नारद पुराण · अध्याय 1.87
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रसाधननिरूपणं नाम षडशीतितमो ऽध्यायः
सनत्कुमार उवाच
अवतारत्रयं लक्ष्म्याः कथित ते द्विजोत्तम ।
दुर्गायाश्चाभिधास्यामि सर्वलोकोपकारकान्
प्रणवः श्रीः शिवायुग्मं वाणीवैरोचनीपदम् ।
वज्राद्यं क्षुधिता सूक्ष्मा मृता स्वाग्नीन्दुसंयुता
प्रतिष्ठाप्य शिवा फट् च स्वाहान्तो ऽत्यष्टिवर्णवान् ।
भैरवो ऽस्य मुनिः सम्राट् छन्दो मन्त्रस्य देवता
छिन्नमस्ता रमा बीजं स्वाहा शक्तिरुदीरिता ।
आं खड्गाय हृदाख्यातमीं खड्गाय शिरः स्मृतम्
ओं वज्राय शिखा प्रोक्ता ऐं पाशाय तनुच्छदम् ।
औमङ्कुशाय नेत्रं स्याद्विसर्गो वसुरक्षयुक्
मायायुग्मं चास्त्रमङ्गं मनवः प्रणवादिकाः ।
स्वाहान्ताश्चैवमङ्गानि कृत्वा ध्यायेद्थांबिकाम्
भानुमण्डलसंस्थानां प्रविकीर्णालकं शिरः ।
छिन्नं स्वकं स्फआरमुखं स्वरक्तं प्रपिबद्गलत्
उपरिस्थां रतासक्तरतिमन्मथयोर्निजे ।
डाकिनीवर्णिनीसख्यौ दृष्ट्वा मोदभराकुलाम्
ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ।
पालाशैर्विल्वजैर्वापि जुहुयात्कुसुमैः फलैः
आधारशक्तिमारभ्य परतत्त्वान्तपूजिते ।
पीठे जयाख्या विजया जिता चापि पराजिता
नित्या विलासिनी षष्ठी दोग्ध्य घोरा च मङ्गला ।
दिक्षु मध्ये च संपूज्या नव पीठस्य शक्तयः
सर्वबुद्धिप्रदे वर्णनीये सर्वभृगुः सदृक् ।
सिद्धिप्रदे डाकिनीये तारो वज्रः सभौतिकः
खड्गीशो रोचनीयेन्ते भगं धेहि नमोन्तकः ।
तारादिपीठमन्त्रो ऽयं वेदरामाक्षरो मतः
समर्प्यासनमेतेन तत्र संपूजयेच्छिवाम् ।
त्रिकोणमध्यषट्कोणपद्मभूपुरमध्यतः
बाह्यावरणमारभ्य पूजयेत्प्रतिलोमतः ।
भूपुरे बाह्यभागेषु वज्रादीनि प्रपूजयेत्
तदन्तः सुरराजादीन्पूजयेद्धरितां पतीन् ।
भूपुरस्य चतुर्द्वार्षु द्वारपालान्यजेदथ
करालविकरालाख्यावतिकालस्तृतीयकः ।
महाकालश्चतुर्थः स्यादथ पद्मेष्टशक्तयः
एकलिङ्गा योगिनी च डाकिनी भैरवी तथा ।
महाभैरवकेन्द्राक्षी त्वसिताङ्गी तु सप्तमी
संहारिण्यष्टमी चेति षट्कोणेष्वङ्गमूर्तयः ।
त्रिकोणगा छिन्नमस्ता पार्श्वयोस्तु सखीद्वयम्
डाकिनीवर्णनीसंज्ञं तारावाग्भ्यां प्रपूजयेत् ।
एवं पूजादिभिः सिद्धे मन्त्रे मन्त्री मनोरथान्
प्राप्नुयान्निखिलान्सद्यो दुर्लभांस्तत्प्रसादतः ।
श्रीपुष्पैर्लभते लक्ष्मीं तत्फैलश्च समीहितम्
वाक्सिद्धिं मालतीपुष्पैश्चंपकैर्हवनात्सुखम् ।
घृताक्तं छागमांसं यो जुहुयात्प्रत्यहं शतम्
मासमेकं तु वशगास्तस्य स्युः सर्वपार्थिवाः ।
करवीरसुमैः श्वतैर्लक्षसंख्यैर्जुहोति यः
रोगजालं पराभूय सुखी जीवेच्छतं समाः ।
रक्तौ स्तत्संख्यया हुत्वा वशयेन्मन्त्रिणो नृपान्
फलैर्हुत्वामुयाल्लक्ष्मीमुदुंबरपलाशजैः ।
गोमायुमांसैस्तामेव कवितां पायसांधसा
बन्धूककुसुमैर्भाग्यं कर्मिकारैः समीहितम् ।
तिलतण्डुलहोमेन वशयेन्निखिलाञ्जनान्
नारीरजोभिराकृष्टैर्मृगमांसैः समीहितम् ।
स्तंभनं माहिषैर्मांसैः पङ्कजैः सघृतैरपि
चिताग्नौ परभृत्पक्षैर्जुर्हुयादरिमृत्यवे ।
उन्मत्तकाष्ठदीप्ते ऽग्नौ तत्फलं वायसच्छदैः
द्यूते वने नृपद्वारे समरे वैरिसंकटे ।
विजयं लभते मन्त्री ध्यायन्देवीं जपन्मनुम्
भुक्त्यै मुक्त्यै सितां ध्यायेदुच्चाटे नीलरोचिषम् ।
रक्तां वश्ये मृतौ धूम्रां स्तंभने कनकप्रभाम्
निशि दद्याद्बलिं तस्यै सिद्धये मदिरादिना ।
गोपनीयः प्रयोगो ऽय प्रोच्यते सर्वसिद्धिदः
भूताहे कृष्णपक्षस्य मध्यरात्रे तमोघने ।
स्नात्त्वा रक्ताम्बरधरो रक्तमाल्यानुलेपनः
आनीय पूजयेन्नारीं छिन्नमस्तास्वरूपिणीम् ।
सुन्दरीं यौवनाक्रान्तां नरपञ्चकगामिनीम्
सुस्मितां मुक्तकबीरीं भूषादानप्रतोषिताम् ।
विवस्त्रां पूजयित्वैनामयुतं प्रजपेन्मनुम्
बलिं दत्त्वा निशां नीत्वा संप्रेष्य धनतोषिताम् ।
भोजयेद्विविधैरन्नैर्ब्राह्मणान्भोजनादिना
अनेन विधिना लक्ष्मीं पुत्रान्पौत्रान्धनं यशः ।
नारीमायुः सुखं धर्ममिष्टं च समवाप्नुयात्
तस्यां रात्रौ व्रतं कार्यं विद्याकामेन मन्त्रिणा ।
मनोरथेषु चान्येषु गच्छेत्तां प्रजपन्मनुम्
उषस्युत्थाय शय्यायामुपविष्टो जपेच्छतम् ।
षण्मासाभ्यन्तरेमन्त्री कवित्वेन जयेत्कविम्
शिवेन कीलिता चेयं तदुत्कीलनमुच्यते ।
मायां तारपुटां मन्त्री जपेदष्टोत्तरं शतम्
मन्त्रस्यादौ तथैवान्ते भवेत्सिद्धिप्रदा तु सा ।
उदिता छिन्नमस्तेयं कलौ शीघ्रमभीष्टदा
अवतारान्तरं देव्या वच्मि ते मुनिसत्तम ।
ज्ञानामृतारुणा श्वेताक्रोधिनीन्दुसमन्विता
शान्तिस्तथाविधा चापि नीचसर्गान्वितास्तथा ।
वाग्भवं कामराजाख्यं शक्तिबीजाह्वयं तथा
त्रिभिर्बीजैः पञ्चकूटात्मिका त्रिपुरभैरवी ।
ऋषिः स्याद्दक्षिणामूर्तिश्छन्दः पङ्क्तिरुदीरिता
देवता देशिकैरुक्ता देवी त्रिपुरभैरवी ।
नाभेराचरणं न्यस्य वाग्भवं मन्त्रवित्पुनः
हृदयान्नाभिपर्यन्तं कामबीजं प्रविन्यसेत् ।
शिरसो हृत्प्रदेशान्तं तार्तीयं विन्यसेत्ततः
आद्यं द्वितीयं करयोस्तार्तीयमुभयं न्यसेत् ।
मूलाधारे हृदि न्यस्य भूयो बीजत्रयं क्रमात्
नवयोन्यात्मकं न्यासं कुर्याद्बीजैस्त्रिभिः पुनः ।
बालोदितप्रकारेण मूर्तिन्यासमथाचरेत्
स्वस्वबीजादिकं पूर्वं मूर्ध्नीशानमनोभवम् ।
न्यसेद्वक्त्रे तत्पुरुषं मकरध्वजमात्मवित्
हृद्यघोरकुमारादिकन्दर्प्पं तदनन्तरम् ।
गुह्यदेशे प्रविन्यस्येद्वामदेवादिमन्मथम्
सद्योजातं कामदेवं पादयोर्विन्यसेत्ततः ।
ऊर्द्ध्वंप्राग्दक्षिणोदीच्यपश्चिमेषु मुखेषु तान्
प्रविन्यसेद्य धापूर्व भृगुर्व्योमाग्निसंस्थितः ।
सद्यादिपञ्चह्रस्वाद्या बीजमेषां प्रकीर्तितम्
षड्दीर्घयुक्तेनाद्येन बीजेनाङ्गक्रिया मता ।
पञ्चबाणांस्ततो न्यस्येन्मन्त्री त्रैलोक्यमोहनान्
द्रामाद्यां द्राविणीं मूर्ध्निं द्रामाद्यां क्षोभणी पदे ।
क्लींवशीकरणीं वक्त्रे गुह्ये बॢं बीजपूर्विकाम्
आकर्षणीं हृदि पुनः सर्वान्तभृगुसंस्थिताम् ।
संमोहनीं क्रमादेवं बाणन्यासो ऽयमीरितः
भालभ्रूमध्यवदने घण्टिकाकण्ठहृत्सु च ।
नाभ्यधिष्ठानयोः पञ्च ताराद्याः सुभगादिकाः
मस्तकाविधि नाभेश्च मन्त्रिणा सुभगा भगा ।
भगसर्पिण्यथ परा भगमालिन्यनन्तरम्
अनङ्गानङ्गकुसुमा भूयश्चानङ्गमेखला ।
अनङ्गमदना सर्वा मदविभ्रममन्थरा
प्रधानदेवता वर्णभूषणाद्यैरलङ्कृताः ।
अक्षस्रक्पुस्तकाभीतिवरदाढ्यकरांबुजाः
वाक्कामब्लूं स्त्रीं सरान्ते ताराः पञ्च प्रकीर्तिताः ।
ततः कुर्याद्भूषणाख्यं न्यासमुक्तदिशा मुने
एवं न्यस्तशरीरो ऽसौ ध्यायेत्त्रिपुरभैरवीम् ।
सहस्रभानुसंकाशामरुणक्षौमवाससीम्
शिरोमालामसृग्लिप्तस्तनीं जपवटीं करैः ।
विद्यामभीतिं च वरं दधतीं त्रीक्षणाननाम्
दीक्षां प्राप्य जपेन्मन्त्रं तत्त्वलक्षं जितेन्द्रियः ।
पुष्पैर्भानुसहस्राणि जुहुयाद्बह्मवृक्षजैः
त्रिमध्वक्तैः प्रसूनैर्वा करवीरसमुद्भवैः ।
पद्मं वसुदलोपेतं नवयोन्यष्टकर्णिकम्
इच्छादिशक्तिभिर्युक्तं भैरव्याः पीठमर्चयेत् ।
इच्छा ज्ञाना क्रिया पश्चात्कामिनी कामदायिनी
रतिप्रिया मदानन्दा नवमी स्यान्मनोन्मनी ।
वरदाभयधारिण्यः संप्रोक्ता नव शक्तयः
वाग्भवं लोहितो रायै श्रीकण्ठो लोहितो ऽनलः ।
दीर्घवान्यै परा पश्चादपरायौ हसौ युतः
सदाशिवमहाप्रेतङेंतं पद्मासनं नमः ।
अनेन मनुना दद्यादासनं श्रीगुरुक्रमम्
प्राङ्मध्ययोन्यन्तराले पूजयेत्कल्पयेत्ततः ।
पञ्चभिः प्रणवैर्मूर्तिं तस्यामावाह्य देवताम्
पूजयेदगमोक्तेन विधानेन समाहितः ।
तारावाक्छक्तिकमला हसखूफ्रें हसौः स्मृताः
वामकोणे यजेद्देव्या रतिमिन्दुसमप्रभाम् ।
सृणिपाशधरां सौम्यां मदविभ्रमविह्वलाम्
प्रीतिं तक्षिणकोणस्थां तप्तकाञ्चनसन्निभाम् ।
अङ्कुशं प्रणतं दोभ्यां धारयन्तीं समर्चयेत्
अग्रे मनोभवां रक्तां रक्तपुष्पाद्यलङ्कृताम् ।
इक्षुकार्मुकपुष्पेषुधारिणीं सस्मिताननाम्
अङ्गान्यभ्यर्चयेत्पश्चाद्यथापूर्वं विधानवित् ।
दिक्ष्वग्रे च निजैर्मन्त्रैः पूजयेद्बाणदेवताः
हस्ताब्जैर्धृतपुष्पेषुप्रणामामृतसप्रभाः ।
अष्टयोनिष्वष्टशक्तीः पूजयेत्सुभगादिकाः
मातरो भैरवाङ्कस्था मदविभ्रमविह्वलाः ।
अष्टपत्रेषु संपूज्या यथावत्कुसुमादिभिः
लोकपालांस्ततो दिक्षु तेषामस्त्राणि तद्बहिः ।
पूर्वजन्मकृतैः पुण्यैर्ज्ञात्वैनां परदेवताम्
यो भजेदुक्तमार्गेण स भवेत्संपदां पदम् ।
एवं सिद्धमनुर्मन्त्री साधयेदिष्टमात्मनः
जुहुयादरुणांभोञ्जैरदोषैर्मधुराप्लुतैः ।
लक्षसंख्यं तदर्द्धं वा प्रत्यहं भोजयेद्द्विजान्
वनिता युवती रम्याः प्रीणयेद्देवताधिया ।
होमान्ते धनधान्याद्यैस्तोषयेद्गुरुमात्मनः
एवं कृते जगद्वश्यो रमाया भवनं भवेत् ।
रक्तोत्पलैस्त्रिमध्वक्तैररुणैर्वा हयारिजैः
पुष्पैः पयोन्नैः सघृतैर्हेमाद्विश्वं वशं नयेत् ।
वाक्सिद्धं लभते मन्त्री पलाशकुसुमैर्हुतैः
कर्पूरागुरुसंयुक्तं गुग्गुलं जुहुयात्सुधीः ।
ज्ञानं दिव्यमवाप्नोति तेनैव स भवेत्कविः
क्षीराक्तैरमृताखण्डैर्हेमः सर्वापमृत्युजित् ।
दूर्वाभघिरायुषे होमः क्षीराक्ताभिर्दिनत्रयम्
गिरिकर्णीभवैः पुष्पैर्ब्राह्मणान्वशयेद्धुतैः ।
कह्लारैः पार्थिवान्पुष्पैस्तद्वधूः कर्णिकारजैः
मल्लिकाकुसुमैर्हुत्वा राजपुत्रान्वशं नयेत् ।
कोरण्टकुसुमैर्वैंश्यान्वृषलान्पाटलोद्भवैः
अनुलोमां विलोमान्तस्थितसाध्याह्वयान्वितम् ।
मन्त्रमुच्चार्य जुहुयान्मन्त्री मधुरलोलितैः
सर्षपैर्मधुसंमिश्रैर्वशयेत्पार्थिवान् क्षणात् ।
अनेनैव विधानेन तत्पत्नीस्तत्सुतानपि
जातिबिल्वभवैः पुष्पैर्मधुरत्रयसंयुतैः ।
नरनारीनरपतीन्होमेन वशयेत्क्रमात्
मालतीबकुलोद्भूतैः पुष्पैश्चन्दनलोलितैः ।
जुहुयात्कवितां मन्त्री लभते वत्सरान्तरे
मधुरत्रघयसंयुक्तैः फलैर्बिल्वसमुद्भवैः ।
जुहुयाद्वाशयेल्लोकं श्रियं प्राप्नोति वाञ्छिताम्
साज्यमन्नं प्रजुहुयाद्भवेदन्नसमृद्धिमान् ।
कस्तूरीकुङ्कुमोपेतं कर्पूरं जुहुयाद्वशी
कन्दर्पादधिकं सद्यः सैन्दर्यमधिगच्छति ।
लाजान्प्रजुहुयान्मन्त्री दधिक्षीरमधुप्लुतान्
विजित्य रोगानखिलान्स जीवेच्छरदां शतम् ।
पादद्वयं मलयजं पादं कुङ्कुमकेसरम्
पादं गोरोचनान्तानि त्रीणि पिष्ट्वाहिमांभसा ।
विदध्यात्तिलकं भाले यान्पश्येद्यैर्विलोक्यते
यान्स्पृशेत्स्पृश्यते यैर्वा वश्याः स्युस्तस्य ते ऽचिरात् ।
कर्पूरकपिचोराणि समभागानि कल्पयेत्
चतुर्भुजा जटामांसी तावती रोचना मता ।
कुङ्कुमं समभागं स्याद्दिग्भातं चन्दनं मतम्
अगुरुर्नवभागं स्यादितिभागक्रमेण च ।
हिमाद्भिः कन्यया पिष्टमेतत्सर्वं सुसाधितम्
आदाय तिलकं भाले कुर्य्याद्भूमिपतीन्नरान् ।
वनितामदगर्वाढ्या मदोन्मत्तान्मतन्दजान्
सिंहव्याघ्रान्महासर्पान्भूतवेतालराक्षसान् ।
दर्शनादेव वशयेत्तिलकं धारयन्नरः
इत्येषा भैरवी प्रोक्ता ह्यवतारान्तरं शृणु ।
वाङ्माया कमला तारो नमोन्ते भगवत्यथ
श्रीमातङ्गेश्वरि वदेत्सर्वजनमनोहरि ।
सर्वादिसुखराज्यन्ते सर्वादिसुखरञ्जनी
सर्वराजवशं पश्चात्करिसर्वपदं वदेत् ।
स्त्रीपुरुषवशं सृष्टिविद्याक्रोधिनिकान्विता
सर्वं दुष्टमृगवशं करिसर्वपदं ततः ।
सर्वसत्त्ववशङ्करिसर्वलोकं ततः परम्
अमुकं मे वशं पश्चादानयानलसुन्दरी ।
अष्टाशीत्यक्षरो मन्त्रो मुन्याद्या भैरवीगताः
न्यासान्मन्त्री तनौ कुर्याद्वक्ष्यमाणान्यथाक्रमम् ।
शिरोललाटभ्रूमध्ये तालुकण्ठगलोरसि
अनाहते भुजद्वन्द्वे जठरे नाभिमण्डले ।
स्वाधिष्ठाने गुप्तदेशे पादयोर्दक्षवामयोः
मूलाधारे गुदे न्यस्येत्पदान्यष्टादश क्रमात् ।
गुणैकद्विचतुः षड्भिर्वसुपर्वनवाष्टभिः
नन्दपङ्क्त्यष्टवेदाग्निचन्द्रयुग्मगुणा क्षिभिः ।
यदुकॢप्तिरियं प्रोक्ता मन्त्रवर्णैर्यथाक्रमम्
रत्याद्या मृलहृदयभ्रुमध्येषु विचक्षणः ।
वाक्शक्तिलक्ष्मीबीजाद्या मातङ्ग्यन्ताः प्रविन्यसेत्
शिरोवदनहृद्गुह्यपादेषु विधिना न्यसेत् ।
हृल्लेखां गगनां रक्तां भूयो मन्त्री करालिकाम्
महोच्छुष्मां स्वनामादिवर्णबीजपुरः सराः ।
मातङ्ग्यन्ताः षडङ्गानि ततः कुर्वीत साधकः
वर्णैश्चतुर्विंशतिभिर्हृत्त्रयोदशभिः शिरः ।
शिखाष्टादशभिः प्रोक्ता वर्म तावद्भिरक्षरैः
स्यात्त्रयोदशभिर्नेत्रं द्वाभ्यामस्त्रं प्रकीर्तितम् ।
बाणन्यासं ततः कुर्याद्भैरवीप्रोक्तवर्त्मना
मातङ्गीपदयोश्चान्यं मन्मथान्वदनांशयोः ।
पार्स्वकट्योर्नाभिदेशे कटिपार्श्वांशके पुनः
बीजत्रयादिकान्मन्त्री मन्मथं मकरध्वजम् ।
मदनं पुष्पधन्वानं पञ्चमं कुसुमायुधम्
षष्ठं कन्दर्पनामानं मनोभवरतिप्रियौ ।
मातङ्ग्यन्तास्ततो न्यस्येत्स्थानेष्वेतेषु मन्त्रवित्
कुसुमा मेखला चैव मदना मदना तुरा ।
मदनवेगा सम्भवा च भुवनपालेन्दुरेखिका
अनङ्गपदपूर्वाश्च मातङ्ग्यन्ताः समीरिताः ।
विन्यस्तव्यास्ततो मूले ऽधिष्ठाने मणिपूरके
हृत्कण्ठास्ये भ्रुवोर्मध्ये मस्तके चापि मत्रिणा ।
आद्ये लक्ष्मीसरस्वत्यौ रतिः प्रीतिश्च कृत्तिका
शान्तिः पुष्टिः पुनस्तुष्टिमार्तगंपदशेखरा ।
मूलमन्त्रं पृथङ्न्यस्येन्निजमूर्द्धनि मन्त्रवित्
आधारदेशे ऽधिष्ठाने नाभौ पश्चादनाहते ।
कण्ठदेशे भ्रवोर्मध्ये बिन्दौ भूयः कला पदोः
निरोधिकायामर्द्धेन्दुनादे नादान्तयोः पुनः ।
उन्नतांसेषु वक्त्रे च ध्रुवमण्डलके शिवे
मातङ्ग्यन्ताः प्रविन्यस्ये द्वामां ज्येष्ठमतः परम् ।
रौद्रीं प्रशान्तां श्रद्धाख्यां पुनर्माहेश्वरीमथ
क्रियाशक्तिं सुलक्ष्मीं च सृष्टिं संज्ञां च मोहिनीम् ।
प्रमथाश्वासिनीं विद्युल्लतां चिच्छक्तिमप्यथ
ततश्च सुन्दरीं निन्दां नन्दबुद्धिमिमाः क्रमात् ।
शिरोभालहृदाधारेष्वेता बीजत्रयाधिकाः
मातङ्ग्याद्याः प्रविन्यस्येद्यथावद्देशिकोत्तमः ।
मातङ्गीं महदाद्यां तां महालक्ष्मीपदादिकाम्
सिद्धलक्ष्मीपदाद्यां च मूलमाधारमण्डलम् ।
न्यसेत्तेनैव कुर्वीत व्यापकं देशिकोत्तमः
एवं न्यस्तशरीरो ऽसौ चिन्तयेन्मन्त्रदेवताम् ।
श्यामां शुकोक्तिं शृण्वन्तीं न्यस्तैकाङ्घ्रिशिरोरुहाम्
शशिखण्डधरां वीणां वादयन्तीं मधून्मदाम् ।
रक्तांशुकां च कह्लारमालाशोभितचूलिकाम्
शङ्खपत्रां तु मातङ्गीं चित्रकोद्भासिमस्तकाम् ।
अयुतं प्रजपेन्मन्त्रं तद्दशांशं मधूकजैः
पुष्पैस्त्रिमधुरोपेतैर्जुहुयान्मन्त्रसिद्धये ।
त्रिकोणकर्णिकं पद्ममष्टपत्रं प्रकल्पयेत्
अष्टपत्रावृतं बाह्ये वृतं षोडशभिर्दलैः ।
चतुरस्रीकृतं बाह्ये कान्त्या दृष्टिमनोहरम्
एतस्मिन्पूजयेत्पीठे नवशक्तीः क्रमादिमाः ।
विभूतिपूर्वाः पूर्वोक्ता मातङ्गीपदपश्चिमाः
सर्वान्ते शक्तिकमलासनाय नम इत्यथ ।
वाक्सत्यलक्ष्मी बीजाद्य उक्तः पीठार्चने मनुः
मूलेन मूर्तिं संकल्प्य तस्यामावाह्य देवताम् ।
अर्चयेद्विधिनानेन वक्ष्यमाणेन मन्त्रवित्
रत्याद्यास्त्रिषु कोणेषु पूजयेत्पूर्ववत्सुधीः ।
हृहृल्लेखाः पञ्चपूज्या मध्ये दिक्षु च मन्त्रिणा
पाशाङ्कुशाभयाभीष्टधारिण्यो भूतसप्रभाः ।
अङ्गानि पूजयेत्पश्चाद्यथापूर्वं विधानवित्
बाणानभ्यर्चयेद्दिक्षु पञ्चमं पुरतो यजेत् ।
दलमध्ये ऽथ संपूज्या अनङ्गकुसुमादिकाः
पाशाङ्कुशाभयाभीष्टधारिण्यो ऽरुणविग्रहाः ।
पत्राग्रेषु पुनः पूज्या लक्ष्म्याद्या वल्लकीकराः
बहिरष्टदलेष्वर्च्या मन्मथाद्या मदोद्धताः ।
अपराङ्गा निषङ्गाद्याः पुष्पास्त्रेषुधनुर्द्धराः
पत्रस्था मातरः पूज्या ब्राह्माद्याः प्रोक्तलक्षणाः ।
तदग्रेष्वर्चयेद्विद्वानसिताङ्गादिभैरवान्
पुनः षोडश पत्रेषु पूज्याः षोडश शक्तयः ।
वामाद्याः कलवीणाभिर्गायन्त्यः श्यामविग्रहाः
चतुरस्रे चतुर्दिक्षु चतस्रः पूजयेत्पुनः ।
मातङ्ग्याद्यामदोन्मत्ता वीणोल्लसितपाणयः
आग्नेयकोणे विघ्नेशं दुर्गां नैशाचरेः यजेत् ।
वायव्ये बटुकान् पश्चादीशाने क्षेत्रपं यजेत्
लोकपाला बहिः पूज्या वज्राद्यैरायुधैः सह ।
मन्त्रे ऽस्मिन्संधिते मन्त्री साधयेदिष्टमात्मनः
मल्लिकाजातिपुन्नागैर्हेमाद्भाग्यालयो भवेत् ।
फलौर्बिल्यसमुद्भूतैस्तत्पत्रैर्वा हुताद्भवेत्
राजपुत्रस्य राज्याप्तिः पङ्कजैः श्रियमाप्नुयात् ।
उत्पलैर्वशयेद्विश्वं क्षारैर्मध्वाश्रितैः स्त्रियम्
वञ्जुलस्य समिद्भोमो वृष्टिं वितनुते ऽचिरात् ।
क्षीराक्तैरमृताखण्डैर्हेमान्नाशयति ज्वरम्
दूर्वाभिरायुराप्नोति तन्दुलैर्धनवान्भवेत् ।
कदंबैर्वश्यमाप्नोति सर्वं त्रिमधुरप्लुतम्
नन्द्यावर्तभवैः पुष्पैर्हेमो वाक्सिद्धिदायकः ।
निंबप्रसूनैर्जुहुयादीप्सितश्रीसमृद्धये
पलाशकुसुमैर्हेमात्तेजस्वी जायते नरः ।
चन्दनागुरुकस्तूरी चन्द्रकुङ्कुमरोचनाः
वश्याय च प्रियत्वाय हुताश्च तिलकीकृताः ।
निर्गुण्डीमूलहोमेन निगडान्मुच्यते नरः
निंबतैलान्वितैर्लोणैर्हेमः शत्रुविनाशनः ।
हरिद्राचूर्णसंमिश्रैर्लवणैः स्तंभयेज्जगत्
मातङ्गीसिद्धविद्यैषा प्रोक्ता ते द्विजसत्तम ।
अवतारान्तरं भूयो वर्णयामि निशामय
दीपकाप्रीतिचन्द्राढ्या द्विधा चेद्रञ्जितापुनः ।
वतिवह्निप्रियामन्त्रो धूमावत्या गजाक्षरः
पिप्पलादो मुनिश्छन्दो निवृद्धूमावतीश्वरी ।
बीजेन षड्दीर्घजातियुक्तेन परिकल्पयेत्
ततो धूमावतीं ध्यायेच्छत्रुनिग्रहकारिणीम् ।
विवर्णां चञ्चलां दुष्टां दीर्घां च मलिनांबराम्
विमुक्तकुन्तलां सूक्ष्मां विधवां विरलद्विजाम् ।
कङ्कध्वजरथारूढां प्रलंबितपयोधरम्
सूर्यहस्तां निरुक्षाङ्कधृतहस्तांबरान्विताम् ।
प्रवृद्धलोमां तु भृशं कुटिलाकुटिलेक्षणाम्
क्षुत्पिपासार्दितां नित्यं भयदां कलहप्रियाम् ।
एवंविधां तु संचिन्त्य नमः स्वाहा फडन्तकम्
बीजं साध्योपरि न्यस्य तस्मिन्स्थाप्य शवं जपेत् ।
अवष्टभ्य शवं शत्रुनाम्नाथ प्रजपेन्मनुम्
सोष्णीषकञ्चुको विद्वान्कृष्णे भूते दिवानिशम् ।
उपवासी श्मशाने वा विपिने शून्यमन्दिरे
मन्त्रस्य सिद्ध्यै यतवाग्ध्यायन्देवीं निरन्तरम् ।
सहस्रादूर्द्धूतः शत्रुर्ज्वरेण परिगृह्यते
पञ्चगव्येन शान्तिः स्याज्ज्वरस्य पयसापि वा ।
मन्त्राद्या क्षरमालिख्य शत्रूनाम ततः परम्
द्वितीयं मनुवर्णं च शत्रुनामैवमालिखेत् ।
सर्वं मनुदिक्सहस्रजपाच्छवमृतिर्भवेत्
दग्ध्वा कङ्कं श्यशानाग्नौ तद्भस्मादाय मन्त्रवित् ।
विरोधिनाम्नाष्टशतं जप्तमुच्चाटनं रिपोः
श्मशानभस्मना कृत्वा शवं तस्योपरि न्यसेत् ।
विरोधिनामसंरुद्धं कृष्णे पक्षे समुच्चरेत्
महिषीक्षीरधूपं च दद्याच्छत्रुविपत्करम् ।
एवं संक्षेपतः प्रोक्तं अवतारचतुष्टयम्
दुर्गाया जगदंबायाः किं पुनः प्रष्टुमिच्छसि
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0