्
समस्तेन व्यापकं तु कुर्यादुक्तक्रमेण तु ।
अथ ध्यानं प्रवक्ष्यामि नित्यपूजासु चोदितम्
येन देवी सुप्रसन्ना ददातीष्टमयत्नतः ।
बालार्ककोटिसंकाशां माणिक्यमुकुटोज्ज्वलाम्
हारग्रैवेयकाञ्चीभिरूर्मिकानूपुरादिभिः ।
मण्डितां रक्तवसनां रत्नाभरणशोभिताम्
षड्भुजां त्रीक्षणामिन्दुकलाकलितमौलिकाम् ।
पञ्चाष्टषोडशद्वन्द्वषट्कोणचतुरस्रगाम्
मन्दस्मितलसद्वक्त्रां दयामन्थरवीक्षणाम् ।
पाशाङ्कुशौ च पुण्ड्रेक्षुचापं पुष्पशिलीमुखम्
रत्नपात्रं सीधुपूर्णं वरदं बिभ्रतीं करैः ।
ततः प्रयोगान्कुर्वीत सिद्धे मत्रे तु साधकः
तृतीयामथ वक्ष्यामि नाम्ना तु भगमालिनी ।
कामेश्वर्यादिरादिः स्याद्रसश्चापस्थिरारसः
धरायुक्सचरा पश्चात्स्थिरा पश्चाद्रसः स्मृतः ।
स्थिराशून्ये ऽग्निसंयुक्ते रसः स्यात्तदनन्तरम्
स्थिरा भूसहिता गोत्रा सदाहो ऽग्निरसः स्थिरा ।
नभश्च मरुता युक्तं रसवर्णसमन्वितम्
ततो रसः स्थिरा पश्चान्मरुता सह योजिता ।
अंबहंसचरो ऽथिक्तो रसो ऽथ स्यात्स्थिरा पुनः
स्थिराधरान्विता हंसो व्याप्तेन च चरेण च ।
रसः स्थिरा ततो व्याप्तं भूयुतं शून्यमग्नियुक्
रसः स्थिरा ततः साग्निशून्यं तवियुतो मरुत् ।
रयः शून्यं चाग्नियुतं हृदाहंसाच्च तत्परम्
रसः स्थिरांबु च वियत्स्वयुतं प्राण एव च ।
दाहो ऽग्रियुग्रसस्तस्मास्थिराक्ष्मा दाहसंयुता ।
सचरः स्याज्जवीपूर्वविद्या तर्तीयतः क्रमात्
चतुष्टयमथार्णानां रसस्तदनु च स्थिरा ।
हृदंबुयुक् क्ष्मया दाहः सचरः स्याज्जवी च हृत्
दाहो ऽंबुमरुता युक्तो व्योम्नि साग्निरसस्तुतः ।
स्थिरा तु मरुता युक्ता शून्यं साग्निनभश्चरौ
हंसो व्याप्तमरुद्युक्तः शून्यं व्याप्तमतोंऽबु च ।
दाहो गोत्राचरयुता तथा दाहस्तथा रयः
हृद्धरासहितं दाहरयौ चरसमन्वितौ ।
रसः स्थिरा ततः प्राणो रसाग्निसहितो भवेत्
शून्ययुग्मं चरयुतं ततः पूर्वमतः परम् ।
शून्ययुग्मं च गोत्रा स्याद्वाहयुक्तांबुना चरः
प्राणो रसा चरयुतो गोत्रव्यसिमतः परम् ।
गोत्रादाहमरुद्युक्ता त्वंबुन्यासमतो भवेत्
युक्तोनांभश्च भूयुक्तं वाश्चरेण समन्वितम् ।
ग्रासो धरायुतः पश्चाद्रसः शक्त्या समन्वितः
ग्रासो भूसहितो विप्र रसो व्याप्तं ततश्च हृत् ।
दाहोनांबु च हृत्पश्चाद्रयेंऽबुमरुदन्वितः
शून्यं च केवलं चैव रसश्च सचरस्थिरा ।
वियदंबुयुतं दाहस्त्वग्नियुक्सयुतः शुचिः
भूमी रसाक्ष्मास्वयुता पञ्चैकान्तरिताः स्थिराः ।
तदन्तरित बीजानि स्वसंयुक्तानि पञ्च वै
तानि क्रमाज्ज्यासचरो रसो भूश्च नभोयुता ।
हंसश्चरयुतो द्विः स्यात्ततः प्राणो रसाग्नियुक्
शून्ययुग्मं चरयुतं हृद्दाहो ऽम्बुमरुद्युतः ।
व्योमाग्निसहितं पश्चाद्रसश्च मरुता स्थिरा
शून्यं साग्निनभश्चैव चरेण सहितं तथा ।
अंबु पश्चाद्वियत्तस्मान्नभश्च मरुदन्वितम्
शून्यं व्याप्तं च दद्युक्तं रयदाहस्ववह्निभिः ।
हंसः सदाहो ऽम्बगुरसा चरस्वैः संयुतो भवेत्
हंसः सदाहवह्निस्वैर्युक्तमन्त्यमुदीरितम् ।
सप्तत्रिंशच्छतार्णैः स्यान्नित्या सौभागमालिनी
अङ्गानि मन्त्रवर्णैः स्युराद्येन हृदुदीरितम् ।
ततश्चतृर्भिः शीर्षं स्याच्छिखा त्रिभिरुदीरिता
गुणवेदाक्षरैः शेषाण्यङ्गानि षडिति क्रमात् ।
अरुणामरुणाकल्पां सुंदरीं सुस्मिताननाम्
त्रिनेत्रां बाहुभिः षड्भिरुपेतां कमलासनाम् ।
कह्लारपाशपुण्ड्रेक्षुकोदण्डान्वामबाहुभिः
दधानां दक्षिणैः पद्ममङ्कुशं पुष्पसायकम् ।
तथाविधाभिः परितो युतां शक्तिगणैः स्तुतैः
अक्षरोक्ताभिरन्याभिः स्मरोन्मादमदात्मभिः ।
एषा तृतीया कथिता वनिता जनमोहिनी
चतुर्थीं शृणु विप्रेन्द्र नित्यक्लिन्नासमाह्वयाम् ।
हंसस्तु दाहवह्निस्वैर्युक्तः प्रथममुच्यते
कामेश्वर्यास्तृतीयादिवर्णानामष्टकं भवेत् ।
हृदंबुमरुता युक्तः स एवैकादशाक्षरः
एकादशाक्षरी चेयं विद्यार्णैरङ्गकल्पनम् ।
आद्येन मन्त्रवर्णेन हृदयं समुदीरितम्
द्वाभ्यां द्वाभ्यां तु शेषाणि अङ्गानि परिकल्पयेत् ।
न्यसेदङ्गुष्ठमूलादिकनिष्ठाग्रान्तमूर्द्ध्वगम्
शेषं तद्वलये न्यस्य हृद्दृक्छ्रोत्रे नसोर्द्वयोः ।
त्वचि ध्वजे च पायौ च पादयो रर्णकान्न्यसेत्
अरुणामरुणाकल्पामरुणांशुकधारिणीम् ।
अरुणस्रग्विलेपां तां चारुस्मेरमुखांबुजाम्
नेत्रत्रयोल्लसद्वक्त्रां भालेघर्मांबुमौक्तिके ।
विराजमानां मुकुटलसदर्द्धेन्दुशेखराम्
चतुर्भिर्बाहुभिः पाशमङ्कुशं पानपात्रकम् ।
अभयं बिभ्रतीं पद्ममध्यासीनां मदालसाम्
ध्यात्वैवं पूजयेन्नित्यक्किन्नां नित्यां स्वशक्तिभिः ।
पुण्या चतुर्थी गदिता नित्याक्किन्नाह्वया मुने
वनिता नवनीतस्य दाविकाग्निर्जयादिना ।
भूः स्वेन युक्ता प्रथमं प्राणो दाहेन तद्युतः
रसो दाहेन तद्युक्तं प्रभादाहेन तद्युता ।
ज्या च दाहेन तद्युक्ता नित्याक्लिन्नान्तगद्वयम्
एषा नवाक्षरी नित्या भेरुण्डा सर्वसिद्धिदा ।
प्रणवं ठद्वयं त्यक्त्वा मध्यस्थैः षड्भिरक्षरैः
षडङ्गानि प्रकुर्वीत वर्णन्यासं ततः परम् ।
रन्ध्राद्यामुखकण्ठेषु हन्नाभ्यां धारयद्वयम्
न्यसेन्मन्त्रार्णनवकं मातृकान्यासपूर्वकम् ।
अथ ध्यानं प्रवक्ष्यामि देव्याः सर्वार्थसिद्धिदम्
तप्तकाञ्चनसंकाशदेहां नेत्रत्रयान्विताम् ।
चारुस्मितां चितमुखीं दिव्यालङ्कारभूषिताम्
ताटङ्कहारकेयूररत्नस्तबकमण्डिताम् ।
रसनानूपुरोर्म्यादिभूषणैरतिसुन्दरीम्
पाशाङ्कुशौ चर्मखङ्गौ गदावह्निधनुःशरान् ।
करैर्दधानामासीना पूजायां मत्पसस्थिताम्
शक्तीश्च तत्समाकारतेजोहेतिभिरन्विताः ।
पूजयेत्तद्वदभितः स्मितास्या विजयादिकाः
पञ्चमीय समाख्याता भेरुण्डाख्या मुनीश्वर ।
यस्याः स्मरणतो नश्येद्गरलं त्रिविधं क्षणात्
या तु षष्ठी द्विजश्रेष्ठ सा नित्या वह्निवासिनी ।
तद्विधानं शृणुष्वाद्य साधकानां सुसिद्धिदम्
भेरुण्डाद्यमिहाद्यं स्यान्नित्यक्लिन्नाद्यनन्तरम् ।
ततोंऽबुशून्ये हंसाग्निह्युत्तमंबुमरुद्युतम्
हृदग्निना युतं शून्यं व्याप्तेन शुचिना च युक् ।
शून्यं नभः शक्तियुतं नवार्णेयमुदाहृता
विद्या द्वितीयबीजेन स्वरान्दीर्घान्नियोजयेत् ।
मायान्तान्षड्भिरेवां गान्याचरेत्सकराङ्गयोः
नवाक्षराणि विद्याया नवरन्ध्रेषु विन्यसेत् ।
व्यापकं च समस्तेन कुर्यादेवात्मसिद्धये
सर्वास्वपि च विद्यासु व्यापकन्यासमाचरेत् ।
तप्तकाञ्चनसंकाशां नवयौवनसुन्दरीम्
चारुस्मेरमुखांभोजां विलसन्नयनत्रयाम् ।
अष्टाभिर्बाहुभिर्युक्तां माणिक्याभरणोज्ज्वलाम्
पद्मरागकिरीटांशुसंभेदारुणितांबराम् ।
पीतकौशेयवसनां रत्नमञ्जीरमेखलाम्
रक्तमौक्तिकसकंभिन्नस्तबकाभरणोज्ज्वलाम् ।
रत्नाब्जकंबुपुण्ड्रेक्षुचापपूर्णेन्दुमण्डलम्
दधानां बाहुभिर्वामैः कह्लारं हेमशृङ्गकम् ।
पुष्पेषुं मातुलिङ्गं च दधानां दक्षिणैः करैः
स्वस्वनामाभिरभितः शक्तिभिः परिवारिताम् ।
एवं ध्यात्वार्चयेद्वह्निवासिनीं वह्निविग्रहम्
यस्याः स्मरपतो वश्यं जायते भुवनत्रयम् ।
अथ या सप्तमी नित्या महावज्रेश्वरी मुने
तस्या विद्यां प्रवक्ष्यामि साधकानां सुसिद्धिदाम् ।
द्वितीयं वह्विवासिन्या नित्यक्लिन्ना चतुर्थकम्
पञ्चमं भगमालाद्यं भेरुण्डाया द्वितीयकम् ।
नित्यक्लिन्नाद्वितीयं च तृतीयं षष्ठसप्तमौ
अष्टमं नवमं चापि पूर्वं स्यादन्तिमं पुनः ।
द्वयमेकैकमथ च द्वयद्वयमथ द्वयम्
मायया पुटितं कृत्वा कुर्यादङ्गानि षट् क्रमात् ।
प्रत्येकं शक्तिपुटुतैर्मन्त्रार्णैर्दशभिर्न्यसेत्
दृक्छ्रोत्रनासावाग्वक्षोनाभिगुह्येषु च क्रमात् ।
रक्तां रक्तांबरां रक्तगङ्घमालाविभूषणाम्
चतुर्भुजां त्रिनयनां माणिक्यमुकुटोज्ज्वलाम् ।
पाशाङ्कुशामिक्षुचापं दाडिमीशायकं तथा
दधानां बाहुभिर्नेत्रैर्दयासुप्रीतिशीतलैः ।
पश्यन्ती साधके अस्त्रषट्कोणाब्जमहीपुरे
चक्रमध्ये सुखासीनां स्मेरवक्त्रसरोरुहाम् ।
शक्तिभिः स्वस्वरूपाभिरावृतां पीतमध्यगाम्
सिंहासने ऽभितः प्रेङ्खत्पोतस्थाभिश्च शक्तिभिः ।
वृतां ताभिर्विनोदानि यातायातादिभिः सदा
कुर्वाणामरुणांभोधौ चिन्तयेन्मन्त्रनायकम् ।
एषा तु सप्तमीप्रोक्ता दूतिं चाप्यष्टमीं शृणु
वज्रेश्वर्याद्यमाद्यं स्याद्वियदग्नियुतं ततः ।
अंबु स्यान्मरुता युक्तं गोत्रा क्ष्मासंयुता ततः
रयोव्यासेन शुचिना युतः स्यात्तदनन्तरम् ।
अत्यार्णां वह्निवासिन्या दूती नित्या समीरिताः
षड्दीर्घस्वरयुक्तेन विद्यायाः स्यात्षडङ्गकम् ।
तेनैव पुटितैरर्णैर्न्यसेच्छ्रोत्रादिपञ्चसु
षष्ठकं नसि विन्यस्य व्यापकं विद्यया न्यसेत् ।
निदाघकालमध्याह्नदिवाकरसमप्रभाम्
नवरत्नकिरीटां च त्रीक्षणामरुणांबराम् ।
नानाभरणसंभिन्नदेहकान्तिविराजिताम्
शुचिस्मितामष्टभुजा स्तूयमानां महर्षिभिः ।
पाशं खेटं गदां रत्नचषकं वामबाहुभिः
दक्षिणैरङ्कुशं खड्गं कट्टारं कमलं तथा ।
दधानां साधकाभीष्टदानोद्यमसमन्विताम्
ध्यात्वैवं पृनयेद्देवीं दूतीं दुर्न्नीतिनाशिनीम् ।
इत्येषा कथिता तुभ्यं समस्तापन्निवारिणी
श्रीकरी शिवतावासकारिणी सर्वसिद्धिदा ।
अथ ते नवमीं नित्यां त्वरितां नाम नारद
प्रवक्ष्यामि यशोविद्याधनारोग्यसुखप्रदाम् ।
आद्यं तु वह्निवासिन्या दूत्यादिस्तदनन्तरम्
हंसो धरा स्वयं युक्तस्तेजश्चरसमन्वितम् ।
वायुः प्रभाचरयुता ग्रासशक्तिसमन्वितः
हृदार येण दाहेन वह्निस्वाष्टमं तथा ।
हंसः क्ष्माखंयुतो ग्रासश्चरयुक्तो द्वितीयकः
द्वितिर्नादयुता नित्या त्वरिता द्वादशाक्षरी ।
विद्या चतुर्थवर्णादिसप्तभिस्त्वक्षरैस्तथा
कुर्यादङ्गानि युग्मार्णैः षट्क्रमेण कराङ्गयोः ।
शिरोललाटकण्ठेषु हृन्नाभ्याधारके तथा
ऊरुयुग्मे तथा जानुद्वये जङ्घाद्वये तथा ।
पादयुग्मे तथा वर्णान्मन्त्रजान्दश विन्यसेत्
द्वितीयोपान्त्यमध्यस्थैर्मन्त्रार्णैरितरैरपि ।
ताराद्यैः शृणु तद्ध्यानं सर्वसिद्धिविधायकम्
श्यामवर्णशुभाकारां नवयौवनशोभिताम् ।
द्विद्विक्रमादष्टनागैः कल्पिताभरणोज्ज्वलैः
ताटङ्कमङ्गदं तद्वद्रसना नूपुरं च तैः ।
विप्रक्षत्रियविट्शूद्रजातिभिर्भीमविग्रहैः
पल्लवांशुकसंवीतां शिखिपिच्छकृतैः शुभैः ।
वलयैर्भूषितभुजां माणिक्यमुकुटोज्ज्वलाम्
बर्हिबर्हिकृतापीडां तच्छत्रां तत्पताकिनीम् ।
गुञ्जागुणलसद्वक्षः कुचकुङ्कुममण्डलाम्
त्रिनेत्रां चारुवदनां मन्दस्मितमुखांबुजाम् ।
पाशाङ्कुशवराभीतिलसद्भुजचतुष्टयाम्
ध्यात्वैवं तोतलां देवीं पूजयेच्छक्तिभिर्वृताम् ।
तदग्रस्था लु फट्कारी शरचापकरोज्ज्वला
प्रसीदेत्फलदाने च साधकानां त्वरान्वितां ।
एषा तु नवमी नित्या त्वरितोक्ता मुनीश्वर
विध्नदुःस्वप्रशमनी सर्वाभीष्टप्रदायिनी ।
शुचिः स्वेन युतस्त्वाद्यो रसावह्निसमन्वितः
प्राणो द्वितीयः स्वयुतो वनदुच्छक्तिभिः परः ।
इतीरिता त्र्यक्षराख्या नित्येयं कुलसुंदरी
यस्याः स्मरण मात्रेण सर्वज्ञत्वं प्रजायते ।
त्रिभिस्तैरुदितैर्मूलवर्णैः कुर्य्यात्षडङ्गकम्
आदिमध्यावसानेषु पूजाजपविधिक्रमात् ।
प्रत्येक तैस्त्रिभिर्बीजैर्दीर्घस्वरसमन्वितैः
कुर्यात्कराङ्गवक्त्राणां न्यासं प्रोक्तं यथाविधि ।
ऊर्द्ध्वप्राग्दक्षिणोदक्च पश्चिमाधस्नाग्नभिः
सुविनद्यन्तरस्थैस्तन्नदात्मसु यथाक्रमम् ।
आधाररन्ध्रहृत्स्वेकं द्वितीयं लोचनत्रये
तृतीयं श्रोत्रचिबुके चतुर्थं घ्राणतालुषु ।
पञ्चमं चांसनाभीषु ततः पाणिपदद्वये
मूलमध्याग्रतो न्यस्येन्नवधा मूलवर्णकैः ।
लोहितां लोहिताकारशक्तिंबृदनिषेविताम्
लोहितांशुकभूषास्रग्लेपनां षण्मुखांबुजाम् ।
अनर्ध्यरत्नघटितमाणिक्यमुकुटोज्वलाम्
रत्नस्तबकसंभिन्नलसद्वक्षःस्थलां शुभाम् ।
कारुण्यानन्दपरमा मरुणांबुजविष्टराम्
भुजैर्द्वादशभिर्युक्तां सर्वेषां सर्ववाढ्मयीम् ।
प्रवालाक्षस्रजं पद्मं कुण्डिकां रत्ननिर्मिताम्
रत्नपूर्णं तु चषकं लुङ्गीं व्याख्यानमुद्रिकाम् ।
दधानां दक्षिणैर्वामैः पुस्तकं चारुणोत्पलम्
हैमीं च लेखनीं रत्नमालां कंबुवरं भुजैः ।
अभितः स्तूयमानां च देवगन्धर्वकिन्नरैः
यक्षराक्षसदैत्यर्षिसिद्धविद्याधरादिभिः ।
ध्यात्वैवमर्चन्नित्यां वाग्लक्ष्मीकान्तिसिद्धये
सितां केवलवाक्सिद्ध्यै लक्ष्म्यै हेमप्रभामपि ।
धूमाभां वैरिविद्विष्ट्यै मृतये निग्रहाय च
नीलां च मूकीकरणे स्मरेत्तत्तदपेक्षया ।
इत्येषा दशमी नित्याप्रोक्ता ते कुलसुन्दरी
नित्यानित्यां तु दशमीं त्रिकुटां वच्मि सांप्रतम् ।
हंसश्च हृत्प्राणरसादाहकर्णैः समन्वितः
विद्यया कुलसुंदर्या योजितः संप्रदायतः ।
नित्यानित्यत्रिवर्णेयं षड्भिः कूटाक्षरैर्युता
प्रतिलोमादिभी रूपैर्द्विसप्ततिभिदा मता ।
यस्या भजनतः सिद्धो नरः स्यात्खेचरः सुखी
निग्रहानुग्रहौ कर्तुं क्षमः स्याद्भुवनत्रये ।
दीर्घस्वरसमेताभ्यां हंसहृभ्द्यां षडङ्गकम्
भ्रूमध्ये कण्ठहृन्नाभिगुह्याधारेषु च क्रमात् ।
विद्याक्षराणि क्रमशो न्यसेद्विन्दुयुतानि च
व्यापकं च समस्तेन विधाय विधिना पुनः ।
ध्यायेत्समस्तसंपत्तिहेतोः सर्वात्मिकां शिवाम्
उद्यद्भास्करबिंबाभां माणिक्यमुकुटोज्ज्वलाम् ।
पद्मरागकृताकल्पामरुणांशुकधारिणीम्
चारुस्मितलसद्वक्त्रषट्सरोजविराजिताम् ।
प्रतिवक्त्रं त्रिनयनां भुजैर्द्वादशभिर्युताम्
पाशाक्षगुणपुण्ड्रेक्षुचापखेटत्रिशूलकान् ।
करैर्वामैर्दधानां च अङ्कुशं पुस्तकं तथा
पुष्पेषुमंबुजं चैव नृकपालाभये तथा ।
दधानां दक्षिणैर्हस्तैर्ध्यायेद्देवीमनन्यधीः
इत्येषैका दशी प्रोक्ता द्वादशीं शृणु नारद ।
त्वरितोयान्त्यमाद्यं स्याद्युतिदोहचरस्वयुक्
हृञ्च दाहक्ष्मास्वयुतं वज्रेशीपञ्चमं तथा ।
मरुत्स्वयुक्तो मध्याढ्यो दशम्याः परतः पुनः
भूमी रसाक्ष्मास्वयुता वज्रेशीत्यष्टमः क्रमात् ।
षडक्षराणि त्वरिता तृतीयं तदनन्तरम्
द्युतिर्दाहचरस्वेन अस्या आद्यमनन्तरम् ।
उक्ता नीलपताकाख्या नित्या सप्तदशाक्षरी
द्विद्विपक्षाक्षिषड्वर्णैर्मन्त्रोत्थैरङ्गकल्पनम् ।
श्रोत्रादिनासायुगले वाचि कण्ठे हृदि क्रमात्
नाभावाधारके ऽथापि पादसंधिषु च क्रमात् ।
मन्त्राक्षराणि क्रमशो न्यसेत्सप्तदशापि च
व्यापकं च समस्तेन विदध्याञ्च यथाविधि ।
इन्द्रनीलनिभां भास्वन्मणिमौलिविराजिताम्
पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीम् ।
दशहस्तां लसन्मुक्तामण्याभरणमण्डिताम्
रत्नस्तबकसंपन्नदेहां चारुस्मिताननाम् ।
पाशं पताकां चर्मापि शार्ङ्गचापं वरं करैः
दधानां वामपार्श्वस्थैः सर्वाभरणभूषितैः ।
अङ्कुशे च तथा शर्क्ति खङ्गं बाणं तथाभयम्
दधानां दक्षिणैर्हस्तैरासीनां पद्मविष्टरे ।
स्वाकारवर्णवेषास्यपाण्यायुधविभूषणैः
शक्तिवृन्दैर्वृतां ध्यायेद्देवीं नित्यार्चनक्रमे ।
त्रिषट्कोणयुतं पद्ममष्टपत्रं ततो बहिः
अष्टास्रं भूपुरद्वन्द्वावृतं तत्पुरयुग्मकम् ।
चतुर्द्वारयुतं दिक्षु शाखाभिश्च समन्वितम्
कृत्वा नामावृतां शक्तिं गणैस्तत्रार्चयेच्छिवाम् ।
एषा ते द्वादशी नित्या प्रोक्ता नीलपताकिनी
समरे विजयं खङ्गपादुकाञ्जनसिद्धिदा ।
वेतालयक्षिणीचेटपिशाचादिप्रसाधिनी
निधानबिलसिद्धान्नसाधिनी कामचोदिता ।
अथ त्रयोदेशीं नित्यां वक्ष्यामि शृणु नारद
रसो नभस्तथा दाहो व्याप्तक्ष्मावनपूर्विका ।
खेन युक्ता भवेन्नित्या विजयैकाक्षरा मुने
विद्याया व्यञ्जनैर्दीर्घस्वरयुक्तैश्चतुष्टयम् ।
शेषाभ्यां च द्वयं कुर्यात्षडङ्गानि कराङ्गयोः
ज्ञानेन्द्रियेषु श्रोत्रादिष्वथ चित्ते च विन्यसेत् ।
अक्षराणि क्रमाद्बिन्दुयुतान्यन्यत्तु पूर्ववत्
पञ्च वक्त्रां दशभुजां प्रतिवक्त्रं त्रिलोचनाम् ।
भास्वन्मुकुटविन्यासचन्द्रलेखाविराजिताम्
सर्वाभरणसंयुक्तां पीतांबरसमुज्ज्वलाम् ।
उद्यद्भास्वद्बिंबतुल्यदेहकान्तिं शुचिस्मिताम्
शङ्खं पाशं खेटचापौ कह्लारं वामबाहुभिः ।
चक्रं तथाङ्कुशं खङ्गं सायकं मातुलुं गकम्
दधानां दक्षिणैर्हस्तैः प्रयोगे भीमदर्शनाम् ।
उपासनेति सौम्यां च सिंहोपरि कृतासनाम्
व्याघ्रारूढाभिरभितः शक्तिभिः परिवारिताम् ।
समरे पूजने ऽन्येषु प्रयोगेषु सुखासनाम्
शक्तयश्चापि पूजायां सुखासनसमन्विताः ।
सर्वा देव्याः समाकारमुखपाण्यायुधा अपि
चतुरस्रद्वयं कृत्वा चतुर्द्वारोपशोभितम् ।
शाखष्टकसमोपेतं तत्र प्राग्वत्समर्चयेत्
तदन्तर्वृतयुग्मान्तरष्टकोणं विधाय तु ।
तदन्तश्च तथा पद्मं षोडशच्छदसंयुतम्
तथैवाष्टच्छद पद्मं विधायावाह्य तत्र ताम् ।
तत्तच्छक्त्या वृतां सम्यगुपचारैस्तथार्चयेत्
एषा त्रघयोदशी प्रोक्ता वादेयुद्धे जयप्रदा ।
चतुर्दशीं प्रवक्ष्ये ऽथ नित्यां वै सर्वमङ्गलाम्
हृदंबुवनयुक्तं खं नित्या स्यात्सर्वमङ्गला
एकाक्षर्यनया सिद्धो जायते खेचरः क्षणात् ।
षड्दीर्घाढ्यां मूलविद्यां षडङ्गेषु प्रविन्यसेत्
तां नित्यां जातरूपाभां मुक्तामाणिक्यभूषणाम् ।
माणिक्यमुकुटां नेत्रद्वयप्रेङ्खद्दयापराम्
द्विभुजां शासनां पद्मे त्वष्टषोडशतद्द्वयैः ।
पत्रैरुपेते सचतुद्वारंभूसद्मयुग्मके
मातुलुङ्गफलं दक्षे दधानां करपङ्कजे ।
वामेन निजभक्तानां प्रयच्छन्तीं धनादिकम्
स्वसमानाभिरभितः शक्तिभिः परिवारिताम् ।
षट्सप्तातीभिरन्याभिरप्सरोत्थाभिरन्विताम्
प्रयोगेष्वन्यदा नित्यं सपर्यासूक्तशक्तिकाम् ।
एषा चतुर्दशी प्रोक्ता तथा पञ्चदशीं शृणु
भूः शून्यं नभसा भूश्च रसश्चाथ स्थिरांबु च ।
रयोग्निना युतीज्यांबुमरुद्युक्तारसा मरुत्
नभश्च मरुता युक्तं रसा शून्ये ऽपि संयुते ।
गोत्रा चरेण सहिता अंबुपूर्वाक्षरस्तथा
अंब्वग्नी हृञ्च दाहांबुरसक्ष्मारयहृत्स्वयुक् ।
हंसश्च मरुता दाहः प्राणश्च मरुता युतः
दाहः साग्निप्राणचरौ ज्यामरुत्सहितारयः ।
चरेणांबु च गोत्राहृत्साग्निर्ज्यांबुरसा स्वयुक्
रयः साग्निर्ज्यांबुरसा पुनरेते जवी ततः ।
दाहेनानेन ते द्विः स्याद्भस्वो दाहमरुत्स्वयुक्
हंसः सदाहवह्निस्वो दाहक्ष्मास्वयुतश्च सः ।
सप्तदाहास्ततो ऽस्याः स्युरष्टमाद्यास्तु पञ्च ते
उपान्त्याधः स्थितं नीलपताकाया अनन्तरम् ।
त्वरिता त्वं च भेरुण्डाष्टमं च नवनं तथा
सा ज्वालामालिनीनित्या त्रिषष्ट्यर्णा समीरिता ।
एकद्वयचतुःपञ्चचतुष्टयदशाक्षरैः
कुर्यादङ्गानि मूलार्णैरादितः षट्कराङ्गयोः ।
शेषैस्तु व्यापकं कुर्यात्ततो ध्यायेत्सनातनीम्
ज्वलज्ज्वलनसंकाशां माणिक्यमुकुटोज्ज्वलाम् ।
षड्वक्त्रां द्वादशभुजां सर्वाभरणभूषिताम्
पाशाङ्कुशौ खङ्गखेटौ चापबाणौ गदादरौ ।
शूलवह्नी वराभीती दधानां कपपङ्कजैः
स्वप्रमाणाभिरभितः शक्तिभिः परिवारिताम् ।
चारुस्मितलसद्वक्त्र सरोजां त्रीक्षणान्वताम्
ध्यात्वैवमुपचारैस्तैरर्चयेत्तां तु नित्यशः ।
चतुरस्रद्वयं कृत्वा चतुर्द्वारसमन्वितम्
सशाखमष्टपत्राब्जमन्तरा त्र्यस्रकं ततः ।
षट्कोणं मध्यतस्त्र्यस्रं विधायात्र शिवां जयेत्
एषा पञ्चदशी प्रोक्ता षोडशीं शृणु नारद ।
वायुप्रणवतत्त्वैस्तु चित्रास्यादक्षरद्वया
या सिद्धा धनधान्यात्मनिधिलाभाय कल्प्यते ।
विद्याद्यवायुना कुर्याद्दीर्घस्वरयुजा क्रमात्
षडङ्गानि यथापूर्वं मातृकां विद्यया न्यसेत् ।
उद्यदादित्यबिंबाभां नवरत्नविभूषणाम्
नवरत्नकिरीटां च चित्रपट्टांशुकोज्ज्वलाम् ।
चतुर्भुजां त्रिनयनां शुचिस्मितलसन्मुखीम्
सर्वानन्दमयीं नित्यां समस्तेप्सितदायिनीम् ।
चतुर्भुजेषु वै पाशमङ्कुशं वरदाभये
दधानां मङ्गलां पद्मकर्णिकायोनिमध्यगाम् ।
तच्छक्तिभिश्च तच्चक्रे तथैवार्चनमीरितम्
प्राणदाहौ धरायुक्तो पुनराद्यं रसे मरुत् ।
व्यासं मरुच्छक्तियुतं भूः स्वयुक्ता ततस्त्रयम्
अस्या आद्यां रसायुग्मं चरणेन प्रयोजितम् ।
दाहेन वह्निशक्तिभ्यां युतो हंसस्ततः परम्
नभोदिर्हृत्सदाहांबुज्या शून्यं स्वेन संयुतम् ।
अंबु पश्चाद्विषयुक्तं मरुता तु नभोयुतम्
शून्यं व्याप्तं भुवा हंसः पूर्वान्त्यौ स्यान्मनुत्रयम् ।
अस्याः षष्ठादिपञ्चार्णा दैत्यास्यादाद्य ईरितः
एकादशाक्षरादन्त्या द्वितीयः खण्ड ईरितः ।
तृतीयः पञ्चविंशार्णः प्रोक्ता मन्त्रा इति क्रमात्
बाला बीजत्रयाद्यैर्द्विस्त्रिभिर्मन्त्रैः षडगङ्कम् ।
विकीर्णकुन्तलां नग्रां रक्तामानन्दविग्रहाम्
दधानां चिन्तयेद्बाणचापपाशसृणीकरैः ।
तत्समानायुधाकारवर्णा देव्यास्तु वा
ऋतुस्राताः स्फुरद्योन्यः सदानन्दारुणेक्षणाः ।
इत्येषा कुरुकुल्लान्ते प्रोक्ता चन्द्रावलीस्वयम्
