नारद पुराण · अध्याय 1.79
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमो ऽध्यायः
सनत्कुमार उवाच
अथापरं वायुसूनोश्चरितं पापनाशनम् ।
यदुक्तं स्वासु रामेण आनन्दवनवासिना
सद्योजाते महाकल्पे श्रुतवीर्ये हनूमति ।
मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि
शृणुष्व गदतो मत्तः कुमारस्य कुमारक ।
चरितं सर्वपापघ्नं शृण्वतां पठतां सदा
वाञ्छाम्यहं सदा विप्र संगमं कीशरूपिणा ।
रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे
परीते ऽत्र सखायो मे सख्यश्च विगतज्वराः ।
क्रीडन्ति सर्वदा चात्र प्राकट्ये ऽपि रहस्यपि
कस्मिंश्चिदवतारे तु यद्वृत्तं च रहो मम ।
तदत्र प्रकटं तुभ्यं करोमि प्रीतमानसः
आविर्भूतो ऽस्म्यहं पूर्वं राज्ञो दशरथक्षये ।
चतुर्यूहात्मकस्तकत्र तस्य भार्यात्रये मुने
ततः कतिपयैरब्दैरागतो द्विजपुङ्गवः ।
विश्वामित्रोर्ऽथयामास पितरं मम भूपतिम्
यक्षरक्षोविघातार्थं लक्ष्मणेन सहैव माम् ।
प्रेषयामास धर्मात्मा सिद्धाश्रममरम्यकम्
तत्र गत्वाश्रममृबेर्दूषयन्ती निशाचरौ ।
ध्वस्तौ सुबाहुमारीचौ प्रसन्नो ऽभूत्तदा मुनिः
अस्त्रग्रामं ददौ मह्यं मासं चावासयत्तथा ।
ततो गाधिसुतोधीमान् ज्ञात्वा भाव्यर्थमादरात्
मिथिलामनयत्तत्र रौद्रं चादर्शयद्ध्वनुः ।
तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम्
धनुर्विभज्य समिति लब्धवान्मानिनो ऽस्य च ।
ततो मार्गे भृगुपतेर्दर्प्पमूढं चिरं स्मयन्
व्यषनीयागमं पश्चादयोध्यां स्वपितुः पुरीम् ।
ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः
यौवराज्ये स्वयं प्रीत्या संमन्त्र्यात्पैर्विकल्पितः ।
तच्छुत्वा सुप्रिया भार्या कैकैयी भूपतिं मुने
देवकार्यविधानार्थं विदूषितमतिर्जगौ ।
पुत्रो मे भरतो नाम यौवराज्ये ऽभिषिच्यताम्
रामश्चतुर्दशसमा दण्डकान्प्रविवास्यताम् ।
तदाकर्ण्या हमुद्युक्तो ऽरण्यं भार्यानुजान्वितः
गन्तुं नृपतिनानुक्तो ऽप्यगमं चित्रकूटकम् ।
तत्र नित्यं वन्यफलैर्मांसैश्चावर्तितक्रियः
निवसन्नेव राज्ञस्तु निधनं चाप्यवागमम् ।
ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ
मान्तृवर्गयुतौ दीनौ साचार्यामात्यनागरौ ।
व्यजिज्ञपतमागत्यपञ्चवट्यां निजाश्रमम्
अकल्पयं भ्रातृभार्यासहितश्च त्रिवत्सरम् ।
ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः
मायया हृतवान्सीतां प्रियां मम परोक्षतः ।
ततो ऽहं दीनवदन ऋष्यमूकं हि पर्वतम्
भार्यामन्वेषयन्प्राप्तः सख्यं हर्यधिपेन च ।
अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृतः
सह वानरयूथैश्च साहाय्यं कृतवान्मम ।
विरुध्य रावणेनालं मम भक्तो विभीषणः
आगतो ह्यभिषिच्याशुलङ्केशो हि विकल्पितः ।
हत्वा तु रावणं संख्ये सपुत्रामात्यबान्धवम्
सीतामादाय संशुद्ध्वामयोध्यां समुपागतः ।
ततः कालान्तरे विप्रसुग्रीवश्च विभीषणः
निमन्त्रितौ पितुः श्राद्ध्वे षट्कुलाश्च द्विजोत्तमाः ।
अयोध्यायां समाजग्मुस्ते तु सर्वे निमन्त्रिताः
ऋते विभीषिणं तत्र चिन्तयाने रघूत्तमे ।
शंभुर्ब्राह्मणरूपेण षट्कुलैश्च सहागतः
अथ पृष्टो मया शंभुर्विभीषणसमागमे ।
नीत्वा मां द्रविडे देशे मोचय द्विजबन्धनात्
मया निमन्त्रिताः श्रद्धे ह्यगस्त्याद्या मुनीश्वराः ।
संभोजितास्तु प्रययुः स्वस्वमाश्रममण्डलम्
ततः कालान्तरे विप्रा देवा दैत्या नरेश्वराः ।
गौतमेन समाहूताः सर्वे यज्ञसभाजिताः
ते सर्वे स्फआटिकं लिङ्गं त्र्यंबकाद्रौ निवेशितम् ।
संपूज्य न्यवंसस्तत्र देवदैत्यनृपाग्रजाः
तस्मिन्समाजे वितते सर्वौंर्लिङ्गे समर्चिते ।
गौतमो ऽप्यथ मध्याह्ने पूजयामास शङ्करम्
सर्वे शुक्लांबरधरा भस्मोद्ध्वूलितविग्रहाः ।
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुण्ड्रकम्
नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः ।
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम्
तेषां मध्ये महाकाशमाकाशे निर्मलामलम् ।
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम्
अज्ञानसंयुतं भूतं समलं कर्मसंगतः ।
तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना
आकाशस्यावृत्तिं चाहं दग्ध्वाकाशमथो दहेत् ।
दग्ध्वाकाशमथो वायुमग्निभूतं तथा दहेत्
अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च ।
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत्
एवं प्रदग्ध्वा भूतार्दि देही तज्ज्ञानवह्निना ।
शिखामध्यस्थितं विष्णुमानन्दरसनिर्भरम्
निष्पन्नचन्द्रकिरणसंकाशकिरणं किरणं शिवम् ।
शिवाङ्गोत्पन्नकिरणैरमृतद्रवसंयुतैः
सुशीतला ततो ज्वाला प्रशान्ता चन्द्ररश्मिवत् ।
प्रसारितसुधारुग्भिः सांद्रीभूतश्च संप्लवः ।
अनेन प्लावितं भूतग्रामं संचिन्तयेत्परम्
इत्थं कृत्वा भूतशुद्धिं क्रियार्हे मर्त्यः शुद्धो जायते ह्येव सद्यः ।
पूजां कर्तुं जप्यकर्मापि पश्चादेवं ध्यायेद्ब्रह्महत्यादिशुद्ध्यै
एवं ध्यात्वा चद्रन्दीप्तिप्रकाशं ध्यानेनारोप्याशु लिङ्गे शिवस्य ।
सदाशिवं दीपमध्ये विचिन्त्य पञ्चाक्षरेणार्चनमव्ययं तु
आवाहनादीनुपचारांरतथापि कृत्वा स्नानं पूर्ववच्छङ्करस्य ।
औदुंबरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम्
अन्ते कृत्वा बुद्बुदाभ्यां च सृष्टिं पीठे पीठे नागमेकं पुरस्तात् ।
कुर्यात्पीठे चोर्द्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च
जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्रातिगुण्ये ।
सुश्वेतेन तस्य मध्ये महेशं लिङ्गाकारं पीठयुक्तं प्रपूज्यम्
एवं कृत्वा साधकास्ते तु सर्वे दत्त्वा दत्त्वा पञ्चगन्धाशष्टगन्धम् ।
पुष्पैः पत्रैः श्रीतिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्चप्रपूज्य
धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् ।
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः
काले चास्मिन्सुव्रते गौतमस्य शिष्यः प्राप्तः शङ्करात्मेति नाम्ना
उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमास्थितः ।
क्वचिद्द्विजातिप्रवरः क्वचिञ्चण्डालसन्निभः
क्वचिच्छूद्रसमो योगी तापसः क्वचिदप्युत ।
गर्जत्युत्पतते चैव नृत्यति स्तौति गायति
रोदिति शृणुते ऽत्युक्तं पतत्युत्तिष्ठति क्वचित् ।
शिवज्ञानैकसंपन्नः परमानन्दनिर्भरः
संप्राप्तो भोज्यवेलायां गौतमस्यान्तिकं ययौ ।
बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च
क्वचिल्लिहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् ।
हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित्
क्वचिद् गृहान्तरे मूत्रं क्वचित्कर्दमले पनम् ।
सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मन्दिरम्
प्रविश्य स्वीयपीठे तमुपवेश्याप्यभोजयत् ।
स्वयं तदस्य पात्रेण बुभुजेगौतमो मुनिः
तस्य चित्तं परिज्ञातुं कदाचिदथ सुंदरी ।
अहल्या शिष्यमाहूय भुङ्क्ष्वेति प्राह तं मुदा ।
निर्दिष्टो गुरुपत्न्या तु बुभुजे सो ऽविशेषतः
यथा पपौ हि पानीयं तथा वह्निमपि द्विजा ।
कण्टकानन्नवद्भुक्त्वा यथापूर्वमतिष्ठत
पुरो हि मुनिकन्याभिराहूतो भोजनाय च ।
दिनेदिने तत्प्रदत्तं लोष्टमंबु च गोमयम्
कर्दमं काष्ठदण्डं च भुक्त्वा पीत्वाथ हर्षितः ।
एतादृशो मुनिरसौ चण्डालसदृशाकृतिः
सुजीर्णोपानहौ हस्ते गृहीत्वा प्रलपन्हसन् ।
अन्त्यजोचितवेषश्च वृषपर्वाणमभ्यगात्
वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्टत ।
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरो ऽच्छिनत्
हते तस्मिन्द्विजश्रेष्ठे जगदेतञ्चराचरम् ।
अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा
गौतमस्य महाशोकः संजातः सुमहात्मनः ।
निर्ययौ चक्षुषो वारि शोकं संदर्शयन्निव
गौतमः सर्वदैत्तयानां सन्निधौ वाक्यमुक्तवान् ।
किमनेन कृते पापं येन च्छिन्नमिदं शिरः
मम प्राणाधिकस्येह सर्वदा शिवयोगिनः ।
ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरुः
शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् ।
मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम्
तच्छ्रुत्वा ह्यसुराचार्यः सुक्रः प्राह विदांवरः ।
एनं संजीवयिष्यामि भार्गवं शङ्करप्रियम्
किमर्थं म्रियते ब्रह्मन्पश्य मे तपसो बलम् ।
इति वादिनि विप्रेन्द्रे गौतमो ऽपि ममार ह
तस्मिन्मृते ऽथ शुक्रो ऽपि प्राणांस्तत्याज योगतः ।
तस्यैवं हतिमाज्ञाय प्रह्लादाद्या दितीश्वराः
देवा नृपा द्विजाः सर्वे मृता आसंस्तदद्भुतम् ।
मृतमासीदथ बलं तस्य बाणस्य धीमतः
अहल्या शोकसंतप्ता रुरोदोञ्चैः पुनःपुनः ।
गौतमेन महेशस्य पूजया पूजितो विभुः
वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह ।
अहो कष्टमहोकष्टं महेशा बहवो हताः
शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यथ ।
इति निश्चित्य गतवान्मन्दराचलमव्ययम्
नमस्कृत्वा विरूपाक्षं वृत्तसर्वमथोक्तवान् ।
ब्रह्माणं च हरिं तत्र स्थितौ प्राह शिवो वचः
मद्भक्तैः साहसं कर्म कृतं ज्ञात्वा वरप्रदम् ॥।
गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम्
इत्युक्त्वा वृषमारुह्य वायुना धूतचामरः ।
नन्दिकेन सुवेषेण धृते छत्रे ऽतिशोभने
सुश्वेते हेमदण्डे च नान्ययोग्ये धृते विभो ।
महेशानुमतिं लब्ध्वा हरिर्नागान्तके स्थितः
आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः ।
शिवानुमत्या ब्रह्मापि हंसारूढो ऽभवत्तदा
इन्द्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः ।
इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः
अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः ।
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः
ब्रह्मविष्णु महेशाना दृष्ट्वा तत्परमाद्भुतम् ।
स्वभक्तं जीवयामास वामकोणनिरीक्षणात्
शङ्करो गौतमं प्राह तुष्टो ऽहं ते वरं वृणु ।
तदाकर्ण्य वचस्तस्य गौतमः प्राह सादरम्
यदि प्रसन्नो देवेश यदि देयो वरो मम ।
त्वल्लिङ्गार्चनसामर्थ्यं नित्यमस्तु ममेश्वर
वृतमेतन्मया देव त्रिनेत्र शृणु चापरम् ।
शिष्यो ऽयं मे महाभागो हेयादेयादिवर्जितः
प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा ।
न घ्राणग्राह्यं देवेश न पातव्यं न चेतरत्
इति बुद्ध्व्या तथा कुर्वन्स हि योगी महायशः ।
उन्मत्तविकृताकारः शङ्करात्मेति कीर्तितः
न कश्चित्तं प्रति द्वेषी न च तं हिंसयेदपि ।
एतन्मे दीयतां देव मृतानाममृतिस्तथा
तच्छ्रुत्वोमापतिः प्रीतो निरीक्ष्य हरिमव्ययः ।
स्वांशेन वायुना देहमाविशज्जगदीश्वरः
हरिरूपः शङ्करात्मा मारुतिः कपिसत्तमः ।
पर्यायैरुच्यते ऽधीशः साक्षाद्विष्णुः शिवः परः
आकल्पतेषु प्रत्येकं कामरूपमुपाश्रितः ।
ममाज्ञाकारको रामभक्तः पूजितविग्रहः
अनन्तकल्पमीशानः स्थास्यति प्रीतमानसः ।
त्वया कृतमिदं वेश्म विस्तृतं सुप्रतिष्टितम्
नित्यं वै सर्वरूपेण तिष्ठामः क्षणमादरात् ।
समर्चिताः प्रयास्यामः स्वस्ववासं ततः परम्
अथाबभाषे विश्वेशं गौतमो मुनिपुङ्गवः ।
अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति
ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते ।
अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे
प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः ।
क्षामोदरो ऽसि गोविन्द देयं ते भोजनं किमु
स्वयं प्रविश्य यदि वा स्वयं भुङ्क्ष्व स्वगेहवत् ।
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति
इत्युक्त्वा तत्करालंबी ह्येकान्तमगमद्विभुः ।
आदिश्य नन्दिनं देवो द्वाराध्यक्षं यथोक्तवत्
स गत्वा गौतमं वाथ ह्युक्तवान्विष्णुभाषणम् ।
संपादयान्नं देवेशा भोक्तुकामा वयं मुने
इत्युक्त्वैकान्तमगमद्वासुदेवेन शङ्करः ।
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ
अन्योन्यं भाषणं कृत्वा प्रोत्तस्थतुरुभावपि ।
गत्वा तडागं गंभीरं स्रास्यन्तौ देवसत्तमौ
करांबुपातमन्योन्यं पृथक्कृत्वोभयत्र च ।
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे
अथ विष्णुर्महेशश्च जलपानानि शीघ्रतः ।
चक्रतुः शङ्करऋ पद्मकिञ्जल्काञ्जलिना हरेः
अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने ।
नेत्रे केशरसंपातात्प्रमीलयत केशवः
अत्रान्तरे हरेः स्कन्धमारुरोह महेश्वरः ।
हर्युत्तमाङ्गं बाहुभ्यां गृहीत्वा संन्यमज्जयत्
उन्मज्जयित्वा च पुनः पुनश्चापि पुनःपुनः ।
पीडितः स हरिः सूक्ष्मं पातयामास शङ्करम्
अथ पादौ गृहीत्वा तं भ्रामयन्विचकर्ष ह ।
अताडयद्ध्वरेर्वक्षः पातयामास चाच्युतम्
अथोत्थितो हरिस्तोयमादायाञ्जलिना ततः ।
शीर्षे चैवाकिरच्छंभुमथ शंभुरथो हरिः
जलक्रीडैवमभवदथ चर्षिगणान्तरे ।
जलक्रीडासंभ्रमेण विस्रस्तजटबन्धनाः
अथ संभ्रमतां तेषामन्योन्यजटबन्धनम् ।
इतरे तरबद्ध्वासु जटासु च मुनीश्वराः
शक्तिमन्तो ऽशक्तिमत आकर्षन्ति च सव्यथम् ।
पातयन्तो ऽन्यतश्चापि क्त्रोशन्तो रुदतस्तथा
एवं प्रवृत्ते तुमुले संभूते तोयकर्मणि ।
आकाशे वानरेशस्तु ननर्त च ननाद च
विपञ्चीं वादयन्वाद्यं ललितां गीतिमुज्जगौ ।
सुगीत्या ललिता यास्तु आगायत विधा दश
शुश्राव गीतिं मधुरां शङ्करो लोकभावतः ।
स्वयं गातुं हि ललितं मन्दंमन्दं प्रचक्रमे
स्वयं गायति देवेशे विश्रामं गलदेशिकम् ।
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम्
स्वधारामृतसंयुक्तं गानेनैवमपोनयन् ।
वासुदेवो मर्दलं च कराभ्यामप्यवादयत्
अम्बुजाङ्गश्चतुर्वक्रस्तुंबुरुर्मुखरो बभौ ।
तानका गौतमाद्यास्तु गयको वायुजो ऽभवत्
गायके मधुरं गीतं हनूमति कपीश्वरे ।
म्लानमल्मानमभवत्कृशाः पुष्टास्तदाभवन्
स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिता ।
तूष्णीभूतं समभवद्देवर्षिगणदानवम्
एकः स हनुमान् गाता श्रोतारः सर्व एव ते ।
मध्याह्नकाले वितते गायमाने हनूमति ।
स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः
गानप्रियो महेशस्तु जग्राह प्लवगेश्वरम् ।
प्लवग त्वं मयाज्ञप्तो निःशङ्को वृषमारुह
मम चाभिमुखो भूत्वा गायस्वानेकगायनम् ।
अथाह कपिशार्दूलो भगवन्तं महेश्वरम्
वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते ष ॥
तव वाहनमारुह्य पातकी स्यामहं विभो
मामेवारुह देवेश विहॄङ्गः शिवधारणः ।
तव चाभिमुखं गानं करिष्यामि विलोकय
अथेश्वरो हनूमन्तमारुरोह यथा वृषम् ।
आरूढे शङ्करे देवे हनुमत्कन्धरां शिवः
छित्वा त्वचं परावृत्य सुखं गायति पूर्ववत् ।
शृण्वन्गीतिसुधां शंभुर्गौन्त मस्य गृहं ततः
सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः ।
पूजिता गौतमेनाथ भोजनावसरे सति
यच्छुष्कं दारुसंभूतं गृहो पकरणादिकम् ।
प्ररूढमभवत्सर्वं गायमाने हनूमति
तस्मिन्गाने समस्तानां चित्रं दृष्टिरतिष्टत
द्विबाहुरीशस्य पदाभिवं दनः समस्तगात्राभरणोपपन्नः ।
प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्ध्वाञ्जलिभिः शिरोभिः
शिरः कराभ्यां परिगृह्य शङ्करो हनूमतः पूर्वमुखं चकार ।
पद्मासनासीनहनूमतोंऽजलौ निधाय पादं त्वपरं मुखे च
पादाङ्गुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मन्दमन्दम् ।
स्कन्धे मुखे त्वंसतले च कण्ठे वक्षस्थले च स्तनमध्यमे हृदि
ततश्च कुक्षावथ नाभिमण्डलं पादं द्वितीयं विदधाति चाञ्जलौ ।
शिरो गृहीत्वावनमय्य शङ्करः पस्पर्श पृष्ठं चिबुकेन सो ऽध्वनि
हारं च मुक्तापरिकल्पितं शिवो हनूमतः कण्ठगतं चकार
अथ विष्णुर्महेशानमिह वचनमुक्तवान् ।
हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले
श्रुतिदेवाद्यगम्यं हि पदं तव कपिस्थितम् ।
सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक्
यमादिसाधनैर्ंयोगैर्न क्षणं ते पदं स्थिरम् ।
महायोगिहृदंभोजे परं स्वस्थं हनूमति
वर्षकोटिसहस्रं तु सहस्राब्दैरथान्वहम् ।
भक्त्या संपूजितो ऽपीश पादो नो दर्शितस्त्वया
लोके वादो हि सुमहाञ्छंभुर्नारायणप्रियः ।
हरिप्रियस्तथा शंभुर्न तादृग्भाग्यमस्ति मे
तच्छ्रुत्वा वचनं शंभुर्विष्णोः प्राह मुदान्वितः ।
न त्वया सदृशो मह्यं प्रियो ऽन्यो ऽस्ति हरे क्वचित्
पार्वती वा त्वया तुल्या वर्तते नैव भिद्यते ।
अथ देवाय महते गौतमः प्राणिपत्य च
व्यजिज्ञपदमेयात्मज्देवैर्हि करुणानिधे ।
मध्याह्नो ऽयं व्यतिक्रान्तो भुक्तिवेलाखिलस्य च
अथाचम्य महादेवो विष्णुना सहितो विभुः ।
प्रविश्य गौतमगृहं भोजनायोपचक्रमे
रत्नाङ्गुलीयैरथनूपुराभ्यां दुकूलबन्धेन तडित्सुकाञ्च्या ।
हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च
विलंबिचञ्चन्मणिकुण्डलेन सुपुष्पधंमिल्लवरेण चैव ।
पञ्चाङ्गगन्धस्य विलेपनेन बाह्वङ्गदैः कङ्कणकाङ्गुलीयैः
अथो विभूषितः शिवो निविष्ट उत्तमासने ।
स्वसंमुखं हरिं तथा न्यवेशयद्वरासने
देवश्रेष्ठौ हरीशौ तावन्योन्याभिमुखस्थितौ ।
सुवर्णभाजनस्थान्नं ददौ भक्त्या स गौतमः
त्रिंशत्प्रभेदान्भक्ष्यांस्तु पायसं च चतुर्विधम् ।
सुपक्वं पाकजातं च कल्पितं यच्छतद्वयम्
अपक्कं मिश्रकं तद्वत्त्रिंशतं परिकल्पितम् ।
शतं शतं सुकन्दानां शाकानां च प्रकल्पितम्
पञ्चविंशतिधा सर्पिःसंस्कृतं व्यञ्जनं तथा ।
शर्कराद्यं तथा चूतमोचाखर्जूरदाडिमम्
द्राक्षेक्षुनागरङ्गं च मिष्टं पक्वं फलोत्करम् ।
प्रियालक्रञ्जम्बुफलं विकङ्कतफलं तथा
एवमादीनि चान्यानि द्रव्याणीशे समर्प्य च ।
दत्त्वापोशानकं विप्रो भुञ्जध्वमिति चाब्रवीत्
भुञ्जानैषु च सर्वेषु व्यजनं सूक्ष्मविस्तृतम् ।
गौतमः स्वयमादाय शिवविष्णू अवीजयत्
परिहासमथो कर्तुमियेष परमेश्वरः ।
पश्य विष्णो हनूमन्तं कथं भुङ्क्ते स वानरः
वानरं पश्यति हरौ मण्डकं विष्णुभाजने ।
चक्षेप मुनिसंषेषु पश्यत्स्वपि महेश्वरः
हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् ।
त्वदुच्छिष्टभोज्यं तु तवैव वचनाद्विभो
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलादिकम् ।
मह्यं निवेद्य सकलं कूप एव विनिःक्षिपेत्
अभुक्ते त्वर्द्वञ्चो नूनं भुक्ते चापि कृपा तव ।
बाणलिङ्गे स्वयंभूते चन्द्रकान्ते हृदि स्थिते
चान्द्रायण समं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् ।
भुक्तिवेलेयमधुना तद्वैरस्यं कथान्तरात्
भुक्त्वा तु ककथयिष्यामि निर्विशङ्कं विभुङ्क्ष्व तत् ।
अथासौ जलसंस्कारं कृतवान् गौतमो मुनिः
आरक्तसुस्निगन्धसुसूक्ष्मगात्राननेकधाधौतसुशोभिताङ्गान् ।
तडागतोयैः कतबीजघर्षितैर्विशौधितैस्तैः करकानपूरयत्
नद्याः सैकतवेदिकां नवतरां संछाद्य सूक्ष्मांबरैः,शुद्ध्वैः श्वेततरैरथोपरि घटांस्तोयेन पूर्णान्क्षिपेत् ।
लिप्त्वा नालकजातिमास्तपुटकं तत्कौलकं कारिकाचूर्णं चन्दनचन्द्ररश्मिविशदां मालां पुटान्तं क्षिपेत् ।
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भेन तञ्चन्द्प्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलम्
शेफआलीस्तबकमथो जलं च तत्र,विन्यस्य प्रथमत एव तोयशुद्धिम् ।
कृत्वाथो मृदुतरं सूक्ष्मवस्त्रखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम्
अनातपप्रदेशे तु निधाय करकानथ ।
मन्दवातसमोपेते सूक्ष्मव्यजनवीजेते
सिंचेच्छीतैर्जलैश्चापि वासितैः सृणिकामपि ।
संस्कृताः स्वायतास्तत्र नरा नार्यो ऽथवा नृपाः
तत्कन्या वा क्षालिताङ्गा धौतपादाःसुवाससः ।
मधुर्पिगमनिर्यासमसांद्रमगुरूद्भवम्
बाहुमूले च कण्ठे च विलिप्यासांद्रमेव च ।
मस्तके जापकं न्यस्य पञ्चगन्धविलेपनम्
पुष्पनद्ध्वसुकेशास्तु ताः शुभाः स्युः सुनिर्मलाः ।
एवमेवार्चिता नार्य आप्तकुङ्कुमविग्रहाः
युवत्यश्चारुसर्वाङ्ग्यो नितरां भूषणैरपि ।
एतादृग्वनिताभिर्वा नरैर्वा दापयेज्जलम्
ते ऽपि प्रादानसमये सूक्ष्मवस्त्राल्पवेष्टनम् ।
अथवामकरे न्यस्य करकं प्रेक्ष्य तत्र हि
दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् ।
एवं स कारयामास गौतमो भगवान्मुनिः
महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु ।
प्रक्षालिताङ्घ्रिहस्तेषु गन्धोद्वर्तितपाणिषु
उञ्चासनसमासीने देवदेवे महेश्वरे ।
अथ नीचसमासीनादेवाः सर्षिगणास्तथा
मणिपात्रेषु संवेष्ट्थ पूगखण्डान्सुधूपितान् ।
अकोणान्वर्तुलान्स्थूलानसूक्ष्मानकृशानपि
श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखण्डकम् ।
चूर्णं च शङ्करायाथ निवेदयति गौतमे
गृहाण देव तांबूलमित्युक्तवचने मुनौ ।
कपे गृहाण तांबूलं प्रयच्छ मम खण्डकान्
उवाच वानरो नास्ति मम शुद्धिर्महेश्वर ।
अनेकफलभोक्तृआत्वाद्वानरस्तु कथं शुचिः
तच्छ्रुत्वा तु विरूपाक्षाः प्राह वानरसत्तमम् ।
मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम्
मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः ।
मद्वाङ्क्याद्ध्वर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते
पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः ।
अतो गृहाण तांबूलं मम देहि सुखण्डकान्
हरिर्वामकरेणाधात्तांबूलं पूगखण्डकम् ।
तततः पत्राणि संगृह्य तस्मै खण्डान्समर्पयत्
कर्पूरमग्रतो दत्तं गृहीत्वाभक्षयच्छिवः ।
देवे तु कृततांबूले पार्वती मन्दराचलात्
जयाविजययोर्हस्तं गृहीत्वायान्मुनेर्गृहम् ।
देवपादौ ततो नत्वा विनम्रवदनाभवत्
उन्नमय्य मुखि तस्या इदमाह त्रिलोचनः ।
त्वदर्थं देवदेवेशि अपराधः कृतो मया
यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुंदरि ।
यत्त्वां स्वमन्दिरे त्यक्त्वा महदेनो मया कृतम्
क्षन्तुमर्हसि देवेशि त्यक्तकोपा विलोकय ।
न बभाषे ऽप्येवमुक्ता सारुन्धत्या विनिर्ययौ
निर्गच्छन्तीं मुनिर्ज्ञात्वा दण्डवत्प्रणनाम ह ।
अथोवाच शिवा तं चगौतम त्वं किमिच्छसि
अथाह गौतमो देवीं पार्वतीं प्रेक्ष्य सस्मिताम् ।
कृतकृत्यो भवेयं वै भुक्तायां मद्गृहे त्वयि
ततः प्राह शिवा विप्रं गौतमं रचिताञ्जलिम् ।
भोक्ष्यामि त्वद्गृहे विप्र शङ्करानुमतेन वै
अथ गत्वा शिवं विंशे लब्धानुज्ञस्त्वरागतः ।
भोजयामास गिरिजां देवीं चारुन्धतीं तथा
भुक्त्वाथ पार्वती सर्वगन्धपुष्पाद्यलङ्कृता ।
सहानु चरकन्याभिः सहस्राभिर्हरं ययौ
अथाहर् शकरो देवी गच्छ गौतममन्दिरम् ।
संध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवान्तिकम्
इत्युक्त्वा प्रययौ देवी गौतमस्यैव मदिरम् ।
संध्यावदनकामास्तु सर्व एव विनिर्गताः
कृतसंध्यास्तडागे तु महेशाद्याश्च कृत्स्नशः ।
अथोत्तरमुखः शंभुर्न्यास कृत्वा जजाप ह
अथ विष्णुर्महातेजा महेशमिदमब्रवीत् ।
सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते
हूयतं सर्वयज्ञेषु स भवान्किं जपिष्यति ।
रचिताञ्जलयः सर्वे त्वामेवैकमुपासिते
स भवान्देवदेवेशः कस्मै विरचिताञ्जलिः ।
नमस्कारादिपुण्यानां फलदस्त्वं महेश्वरर
तव कः फलदो वन्द्यः को वा त्वत्तो ऽधिको वद ।
तच्छ्रुत्वा शङ्करः प्राह देवदेवं जनार्दनम्
ध्याये न किञ्चिद्गोविन्दनमस्ये ह न किञ्चन ।
किन्तु नास्तिकजन्तूनां प्रवृत्त्यर्थमिदं मया
दर्शनीयं हरे चैतदन्यथा पापकारिणः ।
तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया
ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्टत ।
अथ ते गौतमगृहं प्राप्ता देवर्षयस्तदा
सर्वे पूजामथो चक्रुर्देवदेवाय शूलिने ।
देवो हनूमता सार्द्ध्वं गायन्नास्ते मुनीश्वर
पञ्चाक्षरीं महाविद्यां सर्वे एव तदाजपन् ।
हनुमत्करमालंब्य देवाभ्यां संगतो हरः
एकशय्यासमांसीनौ तावुभौ देवदंपती ।
गायन्नास्ते च हनुमांस्तुंबुरुप्रमुखास्तथा
नानाविधविलासांश्च चकार परमेश्वरः ।
आहूय पार्वतीमीश इदं वाक्यमुवाच ह
रचयिष्यामि धंमिल्लमेहि मत्पुरतः शुभे ।
देव्याह न च युक्तं तद्भर्त्त्रा शुश्रूषणं स्त्रियः
केशप्रसाधनकृतावनर्थान्तरमापतेत् ।
केशप्रसाधने देव तत्त्वं सर्वं न चेप्सितम्
अथ बन्धेकृते पश्चादंसप्रान्तप्रमार्जनम् ।
ततश्चरमसंलग्न केशपुष्पादिमार्जनम्
एतस्मिन्वर्तमाने तु महात्मानो यदागमन् ।
तदा किमुत्तरं वाच्यं तव देवादिवन्दित
नायान्ति चेदथ विभो भीतिर्नाशमुपैष्यति ।
एवं हि भाषमाणां तां करेणाकृष्य शङ्करः
स्वोर्वोः संस्थापयित्वैव विस्रस्य कचबन्धनम् ।
विभज्य च कराभ्यां स प्रससार नखैरपि
विष्णुदत्तां पारिजातस्रजं कचगतामपि ।
कृत्वा धंमिल्लमकरोदथ मालां करागताम्
मल्लिकास्रजमादाय बबन्ध कचबन्धने ।
कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः
पार्वतीवसने गूढगन्धाढ्ये च समाददात् ।
अथांसपृष्ठ संलग्नमार्जनं कृतवान् विभुः
श्लथन्नीवेरधो देव्या वस्त्रवेष्टादधोगतः ।
किमिदं देवि चेत्युक्त्वा नीवीबन्धं चकार ह
नासाभूषणमेतत्ते सत्यमेव वदामि ते ।
ततः प्राह शिवा शंभुं स्मित्वा पर्वतनन्दिनी
अहो त्वन्मन्दिरे शंभो सर्ववस्तु समृद्धिमत् ।
पूर्वमेव मया सर्वं ज्ञातप्रायमभूत्किल
सर्वद्रविणसंपत्तिर्भूषणैखगम्यते ।
शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया
नरकस्य तथा माला वक्षस्थलविभूणम् ।
शेषश्च वासुकिश्चैव सविषौ तव कङ्कणौ
दिशोंऽबरं जटाः केशा भसित चाङ्गरागकम् ।
महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च
ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः ।
एवं वदन्तीं गिरिजां विष्णुः प्राहातिकोपनः
किमर्थं निन्दसेदेवि देवदेवं जगत्पतिम् ।
दुष्प्राणा न प्रिया भद्रे तव नूनमसंयमात्
यत्रेशनिन्दनं भद्रे तत्र नो मरणव्रतम् ।
इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः
महेशस्तत्करं गृह्य प्राह मा साहसं कृथाः ।
पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम्
ममाप्रियं हृषीकेश कर्तुं यत्किञ्चिदिष्यते ।
ओमित्युक्त्वाथ भगवांस्तूष्णींभूतो ऽभवद्ध्वरिः
हनुमानथ देवाय व्यज्ञापयदिदं वचः ।
अर्थयामि विनिष्कामं मम पूजाव्रतं तथा
पूजार्थमप्यहं गच्छे मामनुज्ञातुमर्हसि ।
तच्छ्रत्वा शङ्करो देवः स्मित्वा प्राह वपीश्वरम्
कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद ।
को गुरुः कश्च मन्त्रस्ते कीदृशं पूजन तथा
एवं वदति देवैशे हनुमान्नीतिसंयुतः ।
वेपमानसमस्ताङ्ग स्तोतुमेवं प्रचक्रमे
नमो देवाय महते शङ्करायामितात्मने ।
योरिने योगधात्रे च योगिनां गुरवे नमः
योगगम्याय देवाय ज्ञानिनां पतये नमः ।
वेदानां पतये तुभ्यं देवानां पतये नमः
ध्यानाय ध्यानगम्याय ध्यातॄणां गुरवे नमः ।
अष्टमूर्ते नमस्तुभ्यं पशूनां पतये नमः
अंबकाय त्रिनेत्राय सोमसूर्याग्निचक्षुषे ।
सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियस्य ते
बृहतीपूग पुन्नागचपकादिप्रियाय च ।
नमस्ते ऽस्तु नमस्ते ऽस्तु भूय एव नमोनमः
शिवो हरिमथ प्राह मा भैषीर्वद मे ऽखिलम् ।
ततस्त्यक्त्वा भयं प्राह हनुमान् वाक्यकोविदः
शिवलिङ्गार्चनं कार्यं भस्मोद्ध्वूलितदेहिना ।
दिवा संपादितैस्तैयैः पुष्पाद्यैरपि तादृशैः
देव विज्ञापयिष्यामि शिवपूजविधिं शुभम् ।
सायङ्काले तु संप्राप्ते अशिरःस्नानमाचरेत्
क्षालितं वसनं शुष्कं धृत्वाचम्य त्रिरन्यधीः ।
अथ भस्म समादाय आग्नेयं स्नानमाचरेत्
प्रणवेन समामन्त्र्य अष्टवारमथांपि वा ।
पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचित्
सप्ताभिमन्त्रितं भस्म दर्भपाणिः समाहरेत् ।
ईशानः सर्वविद्यानामुक्त्वा शिरसिपातयेत्
तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् ।
अघोरेभ्यो ऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत्
वामदेवय नमः इति गुह्यस्थाने विनिक्षिपेत् ।
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः
उद्ध्वूलयेत्समस्ताङ्गं प्रणवेन विचक्षणाः ।
त्रैवर्णिकानामुदितऋ स्नानादिविधिरुत्तमः
शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथो ।
शिवेति पदमुञ्चार्य भस्म संमन्त्रयेत्सुधीः
सप्त वारमथादाय शिवायेति शिरस्यथ ।
शङ्कराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत्
स्थाणवे नम इत्युक्त्वा मुखे चापि स्वयंभुवे ।
उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्ध्वमतः परम्
नमः शिवायेत्युच्चार्य सर्वाङ्गोद्ध्वूलनं स्मृतम् ।
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः
दर्भाभावे सुवर्णं स्यात्तदभावे गवालुकाः ।
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम्
संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् ।
देववेदीमथो वापि कल्पितं स्थण्डिलं तु वा
मृण्मयं कल्पितं शुद्धूं पद्मादिरचनायुतम् ।
चातुर्वर्णकरं गैश्च श्वेतेनैकेन वा पुनः
विचित्राणि च पद्मानि स्वस्तिकादि तथैव च ।
उत्पलादिगदाशङ्खत्रिशूलडमरूंस्तथा
शरोक्तपञ्चप्रासादं शिवलिङ्गमथैव च ।
सर्वकामफलं वृक्षं कुलकं कोलकं तथा
षट्कोणं च त्रिकोणं च नवकोणमथापि वा ।
कोणे द्वादशकान्दोलापादुकाव्यजनानि च
चामरच्छत्त्रयुगलं विष्णुब्रह्मादिकांस्तथा ।
चूर्णैविरचयेद्वेद्यां धीमान्देवालये ऽपि वा
यत्रापि देवपूजा स्यात् तत्रैवं कल्पयेद्बुधः ।
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम्
याचितं तु कनिष्टं स्याद्बलात्कारमथो ऽधमम् ।
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम्
रक्तशालिजपाशाणकलमासितरक्तकैः ।
तन्दुलैर्वीहिमात्रोत्थैः कणैश्चैव यथाक्रमम्
उत्तमैर्मध्यमैश्चैव कनिष्ठैरधमैस्तथा ।
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत्
प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् ।
आसनं च प्रवक्ष्यामि यथादृष्टं यथा श्रुतम्
कौशं चार्मं चैलतल्पे दारवं तालपत्रकम् ।
कांबलं काञ्चनं चैव राजतं ताम्रमेव च
गोकरीपार्कजैर्वापि ह्यासनं परिकल्पयेत् ।
वैयाघ्रं रौरवं चैव हारिण मार्गमेव च
चार्मं चतुर्विधं ज्ञेयमथ बन्धुकमेव च ।
यथासंभवमेतेषु ह्यासनं परिकल्पयेत्
कृतपद्मासनो वापि स्वस्तिकासन एव च ।
दर्भभस्मसमासीनः प्राणानायम्य वाग्यन्तः
तावत्स देवतारूपो ध्यानं चान्तः समाचरेत् ।
शिखान्ते द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं शिवम्
अन्तश्चरन्तं भूतेषु गुहायां विश्वतोमुखम् ।
सर्वाभरणसंयुक्तमिमादिगुणान्वितम्
ध्यात्वा तं धारयेञ्चित्ते तद्दीप्त्या पूरयेत्तनुम् ।
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम्
स्वर्णपादैरसंपर्काद्रक्तं श्वेतं यथा भवेत् ।
तद्द्वादशदलावृत्तमष्ट पञ्च त्रिरेव वा
परिकल्प्यासनं शुद्धवं तत्र लिङ्गं निधाय च ।
गुहास्थितं महेशानं र्लिङ्गेशं चिन्तयेत्था
शोधिते कलशे तोयं शोधितं गन्धवासितम् ।
सुगन्धपुष्पं निक्षिप्य प्राणवेनाभिमन्त्रितम्
प्राणायामश्च प्रणवः शूद्रेषु न विधीयते ।
प्राणायामपदे ध्यानं शिवेत्योङ्कारमन्त्रितम्
गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च ।
तानि स्थाप्य समीपे तु ततः संकल्प माचरेत्
शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च ।
इति संकल्पयित्वा तु तत आवाहनादिकम्
कृत्वा तु स्नानपर्यन्तं ततः स्नानं प्रकल्पयेत् ।
नमस्तेत्यादिमन्त्रेण शतरुद्रविधानतः
अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता ।
तया यः स्नापयेन्मांस जपचुद्रमुखांश्च चा
एकवारं त्रिवारं च पञ्च सप्त नवापि वा ।
एकादश तथा वारमथैकादशधान्वितम्
मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् ।
शैवयाविद्यया स्नानं केवलं प्रणवेन वा
मृण्ययैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा ।
कांस्येन मुक्ताशुक्त्या च पुष्पादिकेसरेण वा
स्नापयेद्देवदेवेशं यथासंभवमीरितैः ।
शृङ्गस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत्
पूर्वमन्तस्तु संशोध्य बहिरन्तस्तु शोधयेत् ।
सुग्रिग्धं लघु कृत्वाथ नाङ्गं छिन्द्यात्कथञ्चन
नीचैकदेशविन्यस्तद्वारद्रोण्या सुहृत्तया ।
कृशानुयुक्तं स्नानं तु देवाय परिकल्पयेत्
एवं गवयशृङ्गस्य जलपूर्तिरथोच्यते ।
द्वारे निषिद्धलोहार्द्धसंधिद्वारासमन्विते
योगवक्रं नागदण्डं नागाकारं प्रकल्पंयेत् ।
फलस्थाने तु चषकं दण्डेन समरन्ध्रकम्
तत्रैव पातयेत्तोयं मूर्द्ध्वयन्त्रघटे स्थितम् ।
पातयेदथ चान्येन वामेनैव करेण वा
मुक्तिधारा कृता तेन पवित्र पापनाशनम् ।
एवं संस्नाप्य देवेशं पञ्चगव्यैस्तथैव च
पञ्चामृतैरथ स्नाप्य मधुरत्रितयेन च ।
विभूष्य भूषणैर्देवं पुनः स्नाप्यमहेश्वरम्
शीतोपचारं कृत्वाथ तत आचमनादिकम् ।
वस्त्रं तथोपवीतं च गन्धद्रव्यकमेव च
कर्पूरमगरुं चापि पाटीरमथवा भवेत् ।
उभयमिश्रितं चापि शिवलिङ्गं प्रपूजयेत् ।
कृत्स्नं पीठं गन्धपूर्णं यद्वा विभवसारतः ।
तूष्णीमथोपचारं वा कालीयं पुष्पमेव च
श्रीपन्नमरुचित्याज्यं यथाशक्तखिलं यथा ।
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा
कपिलाघृतसंयुक्तं सर्वधूपं प्रशस्यते ।
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान्
अथवा पूजामात्रेण दीपान्दत्वोपहारकम् ।
नैवेद्यमुपपन्नं च दत्वा पुष्पसमन्वितम्
मुखशुद्धिं ततः कृत्वा दत्त्वा तांबूलमादरात् ।
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते
गीत्यङ्गपञ्चकं पश्चात्तानि विज्ञापयामि ते ।
गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च
नीराजनं च पुष्पाणामञ्जलिश्चाखिलार्पणम् ।
क्षमापनं चोद्रसनं प्रोक्तं पञ्चोपचारकम्
भूषणं च तथा छत्रं चामरव्यजने अपि ।
उपवीत च कैकर्यं षोडशानुपचारकान्
द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् ।
एकेनाह्ना समस्तानां पातकानां क्षयो भवेत्
एतच्छ्रुत्वा हनुमतो वचनं प्राह शङ्करः ।
एवमेतत्कपिश्रेष्ठ युदुक्तं पूजनं मम
सारभूतमहं तुभ्यमुपदेक्ष्यामि सांप्रतम् ।
आराधनं यथालिङ्गे विस्तरेण त्वयोदितम्
मत्पादयुगलं प्रार्च्य पूजाफलमवाप्नुहि ।
ततः प्राह कपिश्रेष्ठो देवदेवमुमापतिम्
गुरिणा लिङ्गपूजैव नियता परिकल्पिता ।
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम्
इत्युक्त्वेश नमस्कृत्य शिवलिङ्गार्चनाय च ।
सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम्
तालपत्रैर्विरचितमासनं पर्यकल्पयत् ।
प्रक्षाल्य पादौ हस्तौ च समाचम्य समाहितः
भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः ।
देववेद्यामथो चक्रे पद्मं च सुमनोहरम्
अनन्तरं तालपत्रे पद्मासनगतः कपिः ।
प्राणानायम्य संन्यस्य शुल्कध्यानसमन्वितः
प्रणम्य गुरुमीशानं जपन्नासीदतः परम् ।
अथ देवार्यनं कर्त्तुं यत्नमास्थितवान्कपिः
पलाशपत्रपुटकद्वयानीतजलं शुचि ।
शिरः कमण्डलुगतं निधायाग्निनिमन्त्रितम्
आवाहनादि कृत्वाथ स्नानपर्यन्तमेव च ।
अथ स्नापयितुं देवमादाय करसंपुटे
कृत्वा निरीक्षणं देवपीठं नो दृष्टवान्कपिः ।
लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः
इदमाह महायोगी किंवा पापं मया कृतम् ।
यदेतत्पीठरहितं शिवलिङ्गं करस्थितम्
ममाद्य मरणं सिद्धं न पीठं चागमिष्यति ।
अथ रुद्रं जपिष्यामि तदायति महेश्वरः
इति निश्चित्य मनसा जजाप शतरुद्रियम् ।
यदा तु न समायातो महेशो ऽथ कपीश्वरः
रुद्रं न्यपातयद्भूमौ वीरभद्रः समागतः ।
किमर्थं रुद्यते भद्र रुदिते कारणं वद
तच्छ्रुत्वा प्राह हनुमान्वीरभद्रं मनोगतम् ।
पीठहीनमिदं लिङ्गं पश्य मे पापसंचयम्
वीरभद्रस्ततः प्राह श्रुत्वा कपिसमीरितम् ।
यदि नायाति पीठं ते लिङ्गे मा साहसं कुरु
दाहयिष्याम्यहं लोकान्यदि नायाति पीठकम् ।
पश्य दर्शय मे लिङ्गं पीठं चात्रागतं न वा
अत दृष्ट्वा वीरभद्रो लिङ्गे पीठमनागतम् ।
दग्धुकामो ऽखिलांल्लोकान्वीरभद्रः प्रातापवान्
अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा ।
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत
पञ्चोर्द्ध्वलोकानदहज्जनलोकनिवासिनः ।
ललाटनेत्रसंभूतं नखेनादाय चानलम्
जंबीरफलसंकाशं कृत्वा करतले विभुः ।
तपः सत्यं च संदग्धुमुद्यतो ऽभून्मुनीश्वरः
ततस्तु मुनयो दृष्ट्वातपोलोकनिवासिनः ।
दग्धुकामं वीरभद्रं गौतमाश्रममागताः
न दृष्ट्वा तत्र देवेशं शङ्करं स्वात्मनि स्थितम् ।
अस्तुवन्भक्तिसंयुक्ताः स्तोत्रैर्वेदसमुद्भवैः
ओं वेदवेद्याय देवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय कस्मै ।
ब्रह्माद्यधीशाय सृष्ट्यादिकर्त्रे,विष्णुप्रियायार्तिहॄन्त्रेंऽतकर्त्रे
नमस्ते ऽखिलाधीश्वरायांबराय नमस्ते चरस्थावरव्यापकाय ।
नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्त्रे मखेशाय तुभ्यम्
नमस्ते शिवायादिदेवाय कुर्मो नमो व्यालयज्ञोपवीतप्रधर्त्ने ।
नमस्ते सुराबिन्दुवर्षापनाय त्रयीमूर्तये कालकालाय नाथ
धरित्रीमरुद्व्योमतोयेन्दुवह्निप्रभामण्डलात्माष्टधामूर्ति धर्त्रे ।
शिवायाशिवघ्नाय वीराय भूयात्सदा नः प्रसन्नो जगन्नाथकेज्यः
कलानाथभालाय आत्मा महात्मा मनो ह्यग्रयानो निरूप्यो न वाग्भिः ।
जगज्जाड्यविध्वंसनोभुक्तिमुक्तिप्रदः स्तात्प्रसन्नः सदा शुद्ध कीर्तिः
यतः संप्रसूतं जगज्जातमीशात्स्थितं येन रक्षावता भावितं च ।
लयं यास्यते यत्र वाचां विदूरे स वै नः प्रसन्नो ऽस्तु कालत्रयात्मा
यदार्दि च मध्यं तथान्तं न के ऽपि विजानन्ति विज्ञा अपि स्वानुमानाः ।
स वै सर्वमूर्तिः सदा नो विभूत्येप्रसन्नो ऽस्तु किं ज्ञापयामो ऽत्र कृत्यम्
एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः ।
विष्णुमाह मुनीनेतानानयस्व मदन्तिकम्
अथ विष्णुः समागत्य तपोलोकनिवासिनः ।
मुनीन्सांत्वय्य विश्वेशं दर्शयामास शङ्करम्
तानाह शङ्करो वाक्यं किमर्थं यूयमागताः ।
तपोलोकाद्भूमिलोकं मुनयो मुक्तकिल्बिषाः
तच्छ्रुत्वा शूलिनो वाक्यं प्रोचुस्ते मुनिसत्तमाः ।
देव द्वादशलोकानां दृश्यन्ते भस्मराशयः
स्थितमेकं वनमिदं पश्य तल्लोकसंक्षयम् ।
तच्छ्रुत्वा गिरिशः प्राह तान्मुनीनूर्द्धरेतसः
भूर्लोकस्य तु संदाहे पातालानां तथैव च ।
सन्देहो नास्ति मुनयः स्थितानां नो रहःस्थले
ऊर्द्धपञ्चकलोकानां दाहे संदेह एव नः ।
कथमङ्गारवृष्टिश्च कथं नो वा महाध्वनिः
तदाकर्ण्य विभोर्वाक्यं शङ्करस्य मुनीश्वराः ।
प्रोचुः प्राञ्जलयो देवं ब्रह्मादिसुरसंगतम्
भीतिरस्माकमधुना वर्तते वीरभद्रतः ।
स एवाङ्गार वृष्टिं च पिपासुरपिबद्विभोः
देवो ऽथ वीरमाहूय किं वीरेत्यब्रवीद्वचः ।
वीरो ऽप्याह कपेर्लिङ्गे पीठाभावादिदं कृतम्
तच्छ्रुत्वाह शिवो देवो मुनींस्तान्भयविह्वलान् ।
कपेश्चित्तं परिज्ञातुं मया कृतमिदं द्विजाः
मा भैष्ट भवतां सौख्यं सदा संपादयाम्यहम् ।
इत्युक्त्वा तु यथापूर्वं देवदेवः कृपानिधिः
दग्धानप्यखिलांल्लोकान्पूर्वतः शोभनान्विभुः ।
कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत्
साधु वत्स यतो भद्रं भक्तानामीहसे सदा ।
ततस्ते विपुला कीर्तिर्लोके स्थास्यति शाश्वती
इत्युक्त्वालिङ्ग्य शिरसि समाघ्राय महेश्वरः ।
तांबूलं वीरभद्राय दत्तवान्प्रीतमानसः
अथासौ हनुमानीपूजनं कृतवान्यथा ।
समाप्तायां तु पूजायां हनुमान्प्रीतमानसः
एकं वनचरं तत्र गन्धर्वं सविपञ्चकम् ।
ददर्श तमथाभ्याह वीणा मे दीयतामिति
गन्धर्वो ऽप्याह न मया त्याज्या वीणा प्रिया मम ।
ममापीष्टेहं गन्धर्व वीणेत्याह कपीश्वरः
यदा न दत्ते गन्धर्वो वल्लकीं कपये प्रियाम् ।
तदा मुष्टिप्रहारेण गन्धर्वः पातितः क्षितौ
वीणामादाय महतीं स्वरतन्तुसमन्विताम् ।
हनुमान्वानरश्रेष्ठो गायन्प्रागाच्छिवान्तिकम्
ततो गानेन महता प्रसाद्य जगदीश्वरम् ।
बृहतीकुसुमैः शुद्धैर् देवपादावपूजयत्
ततः प्रसन्नो विश्वात्मा मुनीनां सन्निधौ तदा ।
दैत्यानां देवतानां च नृपाणां शङ्करो ऽपि च
तस्मै वरमथ प्रादात्कल्पान्तं जीवितं पुनः ।
समुल्लङ्घने शक्तिं शास्त्रज्ञत्वं बलोन्नतिम्
एवं दत्तं वरं प्राप्य महेशेन महात्मना ।
प्रत्यक्षं मम विप्रेन्द्र हनुमान्हर्षमागगतः
समस्तभूषासु षिताङ्गः स्वदीप्तिर्मदीकृतदेवदीप्तिः ।
प्रसन्नमूर्तिस्तरुणः शिवांशः संभावयामास समस्तदेवान्
आज्ञप्तो हनुमांस्तत्र मत्सेवायै मुनीश्वरः ।
महेशेनाहमप्येनं शशिमौलिमवैमि च
किं बहूक्तेन विप्रर्षे यादृशो वानरेश्वरः ।
बुद्धौ न्याये च वै धैर्ये तादृगन्यो ऽस्ति न क्वचित्
इति ते सर्वमाख्यातं चरितं पापनाशनम् ।
पठतां शृण्वतां चैव गच्छ विप्र यथासुखम्
तच्छ्रुत्वा रामभद्रस्य रघुनाथस्य धीमतः ।
वचनं दक्षिणीकृत्य नत्वा चागां यथागतः
एतत्ते ऽभिहितं विप्र चरितं च हनूमतः ।
सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0