नारद पुराण · अध्याय 1.80
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमच्चरित्रं नाम एकोनाशीतितमो ऽध्यायः
सूत उवाच
श्रुत्वा तु नारदो विप्राः कुमारवचनं मुनिः ।
यत्पप्रच्छ पुनस्तच्च युष्मभ्यं प्रवदाम्यहम्
कार्तवीर्यस्य कवचं तथा हनुमतो ऽपि च ।
चरितं च महत्पुण्यं श्रुत्वा भूयो ऽब्रवीद्वचः
नारद उवाच
साधु साधु मुनिश्रेष्ठ त्वयातिकरुणात्मना ।
श्रावितं चरितं पुण्यं शिवस्य च हनूमतः
तन्त्रस्यांस्य क्रमप्राप्तं कथनीयं च यत्त्वया ।
तत्प्रब्रूहि महाभाग किं पृष्ट्वान्यद्विदांवर
सनत्कुमार उवाच
अथ वक्ष्ये कृष्णमन्त्रान्भुक्तिमुक्तिफलप्रदान् ।
ब्रह्माद्या यान्समाराध्य सृष्ट्यादिकरणे क्षमाः
कामः कृष्णपदं ङतं गोविन्दं च तथाविधम् ।
गोपीजनपदं पश्चाद्वल्लभायाग्निसुंदरी
अष्टादशार्णो मन्त्रो ऽयं दुर्गाधिष्ठातृदैवतः ।
नारदो ऽस्य मुनिश्छन्दो गायत्री देवता पुनः
श्रीकृष्णः परमात्मा च कामो बीजं प्रकीर्तितम् ।
स्वाहा शक्तिर्नियोगस्तु चतुर्वर्गप्रसिद्धये
ऋषिं शिरसि वक्त्रे तु छन्दश्च हृदि देवताम् ।
गुह्ये बीजं पदोः शक्तिं न्यसेत्साधकसत्तमः
युगेवदाब्धि निगमैर्द्वाभ्यां वर्णैर्मनूद्भवैः ।
पञ्चाङ्गानि प्रविन्यस्य तत्त्वन्यासं समाचरेत्
हृदन्तिमादिकान्तार्णमपराद्यानि चात्मने ।
मत्यन्तानि च तत्वानि जीवाद्यानि न्यसेत्क्रमात्
जीवं प्राणं मतिमहॄङ्कारं मनस्तथैव च ।
शब्दं स्पर्शं रूपरसौ गन्धं श्रोत्रं त्वचं तथा
नेत्रं च रसनाङ्घ्राणं वाचं पाणिं पदेन्द्रियम् ।
पायुं शिश्नमथाकाशं वायुं वह्निं जलं महीम्
जीवं प्राणं च सर्वागे मत्यादित्रितयं हृदि ।
मूर्द्धास्यहृद्गुह्य पादेष्वथ शब्दादिकान्न्यसेत्
कर्णादिस्वस्वस्थानेषु श्रोत्रादीनीन्द्रियाणि च ।
तथा वागादीन्द्रियाणि स्वस्वस्थानषु विन्यसेत्
मूद्धस्यहृद्गुह्यपादेष्वाकाशादीन्न्यसेत्ततः ।
हृत्पुण्डरीकमर्केन्दुह्निबिंबान्यनुक्रमात्
द्विषठ्यष्टदशकलाव्याप्तानि च तथा मतः ।
भूताष्टां गाक्षिपदगैर्वर्णैः प्रग्विन्न्यसेद्धृदि
अथाकाशादिस्थलेषु वासुदेवादिकांस्ततः ।
वासुदेवः संकर्षणः प्रद्युम्नश्चानिरुद्धकः
नारायणश्च क्रमशः परमेष्ठ्यादिभिर्युताः ।
परमेष्ठिपुमाञ्च्छौ चविश्वनिवृत्तिसर्वकाः
श्वेतानिलाग्न्यंबुभूमिवर्णैः प्राग्वत्प्रविन्यसेत् ।
स्वबीजाद्यं कोपतत्वं नृसिंहं व्यापकेन च
प्राग्वद्विन्यस्य सर्वागे तत्त्वन्यासो ऽयमीरितः ।
मकाराद्या आद्यवर्णाः सर्वे स्युश्चन्द्रभूषिताः
वासुदेवादिका ज्ञेया ङेंताः साधकसत्तमैः ।
प्राणायामं ततः कृत्वा पूरकुम्भकरेचकैः
चतुर्भिः षड्भर्द्वाभ्यां च मूलमन्त्रेण मन्त्रवित् ।
केचिदाहुरिहाचार्याः प्राणायामोत्तरं पुनः
पीठन्यासं विधायाथ न्यासानन्यान्समाचरेत् ।
दशतत्त्वादि विन्यस्य वक्ष्यमाणविधानतः
मूर्तिपञ्जरनामानं पूर्वोक्तं विन्यसेद्बुधः ।
सर्वाङ्गे व्यापकं कृत्वा किरीटमनुना सुधीः
ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः ।
पञ्चाङ्गुलीषु करयोः पञ्चाङ्गं विन्यसेत्ततः
त्रिशो मूलेन मूर्द्धादिपादान्तं व्यापकं न्यसेत् ।
सकृद्व्यापय्य तारेण मन्त्रन्यासं ततश्चरेत्
शिरोललाटे भ्रूमध्ये कर्णयोश्चक्षुषोस्तथा ।
घ्राणयोर्वदने कण्ठे हृदि नाभौ तथा पुनः
कट्यां लिङ्गे जानुनोश्च पादयोर्विन्यसेत्क्रमात् ।
हृदन्तान्मन्त्रवर्णांश्च ततो मूर्ध्नि ध्रुवं न्यसेत्
पुनर्नयनयोरास्ये हृदि गुह्ये च पादयोः ।
विन्यसेद्धृदयान्तानि मनोः पञ्चपदानि च
भूयो मुन्यादिकं न्यस्य पञ्चाङ्गं पूर्ववन्न्यसेत् ।
अथ वक्ष्ये महागुह्यं सर्वन्यासोत्तमोत्तमम्
यस्य विज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः ।
अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः
यस्याराधनतो मन्त्री कृष्णसंनिध्यतां व्रजेत् ।
ताराद्याभिर्व्याहृतिभिः संपुटं विन्यसेन्मनुम्
मन्त्रेण पुटितांश्चापि प्रणवाद्यांस्ततो न्यसेत् ।
गायत्र्या पुटुतं मन्त्रं विन्यसेन्मातृकास्थले
मन्त्रेण पुटितां तां च गायत्रीं विन्यसेत्क्रमात् ।
मातृकापुटितं मूलं विन्यसेत्साधकोत्तमः
मूलेन पुटितां चैव मातृकां विन्यसेत्क्रमात् ।
तृचं न मातृकावर्णान्पूर्वं तत्तत्स्थले सुधीः
विन्यसेन्न्यासषट्कं च षोढा न्यासो ऽयमीरितः ।
अनेन न्यासवर्येण साक्षात्कृष्णसमो भवेत्
