भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.83

1.83.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्ण सहस्रनामकथनं नाम व्द्यशीतितमो ऽध्यायः
श्रीशौनक उवाच
साधु सूत महाभागः जगदुद्धारकारकम् ।
महातन्त्रविधानं नः कुमारोक्तं त्वयोदितम्

1.83.2

अलभ्यमेतत्तन्त्रेषु पुराणेष्वपि मानद ।
यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना

1.83.3

नारदो भगवान्सूत लोकोद्धरणतत्परः ।
भूयः पप्रच्छ किं साधो कुमारं विदुषां वरम्

1.83.4

सूत उवाच
श्रुत्वा स नारदो विप्राः युग्मनामसहस्रकम् ।
सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम्

1.83.5

नारद उवाच
ब्रह्मंस्त्वया समाख्याता विधयस्तन्त्रचोदिताः ।
तत्रापि कृष्णमन्त्राणां वैभवं ह्युदितं महत्

1.83.6

या तत्र राधिकादेवी सर्वाद्या समुदाहृता ।
तस्या अंशावताराणां चरितं मन्त्रपूर्वकम्

1.83.7

तन्त्रोक्तं वद सर्वज्ञ त्वामहं शरणं गतः ।
शक्तेस्तन्त्राण्यनेकानि शिवोक्तानि मुनीश्वर

1.83.8

यानि तत्सारमुद्धृत्य साकल्येनाभिधेहि नः ।
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः

1.83.9

सनत्कुमारः प्रोवाच स्मृत्वा राधापदांबुजम् ।
सनत्कुमार उवाच
शृणु नारद वक्ष्यामि राधांशानां समुद्भवम्

1.83.10

शक्तीनां परमाश्चर्यं मन्त्रसाधनपूर्वकम् ।
या तु राधा मया प्रोक्ता कृष्णार्द्धाङ्गसमुद्भवा

1.83.11

गोलोकवासिनी सा तु नित्या कृष्णसहायिनी ।
तेजोमण्डलमध्यस्था दृश्यदृश्यस्वरूपिणी

1.83.12

कदाचित्तु तया सार्द्धं स्थितस्य मुनिसत्तम ।
कृष्णस्य वामभागात्तु जातो नारायणः स्वयम्

1.83.13

राधिकायाश्च वामाङ्गान्महालक्ष्मीर्बभूव ह ।
ततः कृष्णो महालक्ष्मीं दत्त्वा नारायणाय च

1.83.14

वैकुण्ठे स्थापयामास शश्वत्पालनकर्मणि ।
अथ गोलोकनाथस्य गोम्नां विवरतो मुने

1.83.15

जातुश्चासंख्यगोपालास्तेजसा वयसा समाः ।
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः

1.83.16

राधाङ्गलोमकूपेभ्ये बभूवुर्गोपकन्यकाः ।
राधातुल्याः सर्वतश्च राधादास्यः प्रियंवदाः

1.83.17

एतस्मिन्नन्तरे विप्र सहसा कृष्णदेहतः ।
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी

1.83.18

देवीनां बीजरूपां च मूलप्रकृतिरीश्वरी ।
परिपूर्णतमा तेजः स्वरूपा त्रिगुणात्मिका

1.83.19

सहस्रभुजसंयुक्ता नानाशस्त्रा त्रिलोचना ।
या तु संसारवृक्षस्य बीजरूपा सनातनी

1.83.20

रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ।
एतस्मिन्नन्तरे तत्र सस्त्रीकस्तु चतुर्मुखः

1.83.21

ज्ञानिनां प्रवरः श्रीमान् पुमानोङ्कारमुच्चरन् ।
कमण्डलुधरो जातस्तपस्वी नाभितो हरेः

1.83.22

स तु संस्तूय सर्वेशं सावित्र्या भार्यया सह ।
निषसादासने रम्ये विभोस्तस्याज्ञया मुने

1.83.23

अथ कृष्णो महाभाग द्विधारूपो बभूव ह ।
वामार्द्धाङ्गो महादेवो दक्षार्द्धो गोपिकापतिः

1.83.24

पञ्चवक्त्रस्त्रिनेत्रो ऽसौ वामार्द्धागो मुनीश्वः ।
स्तुत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः

1.83.25

अथ कृष्णश्चतुर्वक्त्रं प्राह सृष्टिं कुरु प्रभो ।
सत्यलोके स्थितो नित्यङ्गच्छ मांस्मर सर्वदा

1.83.26

एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरम् ।
जगाम भार्यया साकं स तु सृष्टिं करोति वै

1.83.27

पितास्माकं मुनिश्रेष्ठ मानसीं कल्पदैहिकीम् ।
ततः पश्चात्पञ्चवक्त्रं कृष्णं प्राह महामते

1.83.28

दुर्गां गृहाण विश्वेश शिवलोके तपश्वर ।
यावत्सृष्टिस्तदन्ते तु लोकान्संहर सर्वतः

1.83.29

सो ऽपि कृष्णं नमस्तृत्य शिवलोकं जगाम ह ।
ततः कालान्तरे ब्रह्मन्कृष्णस्य परमात्मनः

1.83.30

वक्त्रात्सरस्वती जाता बीणापुस्तकधारिणी ।
तामादिदेश भघगवान् वैकुण्ठं गच्छ मानदे

1.83.31

लक्ष्मीसमीपे तिष्ठ त्वं चतुर्भुजसमाश्रया ।
सापि कृष्णं नमस्कृत्य गता नारायणान्तिकम्

1.83.32

एवं पञ्चविधा जाता सा राधा सृष्टिकारणम् ।
आसां पूर्णस्वरूपाणां मन्त्रध्यानार्चनादिकम्

1.83.33

वदामि शृणु विप्रेद्रं लोकानां सिद्धिदायकम् ।
तारः क्रियायुक् प्रतिश्ठा प्रीत्याढ्या च ततः परम्

1.83.34

ज्ञानामृता क्षुधायुक्ता वह्निजायान्तकतो मनुः ।
सुतपास्तु ऋषिश्छन्दो गायत्री देवता मनोः

1.83.35

राधिका प्रणवो बीजं स्वाहा शक्तिरुदाहृता ।
षडक्षरैः षडङ्गानि कुर्याद्विन्दुविभूषितैः

1.83.36

ततो ध्यायन्स्वहृदये राधिकां कृष्णभामिनीम् ।
श्वेतचंपकवर्णाभां कोटिचन्द्रसमप्रभाम्

1.83.37

शरत्पार्वणचन्द्रास्यां नीलेन्दीवरलोचनाम् ।
सुश्रोणीं सुनितंबां च पक्वबिंबाधरांबराम्

1.83.38

मुक्ताकुन्दाभदशनां वह्निशुद्धांशुकान्विताम् ।
रत्नकेयूरवलयहारकुण्डलशोभिताम्

1.83.39

गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम्

1.83.40

ध्यात्वा पुष्पाञ्जलिं क्षिप्त्वा पूजयेदुपचारकैः ।
लक्षषट्कं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः

1.83.41

आज्याक्तैर्मातृकापीठे पूजा चावरणैः सह ।
षट्कोणेषु षडङ्गानि तद्बाह्ये ऽष्टदले यजेत्

1.83.42

मालावतीं माधवीं च रत्नमालां सुशीलिकाम् ।
ततः शशिकलां पारिजातां पद्मावतीं तथा

1.83.43

सुंदरीं च क्रमात्प्राच्यां दिग्विदिक्षु ततो बहिः ।
इन्द्राद्यान्सायुधानिष्ट्वा विनियोगांस्तु साधयेत्

1.83.44

राधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा ।
निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी

1.83.45

सर्वेश्वरी सर्वपूज्या वैराजजननी तथा ।
पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा

1.83.46

त्वं देवि जगतां माता विष्णुमाया सनातनी ।
कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे

1.83.47

कष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे ।
इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत्

1.83.48

एवं यो भजते राधां सर्वाद्यां सर्वमङ्गलाम् ।
भुक्त्वेह भोगानखिलान्सो ऽन्ते गोलोकमाप्नुयात्

1.83.49

अथ तुभ्यं महालक्ष्म्या विधानं वच्मि नारद ।
यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान्

1.83.50

लक्ष्मीमायाकामवाणीपूर्वा कमलवासिनी ।
ङेंता वह्निप्रियान्तो ऽयं मन्त्रकल्पद्रुमः परः

1.83.51

ऋषिर्नारायणश्चास्य छन्दो हि जगती तथा ।
देवता तु महालक्ष्मीर्द्विद्विवर्णैः षडङ्गकम्

1.83.52

श्वेतचंपकवर्णाभां रत्नभूषणभूषिताम् ।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम्

1.83.53

बिभ्रतीं रत्नमालां च कोटिचन्द्रसमप्रभाम् ।
ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः

1.83.54

जुहुयादेधिते वह्नौ श्रीदृकाष्टैः समर्चयेत् ।
नवशक्तियुते पीठे ह्यङ्गै रावरणैः सह

1.83.55

विभूतिरुन्नतिः कान्तिः सृष्टिः कीर्तिश्च सन्नतिः ।
व्याष्टिरुत्कृष्टिरृद्धिश्च संप्रोक्ता नव शक्तयः

1.83.56

अत्रावाह्य च मूलेन मूर्तिं संकल्प्य साधकः ।
षट् कोणेषु षडङ्गानि दक्षिणे तु गजाननम्

1.83.57

वामे कुसुमधन्वानं वसुपत्रे ततो यजेत् ।
उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम्

1.83.58

देवीमुषां च पूर्वादौ दिग्विदिक्षु क्रमेण हि ।
जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते

1.83.59

शङ्खपद्मनिधी पूज्यौ पार्श्वयोर्घृतचामरौ ।
धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः

1.83.60

संपूज्य राशीन्परितो यथास्थानं नवग्रहान् ।
चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोर्ऽचयेत्

1.83.61

तद्बहिर्लोकपालांश्च तदस्त्राणि च तद्बहिः ।
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः

1.83.62

गुडूचीमाज्यसंसिक्तां जुहुयात्सप्तवासरम् ।
अषअटोत्तरसहस्रं यः स जीवेच्छरदां शतम्

1.83.63

हुत्वा तिलान्घृताभ्यक्तान्दीर्घमायुष्यमाप्नुयात् ।
आरभ्यार्कदिनं मन्त्री दशाहं घृतसंप्लुतः

1.83.64

जुहुयादर्कसमिधः शरीरारोग्यसिद्धये ।
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम्

1.83.65

अचिरादेव महती लक्ष्मी संजायते ध्रुवम् ।
उषाजा जीनालिकेररजोभिर्गृतमिश्रितैः

1.83.66

हुनेदष्टोत्तरशतं पायसाशी तु नित्यशः ।
मण्डलाज्जायते सो ऽपि कुबेर इव मानवः

1.83.67

हविषा गुडमिश्रेण होमतो ह्यन्नवान्भवेत् ।
जपापुष्पाणि जुहुयादष्टोत्तरसहस्रकम्

1.83.68

तांबूलरससंमिश्रं तद्भस्मतिलकं चरेत् ।
चतुर्णामपि वर्णानां मोहनाय द्विजोत्तमः

1.83.69

एवं यो भजते लक्ष्मीं साधकेन्द्रो मुनीश्वर ।
सम्पदस्तस्य जायन्ते महालक्ष्मीः प्रसीदति

1.83.70

देहान्ते वैष्णवं धाम लभते नात्र संशयः ।
या तु दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती

1.83.71

सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे ।
देवीलोकेति विख्यातं सर्वलोकविलक्षणम्

1.83.72

तत्र स्थिता जगन्माता तपोनियममास्थिता ।
विविधान् स्वावतारान्हि त्रिकाले कुरुते ऽनिशम्

1.83.73

मायाधिका ह्लादिनीयुक् चन्द्राढ्या सर्गिणी पुनः ।
प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः

1.83.74

ज्ञानामृता वह्निजायान्तस्ताराद्यो मनुर्मतः ।
ऋषिः स्याद्वामदेवो ऽस्य छन्दो गायत्रमीरितम्

1.83.75

देवता जगतामादिर्दुर्गा दुर्गतिनाशिनी ।
ताराद्येकैकवर्णेन हृदयादित्रयं मतम्

1.83.76

त्रिभिर्वर्मेक्षण द्वाभ्यां सर्वैरस्त्रमुदीरितम् ।
महामरकतप्रख्यां सहस्रभुजमण्डिताम्

1.83.77

नानाशस्त्राणि दधतीं त्रिनेत्रां शशिशेखराम् ।
कङ्कणाङ्गदहाराढ्यां क्वणन्नूपुरकान्विताम्

1.83.78

किरीटकुण्डलधरां दुर्गां देवीं विचिन्तयेत्

1.83.79

वसुलक्षं जपेन्मन्त्रं तिलैः समधुरैर्हुनेत ।
पयोंऽधसा वा सहस्रं नवपद्मात्मके यजेत्

1.83.80

प्रभा माया जया सूक्ष्मा विशुद्धानं दिनी पुनः ।
सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः

1.83.81

अद्भिर्ह्रस्वत्रयक्लीबरहितैः पूजये दिमाः ।
प्रणवो वज्रनखदंष्ट्रायुधाय महापदात्

1.83.82

सिंहाय वर्मास्त्रं हृञ्च प्रोक्तः सिंहमनुर्मुने ।
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत्

1.83.83

अङ्गावृर्त्तिं पुराभ्यार्च्य शक्तीः पत्रेषु पूजयेत् ।
जया च विजया कीर्तिः प्रीतिः पश्चात्प्रभा पुनः

1.83.84

श्रद्धा मेधा श्रुतिश्चैवस्वनामाद्यक्षरादिकाः ।
पत्राग्रेष्वर्चयेदष्टावायुधानि यथाक्रमात्

1.83.85

शङ्खचक्रगदाखड्गपाशाङ्कुशशरान्धनुः ।
लोकेश्वरांस्ततो बाह्ये तेषामस्त्राण्यनन्तरम्

1.83.86

इत्थं जपादिभिर्मन्त्री मन्त्रे सिद्धे विधानवित् ।
कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान्

1.83.87

प्रतिष्ठाप्य विधानेन कलशान्नवशोभनान् ।
रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान्

1.83.88

मध्यस्थे पूजयेद्देवीमितरेषु जयादिकाः ।
संपूज्य गन्धपुष्पाद्यैरभिषिञ्चेन्नराधिपम्

1.83.89

राजा विजयते शत्रून्यो ऽधिको विजयश्रियम् ।
प्राप्नोत्रोगो दीर्घायुः सर्वव्याधिविवर्जितः

1.83.90

वन्ध्याभिषिक्ता विधिनालभते तनयं वरम् ।
मन्त्रेणानेन संजप्तमाज्यं क्षुद्रग्रहापहम्

1.83.91

गर्भिणीनां विशेषेण जप्तं भस्मादिकं तथा ।
जृंभश्वासे तु कृष्णस्य प्रविष्टेराधिकामुखम्

1.83.92

या तु देवी समुद्भूता वीणापुस्तकधारिणी ।
तस्या विधानं विप्रेन्द्र शृणु लोकोपकारकम्

1.83.93

प्रणवो वाग्भवं माया श्रीः कामः शक्तिरीरिता ।
सरस्वती चतुर्थ्यन्ता स्वाहान्तो द्वादशाक्षरः

1.83.94

मनुर्नारायण ऋषिर्विराट् छन्दः समीरितम् ।
महासरस्वती चास्य देवता परिकीर्तिता

1.83.95

वाग्भवेन षडङ्गानि कृत्वा वर्णान्न्यसेद् बुधः ।
ब्रह्मरन्ध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत्

1.83.96

मुखनासादिकर्णेषु गुदेषु श्रीमुखार्णकान् ।
ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम्

1.83.97

कर्पूरकुन्दधवलां पूर्णचन्द्रोज्ज्वलाननाम् ।
हंसाधिरूढां भालेन्दुदिव्यालङ्कारशोभिताम्

1.83.98

जपेद्द्वादशलक्षाणि तत्सहस्रं सितांबुजैः ।
नागचंपकपुष्पैर्वा जुहुयात्साधकोत्तमः

1.83.99

मातृकोक्ते यजेत्पीठे वक्ष्यमाणक्रमेण ताम् ।
वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत्

1.83.100

देव्या दक्षिणतः पूज्या संस्कृता वाङ्मयी शुभा ।
प्राकृता वामतः पूज्या वाङ्मयीसर्वसिद्धिदा

1.83.101

पूर्वमङ्गानि षट्कोणे प्रज्ञाद्याः प्रयजेद्बहिः ।
प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः

1.83.102

स्वस्तिश्चेति समाख्याता ब्रह्माद्यास्तदनन्तरम् ।
लोकेशानर्चयेद्भूयस्तदस्त्राणि च तद्बहिः

1.83.103

एवं संपूज्य वाग्देवीं साक्षाद्वाग्वल्लभो भवेत् ।
ब्रह्मचर्यरतः शुद्धः शुद्धदन्तनखा दिकः

1.83.104

संस्मरन् सर्ववनिताः सततं देवताधिया ।
कवित्वं लभते धीमान् मासैर्द्वादशभिर्ध्रुवम्

1.83.105

पीत्वा तन्मन्त्रितं तोयं सहस्रं प्रत्यहं मुने ।
महाकविर्भवेन्मन्त्री वत्सरेण न संशयः

1.83.106

उरोमात्रोदके स्थित्वा ध्यायन्मार्तण्डमण्डले ।
स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुम्

1.83.107

लभते मण्डलात्सिद्धिं वाचामप्रतिमां भुवि ।
पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः

1.83.108

समिद्भिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पतेः ।
राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः

1.83.109

सत्समिद्भिश्च जुहुयात्कवित्वमतुलं लभेत् ।
अथ प्रवक्ष्ये विप्रेन्द्र सावित्रीं ब्रह्मणः प्रियाम्

1.83.110

यां समाराध्य ससृजे ब्रह्मा लोकांश्चराचरान् ।
लक्ष्मी माया कामपूर्वा सावित्री ङेसमन्विता

1.83.111

स्वाहान्तो मनुराख्यातः सावित्र्या वसुवर्णवान् ।
ऋषिर्ब्रह्मास्य गायत्री छन्दः प्रोक्तं च देवता

1.83.112

सावित्री सर्वदेवानां सावित्री परिकीर्तिता ।
हृदन्तिकैर्ब्रह्म विष्णुरुद्रेश्वरसदाशिवैः

1.83.113

सर्वात्मना च ङेयुक्तैरङ्गानां कल्पनं मतम् ।
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा

1.83.114

ग्रीष्ममध्याह्नमार्तण्डसहस्रसमविग्रहाम् ।
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्

1.83.115

बह्निशुद्धांशुकाधानां भक्तानुग्रहकातराम् ।
सुखदां मुक्तिदां चैव सर्वसंपत्प्रदां शिवाम्

1.83.116

वेदबीजस्वरूपां च ध्यायेद्वेदप्रसूं सतीम् ।
ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिके

1.83.117

सौरे पीठे यजेद्देवीं दीप्तादिनवशक्तिभिः ।
मूलमन्त्रेण कॢप्तायां मूर्तौं देवीं प्रपूजयेत्

1.83.118

कोणेषु त्रिषु संपूज्या ब्राहृयाद्याः शक्तयो बहिः ।
आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात्

1.83.119

तततः षडङ्गान्यभ्यर्च्य केसरेषु यथाविधि ।
प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वंभरां पुनः

1.83.120

विलासिनीप्रभावत्यौ जयां शान्तां यजेत्पुनः ।
कान्तिं दुर्गासरस्वत्यौ विद्यारूपां ततः परम्

1.83.121

विशालसंज्ञितामीशां व्यापिनीं विमलां यजेत् ।
तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम्

1.83.122

पद्नालयां परां शोभां ब्रह्मरूपां ततोर्ऽचयेत् ।
ब्राह्म्याद्याः शारणा बाह्ये पूजयेत्प्रोक्तलक्षणाः

1.83.123

ततो ऽभ्यर्च्येद् ग्रहान्बाह्ये शक्राद्यानयुधैः सह ।
इत्थमावरणैर्देवीः दशभिः परिपूजयेत्

1.83.124

अष्टलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तिलैः ।
सर्वपापुविनिर्मुक्तो दीर्घमायुः स विन्दति

1.83.125

अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः ।
महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः

1.83.126

ब्रह्मवृक्षप्रसूनैस्तु जुहुयाद्बाह्यतेजसे ।
बहुना किमिहोक्तेन यथावत्साधिता सती

1.83.127

साधकानामियं विद्या भवेत्कामदुधा मुने ।
अथ ते संप्रवक्ष्यामि रहस्यं परमाद्भुतम्

1.83.128

सावित्रीपञ्जरं नाम सर्वरक्षाकरं नृणाम् ।
व्योमकेशार्लकासक्तां सुकिरीटविराजिताम्

1.83.129

मेघभ्रुकुटिलाक्रान्तां विधिविष्णुशिवाननाम् ।
गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम्

1.83.130

इडापिङ्गलिकासूक्ष्मावायुनासापुटान्विताम् ।
संध्याद्विजोष्ठपुटितां लसद्वागुपजिह्विकाम्

1.83.131

संध्यासूर्यमणिग्रीवां मरुद्बाहुसमन्वितान् ।
पर्जन्यदृदयासक्तां वस्वाख्यप्रतिमण्डलाम्

1.83.132

आकाशोदरविभ्रान्तां नाभ्यवान्तरवीथिकाम् ।
प्रजापत्याख्यजघनां कटीन्द्राणीसमाश्रिताम्

1.83.133

ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् ।
सुजानुजहुकुशिकां वैश्वदेवाख्यसंज्ञिकाम्

1.83.134

पादाङ्घ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् ।
ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम्

1.83.135

तिथिमासर्तुपक्षाख्यैः संकेतनिमिषात्मिकाम् ।
मायाकल्पितवैचित्र्यसंध्याख्यच्छदनावृताम्

1.83.136

ज्वलत्कालानलप्रख्यों तडित्कीटिसमप्रभाम् ।
कोटिसूर्यप्रतीकाशां शशिकोटिसुशीतलाम्

1.83.137

सुधामण्डलमध्यस्थां सांद्रानन्दामृतात्मिकाम् ।
वागतीतां मनो ऽगर्म्या वरदां वेदमातरम्

1.83.138

चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ।
ध्यात्वा स्वात्माविभेदेन सावित्रीपञ्जरं न्यसेत्

1.83.139

पञ्चरस्य ऋषिः सो ऽहं छंन्दो विकृतिरुच्यते ।
देवता च परो हंसः परब्रह्मादिदेवता

1.83.140

धर्मार्थकाममोक्षाप्त्यै विनियोग उदाहृतः ।
षडङ्गदेवतामन्त्रैरङ्गन्यासं समाचरेत्

1.83.141

त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् ।
पूर्वोक्तां देवातां ध्यायेत्साकारां गुणसंयुताम्

1.83.142

त्रिपदा हरिजा पूर्वमुखी ब्रह्मास्त्रसंज्ञिका ।
चतुर्विशतितत्त्वाढ्या पातु प्राचीं दिशं मम

1.83.143

चतुष्पदा ब्रह्मदण्डा ब्रह्माणी दक्षिणानना ।
षड्विंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम्

1.83.144

प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ।
पातु प्रतीचीमनिशं मम ब्रह्मशिराएङ्किता

1.83.145

सौम्यास्या ब्रह्मतुर्याढ्या साथर्वाङ्गिरसात्मिका ।
उदीचीं षट्पदा पातु षष्टितत्त्वकलात्मिका

1.83.146

पञ्चाशद्वर्णरचिता नवपादा शताक्षरी ।
व्योमा संपातु मे वोर्द्ध्वशिरो वेदान्तसंस्थिता

1.83.147

विद्युन्निभा ब्रह्मसन्ध्या मृगारूढा चतुर्भुजा ।
चापेषुचर्मासिधरा पातु मे पावकीं दिशम्

1.83.148

ब्रह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ।
बिभ्रत्कमण्डलुं चाक्षं स्रुवस्रुवौ पातु नैरृतिम्

1.83.149

शुक्लवर्णा च सावित्री युवती वृषवाहना ।
कपालशूलकाक्षस्रग्धारिणी पातु वायवीम्

1.83.150

श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ।
शङ्खचक्राभयकरा पातु शैवीं दिशं मम

1.83.151

चतुर्भुजा देवमाता गौराङ्गी सिंहवाहना ।
वराभयखड्गचर्मभुजा पात्वधरां दिशम्

1.83.152

तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षुस्थिताः पातुं ग्रहशक्त्यङ्गसंयुताः

1.83.153

मन्त्राधिदेवतारूपा मुद्राधिष्ठातृदेवताः ।
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम्

1.83.154

इदं ते कथितं सत्यं सावित्रीपञ्जरं मया ।
संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः

1.83.155

पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता ।
भूतिदा भुवना वाणी महावसुमती मही

1.83.156

हिरण्यजननी नन्दा सविसर्गा तपस्विनी ।
यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा

1.83.157

विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा ।
मोदा देवी वरिष्ठा च धीश्च शान्तिर्मती मही

1.83.158

धिषणा योगिनी युक्ता नदी प्रज्ञाप्रचोदनी ।
दया च यामिनी पद्मा रोहिणी रमणी जया

1.83.159

सेनामुखी साममयी बगला दोषवार्जिता ।
माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया

1.83.160

ज्योत्स्ना तीर्थमयी रम्या सौम्यामृतमया तथा ।
ब्राह्मी हैमी भुजङ्गी च वशिनी सुंदरी वनी

1.83.161

ओङ्कारहसिनी सर्वा सुधा सा षड्गुणावती ।
माया स्वधा रमा तन्वी रिपुघ्नी रक्षणणी सती

1.83.162

हैमी तारा विधुगतिर्विषघ्नी च वरानना ।
अमरा तीर्थदा दीक्षा दुर्धर्षा रोगहारिणी

1.83.163

नानापापनृशंसघ्नी षट्पदी वज्रिणी रणी ।
योगिनी वमला सत्या अबला बलदा जया

1.83.164

गोमती जाह्नवी रजावी तपनी जातवेदसा ।
अचिरा वृष्टिदा ज्ञेया ऋततन्त्रा ऋतात्मिका

1.83.165

सर्वकामदुधा सौम्या भवाहॄङ्कारवर्जिता ।
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा

1.83.166

अष्टापदी नवपदी सहस्राक्षाक्षरात्मिका ।
अष्टोत्तरशतं नाम्नां सावित्र्या यः पठेन्नरः

1.83.167

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ।
एतत्ते कथितं विप्र पञ्चप्रकृतिलक्षणम्

1.83.168

मन्त्राराधनपूर्वं च विश्वकामप्रपूरणम्

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc