भाषा

ENहिગુ
ग्रंथ पाठ

नारद पुराण · अध्याय 1.82

1.82.1

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कृष्णादिमन्त्रभेदनिरूपणं नामैकाशीतितमो ऽध्यायः
सनत्कुमार उवाच
किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया ।
प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम्

1.82.2

कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् ।
सूत उवाच
इत्युक्तो नारदो विप्राः कुमारेण तु धीमता

1.82.3

ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः ।
ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः

1.82.4

ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननो ऽब्रवीत् ।
भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्बवः

1.82.5

मम स्मृतिमनुप्राप्तो विना युगललंभनम् ।
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः

1.82.6

सनत्कुमारो भगवान् व्याजहार यथातथम् ।
सनत्कुमार उवाच
शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः

1.82.7

प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना ।
अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके

1.82.8

कल्पे त्वं काश्यपो जातो नारदो नाम नामतः ।
तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः

1.82.9

संप्रष्टुं परमं तत्वं शिवं कैलासवासिनम् ।
त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम्

1.82.10

कथयामास तत्वेन नित्यलीलानुगं हरेः ।
ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः

1.82.11

नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः ।
गोपीजनपदस्यान्ते वल्लभेति पदं ततः

1.82.12

चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः ।
मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च

1.82.13

गायत्री देवता चास्य बल्लवीवल्लभो विभुः ।
प्रपन्नो ऽस्मीति तद्भक्तौ विनियोग उदाहृतः

1.82.14

नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् ।
केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम्

1.82.15

आभ्यन्तरस्य धर्मस्य साधनं वच्मि सांप्रतम्

1.82.16

संगृह्य मन्त्रं गुरुभक्तियुक्तो विचिन्त्य सर्वं मनसा तदीहितम् ।
कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम्

1.82.17

सताः शिक्षेत वै धर्मांन्प्रपन्नानां भयापहान् ।
ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान्

1.82.18

स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा ।
भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत्

1.82.19

पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च ।
आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति

1.82.20

श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् ।
श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा

1.82.21

अनन्यचिन्तनीयो ऽसौ प्रपन्नैः शरणार्थिभिः ।
स्थेयं च देहगेहादावुदासीनतया बुधैः

1.82.22

गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ ।
वेदनिन्दां हरेर्नामबलात्पापसमीहनम्

1.82.23

अर्थवादं हरेर् नाम्नि पाषण्डं नामसंग्रहे ।
अलसे नास्तिके चैव हरिनामोपदेशनम्

1.82.24

नामविस्मरणं चापि नाम्न्यनादरमेव च ।
संत्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान्

1.82.25

प्रपन्नो ऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् ।
स एव पालनं नित्यं करिष्यति ममेति च

1.82.26

तवास्मि राधिकानाथ कर्मणा मनसा गिरा ।
कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम

1.82.27

दासाः सखायः पितरः प्रेयस्यश्च हरेरिह ।
सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः

1.82.28

गमनागमने नित्यकरोति वनगोष्टयोः ।
गोचारणं वयस्यैश्च विनासुरविघातनम्

1.82.29

सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः ।
राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः

1.82.30

आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् ।
रूपयौवनसंपन्नां किशोरीं च स्वलङ्कृताम्

1.82.31

नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ।
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम्

1.82.32

ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् ।
तावत्परिचरेत्तौ तु यथाकालानुसेवया

1.82.33

सहस्रं च तयोर्न्नाम्नां पठेन्नित्यं समाहितः ।
एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर

1.82.34

नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् ।
सनत्कुमार उवाच
ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम्

1.82.35

नाम्नां सहस्रं तच्चापि प्रोक्तवां स्तच्छृणुष्व मे ।
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम्

1.82.36

कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ।
पठेन्नामसहस्रं तु युगलाख्यं महामुने

1.82.37

देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।
गदाग्रजः कंसमोहः कंससेवकमोहनः

1.82.38

भिन्नर्गलः भिन्नलोहः पितृबाह्यः पितृस्तुतः ।
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः

1.82.39

व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ।
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः

1.82.40

गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ।
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः

1.82.41

बलदोलाशयशयः श्यामलः सर्वसुंदरः ।
पद्मनाभो हृषीकेशः क्रीडामनुजबालकः

1.82.42

लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः

1.82.43

नित्यं मधुवनावासी वैकुण्ठः संभवः क्रतुः ।
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः

1.82.44

माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ।
बृहद्वनमहालीलो नन्दसूनुर्महासनः

1.82.45

तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ।
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः

1.82.46

ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ।
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः

1.82.47

वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।
गोपीकरावलंबी च गोपबालकसुप्रियः

1.82.48

बालानुयीयी बलवान् श्रीदामप्रिय आत्मवान् ।
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः

1.82.49

नवनीतहरो बालो नवनीतप्रियाशनः ।
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः

1.82.50

यशोदातर्जितः कंपी मायारुदितशोभनः ।
दामोदरो ऽप्रमेयात्मा दयालुर्भक्तवत्सलः

1.82.51

सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः ।
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः

1.82.52

देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः ।
व्रजकोलाहलकरो व्रजानदविवर्द्धनः

1.82.53

गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ।
वत्सपालो वत्सपतिर्गोपदारकमण्डनः

1.82.54

बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ।
पीताम्बरो हेममाली मणिमुक्ताविभूषणः

1.82.55

किङ्किणीकटकी सूत्री नूपुरी मुद्रि कान्वितः ।
वत्सासुरपतिध्वंसी बकासुरविनाशनः

1.82.56

अघासुरविनाशी च विनिद्रीकृतबालकः ।
आद्य आत्मप्रदः संगी यमुनातीरभोजनः

1.82.57

गोपालमण्डलीमध्यः सर्वगोपालभूषणः ।
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः

1.82.58

कृतबाहुशृङ्गयष्टिगुञ्जालङ्कृतकण्ठकः ।
मयूरपिच्छमुकुटो वनमालाविभूषितः

1.82.59

गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ।
कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः

1.82.60

आजानुबाहुर्भगवान्निद्रारहितलोचनः ।
कोटिसागरगाभीर्यः कालकालः सदाशिवः

1.82.61

विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः ।
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः

1.82.62

ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ।
गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः

1.82.63

पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ।
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः

1.82.64

कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ।
धेनुकारिः प्रलंबारिर्वृषासुरविमर्दनः

1.82.65

मायासुरात्मजध्वंसी केशिकण्ठविदारकः ।
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः

1.82.66

गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ।
यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः

1.82.67

जलेशमानमथनो नन्दगोपालजीवनः ।
गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः

1.82.68

वंशी वटी वेणुवादी गोपीचिन्तापहारकः ।
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः

1.82.69

व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः ।
रासक्रीडारसास्वादी रसिको राधिकाधवः

1.82.70

किशोरीप्राणनाथश्च वृषभानसुताप्रियः ।
सर्वगोपीजनानन्दी गोपीजनविमोहनः

1.82.71

गोपिकागीतचरितो गोपीनर्तनलालसः ।
गोपीस्कन्धाश्रितकरो गोपिकाचुंबनप्रियः

1.82.72

गोपिकामार्जितमुखो गोपीव्यञ्जनवीजितः ।
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः

1.82.73

गोपिकाहृदयालंबी गोपीवहनतत्परः ।
गोपिकामदहारी च गोपिकापरमार्जितः

1.82.74

गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः ।
गोपिकावन्दितपदो गोपिकावशवर्तनः

1.82.75

राधा पराजितः श्रीमान्निकुञ्जेसुविहारवान् ।
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः

1.82.76

यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ।
शशिसंस्तंभनः शूरः कामी कामविमोहनः

1.82.77

कामाद्याः कामनाथश्च काममानसभेदनः ।
कामदः कामरूपश्च कामिनीकामसंचयः

1.82.78

नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा ।
परमात्मा पराधीशः सर्वकारणकारणः (म्)

1.82.79

गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः ।
अक्रूरवन्दितपदो गोपिकातोषकारकः

1.82.80

अक्रूरवाक्यसंग्राही मथुरावासकारणः (म्) ।
अक्रूरतापशमनो रजकायुःप्रणाशनः

1.82.81

मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ।
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः

1.82.82

सुदामगृहगामी च सुदामपरिपूजितः ।
तन्तुवाय कसंप्रीतः कुब्जाचन्दनलेपनः

1.82.83

कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ।
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः

1.82.84

कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ।
सर्वदुःखप्रशमनो धनुभर्ङ्गी महोत्सवः

