नारद पुराण · अध्याय 1.78
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमो ऽध्यायः
सनत्कुमार उवाच
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर ।
मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु
यस्य संधारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः ।
भूतप्रेतारिजं दुःखं नाशमेति न संशयः
एकदाहं गतो द्रष्टुं रामं रमयतां वरम् ।
आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम्
तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ।
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः
तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् ।
पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात्
ततः कथान्ते भगवान्मारुतेः कवचं ददौ ।
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित्
भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद ।
श्रीरामेणाञ्जनासूनासूनोर्भुक्तिमुक्तिप्रदायकम्
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः
ऊर्द्ध पातु कपिश्रेष्ठः केसरिप्रियनन्दनः ।
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ।
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः
कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः ।
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः
पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् ।
भुजौ पातु महातेजाः करौ च चरणायुधः
नखान्नाखायुधः पातु कुक्षौ पातु कपीश्वरः ।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः
लङ्कानिभञ्जनः पातु पृष्टदेशे निरन्तरम् ।
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः
गुह्यं पातु महाप्रज्ञः सक्थिनी अतिथिप्रियः ।
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्करसन्निभः
अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा ।
मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान्
दिवारात्रौ त्रिलोकेषु सदागतिलुतो ऽवतु ।
स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः
लोकोत्तरगुणः श्रीमान् पातु त्र्यंबकसंभवः ।
प्रमत्तमप्रमत्तं वा शयानं गहनेंऽबुनि
स्थलेंऽतरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे ।
संग्रामे संकटे घोरे विराङ्रूपधरो ऽवतु
डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः ।
शयानं मां विभुः पातु पिशाचोरगराक्षसीः
दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः ।
साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम्
यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः ।
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरो ऽवतु
स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः ।
सूर्यमण्डलगः श्रीदः पातु कालत्रये ऽपि माम्
यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ।
देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा
सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः ।
यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके
सो ऽवतात्साधकश्रेष्ठं सदा रामपरायणमः ।
वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यते ऽत्यलम्
विद्ध्वि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् ।
यो विभुः सो ऽहमेषो ऽहं स्वीयः स्वयमणुर्बृहत्
ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः ।
तस्मै स्वस्मै च सर्वस्मै नतो ऽस्म्यात्मसमाधिना
अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे ।
समीरणात्मने तस्मै नतो ऽस्म्यात्मस्वरूपिणे
नमो हनुमते तस्मै नमो मारुतसूनवे ।
नमः श्रीरामभक्ताय श्यामाय महते नमः
नमो वानर वीराय सुग्रीवसख्यकारिणे ।
संकाविदहनायाथ महासागरतारिणे
सीताशोकविनाशाय राममुद्राधराय च ।
रावणान्तनिदानाय नमः सर्वोत्तरात्मने
मेघनादमखध्वंसकारणाय नमोनमः ।
अशोकवनविध्वंसकारिणे जयदायिने
वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने
ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः
अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमोनमः ।
ऋक्षवानरवीरौघप्रासादाय नमोनमः
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।
विषघ्नाय द्विषघ्नाय भयघ्नाय नमोनमः
महीरिपुभयघ्नाय भक्तत्राणैककारिण ।
परप्रेरितमन्त्राणां मन्त्राणां स्तंभकारिणे
पयः पाषाणतरणकारणाय नमोनमः ।
बालार्कमण्डलग्रासकारिणे दुःखहारिणे
नखायुधाय भीमाय दन्तायुधधराय च ।
विहॄङ्गमाय शवाय वज्रदेहाय ते नमः
प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ।
करस्थशैलशस्त्राय राम शस्त्राय ते नमः
कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञापार्थसंग्रामसख्यसंजयकारिणे
भक्तानां दिव्यवादेषु संग्रामे जयकारिणे ।
किल्किलावुवकाराय घोरशब्दकराय च
सर्वाग्निव्याधिसंस्तंभकारिणे भयहारिणे ।
सदा वनफलाहारसंतृप्ताय विशेषतः
महार्णवशिलाबद्ध्वसेतुबन्धाय ते नमः ।
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम्
यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः ।
अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः
कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ।
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात्
प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0