न्यासेन पुटितं दृष्ट्वा सिद्धगन्धर्वकिन्नराः ।
देवा अपि नमन्त्येनं किंपुनर्मानवा भुवि
सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः ।
देवं ध्यायन्स्वहृदये सर्वाभीष्टप्रदायकम्
उत्फुल्लकुसुमव्रातनम्रशाखैर्वरद्रुमैः ।
सस्मेयमञ्जरीवृन्दवल्लरीवेष्टितैः शुभैः
गलत्परागधूलिभिः सुरभीकृतदिङ्मुखः ।
स्मरेच्छिशिरितं वृन्दावनं मन्त्रीसमाहितः
उन्मीलन्नवकञ्जालिविगलन्मधुसंचयैः ।
लुब्धान्तः करणैर्गुञ्जद्द्विरेफपटलैः शुभम्
मरालपरभृत्कीरकपोतनिकरैर्मुहुः ।
मुखरीकृतमानृत्यन्मायूरकुलमञ्जुलम्
कालिन्द्या लोलकल्लोलविप्रुषैर्मन्दवाहिभिः ।
उन्निद्रांबुरुहव्रातरजोभिर्धूसरैः शिवैः
प्रदीपित स्मरैर्गोष्ठसुंदरीमृदुवाससाम् ।
विलोलनपरैः संसेवितं वा तैर्निरन्तरम्
स्मरेत्तदन्ते गीर्वाणभूरुहं सुमनोहरम् ।
तदधः स्वर्णवेद्यां च रत्नपीठमनुत्तमम्
रत्नकुट्टिमपीठे ऽस्मिन्नरुणं कमलं स्मरेत् ।
अष्टपत्रं च तन्मध्ये मुकुन्दं संस्मरेत्स्थितम्
फुल्लेन्दीवरकान्तं च केकिबर्हावतंसकम् ।
पीतांशुकं चन्द्रमुखं सरसीरुहनेत्रकम्
कौस्तुभोद्भासिताङ्गं च श्रीवत्सांकं सुभूषितम् ।
व्रजस्त्रीनेत्रकमलाभ्यर्चितं गोगणावृतम्
गोपवृन्दयुतं वंशीं वादयन्तं स्मरेत्सुधीः ।
एवं ध्यात्वा जपेदादावयुतद्वितयं बुधः
जुहुयादरुणांभोजैस्तद्दशांशं समाहितः ।
जपेत्पश्चान्मन्त्रसिद्ध्यै भूतलक्षं समाहितः
अरुणैः कमलैहुत्वा सर्वसिद्धीश्वरो भवेत् ।
पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः
तस्यामावाह्य चाभ्यर्चेद्गोपीजनमनोहरम् ।
मुखे वेणुं समभ्यर्च्य वनमालां च कौस्तुभम्
श्रीवत्सं च हृदि प्रार्च्य ततः पुष्पाञ्जलिं क्षिपेत् ।
ततः श्वेतां च तुलसीं शुक्लचन्दनपङ्किलाम्
रक्तां च तुलसीं रक्तञ्चदनाक्तां क्रसात्सुधीः ।
अर्पयेद्दक्षिणे जद्वयमश्वारियुग्मकम्
हयमारद्वयेनैव हृदि मूर्ध्नि तथा पुनः ।
पद्मद्वयं च विधिवत्ततः शीर्षे समर्पयेत्
तुलसीद्वयमंभोजद्वयमश्वारियुग्मकम् ।
ततः सर्वाणि पुष्पाणि सर्वाङ्गेषु समर्पयेत्
दक्षिणे वासुदेवाख्यं स्वच्छं चैतन्यमव्ययम् ।
वामे च रुक्मिणीं तदून्नित्यां रक्तां रजोगुणाम्
एवं संपूज्य गोपालं कुर्यादावरणार्चनम् ।
यजेद्दामसुदामौ च वसुदामं च किङ्किणीम्
पूर्वाद्याशासु दामाद्या ङेंनमोन्तध्रुवादिकाः ।
अग्निनैरृतिवाय्वीशकोणेषु हृदयादिकान्
दिक्ष्वस्त्राणि समभ्यर्च्य पत्रेषु महिषीर्यजेत् ।
रुक्मिणी सत्यभामा च नाग्नजित्यभिधा पुनः
सुविन्दा मित्रविन्दा च लक्ष्मणा चर्क्षजा ततः ।
सुशीला च लसद्रम्यचित्रितांबरभूषणा
ततो यजेद्दलाग्रेषु वसुदेवञ्च देवकीम् ।
नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम्
गोपानूगोपीश्च गोविन्दविलीनमतिलोचनान् ।
ज्ञानमुद्राभयकरौ पितरौ पीतपाण्डुरौ
दिव्यमाल्यांबरालेपभूषणे मातरौ पुनः ।
धारयन्त्यौ चरुं चैव पायसीं पूर्णपात्रिकाम्
अरुणश्यामले हारमणिकुं डलमण्डिते ।
बलः शङ्खेन्दुधवलो मुशलं लाङ्गलं दधत्
हालालोलो नीलवासा हलवानेककुण्डलः ।
कला या श्यामला भद्रा सुभद्रा भद्रभूषणा
वराभययुता पीतवसना रूढयौवना ।
वेणुवीणाहेमयष्टिशङ्खशृङ्गादिपाणयः
गोपा गोप्यश्च विविधप्राभृतान्नकरांबुजाः ।
मन्दारदींश्च तद्बाह्ये पूजयेत्कल्पपादपान्
मन्दारश्च तथा संतानको वै पारिजातकः ।
कल्पद्रुमस्ततः पश्चाद्ध्वरिचन्दनसंज्ञकः
मध्ये दिक्षु समभ्यर्च्य बहिः शक्रादिकान्यजेत् ।
तदस्त्राणि च संपूज्य यजेत्कृष्णाष्टकेन च
कृष्णं च वासुदेवं च देवकीनन्दनं तथा ।
नारायणं यदुश्रेष्ठं वार्ष्णेयं धर्मपालकम्
असुराक्रान्तभूभारहारिणं पूजयेत्ततः ।
एभिरावरणैः पूजा कर्तव्यासुखैरिणः
संसारसागरोत्थीर्त्यै सर्वकामाप्तये बुधः ।
एवं पूजादिभिः सिद्धा भवद्वैश्रवणो यमः
त्रिकालपूजनं चास्य वक्ष्ये सर्वार्थसिद्धिदम् ।
श्रीमदुद्यानसंवीतिहेमभूरत्नमण्डपे
लसत्कल्पद्रुमाधस्थरत्नाब्जपीठसंस्थितम् ।
सुत्रामरत्नसंकाशं गुडस्निग्धालकं शिशुम्
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलं सुघोणधरमद्भुतस्मितमुखांवुतं सुन्दरम् ।
स्फुरद्विमलरत्नयुक्कनकसूत्रनद्ध दधत्सुवर्णपरिमण्डितं सुभगपैण्डरीकं नखम्
समुद्धूसरोरस्थले धेनुधूल्या सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् ।