1.82.85

कुवलयापीडहॄन्ता दन्तस्कन्धबलाग्रणीः ।
कल्परूपधरोधीरो दिव्यवस्त्रानुलेपनः

1.82.86

मल्लरूपो महाकालः कामरूपी बलान्वितः ।
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा

1.82.87

चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ।
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः

1.82.88

देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ।
यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः

1.82.89

शौरिशोकविनाशी च देवकीतापनाशनः ।
उग्रसेनपरित्राता उग्रसेनाभिपूजितः

1.82.90

उग्रसेनाभिषेकी च उग्रसेनदया परः ।
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः

1.82.91

सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ।
सर्वगोपालधनदो गोपीगोपाललालसः

1.82.92

शौरिदत्तोपवीती च उग्रसेनदयाकरः ।
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः

1.82.93

संकर्षणसहाध्यायी सुदामसुहृदेव च ।
विद्यानिधिः कलाकोशो मृतपुत्रदस्तथा

1.82.94

चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ।
यमार्चितः परो देवो नामोच्चारवसो (शो)ऽच्युतः

1.82.95

कुब्जा विलासी सुभगो दीनबन्धुरनूपमः ।
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः

1.82.96

जरासंधजयी विद्वान् यवनान्तो द्विजाश्रयः ।
मुचुकुन्दप्रियकरोजरासंधपलायितः

1.82.97

द्वारकाजनको गूढो ब्रह्मण्यः सत्यसंगरः ।
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः

1.82.98

रुक्मिणीप्रियसंदेशो रुक्मशोकविवर्द्धनः ।
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः

1.82.99

रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ।
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः

1.82.100

रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ।
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः

1.82.101

शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ।
सत्राजित्तनयाकान्तो मित्रविन्दापहारकः

1.82.102

सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ।
नरका सुरघातीं च लीलाकन्याहरो जयी

1.82.103

मुरारिर्मदनेशो ऽपि धरित्रीदुःखनाशनः ।
वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः

1.82.104

इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ।
पारिजातापहारी च शक्रमानापहारकः

1.82.105

प्रद्युम्नजनकः सांबतातो बहुसुतो विधुः ।
गर्गाचार्यः सत्यगतिर्धर्माधारो धारधरः

1.82.106

द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः ।
पैण्ड्रकप्राणहारी च काशीराजशिरोहरः

1.82.107

अवैष्णवविप्रदाही सुदक्षिणभयाबहः ।
जरासंधविदारीं च धर्मनन्दनयज्ञकृत्

1.82.108

शिशुपालशिररश्चेदी दन्तवक्रविनाशनः ।
विदूरथांसकः श्रीशः श्रीदो द्विविदनाशनः

1.82.109

रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः ।
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः

1.82.110

दुर्वासो भयहाति व पाञ्चालीस्मरणागतः ।
पार्थदूतः पार्थमन्त्री पार्थदुःखौधनाशनः

1.82.111

पार्थमानापहारी च पार्थजीवनदायकः ।
पाञ्चाली वस्त्रदाता च विश्वपालकपालकः

1.82.112

श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ।
सत्यसंधः सत्यरतिः सत्यप्रिय उदारधीः

1.82.113

महासेनजयी चैव शिवसैन्यविनाशननः ।
बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः

1.82.114

तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः ।
रामस्वरूपधारी च सत्यभामामुदावहः

1.82.115

रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ।
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः

1.82.116

वीरायुधहरः कालः कालिकेशो महाबलः ।
वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः

1.82.117

धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ।
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः

1.82.118

राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ।
सदामधुवनानन्दी सदावृन्दावनप्रियः

1.82.119

अशोकवनसन्नद्धः सदातिलकसंगतः ।
सदागोवर्द्धनरतिः सदा गोकुलवल्लभः

1.82.120

भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ।
नन्दग्रामकृतावासो वृषभानुग्रहप्रियः

1.82.121

गृहीतकामिनीरूपो नित्यं रासिविलासकृत् ।
वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः

1.82.122

देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ।
शिलानुगन्धनिलयः पादचारी घनच्छविः

1.82.123

अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ।
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः

1.82.124

षड्धुरध्वंसकर्ता च निकुंभप्राणहारकः ।
वज्रनाभपुरध्वंसी पैण्ड्रकप्राणहारकः

1.82.125

बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ।
शिवसंकटहारी च वृकासुरविनाशनः

