नारद पुराण · अध्याय 1.81
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे तृतीयपादे कृष्णमन्त्रनिरूपणं नामाशीतितमो ऽध्यायः
श्रीसनत्कुमार उवाच ।
अथ कृष्णस्य मन्त्राणां वक्ष्ये भेदान् मुनीश्वर ।
यान्समाराध्य मनुजाः साधयन्तीष्टमात्मनः
शक्तिश्रीमारपूर्वश्च श्रीशक्तिस्मरपूर्वकः ।
मारशक्तिरमापूर्वो दशार्णा मनवस्त्रयः
मुनिः स्यान्ना रदच्छन्दो गायत्री देवता पुनः ।
कृष्णो गोविन्दनामात्र सर्वकामप्रदो नृणाम्
चक्रैः पूर्ववदङ्गानि त्रयाणामपि कल्पयेत् ।
ततः किरीटमनुनाव्यापकं हि समाचरेत्
सुदर्शनस्य मनुना कुर्याद्दिग्बन्धनं तथा ।
विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम्
द्वितीये तु दशार्णोक्तं ध्यानपूजादिकं चरेत् ।
तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः
शखचक्रधनुर्बाणपाशाङ्कुशधरारुणम् ।
दोर्भ्यां धृतं धमन्तं च वेणुं कृष्णदिवाकरम्
एवं ध्यात्वा जपेन्मन्त्रान्पञ्चलक्षं पृथक् सुधीः ।
जुहुयात्तद्दशांशेन पायसेन ससर्पिषा
एवं सिद्धे मनौ मन्त्री कुर्यात्काम्यानि पूर्ववत् ।
श्रीशक्तिकामः कृष्णाय गोविन्दायाग्निसुन्दरी
रत्र्यर्णो ब्रह्मगायत्रीकृष्णा ऋष्यादयो ऽस्य तु ।
बीजैरमाब्धियुग्मार्णैः षडङ्गानि प्रकल्पयेत्
विंशत्यर्णोदितजपध्यानहोमार्चनादिकम् ।
किं बहूक्तेन मन्त्रो ऽयं सर्वाभीष्टफलप्रदः
श्रीशक्तिस्मरपूर्वोगजन्मा शक्तिरमान्तिकः ।
दशाक्षरः स एवादौ प्रोक्तः शक्तिरमायुतः
मन्त्रौ षोडशरव्यार्णौं चक्रैरङ्गानि कल्पयेत् ।
वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्गके प्रिये
पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्वलम् ।
ध्यात्वैवं प्रजपेल्लक्षदशकं तद्दशांशतः
आज्यैर्हुत्वा ततः सिद्धौ भवेतां मन्त्रनायकौ ।
सर्वकामप्रदौ सर्वसंपत्सौभगाग्यदौ नृणाम्
अष्टादशार्णः कामान्तो मनुः सुतधनप्रदः ।
नारदो ऽस्य मुनिश्छन्दो गायत्री देवता मनोः
कृष्णः कामो बीजमुक्तं शक्तिर्वह्निप्रिया मता ।
षड्वीर्याढ्येन बीजेन षडङ्गानि समाचरेत्
पाणौ पायसपक्वं च दक्षे हैयङ्गवीनकम् ।
वामे दधद्दिव्यदिगंबरो गोपीसुतो ऽवतु
ध्यात्वैवं प्रजपेन्मन्त्रं द्वात्रिंशल्लक्षमानतः ।
दशांशं जुहुयादग्नौ सिताढ्येन पयोंऽधसा
पूर्वोक्तवैष्णवे पीठे यजेदष्टादशार्णवत् ।
पद्मस्थं कृष्णमभ्यर्च्य तर्पयेत्तन्मुखांबुजे
क्षीरेण कदलीपक्कैर्दध्ना हैयङ्गवेन च ।
पुत्रार्थी तर्पयेदेवं वत्सराल्लभते सुतम्
यद्यदिच्छति तत्सर्वं तर्पणादेव सिद्ध्यति ।
वाक्कामो ङेयुतं कृष्णपदं माया ततः पगरम्
गोविन्दाय रमा पश्चाद्दशार्णं च समुद्धरेत् ।
मनुस्वरयुतौ सर्गयुक्तौ भृगुतदूर्द्धूगौ
द्वाविंशत्यक्षरो मन्त्रो वागीशत्वप्रदायकः ।
ऋषिः स्यान्नारदश्छन्दो गायत्री देवता पुनः
विद्याप्रदश्च गोपालः कामो बीजं प्रकीर्तितम् ।
शक्तिस्तु वाग्भवं विद्याप्राप्तये विनियोजना
वामोर्द्ध्वहस्ते दधतं विद्यापुस्तकमुत्तमम् ।
अक्षमालां च दक्षोर्द्ध्वस्फआटिकीं मातृकामयीम्
शब्दब्रह्म मयं वेणुमधः पाणिद्वये पुनः ।
गायत्रीगीतवसनं श्यामलं कोमलच्छविम्
बर्हावतंसं सर्वज्ञं सेवितं मुनिपुङ्गवैः ।
ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरम्
वेदलक्षं जपेन्मन्त्रं किंशुकैस्तद्दशांशतः ।
हुत्वा तु पूजयेन्मन्त्री विंशत्यर्णविधानतः
एवं यो भजते मन्त्रं भवेद्वागीश्वरस्तु सः ।
अदृष्टान्यपि शास्त्राणि तस्य गङ्गातरङ्गवत्
तारः कृष्णयुगं पश्चान्महाकृष्ण इतीरयेत् ।
सर्वज्ञ त्वंप्रशंशब्दान्ते सीदमे ऽग्निश्च मारम्
णान्ति विद्येश विद्यामाशु प्रयच्छ ततश्च मे ।
त्रयस्त्रिंशदक्षरो ऽयं महाविद्याप्रदोमनुः
नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुम् कृष्णो ऽस्य देवता ।
पादैः सर्वेण पञ्चाङ्गं कृत्वा ध्यायेत्ततो हरिम्
दिव्योद्याने विवस्वत्प्रतिममणिमये मण्डपे योगपीठे मध्ये यः सर्ववेदान्तमयसुरतरोः संनिविष्टो मुकुन्दः ।
वेदैः कल्पद्रुरूपैः शिखरिशतसमालंबिकोशैश्चतुर्भिर्न्यायैस्तर्कैपुराणैः स्मृतिभिरभिवृतस्तादृशैश्चामराद्यैः
दद्याद्बिभ्रत्कराग्रैरपि दरमुरलीपुष्पबाणेक्षुचापानक्षस्पृक्पूर्णकुंभौ स्मरललितवपुर्दिव्यभूषाङ्गरागः ।
व्याख्यां वामे वितन्वन् स्फुटरुचिरपदो वेणुना विश्वमात्रे शब्दब्रह्मोद्भवेन श्रियमरुणरुचिर्बल्लवीवल्लभो नः
एवं ध्यात्वा जपेल्लक्षं दशांशं पायसैर्हुनेत् ।
अष्टादशार्णवत्कुर्याद्यजनं चास्य मन्त्रवित्
तारो नमो भगवते नन्दपुत्राय संवदेत् ।
आनन्दवपुषे दद्यादृशार्णं तदनन्तरम्
अष्टाविंशतिवर्णो ऽयं मन्त्रः सर्वेष्टदायकः ।
नन्दपुत्रपदं ङेंतं श्यामलाङ्गपदं तथा
तथा बालवपुःकृष्णं गोविन्दं च तथा पुनः ।
दशार्णो ऽतो भवेन्मन्त्रो द्वात्रिंशदक्षरान्वितः
अनयोर्नारदऋषिश्छन्दस्तूष्णिगनुष्टुभौ ।
देवता नन्दपुत्रस्तु विनियोगो ऽखिलाप्तये
चक्रैः पञ्चाङ्गमर्चास्यादङ्गदिक्पालहेतिभिः ।
दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम्
करे दधानं देवीभ्यां श्लिष्टं संचिन्तयेद्विभुम् ।
लक्षं जपो दशांशेन जुहुयात्पायसेन तु
एताभ्यां सिद्धमन्त्राभ्यां मन्त्री कुर्याद्यथेप्सितम् ।
प्रणवः कमला माया नमो भगवते ततः
नन्दपुत्राय तत्पश्चाद्बालान्ते वपुषे पदम् ।
ऊनविंशतिवर्णो ऽयं मुनिर्ब्रह्मा समीरितः
छन्दो ऽनुष्टुप् देवता च कृष्णो बालवपुः स्वयम् ।
मन्त्रो ऽयं सर्वसंपत्तिसिद्धये सेव्यते बुधैः
तारो ह्यद्भगवानङेंतो रुक्मिणीवल्लभाय च ।
वह्निजायावधिः प्रोक्तो मन्त्रः षोडशवर्णवान्
नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवता मनोः ।
रुक्मिणीवल्लभश्चन्द्रदृग्वेदाङ्गाक्षिवर्णकैः ।
पञ्चाङ्गानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम्
तापिच्छच्छविरङ्कगां प्रियतमां स्वर्णप्रभामंबुजप्रोद्यद्दामभुजां स्ववामभुजयाश्लिष्यन्स्वचित्ताशया ।
श्लिष्यन्तीं स्वयमन्यहस्तविलत्सौवर्णवेत्रश्चिरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः
ध्यात्वैवं प्रजपेल्लक्षं रक्तैः पद्मैर्दशांशतः
त्रिमध्वक्तैर्हुनेत्पीठे पूर्वोक्ते पूजयेद्धरिम् ।
अङ्गैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः
एवं सिद्धो मनुर्दद्यात्सर्वान्कामांश्च मन्त्रिणे ।
लीलादण्डपदाब्जो ऽपि जनसंसक्तदोः पदम्
दण्डान्ते वा धरावह्निरधीशाढ्यो ऽथ लोहितः ।
मेघश्यामपदं पश्चाद्भगवान् सलिलंसदृक्
विष्णो इत्युक्त्वा ठद्वयं स्यादेकोनत्रिंशदर्णवान् ।
नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवता मनोः
लीलादण्डहरिः प्रोक्तो मन्वब्धधियुगवह्निभिः ।
वेदैः पञ्चां गकं भागैर्मन्त्रवर्णोत्थितैः क्रमात्
संमोहयंश्च निजवामकरस्थलीलादण्डेन गोपयुवतीः परसुंदरीश्च ।
दिश्यन्निजप्रियसखांसगन्दक्षहस्तो देवश्रियं निहतकंस उरुक्रमो नः
लक्षं जपो दशांशेन जुहुयात्तिलतण्डुलैः ।
त्रिमध्वक्तैस्ततो ऽभ्यर्चेदङ्गं दिक्पालहेतिभिः
लीलादण्ड हरिं यो वै भजते नित्यमादरात् ।
स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा
सद्यारूढा स्मृतिस्तोयं केशवाढ्यधरायुगम् ।
भयाग्निवल्लभामन्त्रः सप्तार्णः सर्वसिद्धिदः
ऋषिः स्यान्नारदश्छन्दो उष्णिग्गोवल्लमस्य तु ।
देवतापूर्ववच्चक्रैः पञ्चाङ्गानि तु कल्पयेत्
ध्येयो हरिः सकपिलागणमध्यसंस्थस्ता आह्वयन्दधद्दक्षिणदोस्थवेणुम् ।
पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः
सप्तलक्षं जपेन्मन्त्रं दशांशं जुहुयात्ततः ।
गोदुग्धैः पूजयेत्पीठे स्यादङ्गैः प्रथमावृतिः
सुवर्णपिङ्गलां गौरपिङ्गलां रक्तपिङ्गलाम् ।
गुडपिङ्गां बभ्रुवर्णां चोत्तमां कपिलां तथा
चतुष्कपिङ्गलां पीतपिङ्गलां चोत्तमां शुभाम् ।
गोगणाष्टकमभ्यर्च्य लोकेशानुयुधैर्युतान्
संपूज्यैवं मनौ सिद्धे कुर्यात्काम्यानि मन्त्रवित् ।
अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत्
पक्षात्सगोगणो मुक्तो दशार्णे चाप्ययं विधिः ।
तारो हृद्भगवान् ङेंतः श्रीगोविन्दस्तथा भवेत्
द्वादशार्णो मनुः प्रोक्तो नारदो ऽस्य मुनिर्मतः ।
छन्दः प्रोक्तं च गायत्री श्रीगोविन्दो ऽस्य देवता ।
चन्द्राक्षियुगभूतार्णैः सर्वैः पञ्चाङ्गकल्पनम्
ध्यायेत्कल्पद्रुमूलाश्रितमणिविलसद्दिव्यसिंहासनस्थं मेघश्यामं पिशङ्गांशुकमतिसुभगं शङ्खरेत्रे कराभ्याम्
बिभ्राणं गोसहस्रैर्वृतममरपतिं प्रौढहस्तैककुंभप्रश्चोतत्सौधधारास्नपितमभिनवांभोजपत्राभनेत्रम्
रविलक्षं जपेन्मन्त्रं दुग्धैर्हुत्वा दशांशतः ।
यजेच्च पूर्ववद्गोष्ठस्थितं वा प्रतिमादिषु
पूर्वोक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।
तत्रावाह्य यजेत्कृष्णं गुरुपूजनपूर्वकम्
रुक्मिणीं सत्यभामां च पार्श्वयोरिन्द्रमग्रतः ।
पृष्ठतः सुरभिं चेष्ट्वा केसरेष्वङ्गपूजनम्
कालिं द्याद्या महिष्यो ऽष्टौ वसुपत्रेषु संस्थिताः ।
पीठकोणेषु बद्ध्वादिकिङ्कणीं च तथा पुनः
दामानि पृष्ठयोर्वेणुं पुरः श्रीवत्सकौस्तुभौ ।
अग्रतो वनमासादिर्दिक्ष्वष्टसु तथा स्थिताः
पाञ्चजन्यं गदा चक्रं वसुदेवश्च देवकी ।
नन्दगोपो यशोदा च सगोगोपालगोपिकाः
इन्द्राद्याश्च स्थिता बाह्ये वज्राद्याश्च ततः परम् ।
कुमुदः कुमुदाक्षश्च पुण्डरीको ऽथ वामनः
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्टितः ।
विष्वक्सेनश्च संपूज्यः स्वात्मा चार्च्यस्ततः परम्
एककालं त्रिकालं वा यो गोविन्दं यजेन्नरः ।
स चिरायुर्निरातङ्को धनधान्यपतिर्भवेत्
स्मृतिः सद्यान्विता चक्री दक्षकर्णयुतोधरा ।
नाथाय हृदयान्तो ऽयं वसुवर्णो महामनुः
मुनिर्ब्रह्मास्य गायत्री छन्दः कृष्णो ऽस्य देवता ।
वर्णद्वन्द्वैश्च सर्वेण पञ्चाङ्गान्यस्य कल्पयेत्
पञ्चवर्षमतिलोलमङ्गणे धावमानमतिचञ्चलेक्षणम् ।
किङ्किणीवलयहारनूपुरै रञ्जितं नमत गोपबालकम्
एवं ध्यात्वा जपेदष्टलक्षं मन्त्री दशांशतः ।
ब्रह्मवृक्षसमिद्भिश्च जुहुयात्पायसेन वा
प्रागुक्ते वैष्णवे पीठे मूर्तिं संकल्प्य मूलतः ।
तत्रावाह्यार्चयेत्कृष्णं मन्त्री वै स्थिरमानसः
केसरेषु चतुर्दिक्षु विदिक्ष्वङ्गानि पूजयेत् ।
वासुदेवं बलं दिक्षु प्रद्युम्नमनिरुद्धकम्
विदिक्षु रुक्मिणीसत्यभामे वै लक्ष्यणर्क्षजे ।
लोकेशान्सायुधान्बाह्ये एवं सिद्धो भवेन्मनुः
तारः श्रीभुवनाकामो ङेंतं श्रीकृष्णमीरयेत् ।
श्रीगोविन्दं ततः प्रोच्य गोपीजनपदं ततः
वल्लभाय ततः पद्मात्रयं तत्वाक्षरो मनुः ।
मुन्यादिकं च पूर्वोक्तं सिद्धगोपालकं स्मरेत्
माधवीमण्डपासीनौ गरुडेनाभिपालितौ ।
दिव्यक्रीडासु निरतौ रामकृष्णौ स्मरन् जपेत्
पूजनं पूर्ववच्चास्य कर्तव्यं वैष्णवोत्तमैः ।
चक्री मुनिस्वरोपेतः सर्गी चैकाक्षरो मनुः
कृष्णेति द्व्यक्षरः प्रोक्तः कामादिः स्यात्त्रिवर्णकः ।
सैव ङेंतो युगार्णः स्यात्कृष्णाय नम इत्यपि
पञ्चाक्षरश्च कृष्णाय कामरुद्धस्तथा परः ।
गोपालायाग्निजायान्तो रसवर्णः प्रकीर्तितः
कामः कृष्णपदं ङेंतं वह्निजायान्तकः परः ।
कृष्णगोविन्दकौ ङेंतौ सप्तार्णः सर्वसिद्धिदः
श्रीशक्तिकामाः कृष्णाय कामः सप्ताक्षरः परः ।
कृष्णगोविन्दकौ ङेंतौ हृदन्तो ऽन्यो नवाक्षरः
ङेंतौ च कृष्णगोविन्दौ तथा कामः पुटः परः ।
कामः शार्ङ्गी धरासंस्थो मन्विन्द्वाढ्यश्च मन्मथः
श्यामलाङ्गाय हृदयं दशार्णः सर्वसिद्धिदः ।
बालान्ते वपुषे कृष्णायाग्निजायान्तिमो ऽपरः
द्विठान्ते बालवपुषे कामः कृष्णाय संवदेत् ।
ततो ध्यायन्स्वहृदये गोपीजनमनोहरम्
श्रीवृन्दाविपिनप्रतोलिषु नमत्संफुल्लवल्लीततिष्वन्तर्जालविघट्टैनः सुरभिणा वातेन संसेविते ।
कालिन्दीपुलिने विहारिणमथो राधैकजीवातुकं वन्दे नन्दकिशोरमिन्दुवदनं स्निग्धांबुदाडंबरम्
पूर्वाक्तवर्त्मना पूजा ज्ञेया ह्येषां मुनीश्वर ।
देवकीसुतवर्णान्ते गोविन्दपदमुच्चरेत्
वासुदेवपदं प्रोच्य संबृद्ध्यन्तं जगत्पतिंम् ।
देहि मे तनयं पश्चात्कृष्ण त्वामहमीरयेत्
शरणं गत इत्यन्तो मन्त्रो द्वात्रिंशदक्षरः ।
नारदो ऽस्य मुनिश्छन्दो गायत्री चाप्यनुष्टुभम् ।
देवः सुतप्रदः कृष्णः पादैः सर्वेण चाङ्गकम्
विजयेन युतो रथस्थितः प्रसमानीय समुद्रमध्यतः ।
प्रददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः
लक्षं जपो ऽयुतं होमस्तलैर्मधुरसंप्लुतैः ।
अर्चा पूर्वोदिते पीठे अङ्गलोकेश्वरायुधैः
एवं सिद्धे मनौ मन्त्री वन्ध्यायामपि पुत्रवान् ।
तारो माया ततः सांतसेंदुष्वान्तश्च सर्ववान्
सो ऽहं वह्निप्रियान्तो ऽयं मन्त्रो वस्वक्षरः परः ।
पञ्चब्रह्मात्मकस्यास्य मन्त्रस्य मुनि सत्तमः
ऋषिर्ब्रह्मा च परमा गायत्रीछन्द ईरितम् ।
परञ्ज्योतिः परं ब्रह्म देवता परिकीर्तितम्
प्रणवो बीजमाख्यातं स्वाहा शक्तिरुदाहृता ।
स्वाहेति हृदयं प्रोक्तं सो ऽहं वेति शिरो मतम्
हंसश्चेति शिखा प्रोक्ता हृल्लेखा कवचं स्मृतम् ।
प्रणवो नेत्रमाख्यातमस्त्रं हरिहरेति च
स ब्रह्मा स शिवो विप्र स हरिः सैव देवराट् ।
स सर्वरूपः सर्वाख्यः सो ऽक्षरः परमः स्वराट्
एवं ध्यात्वा जपेदष्टलक्षहोमो दशांशतः ।
पूजाप्रणवपीठे ऽस्य सांगावरणकैर्मता
एवं सिद्धे मनौ ज्ञानं साधकेन्द्रस्य नारद ।
जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम्
कामो ङेंतो हृषीकेशो हृदयान्तो गजाक्षरः ।
ऋषिर्ब्रह्मास्य गायत्री छन्दो गायत्रमीरितम्
देवता तु हृषीकेशो विनियोगो ऽखिलाप्तये ।
कामो बीजं तथायेति शक्तिरस्य ह्युदाहृता
बीजेनैव षडङ्गानि कृत्वा ध्यानं समाचरेत् ।
पुरुषोत्तममन्त्रोक्तं सर्वं वास्य प्रकीर्तितम्
लक्षं जपो ऽयुतं होमो घृतेनैव प्रकीर्तितः ।
तर्पणं सर्वकामाप्त्यै प्रोक्तं संमोहिनीसुमैः
श्रीबीजं शक्तिरापेति बीजेनैव षडङ्कस्तथा ।
त्रैलोक्यमोहनः शब्दो नमोंऽतो मनुरीरितः
ऋषिर्ब्रह्मा च गायत्री छन्दः श्रीधरदेवता ।
श्रीबीजं शक्तिरापेति बीजेनैव षडङ्गकम्
पुरुषोत्तमवद्ध्यानपूजादिकमिहोदितः ।
लक्षं जपस्तथा होम आज्येनैव दशांशतः
सुगन्धश्वेतपुष्पैस्तु पूजां होमादिकं चरेत् ।
एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम्
अच्युतानन्तगोविन्दपदं ङेंतं नमोन्तिमम् ।
मन्त्रो ऽस्य शौनकऋषिर्विराट् छन्दः प्रकीर्तितम्
एषां पराशरव्यासनारदा ऋषयः स्मृताः ।
विराट् छन्दः समाख्यातं परब्रह्मात्मको हरिः
देवताबीजशक्ती तु पूर्वोक्ते साधकैर्मते ।
शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम्
सर्वैरप्यायुधैर्युक्तं गरुडोपरि संस्थितम् ।
सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम्
श्रीभूमिसहितं देवमुदयादित्यसन्निभम् ।
प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम्
सर्वलोकस्य रक्षार्थमनन्तं नित्यमेव हि ।
अभयं वरदं देवं प्रयच्छन्तं मुदान्वितम्
एवं ध्यात्वार् चयेत्पीठे वैष्णवे सुसमाहितः ।
आद्यावरणसंगैः स्याच्चक्रशङ्खगदासिभिः
मुशलाढ्यधनुः पाशाङ्कुशैः प्रोक्तं द्वितीयकम् ।
सनकादिकशाक्तेयव्यासनारदशौनकैः
तृतीयं लोकपालैस्तु चतुर्थं परिकीर्तितम् ।
लक्षं जपो दशांशेन घृतेन हवनं स्मृतम्
एवं सिद्धे मनौ मन्त्री प्रयोगानप्युपाचरेत् ।
श्रीवृक्षमूले देवेशं ध्यायन्वैरोगिणं स्मरन्
स्पृष्ट्वा जप्त्वायुतं साध्यं स्मृत्वा वा मनसा द्विज ।
रोगिणां रोगनिर्मुक्तिं कुर्यान्मन्त्री तु मण्डलात्
कन्यार्थी जुहुयाल्लाजैर्बिल्वैश्चापि धनाप्तये ।
वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत्
रविवारे जले स्थित्वा नाभिमात्रे जपेत्तु यः ।
अष्टोत्तरसहस्रं वै स ज्वरं नाशयेद् ध्रुवम्
विवाहार्थं जपेन्मासं शशिमण्डलमध्यगम् ।
ध्यात्वा कृष्णं लभेत्कन्यां वाञ्छितां चापि नारद
वसुदेवपदं प्रोच्य निगडच्छेदशब्दतः ।
वासुदेवाय वर्मास्त्रे स्वाहान्तो मनुरीरितः
नारदो ऽस्य ऋषिश्छन्दो गायत्री कृष्णदेवता ।
वर्म बीजं शिरः शक्तिरन्यत्सर्वं दशार्णवत्
बालः पवनदीर्घैदुयुक्तो झिण्टीशयुर्जलम् ।
अत्रिर्व्यासाय हृदयं मनुरष्टाक्षरो ऽवतु
ब्राह्मानुष्टुप् मुनिश्छन्दो देवः सत्यवतीसुतः ।
आद्यं बीजं नमः शक्तिदीर्घाढ्यो नादिनाङ्गकम्
व्याख्यामुद्रिकया लसत्करतलं सद्योगपीठस्थितं वामे जानुतले दधानमपरं हस्तं सुविद्यानिधिम् ।
विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहाङ्गद्युतिं पाराशर्य्यमतीव पुण्यचरितं व्यासं स्मरेत्सिद्धये
जपेदष्टसहस्राणि पायसैर्हेममाचरेत् ।
पूर्वोक्तपीठे व्यासस्य पूर्वमङ्गानि पूजयेत्
प्राच्यादिषु यजेत्पैलं वैशंपायनजैमिनी ।
सुमंप्तुं कोणभागेषु श्रीशुकं रोमहर्षणम्
उग्रश्रवसमन्यांश्च मुनीन्सेंद्रादिकाययुधान् ।
एवं सिद्धमनुर्मन्त्री कवित्वं शोभनाः प्रजाः
व्याख्यानशक्तिं कीर्तिं च लभते संपदां चयम् ।
नृसिंहो माधवो दृष्टो लोहितो निगमादिमः
कृशानुजाया पञ्चार्णो मनुर्विषहरः परः ।
अनन्तपङ्क्तिपक्षीन्द्रा मुनिश्छन्दः सुरा मताः
तारवह्निप्रिये बीजशक्ती मन्त्रस्य कीर्तिते ।
ज्वलज्वल महामन्त्री स्वाहा हृदयमीरितम्
गरुडेति पदस्यान्ते चूडाननशुचिप्रिया ।
शिरोमन्त्रो गरुडतः शिखे स्वाहा शिखा मनुः
गरुडेति पदं प्रोच्य प्रभञ्जययुगं वदेत् ।
प्रभेदययुगं पश्चाद्वित्रासय विमर्दय
प्रत्येकं द्विस्ततः स्वाहा कवचस्य मनुर्मतः ।
उग्ररूपधरान्ते तु सर्वविषहरेति च
भीषयद्वितयं प्रोच्य सर्वं दहदहेति च ।
भस्मीकुरु ततः स्वाहा नेत्रमन्त्रो ऽयमीरितः
अप्रतिहतवर्णान्ते बलाय प्रहतेति च ।
शासनान्ते तथा हुं फट् स्वाहास्त्रमनुरीरितः
पादे कटौ हृदि मुखे मूर्ध्निं वर्णान्प्रविन्यसेत्
तप्तस्वर्णनिभं फणीन्द्रनिकरैःकॢप्ताङ्ग भूषंप्रभुं स्तर्तृआणां शमयन्तमुग्रमखिलं नॄणां विषं तत्क्षणात् ।
चञ्च्वग्रप्रचलद्भुजङ्गमभयं पाण्योर्वरं बिभ्रतं पक्षोच्चारितसामगीतममलं श्रीपक्षिराजं भजे
पञ्चलक्षं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।
पूजयेन्मातृकापीठे गरुडं वेदविग्रहम्
चतुर्थ्यन्तः पक्षिराजः स्वाहा पीठमनुः स्मृतः ।
दृष्ट्वाङ्गं कर्णिकामध्ये नागान्यन्त्रेषु पूजयेत्
तद्बिहिर्लोकपालांश्च वज्राद्यैर्विलसत्करान् ।
एवं सिद्धमनुर्मन्त्री नाशयेद्गरलद्वयम् ।
देहान्ते लभते चापिश्रीविष्णोः परमं पदम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0