कटीलस्थले चारुजङ्घान्तयुग्मं पिनद्धं क्वणत्किङ्किणीजालदाम्ना
हसन्तं हसद्वन्धुजीवप्रसूनप्रभापाणिपादांबुजोदारकान्त्या ।
दधानं करो दक्षिणे पायसान्न सुहैयङ्गवीनं तथा वामहस्ते
लसद्गोपगोपीगवां वृन्दमध्ये स्थितं वासवाद्यैः सुरैरर्चितान्ध्रिम् ।
महाभारभूतामरारातियूथांस्ततः पूतनादीन्निहॄन्तुं प्रवृत्तम्
एवं ध्यात्वार्च्चयेद्देवं पूर्ववत्स्थिरमानसः ।
दध्ना गुडेन नैवेद्यं दत्वा दशशतं जपेत्
मध्यन्दिने यजेदेवं विशिष्यरूपधारिणम् ।
नारदाद्यैर्मुनिगणैः सुरवृन्दैश्च पूजितम्
लसद्गोपगोपीगवां वृन्दमध्यस्तितं सांद्रमेघप्रभंसुंन्दराङ्गम् ।
शिखण्डिच्छदापीडमब्जायताक्षं लसञ्चिल्लिकं पूर्णचद्राननं च
चलत्कुण्डलोल्लासिगण्डस्थलश्रीभरं सुन्दरं मन्दहासं सुनासम् ।
सुकार्तस्वराभांबरं दिव्यभूषं क्वणत्किङ्किणीजालमत्तानुलेपम्
वेणुं धमन्तं स्वकरे दधानं सव्ये दरं यष्टिमुदारवेषम् ।
दक्षे तथैवेप्सितदानदक्षं ध्यात्वार्चयेन्नन्दजमिन्दिराप्त्यै
एवं ध्यात्वार्चयेत्कृष्णं पूर्ववद्वैष्णवोत्तमः ।
अपूपपायसान्नाद्यैर्नैवैद्यं परिकल्पयेत्
हुत्वा चाष्टत्तरशतं पयो ऽनैः सर्पिषाप्लुतैः ।
स्वस्वदिक्षु बलिं दद्याद्दिशेदाचमनं ततः
अष्ट्त्तरसहस्रं च प्रजपेन्मन्त्रमुत्तमम् ।
अह्नो मध्ये यजेदेवं यः कृष्णं वैष्णवोत्तमः
देवाः सर्वे नमस्यन्ति लोकानां वल्लभो नरः ।
मेधायुःश्रीकान्तियुक्तः पुत्रैः पौत्रैश्च वर्द्धते
तृतीयकालपूजायामस्ति कालविकल्पना ।
सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः
दशाक्षरेण चेद्रात्रौ सायाह्ने ऽष्टादशार्णतः ।
उभयीमुभयेनैव कुर्यादित्यपरे जगुः
सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते ।
अष्टसाहस्रसंख्यातैर्भवनैरुपमण्डिते
हंससारससंकीर्णकमलोत्पलशालिभिः ।
सरोभिर्नीलांभोभिः परीते भवनोत्तमे
उद्यत्प्रद्योतनोद्योतद्युतौ श्रीमणिमण्डले ।
हेमांभोजासनासीनं कृष्णं त्रैलोक्यमोहनम्
मुनिवृन्दैः परिवृतमात्मतत्त्वविनिर्णये ।
तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम्
उन्निद्रेदीवरश्यामं पद्मपत्रायतेक्षणम् ।
स्निग्धं कुन्तलसंभिन्नकिरीटवनमालिनम्
चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभं सुमनोहरम्
काश्मीरकपिशोरस्कं पीतकौशेयवाससम् ।
हारकेयूरकटककटिसूत्रैरलङ्कृतम्
हृतविश्वंभराभूरिभारं मुदितमानसम् ।
शङ्खचक्रगदापद्मराजद्भुजचतुष्टयम्
एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृत्तिः ।
द्वितीया महिषीभिस्तु तृतीयायां समर्चयेत्
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ।
विष्वक्सेनं च शैनेयं दिक्ष्वग्रे विनतासुतम्
लोकपालैश्च वज्राद्यैः पूजयेद्वैष्णवोत्तमः ।
एवं संपूज्य विधिवत्पायसं विनिवेदयेत्
तर्पयित्वा खण्डमिश्रदुग्धबुद्ध्या जलैरिह ।
जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमम्
पूजासु होमं सर्वासु कुर्यान्मध्यन्दिने ऽथवा ।
आसनादर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः
समर्थात्मानमुद्वास्य स्वीयहृत्सरसीरुहे ।
विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत्
सायाह्ने वासुदेवं यो नित्यमेवं समर्चयेत् ।
सर्वान्कामानवाप्यान्ते स याति परमां गतिम्
रात्रौ चेन्मदनाक्रान्तचेतसं नन्दनन्दनम् ।
यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम्
विकसत्कुन्दकह्लारमल्लिकाकुसुमोद्गतैः ।
रजोभिर्धूसरैर्मन्दमारुतैः शिशिरीकृते
उन्मीलन्नवकैरवालिविगलन्माध्वीकलब्धान्तरं भ्राम्यन्मत्तमिलिन्दगीतललिते सन्मल्लिकोज्जृम्भिते ।
पीयूषांशुकरैर्विशालितहरित्प्रान्ते स्मरोद्दीपने कालिन्दीपुलिनाङ्गणे स्मितमुखं वेणुं रणन्तं मुहुः
अन्तस्तोयलसन्नवांबुदघटासंघट्टकारत्विषं चञ्चञ्चिल्लिकमंबुजायतदृशं बिम्बाधरं सुन्दरम् ।
मायूरच्छदबद्धमौलिविलसद्धंमिल्लमालं चलं दीप्यत्कुण्डलरत्नरश्मिविलसद्गण्डद्वयोद्बासितम्
काञ्चीनूपुरहारकङ्कणलसत्केयूरभूषान्वितं गोपीनां द्वितयां तरे सुललितं वन्यप्रसूनस्रजम् ।
अन्योन्यं विनिबद्धगोपदयितादोर्वल्लिवीतं लसद्रासक्रीडनलोलुपं मनसिजाक्रान्तं मुकुन्दं भवेत्
विविधश्रुतिभिन्नमनोज्ञतरस्वरसप्तकमूर्छनतानगणैः ।
भ्रममाणममूभिरुदारमणिस्फुटमण्डनसिंजितचारुतनुम्
इतरेतरबद्धकरप्रमदागणकल्पितरासविहारविधौ ।
मणिशङ्कुगमप्यमुना वपुषा बहुधा विहितस्वकदिव्यतनुम्
एवं ध्यात्वार्चयेन्मन्त्री स्यादङ्गैः प्रथमावृतिः ।
श्रीकामः सस्वराद्यानि कलाब्जैर्वैष्णवोत्तमः
यजेत्केशवकीर्त्यादिमिथुनानि च षोडश ।
इन्द्राद्यानपि वज्रादीन्पूजयेत्तदनन्तरम्
पृन्थु सुवृत्तं मसृणं वितस्तिमात्रोन्नतं कौ विनिखन्य शङ्कुम् ।
आक्रम्य पद्भ्यामितरेतरैस्तु हस्तैर्भ्रमो ऽयं खलु रासगोष्ठी
सपूज्यैवं च पयसा ससितो पलसर्पिषा ।
नैवेद्यमर्चयित्वा तु चषकैर्नृपसंख्यकैः
सततं पापप्ते (?) मन्त्री मिथुनेष्वर्पयेत्क्रमात् ।
विधाय पूर्ववच्छेषं सहस्रं प्रजपेन्मनुम्
स्तुत्वा नत्वा च संप्रार्थ्य पूजाशेषं समापयेत् ।
एवं यः पूजयेत्कृष्णं स सस्मृद्धेः पदं भवेत्
अणिमाद्यष्टसिद्धीनामीश्वरः स्यान्न संशयः ।
भुक्त्वेह विविधान्भोगानन्ते विष्णुपदं व्रजेत्
एवं पूजादिभिः सिद्धे मनौकाम्यानि साधयेत् ।
अष्टाविंशतिवारं वा त्रिकालं पूजयेत्सुधीः
स्वकालविहितान् भूयः परिवारांश्च तर्पयेत् ।
प्रातर्द्दध्ना गुडाक्तेन मध्याह्ने पयसा पुनः
नवनीतयुतेनाथ सायाह्ने तर्पयेत्पुनः ।
ससितोपलमिश्रेण पयसा वैष्णवोत्तमः
तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु ।
द्वितीयान्तेषु तु पुनः पूजाशेषं समापयेत्
अभ्युक्ष्यतत्प्रसादाद्भिरात्मानं प्रपबेदपः ।
तत्तृत्पस्तमथोद्वास्य तन्मयः प्रजपेन्मनुम्
अथ द्रव्याणि काम्येषु प्रोच्यन्ते तर्पणेषु च ।
तानि प्रोक्तविधानानामाश्रित्यान्यतमं भजेत्
पायसं दाधिकं चाज्यं गौडान्नं कृसरं पयः ।
दधीनि कदली मोचा चिञ्चा रजस्वला तथा
अपूपा मोदका लाजाः पृथुका नवनीतकम् ।
द्रव्यषोडशकं ह्येतत्कथितं पद्मजादिभिः
लाजान्ते पृथुकं प्राक्च समर्प्य च सितोपलम् ।
चतुःसप्ततिवारं यः प्रातरेवं प्रतर्पयेत्
ध्यात्वा कृष्णपदं मत्री मण्डलादिष्टमाप्नुयात् ।
धारोष्णपक्कपयसा नवनीतं दधीनि च
दौग्धाम्रामाज्यं मत्स्यण्डी क्षौद्रं कीलालमेव च ।
पूजयेन्नवभिर्द्रव्यैः प्रत्येकं रविसंख्यया
एवमष्टोतरशतंसंख्याकं तर्पणं पुनः ।
यः कुर्याद्वैष्णवश्रेष्ठः पूर्वोक्तं फलमाप्नुयात्
किं बहूक्तेन सर्वेष्टदायकं तर्पणं त्विदम् ।
ससितोपलधारोष्णदुग्धबुद्ध्या जलेन वै
कृष्णं प्रतपर्यन् ग्रामं व्रजन्प्राप्नोति साधकः ।
धनवस्त्राणि भोज्यं च परिवारगणैः सह
यावत्संतर्पयेन्मन्त्री तावत्संख्यं जपेन्मनुम् ।
तर्पणेनैव कार्याणि साधयेदखिलान्यपि
काम्यहोममथो वक्ष्ये साधकानां हिताय च ।
श्रीपुष्पैर्जुहुयान्मन्त्री श्रियमिच्छन्निनिन्दिताम्
साज्येनान्नेन जुहुयात्घृतान्नस्य समृद्धये ।
वन्यपुष्पैर्द्विजान् जातीपुष्पैश्च पृथिवीपतीन्
असितैः कुसुमैर्वैश्यान् शूद्रान्नीलोत्पलैस्तथा ।
वशयेल्लवणैः सर्वानंबुजैर्युवतीजनम्
गोशालासु कृतो होमः पायसेन ससर्पिषा ।
गवां शान्तिं करोत्याशु गोपालो गोकुलेश्वरः
शिक्षावेषधरं कृष्णं किङ्किणीजालशोभितम् ।
ध्यात्वा प्रतर्पयेन्मन्त्री दुग्धबुद्ध्या शुभैर्जलैः
धनं धान्यं सुतान्कीर्तिं प्रीतस्तस्मै ददाति सः ।
ब्रह्मवृक्षसमिद्भिर्वा कुशैर्वा तिलतन्दुलैः
जुहुयादयुतं मन्त्री त्रिमध्वाक्तैर्हुताशने ।
वशये द्ब्राह्मणांश्चाथ राजवृक्षसमुद्भवैः
प्रसूनैः क्षत्रियान्वैश्यान्कुरण्डकुसुमैस्तथा ।
पाटलोत्थैश्च कुसुमैर्वशयेदन्तिमान्सुधीः
श्वेतपद्मै रक्तपप्दैश्चंपकैः पाटलैः क्रमात् ।
हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्तद्वराङ्गनाः
नित्यं हयारिकुसुमौर्निशीथे त्रिमधुप्लुतैः ।
वरस्त्रीर्वशयेत्प्राज्ञः सम्यग्धृत्वा दिनाष्टकम्
अयुतत्रितयं रात्रौ सिद्धार्थैस्त्रिमधुप्लुतैः ।
प्रत्यहं जुह्वतो मासात्सुरेशो ऽपि वशीभवेत्
आहृत्य बल्लवीवस्त्राण्यारूढं नीपभूरुहे ।
स्मरेत्कृष्णं जपेद्रात्रौ सहस्रं खेन्दूहात्सुधीः
हठादाकर्षयेच्छीघ्रमुर्वशीमपि साधकः ।
बहुना किमिहोक्तेन मन्त्रो ऽयं सर्ववश्यकृत्
रहस्यं परमं चाथ वक्ष्ये मोक्षप्रदं नृणाम् ।
ध्यायेत्स्वहृत्सरसिजे देवकीनन्दनं विभुम्
श्रीमत्कुन्देन्दुगौरं सरसिजनयनं शङ्खचक्रे गदाब्जे बिभ्राणं हस्तपद्मैर्नवनलिनलसन्मालयादीप्यमानम् ।
वन्दे वेद्यं मुनीन्द्रैः कणिकमुनिलसद्दिव्यभूषाभिरामं दिव्याङ्गालेपभासं सकलभयहरं पीतवस्त्रं नुरारिम्
एवं ध्यात्वा पुमांसं स्फुटहृदयसरोजासनासीनमाद्यं सांद्रांभोदाच्छबिंबाद्भुतकनकनिभं संजपेदर्कलक्षम् ।
मन्वोरेकं द्वितारान्तरितमथः हुनेदर्कसाहस्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तैः समधुघृतसितेनाथवा पायसेन
एवं लोकेश्वराराध्यं कृष्णं स्वहृदयांबुजे ।
ध्यायन्ननुदिनं मन्त्री त्रिसहस्रं जपेन्मनुम्
सायाह्नोक्तेन विधिना संपूज्य हवनं पुनः ।
कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः
एवं यो भजते नित्यं विद्वान् गोपालनन्दनम् ।
समुत्तीर्य भवांभोधिं स याति परमं पदम्
मध्ये केणेषु बाह्येष्वनलपुरपुटस्यालिखेत्कर्णिकायां कन्दर्पं साध्ययुक्तं विवरगतषडर्णद्विषः केशरेषु ।
शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशो ऽब्जम्
भूसद्मनाभिवृतमस्रगमन्मथेन गोरोचनाविलिखितं तपनीयसूच्या ।
पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयन्त्रमखिलार्थदमेतदुक्तम्
संयातसिक्तमभिजप्तमिमं महद्भिर्धार्यं जगत्त्रयवशीकरणैकदक्षम् ।
रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम्
स्मरस्त्रिविक्रमाक्रान्तश्चाक्रीष्ट्याय हृदित्यसौ ।
षडक्षरो ऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः
क्रोडः शान्तीन्दुवह्न्याढ्यो माया बीज प्रकीर्ततम् ।
गोविन्दवह्निचन्द्राढ्यो मनुः श्रीबीजमीरितम्
आभ्यामष्टादशक्लिपः स्याद्विंशत्यक्षरो मनुः ।
शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु वा
नित्यं पूजा हरेः कार्या न तु केवलभूतले ।
एवं यो भजन्ते कृष्णं स याति परमां गतिम्
विंशार्णस्य मुनिर्ब्रह्मा गायत्री छन्द ईरितम् ।
कृष्णश्च देवता कामो बीजं शक्तिर्द्विठो बुधैः
रामाग्निवेदवेदाब्धेर्नेत्रार्णैरङ्गकल्पनम् ।
मूलेन व्यापकं कृत्वा मनुना पुटितानथ
मातृकार्णान्न्यसेत्तत्तत्स्थानेषु सुसमाहितः ।
दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत्
मन्त्रन्यासं ततः कुर्याद्देवताभावसिद्धये ।
शीर्षे ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा
नसोर्वक्रे च चिबुके कण्ठे दोर्मूलके हृदि ।
उदरे नाभिदेशे च लिङ्गे मूलसरोरुहे
कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोः क्रमात् ।
न्यसेद्धृदन्तान्मन्त्राणां सृष्टिन्यासो ऽयमीरितः
हृदये चोदरे नाभौ लिङ्गे मूलसरोरुहे ।
कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोस्तथा
मूर्ध्नि कपोले भ्रूमध्ये नेत्रयोः कर्णयोर्नसोः ।
वदने चिबुके कण्ठे दोर्मूले विन्यसेत्क्रमात्
नमोतान्मन्त्रवर्णांश्च स्थितिन्यासो ऽयमीरितः ।
पादयोर्गुल्फयोश्चैव जङ्घयोर्जानुनोस्तथा
कट्यां मूले ध्वजे नाभौ जठरे हृदये पुनः ।
दोर्मूले कण्ठदेशे च चिबुके वदने नसोः
कर्णयोर्नेत्रयोश्चैव भ्रूमध्ये निटिले तथा ।
मूर्ध्नि न्यसेन्मन्त्रवर्णान्संहाराख्यो ऽयमीरितः
पुनः सृष्टिस्थितिन्यासौ विधाय वैष्णवोत्तमः ।
मूर्तिपञ्जरनामानं विन्यसेत्पूर्ववत्ततः
पुनः षडङ्गं कृत्वाथ ध्यायेत्कृष्णं हृदंबुजे ।
द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः
अनल्पैः कल्पवृक्षैश्च परीते मणिमण्डपे ।
ज्वलद्रत्न मयस्तंभद्वारतोरणकुड्यके
फुल्लप्रफुल्लसञ्चित्रवितानालंबिमौक्तिके ।
पद्मरागस्थलीराजद्रत्नसंघैश्च मध्यतः
अनारतगलद्रत्नधाराढ्यस्वस्तस्तरोरधः ।
रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे
उद्यदादित्यसंकाशमणिसिंहासनांबुजे ।
समासीनो ऽच्युतो ध्येयो द्रुतहाटकसन्निभः
समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः ।
सर्वाङ्गसुंदरः सौम्यः सर्वाभरणभूषितः
पीतवासाः शङ्खचक्रगदांभोजलसत्करः ।
अनाहतोच्छलद्रत्नधारौघकलशं स्पृशन्
वामपादांबुजाग्रेण मुष्णता पल्लवच्छविम् ।
रुक्मिणीसत्यभामे ऽस्य मूर्ध्नि रत्नौघधारया
सिंचन्त्यौ दक्षवामस्थे स्वदोस्थकलशोत्थया ।
नाग्नजिती सुनन्दा च दिशन्त्यौ कलशौ तयोः
ताभ्यां च दक्षवामस्थमित्रविन्दासुलक्ष्मणे ।
रत्ननद्याः समुद्धृत्य रत्नपूर्णौं घटौ तयोः
जांबवती सुशीला च दिशन्त्यौ दक्षवामके ।
बहिः षोडश साहस्रसंख्याकाः परितः प्रियाः
ध्येयाः कनकरत्नौघधारायुक्कलशोज्वलाः ।
तद्बहिश्चाष्टनिधायः पूरयन्तो धनैर्धराम्
तद्बहिर्वृष्णयः सर्वे पुरोवच्च स्वरादयः ।
एवं ध्यात्वा जपेल्लक्षपञ्चकं तद्दशांशतः
अरुणैः कमलैर्हुत्वा पीठे पूर्वोदिते यजेत् ।
विलिप्य गन्धपङ्केन लिखेदष्टदलांबुजम्
कर्णिकायां च षट्कोणं ससाध्यं तत्र मन्मथम् ।
शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम्
प्राग्रक्षो ऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ।
षट्सु संधिषु षट्कर्णे केसरेषु त्रिशस्त्रिशः
विलिखेत्स्मरगायत्रीं मालामन्त्रं दलाष्टके ।
षटूषः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः
भूबिंबं च लिखेद्बाह्ये श्रीमायादिग्विदिक्ष्वपि ।
भूग्रहं चतुरस्रं स्यादष्टवज्रविभूषितम्
एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् ।
संस्कृतं धारयेद्यो वै सोर्ऽच्यते त्रिदशैरपि
स्याद्गायत्री वामदेवपुष्पबाणौ तु ङेंतिमौ ।
विद्महेधीमहियुतौ तन्नो ऽनङ्गः प्रचोदयात्
जप्या जपादौ गोपालमनूनां जनरञ्जनी ।
हृदयं कामदेवाय ङेंतं सर्वजनप्रियम्
उक्त्वा सर्वजनान्ते तु संमोहनपदं तथा ।
ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च
हृदयं मम च ब्रूयाद्वशङ्कुरुयुगं शिरः ।
प्रोक्तो मदनमन्त्रो ऽष्टचत्वारिंशद्भिरक्षरैः
जपादौ स्मरबीजाद्यो जगत्त्रयवशीकरः ।
पीठ प्राग्वत्समभ्यर्च्य मूर्ति संकल्प्य मूलतः
तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ।
आसनादिविभूषान्तं पुनर्न्यासक्रमाद्यजेत्
सृष्टिं स्थितिं षडङ्गं च किरीटं कुण्डलद्वयम् ।
शङ्खं चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ
गन्धपुष्पैः समभ्यर्च्य मूलेन वैष्णवोत्तमः ।
षट्कोणेषु षडङ्गानि दिग्दलेषु क्रमाद्यजेत्
वासुदेवादिकान्कोणेषु तु शान्त्यादिकांस्ततः ।
पत्राग्रगा महिष्यो ऽष्टौ यजेत्साधकसत्तमः
ततः षोडशसाहस्रं सकृदेवार्चयेत्प्रियाः ।
इन्द्रनीलमुकुन्दांश्च करालानन्दकच्छपान्
शङ्खपद्मौ ततः पद्मान्निधीनष्टौ क्रमाद्यजेत् ।
तद्बहिर्लोकपालांश्च वज्राद्यानपि पूजयेत्
एवं सप्तावृत्तिवृतं कृष्णमभ्यर्च्य चादरात् ।
प्रीणयेद्दधिखण्डाज्यमिश्रेण तु पयोंऽधसा
दिव्योपचारं दत्वाथ स्तुत्वा नत्वा च केशवम् ।
उद्वासयेत्स्वहृदये परिवारगणैः सह
न्यस्यात्मानं समभ्यर्च्य तन्मयो विहरेत्सुधीः ।
रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रिते रिता
एवं यो भजते मन्त्रं स समृद्धेः पदं भवेत् ।
जपहोमार्चनध्यानैर्यो मनुं प्रजपेदमुम्
तद्वेश्म पूर्यते रत्नैः रवर्णधान्यैरनारतम् ।
पृथ्वी पृथ्वी करे तस्य सर्वसस्यसमाकुला
पुत्रैर्मित्रैः सुसंपन्नः प्रयात्यन्ते परां गतिम् ।
वह्नावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतन्दुलैः
आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् ।
तस्यान्नादिसमृद्धिः स्यात्तदूशे सर्वयोषितः
रक्तांभोजैस्त्रिमध्वक्तैर्हुनेल्लक्षं समाहितः ।
श्रिया तस्यैन्द्रमैश्वर्यं तृणलेशायते ध्रुवम्
त्रिमध्वक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकम् ।
यो हुनेत्प्रत्यहं मासात्पुरोधा नृपतेर्भवेत्
एवमादिप्रयोगांश्च साधयेन्मनुनामुना ।
मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम्
स्मृतिः सद्यान्विता साक्षिर्लोहितो जनवल्लभा ।
पवनो ऽग्निप्रियान्तो ऽयं दशार्णो मन्त्र ईरितः
नारदो ऽस्य मुनिश्छन्दो विराट् कृष्णो ऽस्य देवता ।
कामो बीजं वह्निजाया शक्तिः प्रोक्ता मनीषिभिः
आचक्रं च विचक्रं च सुचक्रं तदनन्तरम् ।
त्रैलोक्यरक्षणं चक्रमसुरान्तकगचक्रकम्
एतैर्ङेठद्वयान्तैश्च चक्रैः पञ्चाङ्गकं मनोः ।
ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः
सेंदून्हृदन्तान्मन्त्रार्णान्प्रणवान्तरितान्न्यसेत् ।
दक्षाङ्गुष्ठाच्च वामाङ्गुष्ठान्तमङ्गुलिपर्वसु
सृष्टिन्यासो ऽयमुदितः स्थितिन्यासो ऽधुनोच्यते ।
न्यसेद्वामकनिष्ठादिकनिष्टान्तं स्थितौ सुधीः
वामाङ्गुष्ठान्न्यसेद्दक्षां गुष्ठान्तं संहृतौ तथा ।
संहृतिर्देषसंघातहारिणी परिकीर्तिता
विद्याप्रदश्च सृष्ट्यन्तो वर्णिनां शुद्धचेतसाम् ।
स्थित्यन्तः स्याद्गृहस्थानामेवं काम्यादिरूपतः
संहारान्ते मुनीन्द्राणां विरक्तानां च सर्वशः ।
पुनः स्थितिक्रमेणार्णान्मनोरङ्गुलिषु न्यसेत्
पुनश्चक्रैश्च पूर्वोक्तैः पञ्चागं करयोर्न्यसेत् ।
ततो मूलेन पुटितान्मातृकार्णान्सबिन्दुकान्
विन्यसेन्मातृकान्यासस्थानेषु प्रणतः सुधीः ।
ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत्
संहारसृष्टिभेदेन दशतत्त्वानि विन्यसेत् ।
नमोन्तमूलमन्त्रार्णपदायाम्यानि चात्मने
मत्यन्तानि च तत्त्वानि पृथिव्याद्यानि च क्रमात् ।
पृथ्वी जलं तथा वह्निर्वायुराकाशमेव च
अहॄङ्कारो महत्तत्वं प्रकृतिं पुरुषं परम् ।
प्रविन्यसेन्मस्तके च नेत्रयोः श्रोत्रयोर्नसोः
वदने हृदये नाभौ लिङ्गे जान्वोश्च पादयोः ।
प्रणवान्तरितान्वर्णान्हृदन्तान्विज्यसेन्मनोः
सृष्टिन्यासो ऽयमाख्यातः स्थितिन्यासं शृणु द्विज ।
हृदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः
नेत्रयोः कर्णयोर्घ्राणे वदने विन्यसेत्क्रमात् ।
पदोर्जान्वोर्लिङ्गदेशे नाभौ हृदि मुखे नसोः
कर्णयोर्नेत्रयोर्मूर्ध्नि संहाराख्यो ऽयमीरितः ।
सृष्ट्यन्तो वर्णिनांन्यासः स्थित्यन्तोगृहमेधिनाम्
यतेर्वैराग्ययुक्तस्य संहारान्तः प्रकीर्तितः ।
चतुर्द्धा वर्णिनां चैव गृहस्थानां च पञ्चधा
यतीनां च त्रिधा न्यासः प्रोक्तो ऽयं क्रमतः शुभः ।
केचिद्विरक्ते गृहगे संहारान्तं विदुर्बुधाः
विभूतिपञ्जरं न्यासं कुर्यादिष्टाप्तये ततः ।
मनोर्दशावृत्तिमयं कृष्णसांनिध्यकारकम्
आधारे च ध्वजे नाभौ हृदि कण्ठे मुखे शये ।
ऊर्वोश्च कन्धरायां च नाभौ कुक्षौ तथा हृदि
स्तनयोः पार्श्वयोः श्रोण्योर्मस्तकेवदनेतथा ।
नेत्रयोः कर्णयोर्नासापुटयोश्च कपोलयोः
एवं दक्षिणदोर्मूससंध्यग्रेष्वङ्गुलीषु च ।
ततः शिरसि तत्पूर्वाद्यांशासु स्वकलासु च
दोष्णोः सक्थ्नोः शिरोक्ष्यास्यकण्ठहृज्जठरेषु च ।
मूलाधारे लिङ्गदेशे जानुनोः पादयोस्तथा
श्रोत्रगण्डांसवक्षोजपार्श्वलिङ्गेषु विन्यसेत् ।
ऊर्वोर्जान्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात्
विभूतिपञ्जराख्यो ऽयं न्यासः सर्वार्थसिद्धिदः ।
अनेन न्यासवर्येण साक्षात्कृष्णतनुर्भवेत्
मूर्ति पञ्जरनामानं न्यासं पूर्वोदितं न्यसेत् ।
ततो दशाङ्गपञ्चाङ्गौ न्यासवर्यौं न्यसे क्रमात्
हृदि मूर्ध्नि शिखायां च सर्वाङ्गे दिक्षु पार्श्वयोः ।
कट्यां पृष्ठे तथा मूर्ध्नि विन्यसेद्वैष्णवोत्तमः
पञ्चाङ्गानि न्यसेद्भूयश्चक्रैः प्राग्वत्समाहितः ।
अन्यो ऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससंचयः
ततः किरीटमन्त्रेण व्यापकं रचयेत्सुधीः ।
वेणुबिल्वादिमुद्रांश्च दर्शयेत्साधकोत्तमः
सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः ।
अनङ्गुष्ठाश्च ऋजवः करशाखा भवन्ति चेत्
हृन्मुद्रेयं समाख्याता शिरोमुद्रा तथा भवेत् ।
अधोङ्गुष्ठा तु या मुष्टिः शिखामुद्रेयमीरिता ।
प्रसारितकराङ्गुल्योर्वर्ममुद्रेयमीरिता
नाराचमुष्ट्या धृतबाहुयुग्मः अङ्गुष्ठतर्जन्युदितो ध्वनिस्तु ।
विष्वग्विमुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च
ओष्ठे वामकराङ्गुष्टो लग्नस्तस्य कनिष्टिका ।
दक्षिणाङ्गुष्टसंसक्ता तत्कनिष्ठा प्रसारिता
तर्जनी मध्यमानामा किञ्चित्सकुञ्च्य चालिता ।
वेणुमुद्रेयमुदिता सुगुप्ता प्रेयसी हरेः ।
नोच्यन्ते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः
वामाङ्गुष्ठं समुद्रं तमपरकराङ्गुष्ठकेनाथ बद्ध्वा संपीड्याग्रं च दक्षाङ्गुलिभिरपि च तां वामहस्ताङ्गुलीभिः ।
गाढं बद्ध्वा स्वकीये हृदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनीन्द्रैः
कायेन मनसा वाचा यत्पापं समुपार्जितम् ।
मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति
ध्यानं जपस्त्रिकालार्चा कार्या पूर्वोदिता मनोः ।
सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः
एवं सिद्धे मनौ मन्त्री प्रयोगान्कर्तुमर्हति ।
उद्दण्डबाहुदोर्दंहधृतगोवर्द्धनाचलम्
अन्यहस्तागुलीव्यक्तस्वरवंशार्पिताननम् ।
ध्यायन्कृष्णं जपेन्मन्त्रं व्रजेच्छत्रं विना सुधीः
वर्षवाताशनिभ्यो ऽपि भयं तस्य न जायते ।
मोघमेधौघव्राताद्गगतेन्द्रं तं स्मरन्हुनेत्
लोणैरयुतसंख्यैः स्यादनावृष्टिर्न संशयः ।
क्रीडन्तमर्कजातीरे मज्जनस्नापनादिभिः
तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः ।
ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरतर्पणैः
वृष्टिर्भवत्यकाले ऽपि महती नात्र संशयः ।
सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः
अमुमेव स्मरन्मूर्ध्नि जपेच्छान्तिर्भवेत्क्षणात् ।
अथवा गरुडारूढं प्रद्युम्नबलसंयुतम्
निजज्वरनिष्पिष्टज्वराभिष्टुतमच्युतम् ।
ध्यात्वा मूर्ध्नि जपेन्मन्त्रं ज्वरमुक्तो भवेज्ज्वरी
ध्यात्वैवमग्नावभ्यर्च्य यथोक्तैश्चतुरङ्गुलैः ।
जुहुयादमृताखण्डैरयुतं ज्वरशान्तये
शिलीमुखविनिर्भिन्नभीष्मतापहरं हरिम् ।
ध्यात्वा जपेत्स्पृशन्नार्तं पाणिभ्यां ज्वरशान्तये
सांदीपनाय ददतं पुत्रं ध्यात्वायुतं हुनेत् ।
यथोक्तैरमृताखण्डैरपमृत्युनिवृत्तये
सपार्थं मृतपुत्रायार्पयन्तं च द्विजन्मने ।
सुतं ध्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये
पुत्रजीवफलैर्हुत्वायुतं मधुरसंप्लुतैः ।
तत्काष्ठैरेधिते वह्नौ सुतान्दीर्घायुषो लभेत्
क्षीरद्रुक्त्वाथसंपूर्णमभ्यर्च्य कलशं निशि ।
प्रातर्ज्जप्त्वायुतं नारीमभिषिञ्चेद्दिषड्दिनम्
एवं कृते तु वन्ध्यापि लभेत्पुत्रांश्चिरायुषः ।
प्रातर्वाचंयमाश्वत्थदलसंपुटकं जलम्
अष्टोत्तरशतं जप्तं मासं पुत्रार्थिनी पिबेत् ।
सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम्
जित्वा कृत्यां काशिराजप्रेषितां च निजारिणः ।
तेजसा तस्य नगरं दहॄन्तं भावयन्हरिम्
हुनेत्सप्तदिनं मन्त्री सुस्नेहाक्तैश्च सर्षपैः ।
कृत्याकर्तारमेवास्मै कुपिता नाशयेद्ध्रुवम्
बदरीद्रुमसंकीर्णे स्थितं दिव्याश्रमे शुभे ।
स्पृशन्तं करपद्माभ्यां घण्टाकर्णकलेवरम्
ध्यात्वैवं जुहुयाल्लक्षं तिलैस्त्रिमधुराप्लुतैः ।
महापापयुतो ऽप्येवं पूतो भवति तत्क्षणात्
द्यूतासक्तौ रुक्मिबलौ द्वेषयन्तं हरिं स्मरन् ।
जुहुयादिष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः
नित्यं सहस्रं सप्ताहान्मिथो विद्वेषयेदरीन् ।
वर्षन्तं गरुडारूढं ज्वलदग्निमुखैः शरैः
धावन्तं रिपुसंघातमनुधावतमच्युतम् ।
ध्यात्वा सप्तसहस्रं तु जपेन्मन्त्रमनन्यधीः
उच्चाटनं भवत्येव शत्रूणां सप्तभिर्दिनैः ।
ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम्
प्रजपेदयुतं शत्रुमुञ्चाटयति तत्क्षणात् ।
आत्मानं कंसमथनं ध्यायन्मञ्चान्निपातितम्
कंसात्मानं व्यकर्षन्तं गतासुं तं जपेन्मनुम् ।
रिपुजन्मर्क्षवृक्षोत्थसमिद्भिरयुतं निशि
जुहुयादेवमुग्रो ऽपि सपत्नो निधनं व्रजेत् ।
अथवा निंबतैलाक्तैर्हुनेधोभिरक्षजैः
अयुतं नियतो रात्रौ मारयेदचिरादरीन् ।
निशादिष्टदलव्योषकार्पासास्थिकरैर्निशि
हुनेदेरण्डतैलाक्तैः श्मशाने रिपुशान्तये ।
न शस्तं मारणं कर्म कुर्य्याञ्चेदयुतं हुनेत्
पायसैर्वा हुनेत्तावच्छान्तये शान्तमानसः ।
पारिजातहरं कृष्णं ध्यायन् लक्षं जपेन्मनुम्
सर्वत्रैव जयस्तस्य न कदापि पराजयः ।
व्याख्यामुद्राकरं कृष्णं रथस्थं भावयञ्जपेत्
पार्थे दिशन्तं गीतार्थं धर्मवृद्ध्यै सुमानवः ।
पावाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तयेहुनेत्
राष्ट्रपूर्ग्रामवस्तूनां शरीरस्यापि रक्षणे ।
विश्वरूपधर प्रोद्यद्भानुकोटिसमप्रभम्
अग्रीषोमात्मकं कृष्णं द्रुतचामीकरप्रभम् ।
अर्काग्निद्योतितास्याङ्घ्रिंप्रङ्कज दिव्यभूषणम्
नानायुधधरं प्राप्तं विश्वाकाशावकाशकम् ।
ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः
रक्तैर्वन्यप्रसूनैर्यो दिनादौ पूजयेद्धरिम् ।
दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम्
सहस्रमण्डलान्मन्त्री वशयेन्मुखरान्द्विजान् ।
जातिपुष्पैः क्षत्रियांश्च गोपवेषधरं स्मरन्
ध्यायन् क्रीडारतं कृष्णं रक्तैरश्वारिपुष्पकैः ।
वशयेद्वैश्यजातीयान् शूद्रान्नीलोत्पलैः स्मरन्
गीतनृत्यरतं श्वेतपुष्पैः साज्यैश्च तन्दुलैः ।
हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि
धारयन्वशयेत्कान्तां सापि तद्वत्पतिं ध्रुवम् ।
तांबूलं कुसुमं वासोंऽजनं चन्दनमेव च
सहस्रं मनुना जप्तं दद्याद्यस्मै नराय च ।
सो ऽचिरादेष वशगः सपुत्रपशुबान्धवः
वृन्दारण्यस्थितं ध्यायन्बल्लवीसंयुतं हरिम् ।
अपामार्गसमिद्भिस्तु हुत्वा तु वशयेज्जगत्
संप्राप्य सद्गुरोर् दीक्षां कृष्णं यो विधिनामुना ।
अर्चयेद्वैष्णवश्रेष्ठः सो ऽष्टसिद्धीश्वरो भवेत्
तस्य दर्शनमात्रेण वादिनो निष्प्रभाः स्मृताः ।
वसेत्सरस्वती वक्रे गृहे चापि सभासदः
भुक्त्वा नानाविधान्भोगानन्ते विष्णुपदं व्रजेत्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0