1.82.126

भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ।
गोकर्णपूजकः सांबकुष्ठविध्वंसकारणः

1.82.127

वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः ।
यदुवंशविनाशी च उद्धवोद्धारकारकः

1.82.128

राधा च राधिका चैव आनन्दा वृषभानुजा ।
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी

1.82.129

प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ।
ललिता मधुरा माध्वी किशोरी कनकप्रभा

1.82.130

जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ।
जितरंभा जितपिका गोविन्दहृदयोद्भवा

1.82.131

जितबिंबा जितशुका जितपद्मा कुमारिका ।
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी

1.82.132

नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ।
आमोदिनी मोदवती नन्दनन्दनभूषिता

1.82.133

दिव्यांबरा दिव्यहारा मुक्तामणिविभूषिता ।
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका

1.82.134

चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ।
श्रीकृष्णवेणुसंगीता मुरलीहारिणी शिवा

1.82.135

भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ।
कृष्णरतिः श्रीकृष्णसहचारिणी

1.82.136

वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ।
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी

1.82.137

श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ।
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी

1.82.138

वैकुण्ठजनसंसेव्या कोटिलक्ष्मी सुखावहा ।
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा

1.82.139

भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा ।
ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता

1.82.140

नित्यलीला नित्यकामा नित्यशृङ्गारभूषिता ।
नित्यवृन्दावनरसा नन्दनन्दनसंयुता

1.82.141

गोपगिकामण्डलीयुक्ता नित्यं गोपालसंगता ।
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी

1.82.142

महालीला प्रकृष्टा च नागरी नगचारिणी ।
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता

1.82.143

पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ।
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा

1.82.144

शीलसैन्दर्यनिलया नन्दनन्दनलालिता ।
अशोकवनसंवासा भाण्डीरवनसङ्गता

1.82.145

कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ।
अजागम्या भवागम्या गोवर्द्धनकृतालया

1.82.146

यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ।
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता

1.82.147

कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ।
देवद्रुमफला सेव्या वृन्दावनरसालया

1.82.148

कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ।
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया

1.82.149

मनसा शशिलेखा च श्रीकोटिसुभगानघा ।
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी

1.82.150

तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ।
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी

1.82.151

दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ।
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका

1.82.152

शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ।
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी

1.82.153

कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ।
विश्वाधारा कृपाधारा जीवधारातिनायिका

1.82.154

शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः ।
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता

1.82.155

दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ।
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला

1.82.156

कोटिसूर्यप्रभा कोटिचन्द्रबिंबाधिकच्छविः ।
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा

1.82.157

कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता ।
कलाषोडशसंपूर्णा कृष्णदेहार्द्धधारिणी

1.82.158

कृष्णबुद्धिः कृष्णसाराकृष्णरूपविहारिणी ।
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी

1.82.159

कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ।
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता

1.82.160

कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ।
नगधात्री यशोठात्री महादेवी शुभङ्करी

1.82.161

श्रीशेषदेवजननी अवतारगणप्रसूः ।
उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका

1.82.162

रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ।
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च

1.82.163

दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ।
कृष्णात्रहारपाका च वृन्दाकुञ्जविहारिणी

1.82.164

कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ।
पद्मकेसरमध्यस्था संगीतागमवेदिनी

1.82.165

कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ।
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता

1.82.166

अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ।
सस्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः

1.82.167

कृष्णाभिसारसंकेता मालिनी नृत्यपण्डिता ।
गोपीसिंधुसकाशाह्वां गोपमण्डपशोभिनी

1.82.168

श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ।
श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा

1.82.169

अनन्तगुणसंपन्ना कृष्णकीर्तनलालसा ।
बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता

1.82.170

विमलादिनिषेव्या च ललिताद्यार्चिता सती ।
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता

1.82.171

वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ।
दुर्लभा सांद्रसौख्यात्मा श्रेयोहेतुः सुभोगदा

1.82.172

सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी ।
ब्रह्मानन्दा चिदानन्दा ध्यानान्दार्द्धमात्रिका

1.82.173

गन्धर्वा सुरतज्ञा च गोविन्दप्राणसंगमा ।
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता

1.82.174

श्रीकृष्णहृदयावासमुक्ताकनकनालि (सि) का ।
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता

1.82.175

स्वर्णनूपुरसंपन्ना स्वर्णकिङ्किणिमण्डिता ।
अशेषरासकुतुका रंभोरूस्तनुमध्यमा

1.82.176

पराकृतिः पररानन्दा परस्वर्गविहारिणी ।
प्रसूनकबरी चित्रा महासिंदूरसुन्दरी

1.82.177

कैशोरवयसा बाला प्रमदाकुलशेखरा ।
कृष्णाधरसुधा स्वादा श्यामप्रेमविनोदिनी

1.82.178

शिखिपिच्छलसच्चूडा स्वर्णचंपकभूषिता ।
कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता

1.82.179

हेमहरान्वितापुष्पा हाराढ्या रसवत्यपि ।
माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता

1.82.180

भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसंधिनी ।
शेषदेवाशिरस्था च नित्यस्थलविहारिणी

1.82.181

कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ।
अष्टभाषवती चाष्टनायिका लक्षणान्विता

1.82.182

सुनूतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ।
रजोगुणेश्वरी चैव जरच्चन्द्रनिभानना

1.82.183

केतकीकुसुमाभासा सदा सिंधुवनस्थिता ।
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता

1.82.184

स्तनकुभी नराढ्या च क्षीणापुण्या यशस्वनी ।
वैराजसूयजननी श्रीशा भुवनमोहिनी

1.82.185

महाशोभा महामाया महाकान्तिर्महास्मृतिः ।
महामोहा महाविद्या महाकीर्र्तिंमहारतिः

1.82.186

महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ।
महागौरी महासंपन्महाभोगविलासिनी

1.82.187

समया भक्तिदाशोका वात्सल्यरसदायिनी ।
सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी

1.82.188

भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी ।
गोपरामाभघिरामा च क्रीडारामा परेश्वरी

1.82.189

नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।
एकानैकजगद्व्याप्ता विश्वलीलाप्रकाशिनी

1.82.190

सरस्वकती शा दुर्गेशा जगदीशा जगद्विधिः ।
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा

1.82.191

विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ।
आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी

1.82.192

प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ।
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी

1.82.193

अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता ।
अक्षरापि च कूटस्था महापुरुषसंभवा

1.82.194

औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ।
शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा

1.82.195

नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता ।
प्रेमपर्यकनिलया तेजोमण्डलमध्यगा

1.82.196

कृष्णाङ्गगोपनाभेदा लीलावरणनायिका ।
सुधासिंधुसमुल्लासामृतास्यन्दविधायिनी

1.82.197

कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया ।
अचिन्तनगुणग्रामा कृष्णलीला मलापहा

1.82.198

राससिंधुशशाङ्का च रासमण्डलमण्डीनी ।
नतव्रता सिंहरीच्छा सुमीर्तिः सुखन्दिता

1.82.199

गोपीचूडामणिर्गोपीगणेड्या विरजाधिका ।
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका

1.82.200

गोपधामा सुदामांबा गोपाली गोपमोहिनी ।
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका

1.82.201

वीणादिघोषनिरता रासोत्सवविकासिनी ।
कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी

1.82.202

श्रीकृष्ण गुणनागाढ्या देवसुंदरिमोहिनी ।
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी

1.82.203

कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता ।
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका

1.82.204

प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ।
कृपाकटाक्षा बिंबोष्टी रंभा चारुनितंबिनी

1.82.205

स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ।
हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा

1.82.206

कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ।
रासचिन्ता भावचिन्ता शुद्धचन्ता महारसा

1.82.207

कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी ।
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी

1.82.208

रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका ।
शुद्धादेहिनी च श्रीरामा रसमञ्जरी

1.82.209

सुप्रभावा शुभाचारा स्वर्णदी नर्मदांबिका ।
गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः

1.82.210

निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ।
एतन्नामसहस्रं तु युग्मरूपस्य नारद

1.82.211

पठनीयं प्रयत्नेन वृन्दावनरसावहे ।
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम्

1.82.212

दारिद्रय शमनं रोगनाशनं कामदं महत् ।
पापापहं वैरिहरं राधामाधवभक्तिदम्

1.82.213

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
राधासंगसुधासिंधौ नमो नित्यविहारिणे

1.82.214

राधादेवी जगत्कर्त्री जगत्पालनतगत्परा ।
जगल्लयविधात्री च सर्वेशी सर्वसूतिका

1.82.215

तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर ।
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि

मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc