नारद पुराण · अध्याय 1.84
इति श्रीबृहन्नारदीय पुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरूपणं नाम त्र्यशीतितमो ऽध्यायः
सनत्कुमार उवाच
कलिकल्पान्तरे ब्रह्मन् ब्रह्मणो ऽव्यक्तजन्मनः ।
लोकपद्मे तपस्थस्य सृष्ट्यर्थं संबभूवतुः
विष्णुकर्णमलोद्भूतावसुरौ मधुकैटभौ ।
तौ जातमात्रौ पयसि लोकप्रलयलक्षणे
जानुमात्रे स्थितौ दृष्ट्वा ब्रह्मणं कमलस्थितम् ।
प्रवृत्तावत्तुमालक्ष्य तुष्टाव जगदंबिकाम्
ततो देवी जगत्कर्त्री शैवी शक्तिरनुत्तमा ।
नारायणाक्षिसंस्थाना निद्रा प्रीता बभूव ह
तस्या मन्त्रादिकं सर्वं कथयिष्यामि तच्छृणु ।
सारुणा क्रोधनी शान्तिश्चन्द्रालङ्कृतशेखरा
एकाक्षरीबीज मन्त्रऋषिः शक्तिरुदाहृता ।
गायत्री च भवेच्छन्दो देवता भुवनेश्वरी
षड्दिर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् ।
संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः
मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये ।
हृल्लेखां मूर्ध्नि वदने गगनां हृदयांबुजे
रक्तां करालिकां गुह्ये महोच्छुष्मां पदद्वये ।
ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषूत्तरे ऽपि च
सद्यादिह्रस्वबीजाद्यान्वस्तव्या भूतसप्रभाः ।
अङ्गानि विन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात्
ब्रह्माणं विन्यसेद्भाले गायत्र्या सह संयुतम् ।
सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत्
वागीश्वर्या समायुक्तं वामगण्डे महेश्वरम् ।
श्रिया धनपतिं न्यस्य वामकर्णाग्रके पुनः
रत्या स्मरं मुखे न्यस्य पुण्यागणपतिं न्यसेत् ।
सव्यकर्णोपरि निधाकर्णगण्डान्तरालयोः
न्यस्तव्यं वदने मूलं भूपश्चैत्रांस्ततो न्यसेत् ।
कण्ठमूले स्तनद्वन्द्वे वामांसे हृदयांबुजे
सव्यांसे पार्श्वयुगले नाभिदेशे च देशिकः ।
भालांश्च पार्श्वजठरे पार्श्वांसापरके हृदि
ब्रह्माण्याद्यास्तनौ न्यस्य विधिना प्रोक्तलक्षणाः ।
मूलेन व्यापकं देहे न्यस्य देवीं विचिन्तयेत्
उद्यद्दिवाकरनिभां तुङ्गोरोजां त्रिलोचनाम् । ।
स्मरास्यामिन्दुमुकुटां वरपाशाङ्कुशाभयाम्
रदलक्षं जपेन्मन्त्रं त्रिमध्वक्तैर्हुनेत्ततः ।
अष्टद्रव्यैर्दशांशेन ब्रह्मवृक्षसमिद्वरैः
द्राक्षाखर्जूरवातादशर्करानालिकेरकम् ।
तन्दुलाज्यतिलं विप्र द्रव्याष्टकमुदाहृतम्
दद्यादर्ध्यं दिनेशाय तत्र संचिन्त्य पार्वतीम् ।
पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्द्दलैः
विलिखेत्कणिङ्क्रामध्येषड्कोणमतिसुन्दरम् ।
ततः संपूजयेत्पीठं नवशक्तिसमन्वितम्
जयाख्या विजया पश्चादजिताह्वापराजिता ।
नित्या विलासिनी गोग्धीत्यघोरा मङ्गला नव
बीजाढ्यमासनं दत्त्वा मूर्तिं तेनैव कल्पयेत् ।
तस्यां संपूजयेद्देवीमावाह्यावरणैः क्रमात्
मधेयपाग्याम्यसौम्येषु पूजयेदङ्गदेवताः ।
षट्कोणेषु यजेन्मन्त्री पश्चान्मिथुनदेवताः
इन्द्रकोणं लसद्दण्डकुण्डिकाक्षगुणाभयाम् ।
गायत्रीं पूजयेन्मत्री ब्रह्माणमपि तादृशम्
रक्षः कोणे शङ्खचक्रगदापङ्कजधारिणीम् ।
