भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.86

1.86.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरूपणं नाम पञ्चाशीतितमो ऽध्यायः
सनत्कुमार उवाच
सरस्वत्यवतारास्ते कथिताः सिद्धिदा नृणाम् ।
अथ लक्ष्म्यवतारांस्ते वक्ष्ये सर्वार्थसिद्धिदान्

1.86.2

वाणीमन्मथशक्त्याख्यं बीजत्रितयमीरितम् ।
ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्दः प्रकीर्तितम्

1.86.3

देवता त्रिपुरा बाला मध्यान्ते शक्तिबीजके ।
नाभेरापादमाद्यं तु नाभ्यन्तं हृदयात्परम्

1.86.4

मृर्ध्नो ह्रदन्तं तर्तीयं क्रमाद्देहेषु विन्यसेत् ।
आद्यं वामकरे दक्षकरे तदुभयोः परम्

1.86.5

पुनर्बीजत्रयं न्यस्य मूर्ध्नि गुह्ये च वक्षसि ।
नव योन्पाभिधं न्यासे नवकृत्वो मनुं न्यसेत्

1.86.6

कर्णयोश्चिबुके न्यस्येच्छङ्खयोर्मुखपङ्कजे ।
नेत्रयोर्नासिकायां च स्कन्धयोरुदरे तथा

1.86.7

न्यसेत्कूर्परयोर्नाभौ जानुनोर्लिङ्गमस्तके ।
पादयोरपि गुह्ये च पार्श्वयोर्हृदये पुनः

1.86.8

स्तनयोः कण्ठदेशे च वामाङ्गादिषु विन्यसेत् ।
वाग्भवाद्यां रतिं गुह्ये प्रीतिमत्यादिकां हृदि

1.86.9

कामबीजादिकान्पश्येद्भूमध्ये तु मनोभवाम् ।
पुनर्वागकात्ममाद्यास्तिस्रएव च विन्यसेत्

1.86.10

अमृतेशीं च योगेशीं विश्वयोनिं तृतीयकाम् ।
मूर्ध्निं वक्त्रे हृदि न्यस्येद्गुह्ये चरणयोरपि

1.86.11

कामेशी पञ्चबीजाढ्यां स्मरात्पञ्चन्यसेत्क्रमात् ।
मायाकामौ च वाग्लक्ष्मी कामेशी पञ्चबीजकम्

1.86.12

मनोभवश्च मकरध्वजकन्दर्पमन्मथाः ।
कामदेवः स्मरः पञ्च कीर्तितान्याससिद्धिदाः

1.86.13

शिरःपन्मुखागुह्येषु हृदये बाणदेवताः ।
द्राविण्याद्याः क्रमान्न्यस्येद्वाणेशीबीजपूर्वकः

1.86.14

द्रान्द्रीं क्लीञ्जूंस इति वैबाणेशबीजकं च कम् ।
द्राविणी क्षोभिणी वशीकरण्याङ्कर्षणी तथा

1.86.15

संमोहनी च बाणानां देवताः पञ्च कीर्तिताः ।
तार्तीयवाग्मध्यगेन कामेन स्यात्षडङ्गकम्

1.86.16

षड्दीर्घस्वरयुक्तेन ततो देवीं विचिन्तयेत् ।
ध्यायेद्रक्तसरोजस्थां रक्तवस्त्रां त्रिलोचनम्

1.86.17

उद्यदर्कनिभां विद्यां मालाभयवरोद्वहाम् ।
लक्षत्रयं जपेन्मन्त्रं दशांशं किंशुकोद्भवैः

1.86.18

पुष्पैर्हयारिजैर्वापि जुहुयान्मधुरान्वितैः ।
नवयोन्यात्मकं यन्त्रं बहिरष्टदलावृतम्

1.86.19

केसरेषु स्वरान्न्यस्येद्वर्गानष्टौदलेष्वपि ।
दलाग्रेषु त्रिशूलानि पद्म तु मातृकावृतम्

1.86.20

एवं विलिखिते यन्त्रे पीठशक्तीः प्रपूजयेत् ।
इच्छा ज्ञाना क्रिया चैव कामिनी कामदायिनी

1.86.21

रती रतिप्रिया नन्दा मनोन्मन्यपि चोदिताः ।
पीठशक्तीरिमा इष्ट्वा पीठं तन्मनुना दिशेत्

1.86.22

व्योमपूर्वे तु तार्तीयं सदाशिवमहापदम् ।
प्रेतपद्मासनं ङेंतं नमोन्तः पीठमन्त्रकः

1.86.23

षोडशार्णस्ततो मूर्तौं कॢप्तायां मूलमन्त्रतः ।
आवाह्य प्रजपेद्देवीमुपचारैः पृथग्विधैः

1.86.24

देवीमिष्ट्वा मध्ययोनौ त्रिकोणे रतिपूर्विकाम् ।
वामकोणे रतिं दक्षे प्रीतिमग्रे मनोभवाम्

1.86.25

योन्यन्तर्वह्निकोणादवङ्गान्यग्नेर्विदिक्ष्वपि ।
मध्ययोमेर्हहिः पूर्वादिषु चाग्रे स्मरानपि

1.86.26

वाणदेवीस्तद्वदेव शक्तीरष्टसु योनिषु ।
सुभगाख्या भागा पश्चात्तृतीया भगसर्पिणी

1.86.27

भगमाला तथानङ्गा नगाद्या कुसुमापरा ।
अनङ्गमेखलानङ्गमदनेत्यष्टशक्तयः

1.86.28

पद्मकेशरगा ब्राह्मी मुखाः पत्रेषु भैरवाः ।
दीर्घाद्या मातरः पूज्या ह्रस्वाद्याश्चाष्टभैरवाः

1.86.29

दलाग्रेष्वष्टपीठानि कामरूपाख्यमादिमम् ।
मलयं कोल्लगिर्य्याख्यं चौहाराख्यं कुलान्तकम्

1.86.30

जालन्धरं तथोन्नासं कोटपीठमथाष्टमम् ।
भूगृहे दशदिक्ष्वर्चेद्धेतुकं त्रिपुरान्तकम्

1.86.31

वैतालमग्नि जिह्वं च कमलान्तकालिनौ ।
एकपादं भीमरूपं विमलं हाटकेश्वरम्

1.86.32

शक्राद्यानायुधैः सार्द्धं स्वस्वदिक्षु समर्चयेत् ।
तद्बहिर्दिक्षु बटुकं योगिनीं क्षेत्रनायकम्

1.86.33

गणेशं विदिशास्वर्चेद्वसून्सूर्याच्छिवांस्तथा ।
भूतांश्चेत्थं भजन्बालामीशः स्याद्धनविद्ययोः

1.86.34

रक्तांभोजैर्हुतेर्नार्योवश्याः स्युः सर्षपैर्नृपाः ।
नन्द्यावर्तै राजवृक्षैः कुन्दैः पाटलचंपकैः

1.86.35

पुष्पैर्बिल्वफलैर्वापि होमाल्लक्ष्मीः स्थिरा भवेत् ।
अपमृत्युं जयेन्मन्त्री गुडूच्या दुग्धयुक्तया

1.86.36

यथोक्तदूर्वाहोमेन नीरोगायुः समश्नुते ।
ज्ञानं कवित्वं लभते चन्द्रागुरुसुरैर्हुतैः

1.86.37

पलाशपुष्पैर्वाक्सिद्धिरन्नाप्तिश्चान्नहोमतः ।
सुरभिक्षीरदध्यक्तांल्लाजान्हुत्वा रुजो जयेत्

1.86.38

रक्तचन्दनकर्पूरकर्चूरागुरुरोचनाः ।
चन्दनं केशरं मांसीं क्रमाद्भागैनिंयोजयेत्

1.86.39

भूमिचन्द्रैकनन्दाब्धिदिक्सप्तनिगमोन्मितैः ।
श्मशाने कृष्णभूतस्य निशि नीहारपाथसा

1.86.40

कुमार्या पेषयेत्तानि मन्त्रेणाथाभिमन्त्र्य च ।
विदद्ध्यात्तिलकं तेन दर्शनाद्वशयेज्जनान्

1.86.41

गजसिंहादिभूतानि राक्षसाञ्छाकिनीरपि ।
प्रयोजनानां सिद्ध्यै तु देव्याः शापं निवर्त्य च

1.86.42

विधायोत्कीलितां पश्चाज्जपमस्य समाचरेत् ।
यो जपेदादिमे बीजे वराहभृगुपावकान्

1.86.43

मध्यमादौ नभोहंसौ मध्यमान्ते तु पावकम् ।
आदावन्ते च तार्तूयक्रमात्स्वं धूम्रकेतनम्

1.86.44

एवं जप्त्वा शतं विद्या शापहीना फलप्रदा ।
यद्वाद्ये चरमे बीजे नैव रेफं वियोजयेत्

1.86.45

शापोद्धारप्रकारो ऽन्यो यद्वायं कीर्तितो बुधैः ।
आद्यमाद्यं हि तार्तीयं कामः कामो ऽथ वाग्भवम्

1.86.46

अन्त्यमन्त्थमनङ्गश्च नवार्णः कीर्तितो मनुः ।
जप्तो ऽयं शतधा शापं बालाया विनिवर्तयेत्

1.86.47

चैतन्याह्लादिनूमन्त्रौ जप्तौ निष्कीलताकरौ ।
त्रिस्वराश्चेतनं मन्त्री धरः शान्तिरनुग्रहः

1.86.48

तारादिहृदयान्तः स्यात्काम आह्लादिनीमनुः ।
तथा त्रयाणां बीजानां दीपनैर्मनुभिस्त्रिभिः

1.86.49

सुदीप्तानि विधायादौ जपेत्तानीष्टसिद्धये ।
वदयुग्मं सदीर्घांबु स्मृतिवालावनङ्गतौ

1.86.50

सत्यः सनेत्रो नस्तादृग्वा वाग्वर्णाद्यदीपिनी ।
क्लिन्ने क्लेदिनि वैकुण्ठो दीर्घं स्वं सद्यगोन्तिमः

1.86.51

निद्रा सचन्द्रा कुर्वीत शिवार्णा मध्यदीपिनी ।
तारो मोक्षं च कुरुते नायं वर्णास्यदीपिनी

1.86.52

दीपिनीमन्तरा बाला साधितापि न सिद्ध्यति ।
वागन्त्यकामान् प्रजयेदरीणा क्षोभहेतवे

1.86.53

कामवागन्त्यबीजानि त्रैलोक्यस्य वशीकृतौ ।
कामान्त्यवाणीबीजानि मुक्तये नियतो जपेत्

1.86.54

पूजारंभे तु बालायास्त्रिविधानर्चयेद्गुरून् ।
दिव्यौघश्चैव सिद्धौघो मानवौघ इति त्रिधा

1.86.55

परप्रकाशः परमे शानः परशिवस्तथा ।
कामेश्वरस्ततो मोक्षः षष्ठः कामो ऽमृतोंऽतिमः

1.86.56

एते दप्तैव दिव्यौघा आनन्दपदपश्चिमाः ।
ईशानाख्यस्तत्पुरुषो ऽघोराख्योवामदेवकः

1.86.57

सद्योजात इमे पञ्च सिद्धौधाख्याः स्मृता मुने ।
मानवौघाः परिज्ञेयाः स्वगुरोः सम्प्रदायतः

1.86.58

नवयोन्यात्मके यन्त्रे विलिखेन्मध्ययोनितः ।
प्रादक्षिण्येन बीजानि त्रिवारं साधकोत्तमः

1.86.59

त्रींस्त्रीन्वर्णांस्तु गायत्र्या अष्टपत्रेषु संलिखेत् ।
बहिर्मातृकयाऽवेष्ट्य तद्बहिर्भूपुरद्वयम्

1.86.60

कामबीजलसत्कोणन व्यतिभिन्नं परस्परम् ।
पत्रे त्रैपुरमाख्यातं जपसंपातसाधितम्

1.86.61

बाहुना विधृते दद्याद्धनं कीर्तिं सुखं सुतान् ।
कामान्ते त्रिपुरा देवी विद्महे कविषं भहिम्

1.86.62

बकः खड्गी समारूढः सनेत्रो ऽग्निश्च धीमहि ।
तत्र क्लिन्ने प्रचोदान्ते यादित्येषा प्रकीर्तिता

1.86.63

गायत्री त्रैपुरा सर्सिद्धिदा सुरसेविता ।
अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते सिद्धिदो नृणाम्

1.86.64

वेदादिर्गिरिजा पद्मा मन्यथो हृदयं भृगुः ।
भगवति माहेश्वरी ङेन्ते ऽन्नपूर्णे दहनाङ्गना

1.86.65

प्रोक्ता विंशतिवर्णेयं विद्या स्याद्द्रुहिणो मुनिः ।
धृतिश्छन्दो ऽन्नपूर्णेशी देवता परिकीर्तिता

1.86.66

षड्दीर्घाढ्येन हृल्लेखाबीऽजेन स्यात्षडङ्गकम् ।
मुखनासाक्षिकर्णांसगुदेषु नवसु न्यसेत्

1.86.67

पदानि नव तद्वर्णसंख्येदानीमुदीर्यते ।
भूमिचन्द्रधरैकाक्षिवेदाब्धियुगबाहुभिः

1.86.68

पदसंख्यामिता वर्णैस्ततो ध्यायेत्सुरेश्वरीम् ।
स्वर्णाभाङ्गां त्रिनयनां वस्त्रालङ्कारशोभिताम्

1.86.69

भूरमासं युतां देवीं स्वर्णामत्रकरांबुजाम् ।
लक्षं जपो ऽयुतं होमो घृताक्तचरुणा तथा

1.86.70

जयादिनवशक्तयाढ्ये पीठे पूजा समीरिता ।
त्रिकोणा वेदपत्राष्टपत्रषोडशपत्रके

1.86.71

भूपुरेण युते यन्त्रे प्रदद्यान्मायया मनुम् ।
अग्न्यादिकोणत्रितये शिववाराहमाधवान्

1.86.72

अचर्ययेत्स्वस्वमन्त्रैस्तु प्रोच्यन्ते मनवस्तु ते ।
प्रणवो मनुचन्द्राढ्यं गगनं हृदयं शिवा

1.86.73

मारुतः शिवमन्त्रो ऽयं सप्तार्णः शिवपूजने ।
वाराहनारायणयोर्मन्त्रौ पूर्वमुदीरयेत्

1.86.74

षडङ्गानि ततो ऽभ्यर्च्य वामे दक्षे धरां रमाम् ।
यजेत्स्वस्वमनुभ्यां तु तावुच्येते मुनीश्वर

1.86.75

अन्नं मह्यन्नमित्युक्त्वा मे देह्यन्नाधिपोर्णकाः ।
नयेममन्नं प्राणान्ते दापयानलसुंदरी

1.86.76

द्वाविंशत्यक्षरो मन्त्रो भूमीष्टौ भूमिसंपुटः ।
लक्ष्मीष्टौ श्रीपुटो विप्र स्नृतिर्लभनुचन्द्रयुक्

1.86.77

भुवो बीजमिति प्रोक्तं श्रीबीजं प्रागुदाहृतम् ।
मन्त्रादिस्थचतुर्बीजपूर्विकाः परिपूजयेत्

1.86.78

शक्तीश्चतस्रो वेदास्रे परा च भुवनेश्वरी ।
कमला सुभगा चति ब्राह्म्याद्या अष्टपत्रगाः

1.86.79

षोडशारे स्मृते चव मानदातुष्टिपुष्टयः ।
प्रीती रतिर्ह्नीः श्रीश्चापि स्वधा स्वाहा दशम्यथ

1.86.80

ज्योत्स्ना हैमवती छाया पूर्णिमा संहतिस्तथा ।
अमावास्येति संपूज्या मन्त्रेशे प्राणपूर्विका

1.86.81

भूपुरे लोकपालाः स्युस्तदस्त्राणि तदग्रतः ।
इत्थं जपादिभिः सिद्धे मन्त्रे ऽस्मिन्धनसंचयैः

1.86.82

कुबेरसदृशो मन्त्री जायते जनवन्दितः ।
अथ लक्ष्म्यवतारो ऽन्यः कीर्त्यते मुनिसत्तम

1.86.83

प्रणवः शान्तिररुणाक्रियाढ्याचन्द्रभूषिताः ।
बगलामुखसर्वान्ते इन्धिकाह्रादिनीयुता

1.86.84

पीताजरायुक्प्रतिष्ठा पुनर्दीर्धोदसंयुता ।
वाचं मुखं पदं स्तंभयान्ते जिह्वापदं वदेत्

1.86.85

कीलयेति च बुद्धिं विनाशयान्ते स्वबीजकम् ।
तारो ऽग्निसुंदरी मन्त्रो बगलायाः प्रकीर्तितः

1.86.86

मुनिस्तु नारदश्छदो बृहती बगलामुखी ।
देवता नेत्रपञ्चेषुनवपञ्चदिगर्णकैः

1.86.87

अङ्गानि कल्पयित्वा च ध्यायेत्पीताम्बरां ततः ।
स्वर्णासनस्थां हेमाभां स्तंभिनीमिन्दुशेखराम्

1.86.88

दधतीं मुद्गरं पाशं वज्रं च रसनां करैः ।
एवं ध्यात्वाजपेल्लक्षमयुतं चंपकोद्भवैः

1.86.89

कुसुमैर्जुहुयात्पीठे बालायाः पूजयेदिमाम् ।
चन्दनागुरुचन्द्राद्यैः पूजार्थं यन्त्रमालिखेत्

1.86.90

त्रिकोणषड्दलाष्टास्रषोडशारे यजेदिमाम् ।
मङ्गला स्तंभिनी चैव जृंभिणी मोहिनी तथा

1.86.91

वश्या चला बलाका च भूधरा कल्मषाभिधा ।
धात्री च कलना कालकर्षिणी भ्रामिकापि च

1.86.92

मन्दगापि च भोगस्था भाविका षोडशी स्मृता ।
भूगृहस्य चतुर्दिक्षु पूर्वादिषु यजेत्क्रमात्

1.86.93

गणेशं बटुकं चापि योगिनीः क्षेत्रपालकम् ।
इन्द्रादींश्च ततो बाह्ये निजायुधसमन्वितान्

1.86.94

इत्थं सिद्धे मनौ मन्त्री स्तंभयेद्देवतादिकान् ।
पीतवस्त्रपदासीनः पीतमाल्यानुलेपनः

1.86.95

पीतपुष्पैर्यजेद्देवीं हरिद्रोत्थस्रजा जपेत् ।
पीतां ध्यायन्भगवतीं पयोमध्ये ऽयुतं जपेत्

1.86.96

त्रिमध्वा ज्यतिलैर्हेमो नॄणां वश्यकरो मतः ।
मधुरत्रितयाक्तैः स्यादाकर्षो लवर्णैर्ध्रुवम्

1.86.97

तैलाभ्यक्तैर्निम्बपत्रैर्हेमो विद्वेषकारकः ।
ताललोणहरिद्राभिर्द्विषां संस्तंभनं भवेत्

1.86.98

आगारधूमं राजीश्च माहिषं गुग्गुलं निशि ।
श्मशाने पावके हुत्वा नाशयेदचिरादरीन्

1.86.99

गरुतो गृध्रकाकानां कटुतैलं विभीतकम् ।
गृहधूमं चितावह्नौ हुत्वा प्रोच्चाटयेद्रिपून्

1.86.100

दूवार्गुडूचीलाजान्यो मधुरत्रितयान्वितान् ।
जुहोति सो ऽखिलान् रोगान् शमयेद्दर्शनादपि

1.86.101

पर्वताग्रे महारण्ये नदीसंगे शिवालये ।
ब्रह्मचर्यरतो लक्षं जपेदखिलसिद्धये

1.86.102

एक वर्णगवीदुग्धं शर्करामधुसंयुतम् ।
त्रिशतं मन्त्रितं पीतं हन्याद्विषपराभवम्

1.86.103

श्वेतपालशकाष्ठेन रचिते रम्यपादके ।
अलक्तरञ्जिते लक्षं मन्त्रयेन्मनुनामुना

1.86.104

तदारूढः पुमान् गच्छत्क्षणेन शतयोजनम् ।
पारदं च शिलां तालं पिष्टं मधुसमन्वितम्

1.86.105

मनुना मन्त्रयेल्लक्षं लिंपेत्तेनाखिलां तनुम् ।
अदृश्यः स्यान्नृणामेष आश्चर्य्यं दृश्यतामिदम्

1.86.106

षट्कोणं विलिखद्बीजं साध्यनामान्वितं मनोः ।
हरितालनिशाचूर्णैरुन्मत्तुरससंयुतैः

1.86.107

शेषाक्षरैः समानीतं धरागेहविराजितम् ।
तद्यन्त्रं स्थापितप्राणं पीतसूत्रेण वेष्टयेत्

1.86.108

भ्राम्यत्कुलालचक्रस्थां गृहीत्वा मृत्तिकां तथा ।
रचयेदृषभं रम्यं यन्त्रं तन्मध्यतः क्षिपेत्

1.86.109

हरितालेन संलिप्य वृषं प्रत्यहमर्चयेत् ।
स्तंभयेद्विद्विषां वाचं गतिं कार्यपरंपराम्

1.86.110

आदाय वामहस्तेन प्रेतभूस्थितकर्परम् ।
अङ्गारेण चितास्थेन तत्र यन्त्रं समालिखेत्

1.86.111

मन्त्रितं निहितं भूमौ रिपूणां स्तंभयेद्गतिम् ।
प्रेतवस्त्रे लिखेद्यन्त्रं अङ्गारेणैव तत्पुनः

1.86.112

मण्डूकवदने न्यस्येत्पीतसूत्रेण वेष्टितम् ।
पूजितं पीतपुष्पैस्तद्वाचं संस्तंभयेद्द्विषाम्

1.86.113

यद्भूमौ भविता दिव्यं तत्र यन्त्रं समालिखेत् ।
मार्जितं तद्द्विषां पात्रैर्दिव्यस्तम्भनकृद्भवेत्

1.86.114

इन्द्रवारुणिकामूलं सप्तशो मनुमन्त्रितम् ।
क्षिप्तं जले दिव्यकृतं जलस्तंभनकारकम्

1.86.115

किं बहूक्त्या साधकेन मन्त्रः सम्यगुपासितः ।
शत्रूणां गतिबुद्ध्यादेः स्तंभनो नात्र संशयः

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc