नारद पुराण · अध्याय 1.77
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यमाहात्म्यमन्त्रदीपकथनं नाम षट्सप्ततितमो ऽध्यायः
नारद उवाच
साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद ।
त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम्
अधुना तु महाभाग कीर्तवीर्यहनूमतोः ।
कवचे श्रोतुमिच्छामि तद्वदस्वकृपानिधे
सनत्कुमार उवाच
शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् ।
कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत्
सहस्रादित्यसंकाशे नानारत्नसमुज्ज्वंले ।
भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते
महासंवर्तकांभोधिभीमरावविराविणि ।
समुद्धृतमहाछत्त्रवितानितवियत्पथे
महारथवरे दीप्तनानायुधविराजिते ।
सुस्थितं विपुलोदारं सहस्रभुजमण्डितम्
वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् ।
किरीटहारमुकुटकेयूरवलयाङ्गदैः
मुद्रिकोदरबन्धाद्यैर्माऐञ्जीनूपुरकादिभिः ।
भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः
आबद्धकवचं वीरं सुप्रसन्नाननांबुजम् ।
धनुर्ज्या सिंहनादेन कंपयन्तं जगत्त्रयम्
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् ।
सर्वसंपत्प्रदातारं विजयश्रीनिषेवितम्
सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् ।
दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम्
रथनागाश्वपादातवृन्दमध्यगमीश्वरम् ।
वरदं चक्रवर्तीनं सर्वलोकैकपालकम्
समानोदितसाहस्रदिवाकरसमद्युतिम् ।
महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम्
श्रीमञ्टतं हरेरंशादवतीर्णं महीतले ।
सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत्
अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः ।
अग्नीशासुरवायव्यकोणेषु हृदयादिकाः
सर्वतोस्रज्वलद्रूपा दरचर्मासिपाणयः ।
अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः
क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः ।
प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः
श्रीकरीशक्तिसहितो मारीभयविनाशकः ।
शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम्
महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् ।
महेषुचापधृक्पातु मम प्राचेतसीं दिशम्
यशःकर्या समायुक्तो दैत्यसंघविनाशनः ।
परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम्
विद्याकरीसमायुक्तः सुमहहुःखनाशनः ।
पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः
धनकर्या समायुक्तो महादुरित नाशनः ।
इष्वासनेषुधृक्पातु विदिशं मम वायवीम्
आयुःकर्या युतः श्रीमान्महाभयविनाशनः ।
चापेषुधारी शैवीं मे विदिशं परिरक्षतु
विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः ।
दिशमूर्द्ध्वामवतु मे सर्वदुष्टभयङ्करः
शङ्खभृत्सुमहाशक्तिसंयुतो ऽप्यधरां दिशम् ।
परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः
महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः ।
महायोगीश्वरः पातु सर्वतो मम पद्मभृत्
एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः ।
प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः
शक्तयः पद्महस्ताश्चत नीलेन्दीवरसन्न्निभाः ।
शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः
तत्पार्शदेश्वराः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः
एतस्तस्य समाख्याताः सर्वावरणदेवताः ।
सर्वतो मां सदा पातुं सर्वशक्तिसमन्विताः
हृदये चोदरे नाभौ जठरे गुह्यमण्डले ।
तेजोरूपाः स्थिताः पातुं वाञ्छासुखनद्रुमाः
दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः ।
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम्
कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः ।
सुमुखो मे मुखं पातु कर्णौं व्याप्तजगत्त्रयः
सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः ।
नयनं पुंमडरीकाक्षगो नासिकां मे गुणाकरः
अधरोष्ठौ सदा पातु ब्रह्ज्ञेयो द्विजान्कविः ।
सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः
दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः ।
भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः
कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः ।
करौ सर्वार्थदः पातुकराग्राणि जगत्प्रियः
रेवांबगुलीलासंहप्तो जठरं परिरक्षतु ।
वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा
सहस्रभुजनृत्पृष्टं सप्तद्वीपाधिपः कटिम् ।
ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः
जङ्घे वीराधिपः पातु पातु पादौ मनोजवः ।
पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु
सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् ।
प्राणादिदशजीवेशान्सर्वशिष्टेष्टदो ऽवतु
वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे ।
अनुक्तमपि यत्स्थान शरीरान्तर्बहिश्च यत्
तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः ।
वज्रात्सारतरं चेदं शरीरं कवचावृतम्
बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् ।
बद्धेदं कवचं दिव्यमभेद्यं हैहयेशितुः
विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना ।
राजमार्गे महादुर्गे मार्गे चौरा दिसंकुले
विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे ।
संग्रामे शस्त्रसंघाते सिंहव्याघ्रनिषेविते
गह्वरे सर्वसंकीर्णे संध्याकाले नृपालये ।
विवादे विपुलावर्ते समुद्रे च नदीतटे
परिपन्थिजनाकीर्णे देशे दस्युगणावृते ।
सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य संकटे
नानारोगज्वरावेशे पिशाचप्रेतयातने ।
मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके
शारीरे च महादुःखे मानसे च महाज्वरे ।
आधिव्याधिभये विघ्नज्वालोपद्रवके ऽपि च
न भवतु भयं किञ्चित्कवचेनावृतस्य मे ।
आङ्गुतुकामानखिलानस्मद्वसुविलुंपकान्
निवारयतु दोर्दण्डसहस्रेण महारथः ।
स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान्
संरुद्धूगतिसामर्थ्यान्करोतु कृतवीर्यजः ।
सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान्
राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् ।
खड्ग साहस्रदलितान्सहस्रमुशलार्दितान्
चौरादि दुष्टसत्त्वौघान्करोतु कमलेक्षणः ।
स्वशङ्खनादसंत्रस्तान्सहस्रारसहस्रभृत्
अवतारो हरेः साक्षात्पालयत्वखिलं मम ।
कार्तवीर्य महावीर्य सर्वदुष्टविनाशन
सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय ।
किं त्वं स्वपिषि दुष्टघ्न किं तिष्टसि चिरायासि
उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव ।
ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः
साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः ।
दुर्हृदो दुष्टभू पाला दुष्टामात्याश्च पापकाः
ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः ।
सर्वस्वहारिणां ये च पञ्च मायाविनो ऽपरेः
महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये ।
ये ऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः
ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः ।
व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः
छिद्रान्वेषरता नित्यं ये ऽस्मान्बाधितुमुद्यताः ।
ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः
सहसा विलयं यान्तु दूरदिव विमोहिताः ।
ये दानवा महादित्या ये यक्षा ये च राक्षसाः
पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः ।
अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः
महालोहितभोक्तारो वेताला ये च गुह्यकाः ।
गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः
डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः ।
महाव्याघ्रमहामेघा महातुरागरूपकाः
महागजा महासिंहा महामहिषयोनयः ।
ऋक्षवाराहशुनकवानरोलूकमूर्तयः
महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः ।
नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः
नानारोगकराः क्षुद्रा महावीर्या महाबलाः ।
वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः
माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः ।
स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः
महाशत्रुहा रौद्रा महामारीमसूरिकाः ।
ऐकाहिका व्द्याहिकाश्च त्र्याहिकाश्च महाज्वराः
चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये ।
सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः
स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः ।
कूष्माण्डा जृंभिका भौमा द्रोणाः सान्निध्यवञ्चकाः
भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः ।
मनोबुद्वीन्द्रियहराः स्फोटकाश्च महाग्रहाः
महाशना बलिभुजो महाकुणपभोजनाः ।
दिवाचरा रात्रिचरा ये च संध्यासु दारुणाः
प्रमत्ता वाप्रमत्ता वै ये मां बाधितुमुद्यताः ।
ते सर्वे कार्त्तवीर्यस्य धनुर्मुक्तशराहताः
सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः ।
ये सर्पा ये महानागा महागिरिबिलेशयाः
कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः ।
अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः
अनेकशत शीर्षाश्च खण्डपुच्छाश्च दारुणाः ।
महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः
आशीविषाः कालकूटा महाहालाहलाह्वयाः ।
जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः
मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः ।
जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः
गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः ।
नानाविषाश्च ये घोरा महोपविषसंज्ञकाः
ये ऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः ।
ते सर्वे कार्तवीर्यस्य खङ्कसाहस्रदारिताः
दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः ।
मनुष्याः पशवो त्वृक्षवानरा वनगोचराः
सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः ।
गजास्तुरङ्गा गवया रासभाः शरभा वृकाः
शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः ।
शृगालाः शशकाः श्येना गुरुत्मन्तो विहॄङ्गमाः
भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः ।
उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः
नानाभेदकुले जाता नानाभेदाः पृथग्विधाः ।
ये ऽस्मान्बाधितुमिच्छन्ति सेध्यासु च दिवा निशि
ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः ।
दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः
ये चाक्षेमप्रदातारः कूटमायाविनश्च ये ।
मारणोत्सादनोन्मूलद्वेषमोहनकारकाः
विश्वास घातका दुष्टा ये च स्वामिद्रुहो नराः ।
ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः
दाहोपद्यातगरलशस्त्रपातातिदुःखदाः ।
क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः
ईतयो विविधाकारो ये चान्ये दुष्टजातयः ।
पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम्
ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः ।
दूरादेव क्षयं यान्तु विनष्टबलसाहसाः
ये मेघा ये महावर्षा ये वाता याश्च विद्युतः ।
ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः
उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः ।
सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः
राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा ।
तिथयः संक्रमा मासा हायना युगनायकाः
मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः ।
निधयो ऋग्यजुःसामाथर्वाणश्चैव वह्नयः
ऋतवो लोकपालाश्च पितरो देवसंहतिः ।
विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये
ये त्वत्र कीर्तिताः सर्वे चये चान्ये नानुकीर्तिताः ।
ते संतु नः सदा सौम्याः सर्वकालसुखावहाः
आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः ।
कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः
दशास्यदर्पहा रेवालीलादृप्तकः सुदुर्जयः ।
दुःखहा चौरदमनो राजराजेश्वरः प्रभुः
सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती ।
राजचूडामणिर्योगी सप्तद्वीपाधिनायकः
विजयी विश्वजिद्वाग्मी महागतिरलोलुपः ।
यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः
माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः ।
सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः
शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगिवल्लभः ।
महाभागवतो धीमान्महाभयविनाशनः
असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः ।
जितेन्द्रियो जितारातिः स्वच्छन्दो ऽनन्तविक्रममः
चक्रभृत्परचक्रघ्नः संग्रामविधिपूजितः ।
सर्वशास्त्रकलाधरी विरजा लोकवन्दितः
वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः ।
विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः
खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः ।
भद्रवादप्रियो वैद्यो विबुधो वरदो वशी
महाधनो निधिपतिर्महायोगी गुरुप्रियः ।
योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः
दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः ।
सर्वायुधधरो ऽभीष्टप्रदः परपुरञ्जयः
योगसिद्धो महाकायो महावृन्दशताधिपः ।
सर्वज्ञाननिधिः सर्वसिद्ध्विदानकृतोद्यमः
इत्यष्टशतनामोत्त्या मूर्तयो दश दिक्पथि ।
सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा
स्वस्थाः सर्वेन्द्रियाः संतुं शान्तिरस्तु सदा मम ।
शेषाद्या मूर्तयो ऽष्टौ च विक्रमेणैव भास्वराः
अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा ।
मम सौख्यमसंबाधमारोग्यमपराजयः
दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखो दयः ।
वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम्
अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः ।
भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः
अनष्टद्रव्यता चैव नष्टस्य पुनरागमः ।
दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम्
अप्रधृष्यतमत्वं च महासामर्थ्यमेव च ।
संतु मे कार्तवीर्य्यस्य हैहयेन्द्रस्य कीर्तनात्
य इदं कार्तवीर्य्यस्य कवच पुण्यवर्द्धनम् ।
सर्वपापप्रशमनं सर्वोपद्रवनाशनम्
सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् ।
विजयार्थप्रदं नॄणां सर्वसंपत्प्रदं शुभम्
शृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् ।
चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः
सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः ।
सप्तरात्रेण लभते नष्टद्रव्यं न संशयः
सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् ।
देवासुरनिभं चापि परचक्रं निवारयेत्
विवादे कलहेघोरे पञ्चधा यः पठेदिदम् ।
विजयो जायते तस्य न कदाचित्पराजयः
सर्वरोगप्रपीडासु त्रेधा वा पञ्चधा पठेत् ।
स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते
सम्यग्द्वादशाधा रात्रौ प्रजपेद्बन्धमुक्तये ।
त्रिदिनान्निगडादूद्ध्वो मुच्यते नात्र संशयः
अनेनैव विधानेन सर्वसाधनकर्मणि ।
असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः
यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् ।
न दुष्टचौरव्याघ्राद्यैर्भयं स्यात्परिपन्थिभिः
जपन्नासेचनं कुर्वञ्जलेनाञ्जलिना तनौ ।
न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः
रक्तगन्धोरक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत्
संपदस्तस्य जायन्ते जनास्तस्य वशे सदा ।
यः सेवते सदा विप्र श्रीमञ्चक्रावतारकम्
तस्य रक्षां सदा कुर्याञ्चक्रं विष्णोर्महात्मनः ।
मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात्
श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0