सावित्रीं पीतवसनां यजेद्विणुं च तादृशम्
वायुकोणे परश्वक्षमाला भयवरान्विताम् ।
यजेत्सरस्वतीमच्छां रुद्रं तादृशलक्षणम्
वह्निकोणे यजेद्रत्नकुंभं मणिकरण्डकम् ।
कराभ्यां बिभ्रतीं पीतां तुन्दिलं धनदायकम्
आलिङ्ग्य सव्यहस्तेन वामे तांबूलधारिणीम् ।
धनदाङ्कसमारूढां महालक्ष्मीं प्रपूजयेत्
पश्चिमे मदनं बाणपाशाङ्कुशशरासनाम् ।
धारयन्तं जपारक्तं पूजयेद्रक्तभूषणम्
सव्येन पतिमाश्लिष्य वामेनोत्पलधारिणीम् ।
पाणिना रमणाङ्कस्थां रतिं सम्यक्समर्चयेत्
ऐशान्ये पूजयेत्सम्यक् विघ्नराजं प्रियान्वितम् ।
सृणिपाशधरं कान्तं वराङ्गासृक्कलाङ्गुलिम्
माध्वीपूर्णकपालाढ्यं विघ्नराजं दिगंबरम् ।
पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम्
सिंदूरसदृशाकारामुद्दाममदविभ्रमाम् ।
धृतरक्तोत्पलामन्यपाणिना तु ध्वजस्पृशाम्
आश्लिष्टकान्तामरुणां पुष्टिमर्चेद्दिगंबराम् ।
कर्णिकायां निधी पूज्यौ षट्कोणस्याथ पार्श्वयोः
अङ्गानि केसरेष्वेताः पश्चात्पत्रेषु पूजयेत् ।
अनङ्गकुसुमा पश्चाद्द्वितीयानङ्गमेखला
अनङ्गगमना तद्वदनङ्गमदनातुरा ।
भुवनपाला गगनवेगा षष्ठी चैव ततः परम्
शशिलेखा गगनलेखा चेत्यष्टौ यत्र शक्तयः ।
खड्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः
पद्माद्बहिः समभ्यर्च्याः शक्तयः परिचारिकाः ।
प्रथमानङ्गद्वयास्यादनङ्गमदना ततः
मदनातुरा भवनवेगा ततो भुवनपालिका ।
स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला
चषकं तालवृन्तं च तांबूलं छत्रमुज्ज्वलम् ।
चामरे चांशुकं पुष्पं बिभ्राणाः करपङ्कजैः
सर्वाभरणसंदीप्तान् लोकपालान्बहिर्यजेत् ।
वज्रादीन्यपि तद्बाह्ये देवीमित्थं प्रपूजयेत्
मन्त्री त्रिमधुरोपेतैर्हुत्वाश्वत्थसमिद्वरैः ।
ब्राह्मणान्वशयेच्छीघ्रं पार्थिवान्पद्महोमतः
पलाशपुष्पैस्तत्पत्नीं मन्त्रिणः कुसुदैरपि ।
पञ्चविंशतिधा जप्तैर्जलैः स्नानं दिने दिने
आत्मानमभिषिञ्चेद्यः सर्वसौभाग्यवान्भवेत् ।
पञ्चविंशतिधा जप्तं जलं प्रातः पिबेन्नरः
अवाप्य महतीं प्रज्ञां कवीनामग्रणीर्भवेत् ।
कर्पूरागरुसंयुक्तकुङ्कुमं साधु साधितम्
गृहीत्वा तिलकं कुर्याद्राजवश्यमनुत्तमम् ।
शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम्
जप्तां प्रतिष्ठितप्राणां भक्षयेद्रविवासरे ।
वशं नयति राजानं नारीं वा नरमेव च
कण्ठमात्रोदके स्थित्वा वीक्ष्य तोयोद्गतं रविम् ।
त्रिसहस्रं जपेन्मन्त्रं कन्यामिष्टां लभेत्ततः
अन्नं तन्मन्त्रितं मन्त्री भुञ्जीत श्रीप्रसिद्धये ।
लिखितां भस्मना मायां ससाध्यां फलकादिषु
तत्कालं दर्शयेद्यन्त्रं सुखं सूयेत गर्भिणी ।
भुवनेशीयमाख्याता सहस्रभुजसंभवा
भुक्तिमुक्तिप्रदा नॄणां स्मर्तृआणां द्विजसत्तम ।
ततः कल्पान्तरे विप्र कदाचिन्महिषासुरः
बभूव लोकपालांस्तु जित्वा भुङ्क्ते जगत्त्रयम् ।
ततस्त्पीडिता देवा वैकुण्ठं शरणं ययुः
ततो देवी महालक्ष्मीश्चक्राद्याङ्गोत्थतेजसा ।
श्रीर्बभूवमुनिश्रेष्ठ मूर्ता व्याप्तजगत्त्रया
स्वयं सा महिषादींस्तु निहत्य जगदीश्वरी ।
अरविन्दवनं प्राप्ता भजतामिष्टदायिनी
तस्याः समर्चनं वक्ष्ये संक्षेपेण शृणु द्विज ।
मृत्युक्रोधेन गुरुणा बिन्दुभूषितमस्तका
बीजमन्त्रः श्रियः प्रोक्तो भजतामिष्टदायकः ।
ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता
षड्दीर्घयुक्तबीजेन कुर्यादङ्गानि षट् क्रमात् ।
ततो ध्यायेज्जगद्वेद्यां श्रियं संपत्तिदायिनीम्
काञ्चनाभां गजैः श्वेतैश्चतुर्भिः स्वकरोद्धृतैः ।
हिरण्मयामृतघटैः सिच्यमानां सरोजगाम्
वराभयाब्जस्रग्धस्तां क्षौमवस्त्रां किरीटिनीम् ।
सिद्धलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तथा
सुगन्धकुसुमैरिष्ट्वा कमलैर्मधुरप्लुतैः ।
महालक्ष्म्युदिते पीठे मूर्तिं मूलेन कल्पयेत्
यजेत्पूर्ववदङ्गानि दिग्दलेष्वर्चयेत्ततः ।
वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम्
हिमपीततमालेन्द्रनीलाभान्पीतवाससः ।
शङ्खचक्रगदापद्मधारिणस्तांश्चतुर्भुजान्
विदिगन्तेषु पत्रेषु दमकादीन्यजेद्गजान् ।
दमकं पुण्डरीकं च गुग्गुलं च कुरण्टकम्
यजेच्छङ्खनिधिं देव्या दक्षिणे प्रमदान्वितम् ।
मुक्तामाणिक्यसंकाशौ किञ्चित्स्मितमुखांबुजौ
अन्योन्यालिङ्गनपरौ शङ्खपङ्कजधारिणौ ।
विगलद्रत्नवर्षाभ्यां शङ्खभ्या मूर्ध्नि लाञ्छितौ
तुन्दिलं कंबुकनिधिं वसुधारां घनस्तनीम् ।
वामतः पङ्कजनिधिं प्रियया सहितं यजेत्
सिंदूराभौ भुजश्लिष्टौ रक्तपद्मोत्पलान्वितौ ।
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लाञ्छितौ
तुन्दिलं पङ्कजनिधिं तत्त्वां वसुमतीमपि ।
दलाग्रेषु यजेदेताबलाक्याद्याः समन्ततः
बलाकी विमला चैव कमला वनमालिका ।
विभीषिका मालिका च शाङ्करी वसुमालिका
पङ्कजद्वयधारिण्यो मुक्ताहारसमप्रभाः ।
लोकेशान्पूजयेदन्ते वज्राद्यास्त्राणि तद्बहिः
इत्थं यो भजते देवीं विधिना साधकोत्तमः ।
धनधान्यसमृद्धः स्याच्छ्रियमाप्नोत्यनिन्दिताम्
वक्षःप्रमाणसलिले स्थित्वा मन्त्रमिमं जपेत् ।
त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः
विष्णुगेहस्थबिल्वस्य मूले लक्षत्रयं जपेत् ।
साधको यः स लभते वाञ्छितं धनसंचयम्
अशोकवह्नावाज्याक्तैस्तण्डुलैर्वशयेज्जगत् ।
होमेनखादिरे वह्नौ तण्डुलेर्मधुरोक्षितैः
राजा वश्यो भवेच्छीघ्रं महालक्ष्मीश्च वर्द्धते ।
बिल्वच्छायामधिवसन्बिल्वमिश्रहविष्यभुक्
संवत्सरत्रयं हुत्वा तत्फलैरथवांबुजैः ।
साधकेन्द्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम्
अथ कल्पान्तरे ब्रह्मन्देवराज्यविलुंपकौ ।
जातौ शुभनिशुंभौ द्वावसुरौ लोककण्टकौ
ततो भ्रष्टाधिकारैस्तु शक्राद्यैः संस्तुता मुने ।
महासरस्वती देवी तदा चावततार ह
हिमालये महापुण्ये शैलोद्देशे ऽतिशोभने ।
ततः शुम्भादिकान्हत्वा दैवतैः परिपूजिता
वरं दत्त्वाविशद्देवी मानसं नाम वै सरः ।
तस्या मन्त्रं प्रवक्ष्यामि शृणुष्वावहितो मुनने
ज्ञानामृता शशधरा क्रान्तभालोपशोभिता ।
वाग्बीजं तेन चाङ्गानि कल्पयेत्साधकोत्तमः
ऋषिः सदाशिवश्चास्य छन्दो ऽनुष्टुबुदाहृतम् ।
देवता वाक्समाख्याता भजतामिष्टदायिनी
श्वेतांबरां विसश्वेतां वीणापुस्तकधारिणीम् ।
