भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.85

1.85.1

इति श्रीबृहन्नारदीचयपुरणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवीमन्त्रनिरूपणं नाम चतुरशीतितमो ऽध्यायः
सनत्कुमार उवाच
वाग्देवता वतारो ऽन्यः कालिकेति प्रकीर्तिता ।
तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम्

1.85.2

सृष्टिक्रियान्विता शान्तिर्बिद्वाढ्या च त्रिधा पुनः ।
अरुणाक्ष्यादीपिका च बिन्दुयुक्ता द्विधा ततः

1.85.3

मायाद्वयं ततः पश्चाद्दक्षिणे कालिके पदम् ।
पुनश्च सप्तबीजानि स्वाहान्तो ऽयं मनूत्तमः

1.85.4

भैरवो ऽस्य ऋषिश्छन्द उष्णिक्काली तु देवता ।
बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर

1.85.5

षड्दीर्धाढ्ये बीजेन विद्याया अङ्गमीरितम् ।
मातृकार्णान्दश दश हृदये भुजयोः पदोः

1.85.6

विन्यस्य व्यापकं कुर्यान्मूलमन्त्रेण साधकः ।
शिरः कृपाणमभयं वरं हस्तैश्च बिभ्रतीम्

1.85.7

मुण्डस्रङ्मस्तकां मुक्तकेशां पितृवनस्तिताम् ।
सर्वालङ्कृतवर्णां च श्यामाङ्गीं कालिकां स्मरेत्

1.85.8

एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः ।
प्रसूनैः करवीरोत्थैः पूजायन्त्रमथोच्यते

1.85.9

विलिख्य पूर्वं षट्कोणं त्रिकोणत्रितयं ततः ।
पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत्

1.85.10

जया च विजया चापि अजिता चापराजिता ।
नित्या विलासिनी वापि दोग्ध्यघोरा च मङ्गला

1.85.11

पीठस्य शक्तयो मायात्मने हृत्पीठमन्त्रकः ।
शिवरूपशवश्थां च शिवाभिर्दिक्षु वेष्टिताम्

1.85.12

महाकालरतासक्तां ध्यात्वाङ्गान्यर्चयेत्पुरा ।
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम्

1.85.13

विप्रचित्तां च षट्कोणे नवकोणे ततोर्ऽचयेत् ।
उग्रामुष्णप्रभां दीप्तां नीलाधानां बलाकिकाम्

1.85.14

मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः ।
पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि

1.85.15

माहेश्वरी च चामुण्डा कौमारी चापराजिता ।
वाराही नारसिंहा च पुनरेतास्तु भूपुरे

1.85.16

भैरवीं महदाद्यां तां सिंहाद्यां धूम्रपूर्विकाम् ।
भीमोन्मत्तादिकां चापि वशीकरणभैरवीम्

1.85.17

मोहनाद्यां समाराध्य शक्रादीन्यायुधान्यपि ।
एवमाराधिता काली सिद्धा भवति मन्त्रिणाम्

1.85.18

ततः प्रयोगान्कुर्वीत महाभैरवभाषितान् ।
आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान्

1.85.19

स्त्रीणां प्रहारं निन्दां च कौटिल्यं वाप्रियं वचः ।
आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत्

1.85.20

सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम् ।
अयुतं सो ऽचिरादेव वाक्पतेः समतामियात्

1.85.21

दिगम्बरो मुक्तकेशः श्मशानस्थो ऽधियामिनि ।
जपेद्यो ऽयुतमेतस्य भवेयुः सर्वसिद्धयः

1.85.22

शवस्य हृदये स्थित्वा निर्वासाः प्रेतभूमिगः ।
अर्कपुष्पसहस्रेणाभ्यक्तेन स्वीयरेतसा

1.85.23

देवीं यः पूजयेद्भक्त्या जपन्नेकैकशो मनुम् ।
सो ऽचरेणैव कालेन धरणीप्रभुतां व्रजेत्

1.85.24

रजः कीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत् ।
सकवित्वेन रम्येण जनान्मोहयति ध्रुवम्

1.85.25

त्रिपञ्चारे महापीठे शिवस्य हृदि संस्थिताम् ।
महाकालेन देवेन मारयुद्धं प्रकुर्वतीम्

1.85.26

तां ध्यायन्स्मेरवदनां विदधत्सुरतं स्वयम् ।
जपेत्सहस्रमपि यः स शङ्करसमो भवेत्

1.85.27

अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः ।
उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत्

1.85.28

भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः ।
विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते

1.85.29

यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् ।
नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः

1.85.30

रक्तांभोजैर्हुनेन्मन्त्री धनैर्जयति वित्तपम् ।
बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः

1.85.31

असृजी महिषादीनां कालिकां यस्तु तर्पयेत् ।
तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः

1.85.32

यो लक्षं प्रजपेन्मन्त्रं शवमारुह्य मन्त्रवित् ।
तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः

1.85.33

तेनाश्वमेधप्रमुखैर्यागौरिष्टं सुजन्मना ।
दत्तं दानं तपस्तप्तं उपास्ते यस्तु कालिकाम्

1.85.34

ब्रह्मा विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः ।
पूजिताः सकला देवा यः कालीं पूजयेत्सदा

1.85.35

अथापरः सरस्वत्या ह्यवतारो निगद्यते ।
यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः

1.85.36

आप्यायिनी चन्द्रयुक्ता माया च वदनान्तरे ।
सकामिका क्रुधा शान्तिश्चन्द्रालङ्कृतमस्तका

1.85.37

दीपिका सासना चन्द्रयुगस्त्रं मनुरीरितः ।
मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम्

1.85.38

ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम् ।
शक्तिः षड्दीर्घयुक्तेन द्वितीयेनाङ्गकल्पनम्

1.85.39

षोढा न्यासं ततः कुर्यात्तारायाः सर्वसिद्धिम् ।
श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान्

1.85.40

मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् ।
चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः

1.85.41

शवपीठसमासीनां नीलकान्तिं त्रिलोचनाम् ।
अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत्

1.85.42

द्वितीये तु ग्रहन्यासं कुर्यात्तां समनुस्मरन् ।
त्रिबीजस्वरपूर्वं तु रक्तसूय हृदि न्यसेत्

1.85.43

तथा पवर्गपूर्वं तु शुक्लं लोमं भ्रुवोद्वेये ।
कवर्गपूर्वं रक्ताभं मङ्गलं लोचनत्रयम्

1.85.44

चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षघस्थले बुधः ।
ढवर्गाद्यं पीतवर्णं कठ्णकूपे बृहस्पतिम्

1.85.45

तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम् ।
नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम्

1.85.46

शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् ।
त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः

1.85.47

तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः ।
मायादिबीजत्रितयपूर्वकं सर्वसिद्धये

1.85.48

स्वमस्तके ललाटादि दिक्ष्वष्टस्वधौर्द्ध्वतः ।
ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान्

1.85.49

शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् ।
त्रिबीजपूर्वकान्न्यस्येत्षट्शिवाञ्छक्तिसंयुतान्

1.85.50

आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् ।
ब्रह्माणं डाकिनीयुक्तं वादिसांतार्णपूर्वकम्

1.85.51

मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम् ।
श्रीविष्णुं राकिणीयुक्तबादिलान्तार्णपूर्वकम्

1.85.52

स्वाधिष्ठनाभिधे चक्रे लिङ्गस्थे षड्दले न्यसेत् ।
रुद्रं तु डाकिनीयुक्तं डादिफआन्तार्णपूर्वकम्

1.85.53

चक्रे दशदले न्यस्येन्नाभिस्थे मणिपूरके ।
ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम्

1.85.54

विन्यसेद्द्वादशदलेहृदयस्थे त्वनाहते ।
सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम्

1.85.55

कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् ।
आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत्

1.85.56

लक्षार्णपूवं भ्रूमध्यसंस्थिते ऽतिमनोहरे ।
तारादिपञ्चमं न्यासं कुर्यात्सर्वेष्टसिद्धये

1.85.57

अष्टौ वर्गान्स्वरद्वन्द्वपूर्वकान् बीजसंयुतान् ।
ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः

1.85.58

ताराथोग्रा महोग्रापि वज्रा काली सरस्वती ।
कामेश्वरी च चामुण्डा इत्यष्टौ तारिकाः स्मृताः

1.85.59

ब्रह्मरन्ध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः ।
हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत्

1.85.60

अङ्गन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् ।
आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम्

1.85.61

हृदि जालन्धरं बीजं दीर्घपूर्वं प्रविन्यसेत् ।
ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः

1.85.62

उड्डीयानं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् ।
कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत्

1.85.63

षोढा न्यासस्तु तारायाः प्रोक्तो ऽभीष्टप्रदायकः ।
हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत्

1.85.64

वज्रोदके शिखां पातु उग्रतारां तु वर्मणि ।
महोग्रा वत्सरे नेत्रे पिङ्गाग्रैकजटास्त्रके

1.85.65

षड्रदीर्गयुक्तमायाया एतान्यष्टौ षडङ्गके ।
अङ्गुष्ठादिष्वङ्गुलीषु पूर्वं विन्यस्य यत्नतः

1.85.66

तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः ।
छोटिकामुद्राया कुर्याद्दिग्बन्धं देवतां स्मरन्

1.85.67

विद्यया तारपुटया व्यापकं सप्तधा चरेत् ।
उग्रतारां ततो ध्यायेत्सद्यो वादे ऽतिसिद्धिदाम्

1.85.68

लयाब्धावंबुजन्मस्थां नीलाभां दिव्यभूषणाम् ।
कम्बुं खड्गं कपालं च नीलाब्जं दधतीं करैः

1.85.69

नागश्रेष्ठालङ्कृताङ्गीं रक्तनेत्रत्रयां स्मरेत् ।
जपेल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः

1.85.70

हुनेत्क्षीराज्यसंमिश्रैः शङ्खं संस्थाप्य संजपेत् ।
नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत्

1.85.71

श्मशाने शून्यसदने देवागारे ऽथ निर्जने ।
पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित्

1.85.72

समरे शत्रुनिहतं यद्वा षाण्यासिकं शिशुम् ।
विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्ध्यति

1.85.73

मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः ।
विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः

1.85.74

भृगुमन्विन्दुसंयुक्तं मेघवर्त्म सरस्वती ।
योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः

1.85.75

दत्त्वानेनासनं मूर्तिं मूलमन्त्रेण कल्पयेत् ।
पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते

1.85.76

तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम् ।
यक्षाधिपतये तन्द्रीसोपनीतं बलिं ततः

1.85.77

गृहयुग्मं शिवा स्वाहा बलिमन्त्रो ऽयमीरितः ।
दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे

1.85.78

जलदानादिकं मन्त्रैर्विदध्याद्दशभिस्ततः ।
ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे

1.85.79

ताराद्या वह्निजायान्ता माया हि क्षालने मता ।
तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः

1.85.80

सर्वपापानि शाम्यन्ते छेतो नेत्रयुतं जलम् ।
कल्पान्तनयनस्वाहा मन्त्र आचमने मतः

1.85.81

ध्रुवो मणिधरीत्यन्ते वज्रिण्यक्षियुता मृतिः ।
खरिविद्यायुग्रिजश्व सर्ववान्ते बको ऽब्जवान्

1.85.82

कारिण्यन्ते दीर्घवर्म अस्त्रं वह्निप्रियान्तिमः ।
त्रयोविंशतिवर्णात्मा शिखाया बन्धने मनुः

1.85.83

प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् ।
नवार्णेनामुना मन्त्री कुर्याद्भूमिविशोधनम्

1.85.84

नारान्ते सर्वविघ्नानुत्सारयेति पदं ततः ।
हुं फट् स्वाहा गुणेन्द्वर्णो मनुर्विघ्ननिवारणम्

1.85.85

मायाबीजं जपापुष्पनिभं नाभौ विचिंयेत् ।
तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना

1.85.86

ताराबीजं सुवर्णाभं चिन्तयेद्धृदि मन्त्रवित् ।
पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि

1.85.87

तुरीयं चन्द्रकुन्दाभं बीजं ध्यात्वाललाटतः ।
तदुत्थसुधयादे हं स्वयं वै देवतानिभम्

1.85.88

अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् ।
तारो ऽनन्तो भगुः कर्णो पद्मनाभयुतो बली

1.85.89

खे वज्ररेखे क्रोधाख्यं बीजं पावकल्लभा ।
अमुना द्वादशार्णेन रचयेन्मण्डलं शुभम्

1.85.90

तारो यथागता निद्रा सदृक्षेकभृगुर्विषम् ।
सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः

1.85.91

क्रोधो ऽस्त्रं मनुवर्णो ऽयं मनुः पुष्पादिशोधने ।
तारः पाशः परा स्वाहा पञ्चार्णश्चित्तशोधने

1.85.92

मनवो दश संप्रोक्ता अर्ध्यस्थापनमुच्यते ।
सेंदुभ्यां मासतो माया भुवं संसृज्य भूगृहम्

1.85.93

वृतं त्रिकोणसंयुक्तं कुर्यान्मण्डलमन्त्रतः ।
यजेत्तत्राधारशक्तिं वह्निमण्डलमध्यगाम् ।
वह्निमण्डलमभ्यर्च्य महाशङ्खं निधापयेत्

1.85.94

वामकर्णेन्दुयुक्तेन फडन्तेन विहायसा ।
प्रक्षालितं भृगुर्दण्डी त्रिमूर्तीन्तुयुतं पठेत्

1.85.95

ततोर्ऽचयेन्महाशङ्खं जपन्मन्त्रचतुष्टयम् ।
दीर्घत्रयान्विता माया काली सृष्टिः सदीर्घसः

1.85.96

प्रतिमासंयुतं मासं यवनं हृदयं ततः ।
एकाधशार्णः प्रथमो महाशङ्खार्चने मनुः

1.85.97

हंसो हरिभुजङ्गेशयुक्तो दीर्घन्त्रयेन्दुयुक् ।
तारिण्यन्ते कपालाय नमोन्तो द्वादशाक्षरः

1.85.98

स्वं दीर्घत्रयमन्वाढ्यमेषो वामदगन्वितः ।
लोकपालाय हृदयं तृतीयो ऽयं शिवाक्षरः

1.85.99

मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः ।
पालाय सर्वाधाराय सर्वः सर्वोद्भवस्तथा

1.85.100

सर्वशुद्धिमयश्चेति ङेंताः सर्वासुरान्तिकम् ।
रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा

1.85.101

भाजनाय भगी सत्या विकपालाय हृन्मनुः ।
तुर्यो रसेषु वर्णो ऽयं महाशङ्खप्रपूजने

1.85.102

नवार्कमण्डलं चेष्ट्वा सलिलं मूलमन्त्रतः ।
प्रपूरयेत्सुधाबुद्ध्या गन्धपुष्पाक्षतादिभिः

1.85.103

मुद्रां त्रिखण्डां संदर्श्य पूजयेच्चन्द्रमण्डलम् ।
वाक्सत्यपद्मागगने रेफआनुग्रहबिन्दुयुक्

1.85.104

मूलमन्त्रो विपद्ध्वंसमनुसर्गसमन्वितम् ।
अष्टकृत्वो ऽमुना मन्त्री मन्त्रयेत्प्रयतो जलम्

1.85.105

मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत् ।
तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिन्तयेत्

1.85.106

पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत् ।
तर्जनूमध्यमानामाकनिष्ठाभिर्महेश्वरीम्

1.85.107

सांगुष्ठानिश्चुतुर्वारं महाशङ्खस्थिते जले ।
खंरेफमनुबिन्द्वाढ्यां भृगुमन्विन्दुयुक्तया

1.85.108

ध्रुवाद्येन नमोन्तेन तर्प्यादानन्दभैरवम् ।
ततस्तेनार्धतोयेन प्रोक्षेत्पूजनसाधनम्

1.85.109

योमिमुद्रां प्रदर्श्यापि प्रणमेद्भवतारिणीम् ।
विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम्

1.85.110

पूर्वोक्ते पूजयेत्पीठे पद्मे षट्कोणकर्णिके ।
धरागृहावृते रम्ये देवीं रम्योपचारकैः

1.85.111

महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत् ।
पाशाङ्कुशौ कपालं च त्रिशूलं दधतं करैः

1.85.112

अलङ्कारचयोपेतं गणेशं प्राक्तमर्चयेत् ।
कपालशूले हस्ताभ्यां दधतं सर्पभूषणम्

1.85.113

स्वयूथवेष्टितं रम्यं बटुकं दक्षिणेर्ऽचयेत् ।
असिशूलकपालानि डमरुं दधतं करैः

1.85.114

कृष्णं दिगंबरं क्रूरं क्षेत्रपालं च पश्चिमे ।
कपालं डमरुं पाशं लिङ्गं शंबिभ्रतीं करैः

1.85.115

अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत् ।
अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मन्त्रऋषिं शुभम्

1.85.116

अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानवल्लभा ।
अक्षोभ्यपूजने मन्त्रः षट्कोगकम्

1.85.117

वैराचनं चामिताभं पद्मनाभिभिधं तथा ।
शङ्खं पाण्डुरसंज्ञं च दिग्दलेषु प्रपूजयेत्

1.85.118

लाभकां मानकां चैव पाण्डुरां तारकां तथा ।
विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये

1.85.119

बिन्दुनामादिवर्णाद्याः संबुद्ध्यन्तास्तथाभिधाः ।
व्रजपुष्पं प्रतीच्छाग्निप्रियान्ताः प्रणवादिकाः

1.85.120

वैराचनादि पूजायां मनवः परिकीर्तिताः ।
भूधरश्च चतुर्द्वार्षु पद्मान्तकयमान्तकौ

1.85.121

विद्यान्तकाभिधः पश्चान्नरान्तक इमान्यजेत् ।
शक्रादींश्चैव वज्रादीन्प्रजपेत्तदनन्तरम्

1.85.122

एवं संपूजयन्देवीं पाण्डित्यं धनमद्भुतम् ।
पुत्रान्पौत्राञ्छुभां कीर्तिं लभते जनवश्यताम्

1.85.123

तारो माया श्रीमदकजटे नीलसरस्वती ।
महोप्रतारे देवासः सनेत्रो गदियुग्मकम्

1.85.124

सर्वदेवपिशाकर्मो दीर्घोग्रिर्मरुसान्मस ।
अभ्रगुमम जाड्यं च छेदयद्वितयं रमा

1.85.125

मायास्त्राग्निप्रियान्तो ऽयं द्विपञ्चाशल्लिपिर्मनुः ।
अनेन नित्यं पूजतिऽन्वहं देव्यै बलिं हरेत्

1.85.126

एवं सिद्धे मनौ मन्त्री प्रयोगान्विदधाति च ।
जातमात्रस्य बालस्य दिवसत्रितयादधः

1.85.127

जिह्वायां विलिखेन्मन्त्रं मध्वाज्याभ्यां शलाकया ।
सुवर्ण कृतया यद्वा मन्त्री धवलदूर्वया

1.85.128

गते ऽष्टमे ऽब्दे बालो ऽपि जायते कविरद्बुतम् ।
तथापरैरजेयो ऽपि भूपसंघैर्द्धनार्चितः

1.85.129

उपरागे दतानीव नरदारुसरोजले ।
निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत्

1.85.130

सरोजिनीदले मन्त्रं वेष्टयेन्मातृकाक्षरैः ।
निखाय तदलं कुण्डे चतुरस्रे समेखले

1.85.131

संस्थाप्य पावकं तत्र जुहुयान्मनुनामुना ।
सहस्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम्

1.85.132

होमान्ते विवधै रत्नैः पलैरपि बलिं हरेत् ।
बलिं मन्त्रेण विधिवद्बलिमन्त्रः प्रकाश्यते

1.85.133

तारः पद्मे युग तन्द्री वियद्दीर्घं च लोहितः ।
अत्रिर्विषभगारूढो वदत्पद्मावतीपदम्

1.85.134

झिण्टीशाढ्योनिलस्वाहा षोडशार्णो बलेर्मनुः ।
ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत्

1.85.135

एवं कृते पण्डितानां स जयी कविराड् भवेत् ।
निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः

1.85.136

शताभिजप्त्या यो मन्त्री रोचनां मस्ताके धरेत् ।
यं यं पश्यति तस्यासौ दासवज्जायते क्षणात्

1.85.137

श्मशानाङ्गारमाश्रित्य पूर्वायां कुजवासरे ।
तेन मत्रेण संवेष्ट्य निबद्धं रक्ततन्तुभिः

1.85.138

शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि ।
उच्चाटयति सप्ताहात्सकुण्टुबान्विरोधिनः

1.85.139

क्षीराढ्यया निशामन्त्रं लिखित्वा पौरुषे ऽस्थनि ।
रविवारे निशीथिन्यां सहस्रमभिमन्त्रयेत्

1.85.140

तत्क्षिप्तं शत्रुसदने मण्डलाद्भ्रंशकं भवेत् ।
क्षेत्रे क्षिप्तं सस्यहान्योजवहृत्तुरमालयेत्

1.85.141

षट्कोणान्तर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः ।
बाह्ये ऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम्

1.85.142

यन्त्रं भूर्जे जहुरसैर्लिखेत्पूताम्बरावृतम् ।
पट्टसूत्रेण सन्नद्धं शिशुकण्ठगतं ध्रुवम्

1.85.143

भूतभीतिहरं वामवाहौ स्त्रीणां च पुत्रदम् ।
नृणां दक्षिणबाहुस्थं निर्धनानां धनप्रदम्

1.85.144

ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc