नारद पुराण · अध्याय 1.76
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे दीपविधिनिरूपणं नाम पञ्चसप्ततितमो ऽध्यायः
नारद उवाच
कार्तवीर्यतप्रभृतयो नृपा बहुविधा भुवि ।
जायन्ते ऽथ प्रलीयन्ते स्वस्वकर्मानुसारतः
तत्कथं राजवर्यो ऽसौ लोकेसेव्यत्वमागतः ।
समुल्लङ्घ्य नृपानन्यानेतन्मे नुद संशयम्
सनत्कुमार उवाच
शृणु नारद वक्ष्यामि संदेहविनिवृत्तये ।
यथा सेव्यत्वमापन्नः कार्तवीर्यार्जुनो भुवि
यः सुदर्शनचक्रस्यावतारः पृथिवीतले ।
दत्तात्रेयं समाराध्य लब्धवांस्तेज उत्तमम्
तस्य क्षितीश्वरेद्रस्य स्मरणादेव नारद ।
शत्रूञ्जयति संग्रामे नष्टं प्राप्नोति सत्वरम्
तेनास्य मन्त्रपूजादि सर्वतन्त्रेषु गोपितम् ।
तुभ्यं प्रकाशयिष्ये ऽहं सर्वसिद्धिप्रदायकम्
वह्नितारयुता रौद्री लक्ष्मीरग्नीन्दुशान्तियुक् ।
वेधाधरेन्दुशान्त्याढ्यो निद्रयाशाग्नि बिन्दुयुक्
पाशो मायाङ्कुशं पद्मावर्मास्त्रे कार्तवीपदम् ।
रेफोवा द्यासनो ऽनन्तो वह्निजौ कर्णसंस्थितौ
मेषः सदीर्घः पवनो मनुरुक्तो हृदन्तिमः ।
ऊनर्विशतिवर्णो ऽयं तारादिर्नखवर्णकः
दत्तात्रेयो मुनिश्चास्यच्छन्दो ऽनुष्टुबुदाहृतम् ।
कार्तवीर्यार्जुनो देवो बीजशक्तिर्ध्रुवश्च हृत्
शेषाढ्यबीजयुग्मेन हृदयं विन्यसेदधः ।
शान्तियुक्तचतुर्थेन कामाद्येन शिराःएंऽगकम्
इन्द्वाढ्यं वामकर्णाद्यमाययोर्वीशयुक्तया ।
शिखामङ्कुशपद्माभ्यां सवाग्भ्यां वर्म विन्यसेत्
वर्मास्त्राभ्यामस्त्रमुक्तं शेषार्णैर्व्यापकं पुनः ।
हृदये जठरे नाभौ जठरे गुह्यदेशतः
दक्षपादे वामपादे सक्थ्नि जानुनि जङ्घयोः ।
विन्यसेद्बीजदशकं प्रणवद्वयमध्यगम्
ताराद्यानथ शेषार्णान्मस्तके च ललाटके ।
भ्रुवोः श्रुत्योस्तथैवाक्ष्णोर्नसि वक्त्रे गलेंऽसके
सर्वमन्त्रेण सर्वाङ्गे कृत्वा व्यापकमादृतः ।
सर्वेष्टसिद्धये ध्यायेत्कार्तवीर्यं जनेश्वरम्
उद्यद्रर्कसहस्राभं सर्वभूपतिवन्दितम् ।
दोर्भिः पञ्चाशता दक्षैर्बाणान्वामैर्धनूंषि च
दधतं स्वर्णमालाढ्यं रक्तवस्त्रसमावृतम् ।
चक्रावतारं श्रीविष्णोर्ध्यायेदर्जुनभूपतिम्
लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात्तिलैः ।
सतण्डुलैः पायसेन विष्णुपीठे यजत्तुतम्
षट्कोणेषु षडङ्गानि ततो दिक्षु विविक्षु च ।
चौरमदविभञ्जनं मारीमदविभञ्जनम्
अरिमदविभञ्जनं दैत्यमदविभञ्जनम् ।
दुष्टनाशं दुःखनाशं दुरितापद्विनाशकम्
दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिष्वसितप्रभाः ।
क्षेमङ्करी वश्यकरी श्रीकरी च यशस्करी
आयुः करी तथा प्रज्ञाकरी विद्याकरी पुनः ।
धनकर्यष्टमी पश्चाल्लोकेशा अस्त्रसंयुताः
एवं संसाधितो मन्त्रः प्रयोगार्हः प्रजायते ।
कार्तवीर्यार्जुनस्याथ पूजायन्त्रमिहोच्यते
स्वबीजानङ्गध्रुववाक्कर्णिकं दिग्दलं लिखेत् ।
तारादिवर्मान्तदलं शेषवर्णदलान्तरम्
ऊष्मान्त्यस्वरकिञ्जल्कं शेषार्णैः परिवेष्टितम् ।
कोणालङ्कृतभूतार्णभूगृहं यन्त्रमीशितुः
शुद्धभूमावष्टगन्धैर्लिखित्वा यन्त्रमादरात् ।
तत्र कुंभं प्रतिष्ठाप्य तत्रावाह्यार्चयेन्नृपम्
स्पृष्ट्वा कुंभं जपेन्मन्त्रं सहस्रं विजितेन्द्रियः ।
अभिषिं चेत्तदंभोभिः प्रियं सर्वेष्टसिद्धये
पुत्रान्यशो रोगनाशमायुः स्वजनरञ्जनम् ।
वाक्सिद्धिं सुदृशः कुम्भाभिषिक्तो लभते नरः
शत्रूपद्रव आपन्ने ग्रामे वा पुटभेदने ।
संस्थापंयेदिदं यन्त्रं शत्रुभीतिनिवृत्तये
सर्षपारिष्टलशुनकार्पासैर्मार्यते रिपुः ।
धत्तूरैः स्तभ्यते निम्बैर्द्वेष्यते वश्यतेंऽबुजैः
उञ्चाटने विभीतस्य समिद्भिः खदिरस्य च ।
कटुतैलमहिष्याज्यैर्हेमद्रव्याञ्जनं स्मृतम्
यवैर्हुते श्रियः प्राप्तिस्तिलैराज्यैरघक्षयः ।
तिलतण्डुलसिद्धार्थजालैर्वश्यो नृपो भवेत्
अपामार्गार्कदूर्वाणां होमो लक्ष्मीप्रदो ऽघनुत् ।
स्त्रीवश्यकृत्प्रियङ्गूणां मुराणां भूतशान्तिदः
अश्वत्थोदुंबरप्लक्षवटबिल्वसमुद्भवाः ।
समिधो लभते हुत्वा पुत्रानायुर्द्धनं सुखम्
निर्मोकहेमसिद्धार्थलवणैश्चौरनाशनम् ।
रोचनागोमयैस्तंभो भूप्राप्तिः शालिभिर्हुतैः
होमसंख्या तु सर्वत्र सहस्रादयुतावधि ।
प्रकल्पनीया मन्त्रज्ञैः कार्य्यगौरवलाघवात्
कार्तवीर्य्यस्य मन्त्राणामुच्यते लक्षणं बुधाः ।
कार्तवीर्यार्जुनं ङेंतं सर्वमन्त्रेषु योजयेत्
स्वबीजाद्यो दशार्णो ऽसौ अन्ये नवशिवाक्षराः ।
आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः
स्वकामाभ्यां तृतीयो ऽसौ स्वभ्रूभ्यां तु चतुर्थकः ।
स्वपाशाभ्यां पञ्चमो ऽसौ षष्टः स्वेन च मायया
स्वाङ्कुशाभ्यां सप्तमः स्यात्स्वरमाभ्यामथाष्टमः ।
स्ववाग्भवाभ्यां नवमो वर्मास्त्राभ्यामथान्तिमः
द्वितीयादिनवान्तेषु बीजयोः स्याद्व्यतिक्रमः ।
मन्त्रे तु दशमे वर्णा नववर्मास्त्रमध्यगाः
एतेषु मन्त्रवर्येषु स्वानुकूलं मनुं भजेत् ।
एषामाद्ये विराट्छदो ऽन्येषु त्रिष्टुबुदाहृतम्
दश मन्त्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः ।
तदादिमः शिवार्णः स्यादन्ये तु द्वादशाक्षराः
त्रिष्टुपूछन्दस्तथाद्ये स्यादन्येषु जगती मता ।
एवं विंशतिमन्त्राणां यजनं पूर्ववन्मतम
दीर्घाढ्यमूलबीजेन कुर्यादेषां षडङ्गकम् ।
तारो हृत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम्
चतुर्दशार्णो मन्त्रो ऽयमस्येज्या पूर्ववन्मता ।
भूनेत्रसमनेत्राक्षिवर्णेरस्याङ्गपञ्चकम्
तारो हृद्भगवान् ङेंतः कार्तवीर्यार्जुनस्तथा ।
वर्मास्त्राग्निप्रियामन्त्रः प्रोक्तो ह्यष्टादशार्णकः
त्रिवेदसप्तयुग्माक्षिवर्णैः पञ्चाङ्गकं मनोः ।
नमो भगवते श्रीति कार्तवीर्यार्जुनाय च
सर्वदुष्टान्तकायेति तपोबलपराक्रमः ।
परिपालितसप्तान्ते द्वीपाय सर्वरापदम्
जन्यचूडा मणान्ते ये महाशक्तिमते ततः ।
सहस्रदहनप्रान्ते वर्मास्त्रान्तो महामनुः
त्रिषष्टिवर्णवान्प्रोक्तः स्मरमात्सर्वविघ्नहृत् ।
राजन्यक्रवर्ती च वीरः शूरस्तृतीयकः
माहिष्मतीपतिः पश्चाञ्चतुर्थः समुदीरितः ।
रेवांबुपरितृप्तश्च काणो हस्तप्रबाधितः
दशास्येति च षड्भिः स्यात्पदैर्ङेतैः षडङ्गकम् ।
सिंच्यमानं युवतिभिः क्रीडन्तं नर्मदाजले
हस्तैर्जलौधं रुन्धन्तं ध्यायेन्मत्तं नृपोत्तमम् ।
एवं ध्यात्वायुतं मन्त्रं पजेदन्यत्तु पूर्ववत्
पूर्वं तु प्रजपेल्लक्षं पूजायोगश्च पूर्ववत् ।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान्
तस्य संस्मरणादेव हृतं नष्टं च संवदेत् ।
लभ्यते मन्त्रवर्यो ऽयं द्वात्रिंशद्वर्णसंयुतः
पादैः सर्वेण पञ्चाङ्गं ध्यानपूजादि पूर्ववत् ।
कार्तवीर्याय शब्दान्ते विद्महे पदमुञ्चरेत्
महावीर्याय वर्णान्ते धीमहीति पदं वदेत् ।
तन्नोर्ऽजुनः प्रवर्णान्ते चोदयात्पदमीरयेत्
गायत्र्येषार्जुन स्योक्ता प्रयोगादौ जपेत्तु ताम् ।
अनुष्टुभं मनुं रात्रौ जपतां चौरसंचयाः
पलायन्ते गृहाद्दूरं तर्पणाद्ध्रवनादपि ।
अथो दीपविधिं वक्ष्ये कार्तवीर्यप्रियङ्करम्
वैशाखे श्रावणे मार्गे कार्तिकाश्विनपौषतः ।
माघफाल्गुनयोर्मासोर्दीपारंभं समाचरेत्
तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना ।
हस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे
द्विदैवते च रोहिण्यां दीपारंभो हितावहः ।
चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि
प्रीतौ हर्षं च सौभाग्ये शोभनायुष्मतोरपि ।
करणे विष्टिरहिते ग्रहणे ऽर्द्धोदयादिषु
योगेषु रात्रौ पूर्वाह्ने दीपारंभघः कृतः शुभः ।
कार्तिके शुक्लसप्तम्यां निशीथे ऽतीव शोभनः
यदि तत्र रवेर्वारः श्रवणं भं च दुर्लभम् ।
अत्यावश्यककार्येषु मासादीनां न शोधनम्
आद्ये ह्युपोष्य नियतो ब्रह्मचारी सपीतकैः ।
प्रातः स्नात्वा शुद्धभूमौ लिप्तायां गोमयोदकैः
प्राणानायम्य संकल्प्य न्यासान्पूर्वोदितांश्चरेत् ।
षट्कोणं रचयेद्भूमौ रक्तचन्दनतण्डुलैः
अतः स्मरं समालिख्य षट्कोणेषु समालिखेत् ।
नवार्णैर्वेष्टयेत्तञ्च त्रिकोणं तद्बहिः पुनः
एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम् ।
स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः
कांस्यपात्रं मृण्मयं च कनिष्ठं लोहजं मृतौ ।
शान्तये मुद्गचूर्णोत्थं संधौ गोधूमचूर्णजम्
आज्ये पलसहस्रे तु पात्रं शतपलं स्मृतम् ।
आज्ये ऽयुतपले पात्रं पलपञ्चशता स्मृतम्
पञ्चसप्ततिसंख्ये तु पात्रं षष्टिपलं स्मृतम् ।
त्रिसाहस्री घृतपले शर्करापलभाजनम्
द्विसाहख्त्र्यां द्विशतमितं च भाजनमिष्यते ।
शते ऽक्षिचरसंश्यातमेवमन्यत्र कल्पयेत्
नित्यदीपे वह्निपलं पात्रमाज्यं पलं स्मृतम् ।
एवं पात्रं प्रतिष्ठाप्य वर्तीः सूत्रोत्थिताः क्षिपेत्
एका तिस्रो ऽथवा पञ्चसप्ताद्या विषमा अपि ।
तिथिमानादासहस्रं तन्तुसंख्या विनिर्मिता
गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम् ।
सहस्रपलसंख्यादिदशांशं कार्यगौरवात्
सुवर्णादिकृतां रम्यां शलाकां षोडशाङ्गुलाम् ।
तदर्द्धां वा तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम्
विमुञ्चेद्दक्षिणे पात्रमध्ये चाग्रे कृताग्रिकाम् ।
पात्रदक्षिणदिग्देशे मुक्त्वां गुलचतुष्टयम्
अधोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम् ।
दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम्
दीपात्पूर्वत्र दिग्भागे सर्वतोभद्रमण्डले ।
तण्डुलाष्टदले वापि विधिवत्स्थापयेद्धूटम्
तत्रावाह्य नृपाधीशं पूजयेत्पूर्ववत्सुधीः ।
जलाक्षतान्समादाय दीपं संकल्पयेत्ततः
दीपसंकल्पमन्त्रो ऽयं कथ्यते द्वीषुभूमितः ।
प्रणवः पाशमाये च शिखा कार्ताक्षराणि च
वीर्यार्जुनाय माहिष्मतीनाथाय सहस्र च ।
बाहवे इति वर्णान्ते सहस्रपदमुच्चरेत्
क्रतुदीक्षितहस्ताय दत्तात्रेयप्रियाय च ।
आत्रेयायानुसूयान्ते गर्भरत्नाय तत्परम्
नमो ग्रीवामकर्णेन्दुस्थितौ पाश इमं ततः ।
दीपं गृहाण अमुकं रक्ष रक्ष पदं पुनः
दुष्टान्नाशययुग्मं स्यात्तथा पातय घातय ।
शत्रून् जहिद्वयं माया तारः स्वं बीजमात्मभूः
वह्नीप्रिया अनेनाथ दीपवर्येण पश्चिमा ।
भिमुखेनामुकं रक्ष अमुकान्ते वरप्रद
मायाकाशद्वयं वामनेत्रचन्द्रयुतं शिवा ।
वेदादिकामचामुण्डाः स्वाहा तु पूसबिन्दुकौ
प्रणवो ऽग्निप्रिया मन्त्रो नेत्रबाणाधराक्षरः ।
दत्तात्रेयो मुनिर्मालामन्त्रस्य परिकीर्तितः
छन्दो ऽमितं कार्तवीर्युर्जुनो देवो ऽखिलाप्तिकृत् ।
चामुण्डया षडङ्गानि चरेत्षड्दीर्घयुक्तया
ध्यात्वा देवं ततो मन्त्रं पठित्वान्ते क्षिपेज्जजलम् ।
गोविन्दाढ्यो हली सेंदुश्चामुण्डाबीजमीरितम्
ततो नवाक्षरं मन्त्रं सहस्रं तत्पुरो जपेत् ।
तारो ऽनन्तो बिन्दुयुक्तो मायास्वं वामनेत्रयुक्
कूर्माग्नी शान्तिबिन्द्वाढ्यौ वह्नि जायाङ्कुशं ध्रुवम् ।
ऋषिः पूर्वोदितोनुष्टुप्छन्दो ऽन्यत्पूर्ववत्पुनः
सहस्रं मन्त्रराजं च जपित्वा कवचं पठेत् ।
एवं दीपप्रदानस्य कर्ताप्नोत्यखिले ऽप्सितम्
दीपप्रबोधकाले तु वर्जयेदशुभां गिरम् ।
विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम्
शूद्राणां प्रध्यमं प्रोक्तं म्लेच्छस्य वधबन्धनम् ।
आख्वोत्वोर्दर्शनं दुष्टं गवाश्वस्य सुखावहम्
दीपज्वाला समा सिद्ध्यै वक्रा निशविधायिनी ।
शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता
कृष्णा शत्रुभयोत्पत्त्ये वमन्ती पशुनाशिनी ।
कृते दीपे यदा पात्रं भग्नं दृश्यते दैवतः
पक्षादर्वाक्तदा गच्छेद्यजमानो यमालयम् ।
वर्त्यतरं यदा कुर्यात्कार्यं सिद्ध्येद्विलंबतः
नेत्रहीनो भवेत्कर्ता तस्मिन्दीपान्तरे कृते ।
अशुचिस्पर्शने व्याधिर्दीपनाशे तु चौरभीः
श्वमार्जाराखुसंस्पर्शे भवेद्भूपतितो भयम् ।
पात्रारंभे वसुपलैः कृतो दीपो ऽखिलेष्टदः
तस्माद्दीपः प्रयत्नेन रक्षणीयोंऽतरायतः ।
आसमाप्तेः प्रकुर्वीत ब्रह्मचर्यं च भूशयः
स्त्रीशूद्रपतितादीनां संभाषामपि वर्जयेत् ।
जपेत्सहस्रं प्रत्येकं मन्त्रराजं नवाक्षरम्
स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः ।
एकपादेन दीपाग्रे स्थित्वा यो मन्त्रनायकम्
सहस्रं प्रजपेद्वात्रौ सो ऽभीष्टं क्षिप्रमाप्नुयात् ।
समाप्य शोभनदिने संभोज्य द्विजसत्तमान्
कुंभोदकेन कर्तारमभिषिञ्चन्मनुं जपेत् ।
कर्ता तु दक्षिणां दद्यात्पुष्कलां तोषहेतवे
गुरौ तुष्टे ददातीष्टं कृतवीर्यसुतो नृपः ।
गुर्वाज्ञया स्वयं कुर्याद्यदि वा कारये द्गुरुः
दत्त्वा धनादिकं तस्मै दीपदानाय नारद ।
गुर्वाज्ञामन्तरा कुर्याद्यो दीपं स्वेष्टसिद्धये
सिद्धिर्न जायते तस्य हानिरेव पदे पदे ।
उत्तमं गोघृतं प्रोक्तं मध्यमं महषीभवम्
तिलतैलं तु तादृक् स्यात्कनीयो ऽजादिजं घृतम् ।
आस्यरोगे सुगन्धेन दद्यात्तैलेन दीपकम्
सिद्ध्वार्थसंभवेनाथ द्विषतां नाशनाय च ।
सहस्रेण पलैर्दीपे विहिते च न दृश्यते
कार्यसिद्धस्तदा कुर्यात्र्रिवारं दीपजं विधिम् ।
तदा सुदुर्लभमपि कार्य्यं सिद्ध्व्येन्न संशयः
दीपप्रियः कार्तवीर्यो मार्तण्डो नतिवल्लभः ।
स्तुतिप्रोयो महाविष्णुर्गणेश स्तपर्णप्रियः
दुर्गार्चनप्रिया नूनमभिषेकप्रियः शिवः ।
तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात्
मूल पाठ: Nāradapurāṇa (or Nāradīyapurāṇa) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0