दिव्यैराभरणैर्युक्तां ध्यायेद्देवीं निरन्तराम्
महासरस्वतीपीठे मूर्तिं मूलेन कल्पयेत् ।
देवीं संपूजयेत्तस्यामङ्गाद्यावरणैः सह
आदावङ्गावृतिः पश्चादंबिकाद्याःसमीरिताः ।
द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः
चतुर्थी पञ्चमी प्रोक्ता द्वात्रिंशच्छक्तिभघिः पुनः ।
चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकनायकैः
सप्तमी पुनरेतेषामस्त्रैः स्यादष्टमावृतिः ।
एवं पूज्या जगद्धात्री श्रीमती वाग्भवाभिधा
स्थानेषु पूर्वमुक्तेषु यजेदङ्गानि साधकः ।
अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्चोक्तलक्षणा
ब्रह्माद्याश्च ततः पूज्याः कराली विकराल्युमा ।
सरस्वती श्रीर्दुर्गा च लक्ष्मीश्चैव धृतिः स्मृतिः
श्रद्धा मेधा रतिः कान्तिरार्या षोडश शक्तयः ।
खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः
विषघ्नी पुष्टयः प्रज्ञा सिनीवाली कुहूः पुनः ।
रुद्रवीर्या प्रभा नन्दा पोषणा वृद्धिदा शुभा
कालरात्रिर्महारात्रिर्भद्रकाली कपार्दिनी ।
विकृतिर्दण्डिमुण्डिन्यौ सेंदुखण्डा शिखण्डिनी
निशुम्भमथनी चण्डमुण्डविनाशिनी ।
इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी
नारी नारायणी चैव त्रिशूलिन्यपि पालिनी ।
अम्बिका ह्रदिनी चैव द्वात्रिंशच्छक्तयः सिताः
चक्रहस्ताः पिशाचास्याः संपूज्याश्चारुभूषणाः ।
पिङ्गलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च
श्रद्धा स्वाहा स्वधा भिक्षा माया संज्ञा वसुंधरा ।
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी
सरूपा बहुरूपा च स्कन्दमाता श्रुतप्रिया ।
विमला कमला पश्चादरुणी पुनरारुणी
प्रकृतिर्विकृतिः सृष्टिः स्थितिः संहृतिरेव च ।
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा
देवमाता भगवती देवकी कमलासना ।
त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी
लंबोष्ठी चोर्द्द्वकेशी च बहुशिश्ना वृकोदरी ।
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा
गगनवेगा पवनवेगा वेगा च तदनन्तरम् ।
ततो भुवनपालाख्या ततः स्यान्मदनातुरा
अनङ्गानङ्गवदना तथैवानङ्गमेखला ।
अनङ्गकुसुमा विश्वरूपा सुरभयङ्करी
अक्षोभ्या सप्तवाहिन्या वज्रारूपा शुचिव्रताः ।
वरदाख्याथ वागीशी चतुःषष्टिःसमीरिताः
चापबाणधराः सर्वा ज्वालाजिह्वा महाप्रभाः ।
दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः
सर्वाभरणसंदीप्ता पूजनीयाः प्रयत्नतः ।
लोकेशाः पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि
जपेत्षोडशलक्षं च तद्दशांशं हुनेत्सुधीः ।
आज्येन खादिरे वह्नौ ततः सिद्धो भवेन्मनुः
कमलैरयुतं हुत्वा राजानं वशमानयेत् ।
उत्पलैर्जुह्वतो नूनं महालक्ष्मीः प्रजायते
पलाशकुसुमैर्हुत्वा वत्सरेण कंविर्भवेत् ।
राजीलवणहोमेन वनितां वशमानयेत्
भूमौ भोगांस्तु भुक्त्वान्ते विष्णुलोकमवाप्नुयात् ।
वाणीबीजजपाशक्तो नात्र कार्या विचारणा
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0