वाराहीमभिधास्यामि ललितायाः परा तनुः ।
शुचिः स्वेनाथ शून्यं स्यान्नभसाभ्ररसिस्थिरा
अंबु पश्चाद्रयः साग्निर्मरुतांबुरयौ तथा ।
इलसायुतो ऽग्निरेतानि पुनरंबुमरुद्युतम्
दाहांबुमरुताहंसस्त्वग्निनैतत्त्रयं पुनः ।
अम्बुदाहौ मरुद्युक्तौ हंसो ऽथ धरया नभः
तेजोग्निना पुनः पञ्च वातः स्वेन समायुतः ।
तोयं चरेण तत्पूर्वं तोयमग्नियुतं ततः
शून्यं व्याप्तेन शुचिना शून्यं शक्त्या नभो युतम् ।
दाहो धरा स्वसहरितस्तोयं चरसमन्वितम्
एतत्पूर्वमधुः प्रोक्तं चतुष्टयमतः परम् ।
ज्याख्येन युक्ता सचरो रभश्चैतस्य पूर्वकम्
रसो ऽग्निना पुनः प्रोक्तं चतुष्का अपयं ततः ।
शुभोभ्रता चरेणापि हंसः स्वेन सपूर्वकम्
हंसो ऽग्निना प्राक् त्रितयं हृदयं स्वसमायुतम् ।
रसश्चरेण तत्पूर्वमग्निना च रसो युतः
पश्चादुक्तस्त्रयं वातो धरया च नभोन्वितम् ।
प्राणः स्वेन युतः पश्चाद्धृदयस्वयुतं रसः
व्याप्तमेतत्त्रयं पश्चाद्दाहेनांबु समन्वितम् ।
गोत्राभरायुता स्पर्शो नादयुक्तो जवीयुतः
दाहेन पूर्वपूर्वं च पूर्वं च मरुता युतम् ।
शून्यं मरुत्स्वसहितं हृद्दाहेनांबुना चरः
स्पर्शो मरुत्स्वसहितो हृद्दाहेनांबुसंयुतम् ।
ज्याग्निः स्वसंयुतो हंसस्तथांबु मरुता सह
हृद्रूप्रेण स्वेन युतं रसश्च स्वेन संयुतः ।
प्राणदाहौ धरायुक्तौ पुनस्तौ वह्निना वियत्
वार्द्दाहयुक्तमंबु स्यादिषष्ट्यासस्वसंयुतम् ।
पूर्वद्विरुक्तवर्णौ च शुद्धिः स्वेन युतस्तथा
स्थिरा रसा वतस्वेन दावौ हंसौ धरा स्वयुक् ।
युतिर्नादवती पश्चाद्धृदंबुमरुता युतम्
हंसश्च मरुता विद्यः दशोत्तरशताक्षरी ।
वाराही पञ्चमी विश्वविजया भद्रकौमुदी
वार्तालीति च विख्याता स्तंभनाद्यखिलेष्टदा ।
अङ्गानि कुर्यान्मन्त्रार्णैः सप्तभिषड्भिरेव च
दशभिः सप्तभिः सप्तसंख्यैर्जातिभिर्दिताः ।
त्रिकोणवृत्तषट्कोणवृत्तद्वयसमन्वितम्
विधाय चक्रं तत्रैव स्वनामालिख्यपूजयेत् ।
ध्यायेच्च देवीं कीलास्यां ततः काञ्चनसन्निभाम्
आकण्ठं वनितारूपां ज्वलत्पिङ्गसरोरुहाम् ।
त्रिनेत्रामष्टहस्तां च चक्रं शङ्खमथाङ्कुशम्
पाशं च मुशलं शीर्षमभयं वरदं तथा ।
दधानां गरुडस्कन्धे सुखासीनां विचिन्तयेत्
नित्यपूजासु तच्छक्तीस्तत्समानाः स्मरेन्मुने ।
प्रयोगेषु स्मरेद्देवीं सिंहस्थां व्याघ्रगामपि
गजारूढां हयारूढां तर्श्यारूढां च शक्तिभिः ।
श्यामामप्यरुणां पीतामसितांभोजविग्रहाम्
तत्तत्त्प्रयोगेषु तथा ध्यायेत्तत्तदवाप्तये ।
अरुणां पञ्चमीं वश्ये पीतां स्तंभनके स्मरेत्
श्यामां च दुर्गमे मार्गे सितां युद्धे ऽरिनष्टये ।
धूम्रामुच्चाटने ध्यायेत्साधको द्विजसत्तमः
एताः षोडश नित्यास्ते संक्षपात्समुदीरिताः ।
भजतामिष्टदाः सद्यः सर्वपापक्षयङ्कराः
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0